________________
ध्वन्यालोकः ।
अन्तर्मे दलामुखं तव शशी वृतिः समैवायमोस्तत्किं मामनिशं सखे जलधर त्वं दग्धुमेवोद्यतः '
२ उयोतः
इत्यादी रसनिर्वहणैकतानहृदयश्व । यो यं च नात्यन्तं निर्वोदुमिच्छति यथा'कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं
नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निहुतिपरः प्रेयान्रुदत्या हसन् ॥' अत्र हि रूपकमाक्षिप्तमेनिर्व्यूढं च । परं रसैपुष्टये निर्वोदुमिष्टमपि - चलादङ्गत्वेन प्रत्यवेक्ष्यते यथा
'श्यामाखङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं
गण्डच्छायां शशिनि शिखिनां बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्हन्तैकस्थं क्वचिदपि न ते भीरुं सादृश्यमस्ति ॥'
---
९६
---
ज्यम् । एवं महणत्यागौ समर्थ्य 'नातिनिर्वहणैषिता' इति भागं व्याचष्टे - रसेति । चकारः समीक्षाप्रकारसमुच्चयार्थः । बाहुलतिकायाः पाशत्वेन रूपणं यदि निर्वाहयेत् दयिता व्याधवधूः वासगृहं कारागारपञ्जरादीति परमनौचित्यं स्यात् । सखीनां पुर इति भवत्योऽनवरतं ब्रुवते नायमेवं करोतीति तत्पश्यन्त्विदानीमिति भावः । स्खलन्ती कोपावेशेन कला मधुरा गीर्यस्याः सा । कासौ गीरित्याह-भूयो नैवमित्येवंरूपा । एवमिति यदुक्तं तत्किमित्याह — दुश्चेष्टितं नखपदादिसंसूच्याङ्गुल्यादिनिर्देशेन । हन्यत एवेति न तु सौख्यादिकृतोऽनुनयोऽनुरुध्यते । यतोऽसौ हसनं निमित्तीकृत्य निहुतिपरः प्रियतमश्च । तदीयं व्यलीकं का सोढुं समर्थेति । निर्वोदुमिति । निःशेषेण परिसमापयितुमित्यर्थः। (श्यामास्त्रिति । ) ३यामासु सुगन्धिप्रियङ्गुलतासु । पाण्डिना तनिम्ना कण्टकितत्वेन च योगात् । शशिनीवि पाण्डुरत्वात् । उत्पश्यामीति यत्नेनोत्प्रेक्षे | जीवितसंधारणायेत्यर्थः । हन्तेति कष्टम् । एकस्य सादृश्याभावे हि दोलायमानोऽहं सर्वत्र
१. ‘हृदयो यश्च नात्यन्तं' ग. २. 'अनिर्व्यूढः ' म. ३. 'संपरिपुष्टये' म. ४. यं यत्नात्' क-ख. ५. 'हरिण' क ख ६. 'वत्र' म. . ७. 'चण्डि' ग.
१. ‘इत्यर्थः’ क- ख. २. ‘श्यामाखिति’ ग. ३. 'एकस्थ' क-ख.