________________
१७४
काव्यमाला। वेक्षा परिपोषं नीयमानस्याप्यङ्गभूतस्य रसस्येति तृतीयः । अनया दिशान्येऽपि प्रकारा उत्प्रेक्षणीयाः । विरोधिनस्तु रसस्याङ्गिरसापेक्षया कस्यचिन्यूनता न संपादनीया । यथा शान्तेऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोषरहितस्य कथं रसत्वमिति चेत् , उक्तमत्राङ्गिरसापेक्षयेति । अङ्गिनो हि रसस्य यावान्परिपोषस्तावांस्तस्य न कर्तव्यः । खगतस्तु संभविपरिपोषः केन वार्यते । एतच्चापेक्षिकं प्रकर्षयोगित्वमेकस्य रसस्य । बहुरसेषु प्रबन्धेषु रसानामङ्गाङ्गिभावमनभ्युपगच्छताप्यशक्यप्रतिक्षेपमित्यनेन प्रकारेणाविरोधिनां विरोधिनां च रसानामङ्गाङ्गिभावेन समावेशे प्रबन्धेषु स्यादविरोधः । एतच्च सर्वं येषां रसो रसान्तरस्य व्यभि
उदाहरणीकर्तव्यः । अन्येऽपीति । विभावानुभावानां चाधिक उत्कर्षो न कर्तव्योऽङ्गिरसविरोधिनां निमेषणमेव वा न कार्यम् । कृतमपि चाङ्गिरसविभावानुभावैरुपबृंहणीयम् । परिपोषितापि चाविरुद्धरसविभावानुभावा अनिलेन प्रतिजागरयितव्या इत्यादि खयं शक्यमुत्प्रेक्षितुम् । एवं विरोध्यविरोधिसाधारणं प्रकारमभिधाय विरोधिविषयसाधारणदोषपरिहारप्रकारगतलेनैव विशेषान्तरमप्याह-विरोधिन इति । संभवतीति प्रधानाविरोधिवेनेति शेषः । एतच्चेति । उपकार्योपकारकभावो रसानां नास्ति । खचमत्कारविश्रान्तवात् । अन्यथा रसखायोगात् । तदभावे च कथमङ्गाङ्गितेत्यपि येषां मतं तैरपि कस्यचिद्रसस्य प्रकृष्टवं भूयः प्रबन्धस्य व्यापकत्वमन्येषां चाल्पप्रबन्धगामित्वमभ्युपगन्तव्यमिति वृत्तसंघटनाया एवान्यथानुपपत्तेः । भूयः प्रबन्धव्यापकस्य च रसस्य रसान्तरैर्यदि न काचित्संगतिस्तदितिवृत्तस्यापि न स्यात्संगतिश्चेदयमुपकार्योपकारकभावेन चमत्कारविश्रान्तेविरोधः कश्चिदिति समनन्तरमेवोक्तम् । तदाह-अनभ्युपगच्छतेति । अकाम इवाभ्युपगमयितव्य इति भावः । अन्यस्तु व्याचष्टेएतच्चापेक्षिकमित्यादिग्रन्थो द्वितीयमतमभिप्रेत्य यत्र रसानामुपकार्योपकारकता नास्ति तत्रापि हि भूयो वृत्तव्याप्तत्वमेवाङ्गिवमिति । एतच्चासत् । एवं हि एतच्च सर्वमिति सर्वशब्देन य उपसंहार एकपक्षविषयः, मतान्तरेऽपीत्यादिना च यो द्वितीयपक्षोपक्रमः सोऽतीव दुःश्लिष्ट इत्यलं पूर्ववंश्यैः सह बहुना संलापेन । उपसंहरति-येषामिति । हावाध्यायसमाप्तावस्ति श्लोकः-'बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः संचारिणो मताः ॥' इति । तत्रोक्तक्रमेणाधिकारिकेतिवृत्तव्यापिका चित्तवृत्तिरवश्यमेव स्थायित्वेन भाति प्रासङ्गिकवृत्तान्तगामिनी तु व्यभिचारि
१. 'अपि खङ्ग' ग. २. 'रसस्यैवेति' क-ख. ३. 'एतच्चापेक्षित' ग. ४. 'अविरोधिता' क-ख.
१. 'विरोधात्' क-ख. २. 'भावैकरूपं बृंहणीयम्' ग. ३. 'पूर्वोक्तेन' क-ख. ४. 'भाव' क-ख.