SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ३ उयोतः] ध्वन्यालोकः। १७५ चारीभवति' इति निदर्शनं तन्मतेनोच्यते । मतान्तरेऽपि रसानां स्थायिनो भावा उपचाराद्रसशब्देनोक्तास्तेषामङ्गित्वे निर्विरोधित्वमेव । ___ एवमविरोधिनां विरोधिनां च प्रबन्धस्थेनाङ्गिना रसेन समावेशे साधारणमविरोधोपायं प्रतिपायेदानीं विरोधिविषये तं प्रतिपादयितुमिदैमुच्यते । विरोधैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् । स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता ॥ २५ ॥ ऐकाधिकरण्यविरोधी नैरन्तर्यविरोधी चेति द्विविधो विरोधी । तत्र प्रबन्धस्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः । तस्य वीरस्य य आश्रयः कथानायकस्तद्विपक्षविषये संनिवेशयितव्यः । तथा सति च तस्य विरोधिनोऽपि यः पोषः स निर्दोषः । विपक्षविषये हि भयातिशयवर्णने नायकस्य तयेति रेस्यमानतायामपि स्थायिव्यभिचारिभावस्य न कश्चि........ इति केचिद्याचचक्षिरे । तथा च भागुरिरपि(१) किं रसानामपि स्थायिसंचारितास्तीत्याक्षिप्याभ्युपगमेनैवोत्तरमवोचद्बाढमस्तीति । अन्ये तु स्थायितया पतितस्यापि स्थायित्वमेव । यथा विक्रमोर्वश्यामुन्मादस्य चतुर्थेऽङ्के । इतीयन्तमर्थमवबोधयितुमयं श्लोकः । बहूनां चित्तवृत्तिरूपाणां भावानां मध्ये यस्य बहुलं रूपं यथोपलभ्यते स स्थायी भावः । स च रसो रसीकरणयोग्यः शेषास्तु संचौरिण इति व्याचक्षते । न तु रसानां स्थायिसंचारिभावेनाङ्गाङ्गिता युक्ता । अत एवान्यो रसः स्थायीति षष्ठ्या सप्तम्या द्वितीयया वाश्रितादिषु गम्यादीनामिति समासं पठन्ति । तदाह-मतान्तरेऽपीति । रसशदेनेति । 'रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः' इत्यादिप्राक्तनकारिकानिविष्टेनेत्यर्थः । अथ साधारणप्रकारमुपसंहरन् .........रणमासूत्रयति-एपमिति । तमित्यविरोधोपायम् । विरुद्धति विशेषणं हेतुगर्भम् । यस्तु स्थायी स्थाय्यन्तरेण संभाव्यमानैकाश्रयत्वाद्विरोधी भवेद्यथोत्साहेन भयं स विभिन्नाश्रयखेन नायकतद्विपक्षादिगामिलेन कार्यः । तस्येति । तस्य विरोधिनोऽपि तथाकृतस्य तथानिबद्धस्य परिपुष्टतायाः प्रत्युत निर्दोषता नायकोत्कर्षाधानात् । अपरिपोषस्तु दोष एवेति यावत् । अपिशब्दो भिन्नक्रमः । एवमेव वृत्तावपि व्याख्यानात् । ऐकाधिकरण्यमेकाश्रयेण संबन्धमात्रम् । १. 'तु' ग. २. 'विषयमेव' क-ख. ३. 'इदं' ग-पुस्तके नास्ति. ४. 'द्विधा' ग. ५. 'वा' ग. ६. 'कथने' ग. १. 'रसस्य समानतायामपि स्थायिसंचारितास्तीत्याक्षिप्य' क-ख. २. 'व्यभिचारिणः' ग. ३. 'रसान्तरानिविष्टेनेत्यर्थः' क-ख. ४. 'उपसंहरन्नयमाह' क-ख. ५. 'अपरिपोषणं' क-ख. ६. 'व्याख्यातम्' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy