SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ २ उक्ष्योतः] ध्वन्यालोकः । रसभावतदाभासतत्पशमलक्षणं मुख्यमर्थमनुवर्तमाना यत्र शब्दार्थालंकारा गुणाश्च परस्परं ध्वन्यपेक्षया च विभिन्नरूपा व्यवस्थितास्तत्र काव्ये ध्वनिरिति व्यपदेशः। 'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः। काव्ये तसिनलंकारो रसादिरिति मे मतिः ॥५॥ यद्यपि रसवदलंकारस्यान्यैर्दर्शितो विषयस्तथापि यस्मिन्काव्ये प्रधानतयान्योऽर्थो वाक्यार्थीभूतस्तस्य चाङ्गभूता ये रसादयस्ते रसादेरलंकारस्य विषय इति मोमकीनः पक्षः । तद्यथा चाटुषु प्रेयोलंकारस्य वाक्यार्थत्वेऽपि रसादयोऽङ्गभूता दृश्यन्ते । तया भवतु, अप्रधानतया वा। प्रधानले ध्वनिः अन्यथा रसाद्यलंकाराः । तदाहरेसमावेत्यादि । व्यवस्थिता इति । पूर्वोक्तयुक्तिभिर्विभागेन व्यवस्थापितवादिति भावः । अन्यत्रेति । रसखरूपे वस्तुमात्रेऽलंकारतायोग्ये वा। मे मतिरिति । अन्यपक्षं दूष्यवेन हृदि निधायाभीष्टवात्स्वपक्षं पूर्व दर्शयति वृत्तिकारः-यद्यपीत्यादि । स हि परदर्शितो विषयो भाविनीत्या नोपपन्न इति भावः । यस्मिन्काव्ये इति स्पष्टलेनासङ्गतं वाक्यमित्थं योजनीयम्-यस्मिन्काव्ये ते पूर्वोक्ता रसादयोऽङ्गभूता वाक्यार्थीभूतश्वान्यः । चशब्दस्तुशब्दस्यार्थे । तस्य काव्यस्य संबन्धिनो ये रसादयोऽङ्गभूतास्ते रसादेरलंकारस्य रसवदाद्यलंकारशब्दस्य विषयाः। स एवालंकारशब्दवाच्यो भवति योऽङ्गभूतः, न वन्य इति यावत् । अत्रोदाहरणमाह-तद्यथेति । तदित्यङ्गखम् । यथा वक्ष्यमाणोदाहरणे तथान्यत्रापीत्यर्थः । भामहाभिप्रायेण तु चाटुषु प्रेयोलंकारस्य वाक्यार्थवेऽपि रसादयोऽङ्गभूता दृश्यन्त इतीदमेकं वाक्यम् । भामहेन हि गुरुदेव पंतिपुत्रविषयप्रीतिवर्णनं प्रेयोलंकार इत्युक्तम् । तत्र प्रेयानलंकारो यत्र स प्रेयोलंकारोऽप्युक्तोऽलंकरणीय इहोक्तः । तत्र न बैलंकारस्य वाक्यार्थत्वमुक्तम् । यदिवा वाक्यार्थलं प्रधानलम् । १. 'शब्दालंकारा अर्थालंकारा गुणाश्च' क-ख. २. 'अन्यैः' ग-पुस्तके नास्ति. ३. 'ये' ग-पुस्तके नास्ति. ४. "विषयाः' ग. ५. 'मामकः' ग. १. 'वा भवति' क-ख. २. 'मुख्यमर्थमिति' ग. ३. 'वृत्तिकारः' ग-पुस्तके नास्ति. ४. 'तथापीति' ग. ५. 'इति' क-ख-पुस्तकयो स्ति. ६. 'संगतं' ग. ७. 'अधिभूता' ग. ८. 'ते-Sङ्गभूतः' क-ख-पुस्तकयो स्ति. ९. 'तु' क-ख-पुस्तकयो स्ति. १०. 'नृपविषय' क-ख. ११. 'ऽप्युक्तो' ग-पुस्तके नास्ति. १२. 'तत्र' ग-पुस्तके नास्ति. १३. 'अलंकारवाक्यार्थलम्' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy