SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। क्वचिद्वाच्ये प्रतिषेधरूपेऽनुभयरूपो यथा'दे आ पसिअ णिवत्तसु मुहससिजोलाविलुत्ततमणिवहे । अहिसारिआण विग्धं करोसि अण्णाण वि हआसे ॥' तेनायमर्थः-'प्रार्थये तावत्प्रसीद निवर्तख मुखशशिज्योत्स्नाविलुप्ततमोनिवहे । अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥' अत्राध्यवसितानिवर्तखेति प्रतीतेनिषेधो वाच्यः । गुहागता नायिका गोत्रस्खलिताद्यपराधिनि नायके सति ततः प्रतिगन्तुं प्रवृत्ता, नायकेन चाटूपक्रमपूर्वकं निवर्त्यते-न केवलं खात्मनो मम च निर्वृत्त्या विघ्नं करोषि, यावदन्यासामपि । ततस्तव न कदाचन सुखलवलाभोऽपि भविष्यतीत्यत एव हताशासीति वल्लभाभिप्रायरूपश्चाटुविशेषो व्यङ्ग्यः । यदि वा सख्योपदिश्यमानापि तदवधीरणया गच्छन्ती सख्योपदिश्यते न केवलमात्मनो विघ्नं करोषि, लाघवादंबहुमानास्पदमात्मानं कुर्वती अत एव हताशा यावद्वदनचन्द्रिकाप्रकाशितमार्गतयान्यासामभिसारिकाणां विघ्नं करोषीति सख्यभिप्रायरूपश्चाटुविशेषो व्यङ्ग्यः । अत्र तु ब्याख्यानद्वयेऽपि व्यवसितात्प्रतीपगमनाप्रियतमगृहगमनाच्च निवर्तखेति पुनरपि वाच्य एव विश्रान्तेर्गुणीभूतव्यङ्ग्यभेदस्य प्रेयोरसवदलंकारस्योदाहरणमिदं स्यात् , न ध्वनेः । तेनायमत्र भावः- काचिद्रभसात्प्रियतममभिसरन्ती तद्गृहाभिमुखमागच्छता तेनैव हृदयवल्लभेनैवमुपश्लोक्यतेऽप्रत्यभिज्ञानच्छलेन । अत एवात्मप्रत्यभिज्ञापनार्थमेव नर्मवचनं हताशे इति । अन्यासामपि विघ्नं करोषि तव चेप्सितलाभो भविष्यतीति का प्रत्याशा । अत एव मदीयं वा गृहमागच्छ, त्वदीयं वा गच्छाव इत्युभयत्रापि तात्पर्यादनुभयरूपो वल्लभाभिप्रायश्चाद्वात्मा व्यङ्ग्य इत्येव व्यवतिष्ठते । अन्ये तु-तटस्थानां सहृदयानामभिसारिकां प्रतीयमुक्तिः' इत्याहुः । तत्र हताशे इत्यामन्त्रणादि युक्तमयुक्तं वेति सहृदया एव प्रमाणम् । एवं वाच्यव्यङ्ग्ययोर्धार्मिकपान्थप्रियतमाभिसारिकाविषयैक्येऽपि खरूपभेदाढ़ेद इति प्रतिपादितम् । अधुना तु विषयभेदादपि व्यङ्ग्यस्य वाच्या १. 'तमोणिवहे' ख-ग. १. 'तेनायमर्थः' ग-पुस्तके नास्ति. २. 'प्रसीद तावत्' ग. ३. 'ज्योत्स्नाभा' ग. ४. 'अत्रावसितागमनात्' ग. ५. 'गृहागतनायिका' क-ख. ६. 'चारूपक्रम' ग. ७. 'निर्वृत्या' ख, "निर्वृति' ग. ८. 'भविष्यत्यत एवाह' क-ख. ९. 'चाविशेषो' ग. १०. 'यदि वा' क-ख-पुस्तकयो स्ति. ११. 'अबहुमान' क, 'अबहुमानमात्मानं' ख. १२. 'व्यङ्ग्यस्य च' ग. १३. 'इदं' क-ख-पुस्तकयो स्ति. १४. 'तद्धनेः' क. १५. 'अन्यासां च' ग. १६. 'इत्यामन्त्रणौचित्यादि' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy