________________
१७०
काव्यमाला। एवं तावद्रसादीनां विरोधिरसादिभिः समावेशासमावेशयोर्विषयविभागो दर्शितः । इदानीं तेषामेकप्रबन्धविनिवेशने न्याय्यो यः क्रमस्तं प्रतिपादयितुमुच्यते- .
प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने ।
एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥ २१ ॥ प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गिभावेन वा बहवो रसा उपनिबध्यन्ते इत्यत्र प्रसिद्धौ सत्यामपि यः प्रबन्धानां छायातिशयमिच्छति तेन तेषां रसानामन्यतमः कश्चिद्विवक्षितो रसोऽङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः।।
ननु रसान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमेकस्याङ्गिता न विरुध्यत इत्याशङ्कयेदमुच्यते
रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः।
नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावमासिनः ॥२२॥ प्रबन्धेषु प्रथमतरं प्रस्तुतः सन्पुनःपुनरनुसंघीयमानत्वेन स्थायी यो रसस्तस्य सकलरेसव्यापिनो रसान्तरैरन्तरालवर्तिभिः समावेशो यः स नाङ्गितामुपहन्ति ।
होमानिधूमकृतं बाष्पाम्बु यदि वा बन्धुगृहत्यागोद्भवम् । भयं कुमारीजनोचितः साध्वसः। एवमियताङ्गभावं प्राप्तानामुक्तिरच्छलेति कारिकामागोपयोगिनिरूपितमित्युपसंहरतिएवमिति । तावद्रहणेन वक्तव्यान्तरमप्यस्तीति सूचयति । तदेवावतारयति-इदानी. मित्यादिना । तेषां रसानां क्रम इति योजना । प्रसिद्धेऽपीति । भरतमुनिप्रभृतिमिर्निरूपितेऽपीत्यर्थः । तेषामिति प्रबन्धानाम् । महाकाव्यादिष्वित्यादिशब्दः प्रकारेणामिनेयान्भेदानाह द्वितीयस्त्वभिनयान् । विप्रकीर्णतयेति । नायकप्रतिनायकप्रकरीनायिकादिनिष्ठतयेत्यर्थः । अङ्गाङ्गिभावेनेत्येकनायकनिष्ठत्वेन । युक्ततर इति । यद्यपि समानाकारादौ पर्यायबन्धादौ च नैकस्याङ्गित्वं तथा न युक्तता तथाप्येवंविधो यः प्रबन्धः तद्यथा नाटकं महाकाव्यं वा यदुत्कृष्टतरमिति तरशब्दस्यार्थः । स्वयं लब्धपरिपोषत्वे वा कथं रसत्वमिति रसवमङ्गत्वं चान्योन्यविरुद्धम् । तेषां चाङ्गलायोगे कथमेकस्याङ्गिलमुक्तमिति भावः । रसान्तरेति । प्रस्तुतस्य समस्तेतिवृत्तव्यापिनस्तत १. 'छायायोग' ग. २. 'संधिव्यापिनः' क-ख. १. 'क्रमं सूचयति' ग. २. 'तथापि च ननु युक्तिता' ग.