SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ १ उयोतः] कारोऽलंकारान्तरच्छायामनुगृहाति, तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान ध्वनिविषयत्वम् । अलंकारद्वयसंभावनामं तु वाच्यव्यङ्ग्ययोः समं प्राधान्यम् । अथ वाच्योपसर्जनीभावेन व्ययस्य तंत्रापि व्यवस्था तदा सोऽपि ध्वनिविषयोऽस्तु न तु स एव ध्वनिरिति वक्तुं शक्यम् । अत्र शशी वदनमस्याः तद्वद्वा वदनमस्या इति रूपकोपमोल्लेखाद्युगपद्व्यासंभवादेकतरपक्षत्यागग्रहणे प्रमाणाभावात्संकर इति व्यङ्ग्यवाच्यताया एवानिश्चयात्का ध्वनिसंभावना । योऽपि द्वितीयः प्रकारः-शब्दार्थालंकाराणामेकीभाव इति तत्रापि प्रतीयमानस्य का शङ्का । यथा-'स्मर स्मरमिव प्रियं रैमयसे यदालिङ्गनात्' इति । अत्रैव यमकमुपमा च । तृतीयः प्रकारः-यत्रैकवाच्यांशेऽनेकोर्थालंकारस्तत्रापि द्वयोः साम्याकस्य व्यङ्ग्यता । यथा-'तुल्योदयावसानत्वाद्गतेऽस्तं प्रति भाखति । वासाय वासरः क्लान्तो विशतीव तमोगुहाम् ॥' इति । अत्र हि खामिविपत्तिसमुचितव्रतग्रहणहेवाकिकुलपुत्रकरूपणमेकदेश विवर्तिरूपकं दर्शयति । उत्प्रेक्षा चेवशब्देनोका । तदिदं प्रकार द्वयमुक्तम् । 'शब्दार्थवृत्त्यालंकारा वाक्य एकत्र भाविनः । संकरश्चैकवाक्यांशेप्रवेशाद्वाभि. धीयते ॥' इति च । चतुर्थस्तु प्रकारः-यत्रानुग्राह्यानुप्राहकभावोऽलंकाराणाम् । यथा'प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनामिः॥' अत्र मृगाङ्गनावलोकनेन तदवलोकनस्योपमा यद्यपि व्यङ्ग्या, तथापि वाच्यस्य सा संदेहालंकारस्याभ्युत्थानकारिणीत्वेनानुग्राहकत्वाद्गुणीभूता । अनु. ग्राह्यत्वेन हि संदेहे पर्यवसानम् । यथोक्तम्-'परस्परोपकारेण यत्रालंकृतयः स्थिताः । खातन्त्र्येणात्मलाभं नो लभन्ते सोऽपि संकरः ॥' तदाह-यदालंकार इत्यादि । एवं चतुर्थेऽपि प्रकारे ध्वनिता निराकृता । मध्यमयोस्तु व्यङ्ग्यसंभावनैव नास्तीत्युक्तम् । आये तु प्रकारे शशिवदनेत्याद्युदाहृते कथंचिदस्ति संभावनेत्याशक्य निराकरोति–अलंकारद्धयेति । सममिति । द्वयोरप्यान्दोल्यमानवादिति भावः । ननु यत्र व्यङ्ग्यमेव प्राधान्येन भाति तत्र किं कर्तव्यम् । यथा 'होइ ण गुणाणुराओ खलाण णवरं पसिद्धिसरणाणम् । किर पहिणुसइससिमणं चन्देण पिआमुहे दिठे ॥' अत्रार्थान्तरन्यासस्तावद्वाच्यत्वेनाभाति, व्यतिरेकापहृती तु व्यङ्ग्यत्वेन प्रधानतयेत्यभिप्रायेणाशङ्कते-अथेति । तत्रोत्तरम् तदा सोऽपीति । संकरालंकार एवायं न भवति, अपि खलंकारध्वनि १. 'तत्रावस्थानं' ग. १. 'आहे' ग. २. 'एकत्र भासत इति' ग. ३. 'न रमसे' क-ख. ४. 'यत्रैकत्र वाक्यांशे' क-ख. ५. 'एकस्य' क-ख. ६. 'कान्तो' क-ख. ७. 'वळलंकारा' क-ख. ८. 'वर्तिनः' ग. ९. 'वैक' क-ख. १०. 'प्रवेशश्च' ग. ११. 'अलंकारध्वनिनामायं' ग-पुस्तके नास्ति.. ५ व. लो.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy