Page #1
--------------------------------------------------------------------------
________________
तत्त्वार्थवृत्ति
सर्वार्थसिद्धिः श्रीमत्पूज्यपादाचार्यविरचिता.
" राजूबाई भ्रतार वीरचंद धाराशीवकर आवलबाई भ्रतार आमीचंद धाराशीवकर'
अनयोः साहाय्येन
कोल्हापूरनगरे “ कल्लप्पा भरमप्पा निटवे " लम
स्वकीये जैनेन्द्रमुद्रणालये मुद्रिता.
शकाब्दाः १८३९. ज्येष्ठशुल्ला पंचमी.
द्वितीयं संस्करणम्
मूल्यं रूप्यकद्वयम्.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
भूमिका,
- :स्वस्ति सकलजगदुदयकरणोदितातिशयगुणास्पदीभूतपरमजिनशासनसरस्सममिवर्धितभव्यजनकमलविकसनवितिमिरगुणकिरण सहस्रमहोऽतिमहावीरसवितरि परिनिवृते भगवत्परमर्षिमौतमगणधरसाक्षाच्छिष्यलोहार्यजम्नुविष्णुदेवापराजितगोवर्धनभद्रबाहुविशाख. पौष्ठिलक्षत्रिकायेजयनामसिद्धार्थधृतिषेणबुद्धिलादिगुरुपरम्परीणमहापुरुषसन्ततिसमवद्योतितान्वयभद्रबाहुस्वामितत्साक्षाच्छिष्यचन्द्रगुतान्वये नन्दिगणे मिथ्याष्टियुक्त्याभासतमःपटलविपाटनपटुप्रतिभातिशयालंकृता नानाभव्याब्जखण्डप्रततिविकसनश्रीविधानकमानको द्वादशविधतपश्चरणकिरणदीप्त्या प्रकाशमानविग्रहाः संसाराम्मोकिमार्गतरणकरणतायानरत्रनयेशाः सम्यग्जैनागमार्यान्वितविमलमतयोड नेके दिगम्बराचार्याः प्रादुरभूवन् ॥ तेषु- सत्संयमयोगापासचारणार्द्धः श्रीपद्मनन्द्याद्यभिधानस्तत्त्वार्थाधिगममोक्षशास्त्रप्रणेता भगवानुमास्वात्याचार्यः सकलपदार्थवेदित्वेनानिमां भूमिमलञ्चकार । तथा हि- ॥ श्रीमन्मुनीन्द्रोत्तमरत्नवर्गाः । श्रीगौतमाद्याः प्रभाषिण्णवस्ते ॥ तत्राम्बुधौ सप्तमहर्दियुक्ता-। स्तसन्ततौ बोधनिधिर्वभूव ॥ १ ॥ श्रीभद्रः सर्वतो यो हि । भद्रबाहुरिति श्रुतः ॥ श्रुतकेवलिनाथेषु । चरमः परमो मुनिः ॥२॥ चन्द्रप्रकाशोज्ज्व. लसान्द्रकीर्तिः। श्रीचन्द्रगुप्तोऽजनि तस्य शिष्यः ॥ यस्य प्रभावाद्वमदेवताभिः। राराधितः स्वस्य गणो मुनीनाम् ।। तस्यान्वये भूविदिते बभूव । यः पद्मनन्दिप्रथमाभिधानः ॥ श्रीकुन्दकुन्दादि. मुनीश्वराख्यः । सत्सँयमादुद्गतचारणद्धिः ॥ ४ ॥ अभूदुमावातिमुनीश्वरोऽसा-। वाचार्यशब्दोत्तरगृपिञ्छः ॥ तदन्वये तत्सह
Page #4
--------------------------------------------------------------------------
________________
२
भूमिका.
शोऽस्ति नान्य- । स्तात्कालिक शेषपदार्थवेदी ।। ५ ।। इति सम्प्रासचारणर्द्धिरयं भगवान्कुन्दकुन्दाचार्यश्चैकदा जैन सिद्धान्तविषयिणीं स्वमनोगतां काञ्चनशङ्कामपाकर्तुं श्रीमदर्हत्परमेश्वर चारुचरणारविन्दद्वन्द्वाराधनार्थं विदेहक्षेत्र चारण बलादाकाशमार्गेण गतवान् । गमनसम्भ्रमात्तस्य हस्तगता मयूरपिञ्छिका क्वापि निःसृत्याधः पतिता । तदानीमाकाशे विहरतः कस्यचिद्गृद्धस्य पिञ्छं गृहीत्वा स्वकार्यं निर्वर्त्य अग्रे गतवानिति तस्य गृध्रपिन्छ इत्यपरं नाम सम्प्राप्तमिति कथा वृद्धपरम्परया श्रूयतेऽस्माभिः ॥ उमास्वातिरित्यत्र उमास्वामी इति निर्देशो मुनिवरश्रुतसागरामिप्रायेण ज्ञायते तत्त्वार्थवृत्तौ श्रुतसागर्यां बहुषु स्थलेषु ' उमास्वामिनः उमास्वामिना' इत्यादिपाठदर्शनात् ॥ कुन्दकुदाद्यभिषोऽयं भगवानुमास्वातिः स्वजन्मना कां भूमिं पवित्रीकृतवानित्यादिवृत्तं नास्माभिर्ज्ञायते साधनाभावात् । परं भगवन्महावीरतीर्थकर निर्वृतेः सप्तशत वर्षानन्तरमयमाचार्यो भूमिमिमां स्वजन्मना पवित्रीकृतवानिति वक्तुं शक्यते ॥ अत्र प्रमाणवचनानि निम्नोल्लिखितानि भगवज्जिनसेनाचार्यप्रणीतमहापुराणे प्रथमपर्वणि लभ्यन्ते - ( भगवान्परमर्षिर्गोतमः श्रेणिकं प्रति वक्ति ) - अहं सुधर्मो जम्ब्वाख्यो । निखिलश्रुतधारिणः ॥ क्रमात्कैवल्यमुत्पाद्य । निर्वास्यामस्ततो वयम् ॥ १३९ ॥ त्रयाणामस्मदादीनां कालः केवलिनामिह ॥ द्वाषष्टिवर्षपिण्डः स्याद्भगवन्निर्वृतेः परम् ॥ १४० ॥ ततो यथाक्रमं विष्णु । र्नन्द्रिमित्रोऽपराजितः ॥ गोवर्द्धनो भद्रबाहु । रित्या चार्या महाधियः ।। १४१ ॥ चतुर्दशमहाविद्या- । स्थानानां पारगा इमे ॥ पुराणं द्योतयिष्यन्ति । कार्त्स्न्येन शरदः शतम् ॥ १४२ ॥ विशाखप्रोष्ठिलाचार्यौ । क्षत्रियो जयसाह्वयः || नागसेनश्च सिद्धार्थो । धृतिषेणस्तथैव च ॥ १४३ ॥
Page #5
--------------------------------------------------------------------------
________________
भूमिका.
विजयो बुद्धिमान्गङ्ग- । देवो धर्मादिशब्दतः ॥ सेनश्च दशपूर्वाणां । धारकाः स्युर्यथाक्रमम् || १४६ ॥ त्र्यशीतं शतमब्दाना | मेतेषां कालसंग्रहः ॥ तदा च कृत्स्नमेवेदं । पुराणं विस्तरिष्यते ॥ २४५ ॥ ततो नक्षत्रनामा च जयपालो महातपाः ॥ पाण्डुश्च ध्रुवसेनवं । कंसाचार्य इति क्रमात् ॥ १४६ ॥ एकादशाङ्गविद्यानां । पारगाः स्युर्मुनीश्वराः ॥ विंशं द्विशतमब्दाना । मेतेषां काल इष्यते ॥ १४७ ॥ तदा. पुराणमेतत्तु । पादोनं प्रथयिष्यत ॥ भाजनाभावतो भूयो । जायेत ज्ञाकनिष्ठता ॥ १४८ ॥ सुभद्रश्च यशोभद्रो । भद्रबाहुर्महायशाः || लोहार्यश्चेत्य भी ज्ञेयाः । प्रथमाप्राब्धिपारगाः ॥ १४९ ॥ समानां शतमेषां स्यात् । कालोऽ ष्टादशभिर्युतः ॥ तुर्यो भागः पुराणस्य । तदाऽस्य प्रतनिष्यते १ १०
उपर्युक्तवचनतश्चरमो भद्रबाहुर्महावीराजननिर्वृतेः सप्तमे शतकेऽभवदिति निश्चीयत । तस्य प्रशिष्योऽयमुमास्वातिः कंदा बभूवेति निर्णयम् ॥ ख्रिस्त शतकात्पूर्वं महावीरशतकं षट्शतवार्षिकमिति प्रसिद्धिर्वर्तते । तत्प्रमाणतया गृहीतं चेदितोऽष्टादशशतवर्षतः पूर्वम्रयमुमास्वातिर्बभूवेति निश्चीयते ॥ अनेनार्यजननिषेव्येण भगवदुमास्वातिना मोक्षशास्त्रं व्यरचि ॥ अत्र कर्णाटभाषानिबद्ध तत्त्वार्थवृत्ति प्रस्तावनातश्चेयं कथा ज्ञायते साम्प्रतं तत्पुस्तकाभावाद्यथास्मृतमत्रोदाहरिष्यामः
·
--
.
आसीत् किल सौराष्ट्रे (गुजराथ) देशे द्वैपायकनामा कश्चिद्विद्वदप्रेसरो नित्यनैमित्तिक क्रियानुष्ठानपावित्रितान्तःकरणः श्रावकः ॥ कदाचित्स च स्वस्य स्वाध्यायार्थ मोक्षशास्त्रं रिरंचयिष्यन् ' प्रत्यहमेकं सूत्रं निर्मायैव भुनज्मि नो चेदुपवास एव शरणमिति' नियमं विधाय प्रथमेऽह्नि प्राथमिकं ' दर्शनज्ञानचा - रित्राणि मोक्षमार्गः ' इत्येवंरूपं सूत्रं विरच्य स्मृतिभ्रंशभयात्
Page #6
--------------------------------------------------------------------------
________________
__ भूमिका. कवितस्वगृहस्थस्तम्भेऽलिखत् ।परेऽह्नि तस्मिन् श्रावके कार्यान्तस्मनुरुध्य कचिदन्यत्र गते सति कश्चित्स्वदेहधारणमात्रावशिष्टकार्यः तदर्थं च प्रामरी वृत्तिमधिष्ठाय प्रतिगृहमटन् मुनिरकस्मात्तद्गृहमाजगाम । तदा मुनिदर्शनजनितानन्दरसनिर्भरं स्वान्तरात्मना वोहुमक्षमा अतएवाश्रुमिषेण तमानन्दरसं बहिस्त्यजन्तीव छैपायकरमणी सबहुमानं पादोपगृहादिना सत्कृत्य तं मोक्षपान्य मुनि परमश्रद्धयाऽमोजयत् ॥ भोजनानन्तरं तेन मुनिना स्तम्भस्थ तत्सूत्रं विलोक्य किञ्चिदिव विमृश्य सम्यगिति विशेषणेन संयुज्य तस्मादगृहान्निरगायि । अनन्तरं स श्रावक मागस्य तत्सूत्रं ' सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, इत्येवंविषं दृष्ट्वा केनेदं सूत्रमलंकृतमिति भायाँ पप्रच्छ । तथा तु केनचिन्मुनिना एवं कृतमित्युक्ते, स द्वैपायकः तांप्रति पुनः प्रत्याह " स मुनिवरः केदानी गत इति " तया त्वनेन पथा गत इत्युक्ते तं मुनिप्रवरमन्तेष्टुं गृहानिरियाय स आसन्ननिष्ठः श्राक्कशिरोमणिः । अथेतस्ततोऽन्विष्याप्यप्राप्ताभीष्टोऽत एव खिन्नमना एक वनमवजगाहे । तत्र च क्वचिदनेकविधलतागुल्मालि. जितनानाविधमहातरुपरिवृते. आसन्नवर्तिजलनिझररमणीये आश्रमपदे शिलातलपतिकानिषण्णं अनेकमुनिसंसेवितचरणसरोरुहं प्रशान्तगम्भीराकृतिं विष्वग्विसारिस्ववपु-तेजसा दिशो भासयन्तं भगवन्तं मुनिप्रवरं विलोक्य तदीयकान्त्याकृतिविशेषेण स एवायमित्यनुमिन्वानः स भव्यः श्रावकः पुरतो गत्वा प्रणम्य तहर्शनाविभूतानन्दाश्रुजलेन पादाववनिज्य तेन मुनिना सादरं विलोकितः कृताञ्जलिरतिष्ठत् ॥ अनन्तरमनामयं पृष्ठः सः स्वोदन्तं तादृशसूत्रविरचनावाधिकं निरूप्य " श्रीमद्भिरेवायं मोक्षमार्गप्रका-- शकमन्थः समापनीयो नाहमस्मिन् समर्थ इति" तं मुनि पुनः
Page #7
--------------------------------------------------------------------------
________________
भूमिका.
पुनः परमादरेण व्यजिज्ञपत् ॥ स एव मुनिरयमुमास्वात्यभिधः इत्यवगच्छन्तु कृतधियः ॥
एषु तत्त्वार्थसूत्रेषु गन्धहस्तिमहाभाष्यसञ्जकं चतुरशीतिसहस्रश्लोकपरिमितं भगवत्समन्तभद्राचार्यविरचितं भाष्यं वर्तते इति श्रृणुमः परं न लब्धमस्माभिः क्वापि । तथा श्रुतसागरी सुबोधिनी इत्यभिधा अनेक वृत्तयश्च सन्ति । तासु च काश्चिदिदानीमपि लभ्यन्ते । तास्वपि इयं पूज्यपादाचार्यविरचिता सर्वार्थसिध्यभिधा वृत्तिरतीव समीचीना सर्वत्र श्रद्धालुश्रावकजनस्वाध्यायविषयत्वात्सुप्रसिद्धतरा चेति सैवास्माभिर्यथामति संशोध्य विद्यार्थिवृन्दोपयोगार्थ “ दशाध्यायपरिच्छिन्ने तत्त्वार्थे पठिते सति । फलं स्यादुपवासस्य भाषितं मुनिपुङ्गवैः " इति फलाभिधायकवाक्यानुमितविधेः प्रतिदिनमवश्यपठनीयत्वात् सधर्मश्राद्धजनस्वाध्यायार्थं च मुद्रिता ॥ अयं सर्वार्थसिद्धिवृत्तिकृत् भगवान् पूज्यपादाचार्योऽपि उपर्युक्तनन्दिगणस्थ एव । अस्यापि प्रथमं देवनन्दीति नामासीत् । पश्चादधिगतसकलशास्त्रार्थतत्त्वस्यास्यैव जिनेन्द्रबुद्धिरिति द्वितीयं नाम प्रसिद्धं बभूव । तथा, एतस्य तपोमहिम्ना एतत्पादोदकं सुवर्णत्वेन परिणतं बहुशो दृष्ट्वा तदानीन्तनैः पूज्यपाद ' इत्यपरं. नामाकारीति कचिग्रन्थे दृष्टमस्माभिः ।। अस्यान्वयविषये अग्रेतना श्लोका उपलभ्यन्ते
श्रीगङ्गपिञ्छमुनिपस्य बलाकपिञ्छः । शिष्योऽजिनष्ट भुवनत्रयवर्तिकीर्तिः ॥ चारित्रचञ्चुरखिलावनिपालमौलि। मालाशिलीमुखविराजितपादपद्मः ॥ १॥ एवं महाचार्थपरम्परायां । स्यात्कारमुद्राङ्कित्ततत्त्वदीपः ॥ भद्रः समन्ताद्गुणतो गणीशः । समन्तभद्रोऽजनि वादिसिंह ॥ २ ॥ ततः ॥ यो देवनन्दिप्रथमाभिधानो। बुध्या महत्या स जिनेन्द्रबुद्धिः ॥ श्रीपूज्यपादोऽ
Page #8
--------------------------------------------------------------------------
________________
भूमिका. जनि देवताभिर्यत्पूजितं पादयुगं यदीयम् ॥ ३ ॥ जैनेन्द्र निजशब्दभागमतुलं सर्वार्थसिद्धिः परा । सिद्धान्ते निपुणत्वमुद्धकवितां जैनाभिषेकः स्वकः । छन्दः सूक्ष्मधियं समाधिशतकं स्वास्थ्यं यदीयं विदा-। माख्यातीह स पूज्यपादमुनिपः पूज्यो मुनीनां गणैः ॥ ४॥ .
__ अत्र चरमश्लोके भगवत्पूज्यपादप्रणीता ये ग्रन्थाः संगृहीतास्तेषु जैनाभिषेकाख्यो ग्रन्थ इदानी यावन्नास्माभिः कचिप्राप्तः। यदि स ग्रन्थः सुप्रारब्धवशात्कचिल्लभ्येत तर्हि आधु निकानां पञ्चामृताभिषेकवादनिर्णयः सुकर इति मन्यामहे, भगवत्पूज्यपादवचनस्य महीयस्त्वात् ॥ तथा चिकित्साशास्त्रेऽपि श्रीमत्पूज्यपादप्रणीतौ द्वौ ग्रन्थौ उपलभ्यते। तयोरेकस्मिन् चिकित्सा तथाऽन्यस्मिन्नौषधीनां धान्यानां च गुणनिरूपणं दृश्यते । तेन भगवतश्चिकित्साशास्त्रेऽपि नैपुण्यं विशदं भवति ॥
__सर्वार्थसिद्धिग्रन्थारम्भे · मोक्षमार्गस्य नेतारमिति ' श्लोको वर्तते स तु सूत्रकृता भगवदुमास्वातिनैव विरचित इति श्रुतसागराचार्यस्याभिमतमिति तत्पणीतश्रुतसागर्याख्यवृत्तितः स्पष्टमवगम्यते । तथापि श्रीमत्पूज्यपादाचार्येणाव्याख्यातत्वादिदं श्लोक. निर्माणं न सूत्रकृतः किंतु सर्वार्थसिद्धिकृत एवेति निर्विवादम् । तथा एतेषां सूत्राणां द्वैपायकप्रश्नोपयुत्तरत्त्वेन विरचनं तैरेवाङ्गीक्रियते तथा. च उत्तरे वक्तव्ये मध्ये मङ्गलस्याप्रस्तुतत्वाद्वस्तुनिर्देशस्यापि मङ्गलत्त्वेनाङ्गीकृतत्वाच्चोपरितनः सिद्धान्त एवं दाळमामोतीत्यूह्यं सुधीभिः ॥ आस्मिन् दशाध्यायपरिच्छिन्ने तत्त्वार्थसूत्रग्रन्थे भगवता सप्ततत्त्वनिरूपणं सप्रपञ्चं व्यधायि । तत्र प्रथमाध्यायमारभ्य आचतुर्थाध्यायं जीवतत्त्वं, पञ्चमाध्याये
Page #9
--------------------------------------------------------------------------
________________
भूमिका. पुद्गलतत्त्वं, षष्ठसप्तमयोरास्रवतत्त्वं, अष्टमे बन्धतत्त्वं, नवमे संवरनिर्जरातत्त्वे, दशमे मोक्षतत्त्वमिति सप्ततत्त्वानि ऊहापोहाभ्यां निरूपितानि ॥
___ एतद्ग्रन्थमुद्रणसमये श्रेष्ठिवरैः मुम्बापुरवासिभिः श्रीमद्भिः हीराचन्दात्मजैर्माणिकचन्देतिसुगृहीतनामधेयरस्मत्साहाय्यार्थमेकं देव नागराक्षरैलिखितं प्राचीनं पुस्तकं प्रेषितं, तत्तु प्रायोऽशुद्धं, तथा अस्मत्सुहृच्चूडामणिभूतैः श्वेतसरोवरा- ( श्रवणबेळगुळ )लङ्कारहीरवरैर्बिलिजिनदासशास्त्रिाभिरेकं कार्णाटलिप्यलंकृतं सुबोधटिप्पणीसंवलितं तालपत्रपुस्तकं प्राचीनं प्रेषितं तत्प्रायःशुद्धं, इत्युभयोरप्युकृपतिं न कदापि विस्मरिष्यामः ॥
तथाऽस्मास्वतिप्रणयिभिर्विपन्नजनानुकम्पाप्रवणैर्महापरोपकारिभिरकारणसुहृद्भिः अकलूजग्रामवासिभिगाँधीकुलावतंसनाथात्मजरामचन्द्रशर्मश्रेष्ठिवरैः वारंवारं प्रथमसंस्करणसमये मुद्रणकार्यविनापनयनेन यदुपकृतं तद्विषये कार्तश्यं कथमाविष्कर्तव्यमित्येव न जानीमः॥ .
उपर्युध्दृतमाचार्यवृत्तं किञ्चिदिव लभ्यते । यदि च कैश्चित् तद्वृत्तं सकलमस्मत्सकाशे प्रहीयते तदा तदुपकारान् स्मृत्वा सर्वं तन्मुद्रयिष्यामः । अस्मिन् ग्रन्थमुद्रणे कचित्स्खलनं दृश्येत चेचत् 'गच्छतः स्खलनं न दोषायेति, न्यायमनुस्मृत्य क्षन्तव्य सधर्मभिः कृपालुमिरिति सप्रणामं वारंवारं सम्प्रार्थ्य विरम्यत इति शम्शकाब्दाः १८३९ ।
_ यौष्माकीणः वैशाख शुक्ला १५J निटवेकुलोत्पनो ब्रह्मसूनुः कलापशर्मा
Page #10
--------------------------------------------------------------------------
Page #11
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्राणामनुक्रमः
प्रथमोऽध्यायः
सूत्राणि
१ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः
२ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्.
३ तन्निसर्गादधिगमाद्वा
४ जीवाजीवा सवबन्धसंवर निर्जरामोक्षास्तत्वम्
....
9000
५ नामस्थापनाद्रव्य भावतस्तन्न्यासः ६ प्रमाणनयैरधिगमः
७. निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ८ सत्सङ्ख्या क्षेत्र स्पर्शन कालान्तरभावाल्पबहुत्वैश्च ९ मतिश्रुतावधिमनः पर्ययकेवलानि ज्ञानम् १० तत्प्रमाणे
११ आद्ये परोक्षम्
3900
0000
0800
१८ व्यञ्जनस्यावग्रहः
१९ न चक्षुरनिन्द्रियाभ्याम् २० श्रुतं मतिपूर्वं द्वयनेकद्वादशभेदम्
....
0000
....
8680
....
....
0800
****
....
....
0900
....
...
0000
5000
0000
१२ प्रत्यक्षमन्यत् १३ मतिः स्मृति: संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम्
१४ तदिन्द्रियाऽनिन्द्रियनिमित्तम्
१५ अवग्रहेहावायधारणाः
....
१६ बहुबहुविधक्षिप्राऽनिःसृताऽनुक्तप्रवाणां सेतराणाम् .... १७ अर्थस्य
....
0.00
0000
.....
....
****
....
....
.....
५९
६१
६१
६२
६४
६५
६६
...... ६६
६७
....
पृष्ठाः
.....
२०
65
८
९
१.३
५५
५७
५८
Page #12
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्राणामनुक्रमः
सूत्राणि
२१ भवप्रत्ययोऽवधिदेवनारकाणाम् ... २२ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् २३ ऋविपुलमती मनःपर्ययः .... २४ विशुध्धप्रतिपाताभ्यां तद्विशेषः .... २५ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः २६ मतिश्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु २७ रूपिष्ववधेः . २८ तदनन्तभागे मनःपर्ययस्य . . ...... २९ सर्वद्रव्यपर्यायेषु केवलस्य .. ..... ३० एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः .... ३१ मतिश्रुतावधयो विपर्ययश्च ... .... .. ... ३२ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् .. .... ३३ नैगमसंग्रहव्यवहारर्नुसूत्रशब्दसमभिरूदैवम्भूता नयाः ७८
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे प्रथमोऽध्यायः ..
अथ द्वितीयोऽध्यायः . १ औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्व
मौदयिकपारिणामिको च २ द्विनवाष्टादशैकविंशातित्रिभेदा यथाक्रमम् . .... ३ सम्यक्त्वचारित्रे ४ ज्ञानदर्शनदानलाभभोगोपमोगर्याणि च .. ५ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्व. चारित्रसँयमासँयमाश्च. . .... .... ८६
....
Page #13
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्राणामनुक्रमः
सूत्राणि
सच
...
0000
....
:
....
६ गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासँयतासिद्धलेश्या___श्चतुश्चतुस्व्यकैकैकैकषड्भेदाः .... . जीवभव्याभव्यत्वानि च ८ उपयोगो लक्षणम् ९ स द्विविधोऽष्ट चतुर्भेदः १० संसारिणो मुक्ताश्च - ११ समनस्कामनस्काः १२ संसारिणस्त्रसस्थावराः . १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः १४ द्वीन्द्रियादयस्त्रसाः १५ पञ्चेन्द्रियाणि १६ द्विविधानि १७ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् १८ लब्ध्युपयोगी भावेन्द्रियम् १९ स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः २१ श्रुतमनिन्द्रियस्य २२ वनस्पत्यन्तानामेकम् २३ कृमिपिपीलिकाश्रमरमनुष्यादीनामेकैकवृद्धानि २४ सज्ञिनः समनस्काः २५ विग्रहगतौ कर्मयोगः २६ अनुश्रेणि गतिः । २७ अविग्रहा जीवस्य - २८ विग्रहवती च संसारिणः प्राक्कतुर्थः ....
.
.
.
.
Page #14
--------------------------------------------------------------------------
________________
सूत्राणि
२९ एकसमयाऽविग्रहा ३० एकं द्वौ लीन्वाऽनाहारकः
३१ सम्मूर्च्छनगर्भेीपपादाज्जन्म
तत्वार्थसूत्राणामनुक्रमः
३७ परम्परं सूक्ष्मम्
३८ प्रदेशतोऽसंख्येयगुणं प्राक्तैजसात्
४७ लब्धिप्रत्ययं च ४८ तैजसमपि
....
....
५१ न देवाः ५२ शेषास्त्रिवेदाः
....
३२ सचित्तशीत संवृताः सेतरा मिश्राश्चैकशस्तद्योनयः
३३ जरायुजाण्डजपोतानां गर्भः
१०५
३४ देवनारकाणामुपपादः ३५ शेषाणां सम्मूर्च्छनम्
१०५
३६ औदारिकवैक्रियिकाहार कतैजसकार्मणानि शरीराणि १०५
१०६
.... १०६
१०७
१०७
१०७
१०८
१०८
१०८
१०९
१०९
११०
११०
११०
१११
१११
१११
....
0800
३९ अनन्तगुणे परे ४० अप्रतिघाते
४१ अनादिसम्बन्धे च ४२ सर्वस्य
....
४३ तदादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्भ्यः
४४ निरुपभोगमन्त्यम्
४५ गर्भसम्मूर्च्छनजमाद्यम्
४६ औपपादिकं वैक्रियिकम्
....
....
08.00
....
6000
10.8
0000
....
४९ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसँयतस्यैव ५० नारकसम्मूछिनो नपुंसकानि
6850
....
0008
8098
....
....
८०००
0200
....
ocee
....
....
****
........
0003
....
....
0800
...
....
....
....
1000
9000
पृष्ठं
१०२
१०२
१०२
10.0
१०३
१०४
Page #15
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्राणामनुक्रमः .. सूत्राणि ५३ औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोनपवायुषः ११२ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः
__ अथ तृतीयोऽध्यायः १ रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो
घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः .... ११३ २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशत___ सहस्राणि पञ्च चैव यथाक्रमम् .... ... ११४ ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ११५ १ परस्परोदीरितदुःखाः ५ संक्लिष्टासुरोदीरितदुःखाश्च प्राक्कतुर्थ्याः ... ११६ ६ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा
सत्त्वानां परा स्थितिः .... ... ११७ ७ जम्बुद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः .... ११८ ८ द्विद्विविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः .... ११८ ९ तन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बुदीपः
.... .... ११९ १० भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ११९ .. ११ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनील
रुक्मिशिखरिणो वर्षधरपर्वताः .... .... १२० १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः .... .... १२० १३ मणिविचित्रपार्था उपरि मूले च तुल्यविस्ताराः ... १२१ १४ पद्ममहापद्मतिगिंछकेसरिमहापुण्डरीकपुण्डरीका हूदा
स्तेषामपुरि
.... १२१
Page #16
--------------------------------------------------------------------------
________________
६
. तत्त्वार्थसूत्राणामनुक्रमः
M
و
. सूत्राणि १५ प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो हूदः .... १२१ १६ दशयोजनावगाहः
..... १७ तन्मध्ये योजनं पुष्करम् .. - .... १८ तद्विगुणद्विगुणाहदाः पुष्कगणि च .... .. १२२ १९ तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः
पल्योपमस्थितयः ससामानिकपरिषत्काः .... १२२ २० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदा- नारीनरकान्तासुवर्णरूप्यंकूलारक्तारक्तोदाः सरित. स्तन्मध्यगाः
.... .... १२२ २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः .... .... १२३ २२ शेषास्त्वपरगाः .. २३ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः.... १२४ २४ भरतः षड्विंशपञ्चयोजनशतविस्तारः षट् चैकोन: विंशतिभागा योजनस्य ..... .... २१३ २५ तद्विगुणद्विगुणविस्तारा वर्वधरवर्षा विदेहान्ताः .... १२५ २६ उत्तरा दक्षिणतुल्याः ... .... १२५ २७ भरतैरावतयोवृद्धि हासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पि.. जीभ्याम्
.... .... १२५ २८ ताभ्यामपरा भूमयोऽवस्थिताः .... .... १२६ २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैव. कुरवकाः
...... .... १२६ ३० तथोराः
..... .... १२७ ३१ विदेहेषु सख्येयकालाः .... .... १२७ ३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ... १२८
Page #17
--------------------------------------------------------------------------
________________
....
तत्त्वार्थसूत्राणामनुक्रमः सूत्राणि ३३ द्विर्धातकीखण्डे ३४ पुष्कराद्धे च ३५ प्राङ्मानुषोत्तरान्मनुष्याः ३६ आर्या म्लेच्छाश्च ३७ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः १३१ ३८ नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ........ १३२ ३९ तिर्यग्योनिजानां च
___ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे तृतीयोऽध्यायः ..
....
... १३१
___ अथ चतुर्थोऽध्यायः १ देवाश्चतुर्णिकायाः
.... २ आदितस्त्रिषु पीतान्तलेश्याः .... .... ३ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ....
१ इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीक.. .. प्रकीर्णकाभियोग्यकिल्विषिकाश्चैकशः - ५ त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिप्काः - ६ पूर्वयोवीन्द्राः
.. .... ७ कायप्रविचारा आ ऐशानात् ८ शेषाः स्पर्शरूपशब्दमनःप्रविचाराः ......... ९ परेऽप्रविचाराः १० भवनवासिनोऽसुरनागविद्युत्सुपर्णामिवातस्तनियोदधि.. द्वीपदिक्कुमाराः ११ व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूत... ... पिशाचाः
ur ar 920
....
Page #18
--------------------------------------------------------------------------
________________
८
तत्त्वार्थसूत्राणामनुक्रमः
'सूत्राणि
पृष्ठं
१२ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च १३९
१४०
१३ मेरुप्रदक्षिणा नित्यगतयो नृलोके १४ तत्कृतः कालविभागः
१४०
१५ बहिरवस्थिताः
१४१
१४१
१४१
१४२
0800
....
1830
१८ सागरोपमत्रिपल्योपमार्द्धहनिमिता २९ सौधर्मेशानयोः सागरोपमे अधिके
३० सानत्कुमारमाहेन्द्रयोः सप्त
0000
....
१६ वैमानिकाः
१७ कल्पोपपन्नाः कल्पातीताश्च १८ उपर्युपरि
....
१९ सौधर्मेशान सानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापि - ष्ठशुक्रमहाशुकशतारसह खारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु भैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च २० स्थितिप्रभावसुखद्युतिलश्या विशुद्धीन्द्रियावधिविषयतोऽ
....
धिकाः
....
२१ गतिजातिशरीरपरिग्रहाभिमानतो हीनाः
२२ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु २३ प्राग्मैवेयकेभ्यः -कल्पाः
....
....
0000
0800
....
....
....
....
....
....
....
....
१४५
१४५
२४ ब्रह्मलोकालया लौकान्तिकाः २५ सारस्वतादित्यवन्ारुणगर्दतोय तुषितान्याब धारिष्टश्च १४६
१४७
0.00
...
****
२६ विजयादिषु द्विचरमाः
२७ औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः स्थितिरसुर
नागसुपर्णद्वीपशेषाणाम्
10.0
8000
....
....
....
....
.....
१४२
opos
१४३
१४४
१४४
१४७
१४८
१४८
१४८
Page #19
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्राणामनुक्रमः
सूत्राणि
.... १५०
पृष्ठ ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु .. १४९ ३२ आरणाच्युतादूर्ध्वमेकैकेन नवयु अवेयकेषु विजयादिषु
सर्वार्थसिद्धौ च ३३ अपरा पल्योपममधिकम् । ३४ परतःपरतः पूर्वापूर्वाऽनन्तरा
..... १५० ३५ नारकाणां च द्वितीयादिषु ३६ दशवर्षसहस्राणि प्रथमायाम् ३७ भवनेषु च ३८ व्यन्तराणां च ३९ परा पल्योपममधिकम् १४० ज्योतिष्काणां च ४१ तदष्टभागोऽपरा ४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ....
इति तत्त्वार्थधिगमे मोक्षशास्त्रं चतुर्थोऽध्यायः
....
अथ पञ्चमोऽध्यायः १ अजीवकाया धर्माधर्माकाशपुद्गलाः २ द्रव्याणि । ३ जीवाश्च ४ नित्यावस्थितान्यरूपाणि ५ रूपिणः पुद्गलाः ६ आ आकाशादेकद्रव्याणि
.
.
..
Page #20
--------------------------------------------------------------------------
________________
१०
तत्त्वार्थ सूत्राणामनुक्रमः
सूत्राणि
७ निष्क्रियाणि च
८ असङ्ख्येयाः प्रदेशा धर्माधर्मैकजीवानाम्
९ आकाशस्यानन्ताः
१० संख्येयाऽसंख्येयाश्च पुद्गलानाम् ११ नाणोः
१२ लोकाकाशेऽवगाहः १३ धर्माधर्मयोः कृत्स्ने
१४ एकप्रदशोदिषु भाज्यः पुद्गलानाम् १५ असंख्येयभागादिषु जीवानाम् १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् १७ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः १८ आकाशस्यावगाहः
....
२५ अणवः स्कन्धाश्च
२६ भेदसङ्घातेभ्य उत्पद्यन्ते
२७ भेदादणुः
२८ भेदसंघाताभ्यां चाक्षुषः
२९ सद्द्रव्यलक्षणम्
OLOB
.900
....
....
...
0000
3000
2000
0000
1800
....
....
1000
0.00
....
0000
0000
....
9000
....
१९ शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् २० सुखदुःखजीवित मरणोपग्रहाश्च २१ परस्परोपग्रहो जीवानाम्
२२ वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य २३ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः २४ शब्दबन्ध सौक्ष्म्यस्थौल्यसंस्थान भेदतमश्लायाऽऽतपो
....
द्योतवन्तश्च
1000
0000
0880
....
1000
....
....
....
2006
....
9890
1900
....
....
....
6006
....
....
4000
ਬੁਲੰ
१५६
१५७
१५८
१५८
१५९
१५९
१६०
१६०.
१६१
१६२
१६२
१६३
१६४
१६७
१६७
१६८
१६९
ܘܦܐ
१७२
१.७२
१७३
१७३
१७३
Page #21
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्राणामनुक्रमः
सूत्राणि
.
.
..
.
.
..
३० उत्पादव्ययध्रौव्ययुक्तं सत् ३१ तद्भावाऽव्ययं नित्यम् ३२ अर्पितानर्पितसिद्धेः ३३ स्निग्धरूक्षत्वाद्वन्धः ३४ न जघन्यगुणानाम् ३५ गुणसाम्ये सदृशानाम् ३६ व्यधिकादिगुणानां तु ३७ बन्धेऽधिको पारिणामिको च ३८ गुणपर्यायवद्रव्यम् ३९ कालश्च ४० 'सोऽनन्तसमयः ४१ द्रव्याश्रया निर्गुणा गुणाः ४२ तद्भावः परिणामः
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे पञ्चमोऽध्यायः
.
.
.
अथ षष्ठोऽध्यायः १ कायवाङ्मनःकर्म योगः
.... ... १८३ २ स आस्रवः ३ शुभः पुणस्याशुभः पापस्य ४ सकषायाकषाययोः साम्परायिकर्यापथयोः
.... १८१ ५ इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपंचपंचविंशतिसङ्ख्याः
पूर्वस्य भेदाः ...... ___... १८५
Page #22
--------------------------------------------------------------------------
________________
१२
तत्त्वार्थसूत्राणामनुक्रमः
सूत्राणि
पृष्ठं
६ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषभ्यस्तद्विशेषः १८६
१८७
७ अधिकरणं जीवाऽजीवाः
८ आद्यं सरम्भसमारम्भारम्भयोगकृतकारितानुमत
0000
कषायविशेषेत्रित्रित्रिश्चतुश्चैकशः
१८७
९ निर्वर्तना निपेक्ष सँयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् १८८
१० तत्प्रदोषनिह्नव मात्सर्यान्तरायासादनोपघाता ज्ञानदर्श
नावरणयोः
OSOP
....
....
११ दुःखशेकतापाक्रन्दनवधपरिदेव नान्यात्मपरोभयस्थान्य
सद्वेद्यस्य
१२ भूतवत्यनुकम्पादानसरागसँयमादियोगः क्षान्तिः
शौचमिति सद्वेद्यस्य
१३ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य
१४ कषायोदयात्तीत्रपरिणामश्चारित्र मोहस्य
2609
0300
0908
....
....
१९१
१९२
१९३
१९३
१५ बह्वारम्भपरिग्रहत्वं नारकस्यायुषः १६ माया तैर्यग्योनस्य
१९४
१९४
१७ अल्पारम्भपरिग्रहत्वं मानुषस्य• १८ स्वभावमार्दवञ्च
१९४
१९४
...
१९ निश्शीलत्रतत्वं च सर्वेषाम् २० सरागसंयम सँयमा सँयमाकामनिर्जरा बालतपांसि दैवस्य १९५
२१ सम्यक्त्वं च २२ योगवक्रता विसंवादनं चाशुभस्य नाम्नः २३ तद्विपरीतं शुभस्य
www.
blor
....
....
0000
9000
1030
0.00
0800
८०.०
900
१८९
....
१९०
१९५
.१९५
१९६
Page #23
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्राणामनुक्रमः
सूत्राणि
. पृष्ठं २४ दर्शनविशुद्धिर्विन येसम्पन्नता शीलवतेष्वनतिचारोऽभी
क्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयाव्रत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिराव. श्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य
.... १९६ २५ परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचै
गर्गोत्रस्य २६ तद्विपर्ययो नीचैर्वृत्त्यनुत्सको चोत्तरस्य २७ विघ्नकरणमन्तरायस्य
१९८ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे षष्ठोऽध्यायः
अथ सप्तमोऽध्यायः १ हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्यो विरतिव्रतम् २ देशसर्वतोऽणुमहती ३ तत्स्थैर्यार्थ भावनाः पञ्चपञ्च ४ वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च
.... ... २०१ ५ क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं च
.... ... २०१ ६ शून्यागारविमोचितावासपरोपरोधाकरणभैक्षशुद्धिसद्ध
सविसंवादाः पञ्च --
पञ्च
.... २०१
Page #24
--------------------------------------------------------------------------
________________
१४
तत्वार्थ सूत्राणामनुक्रमः
सूत्राणि
७ स्त्रीरागकथा श्रवण तन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरण
वृष्येष्टरसस्वशरीरसंस्कारत्यागाः पंच
८ मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पञ्च ९ हिंसादिष्विहा मुत्रापायावद्यदर्शनम्
१० दुःखमेव वा
''
११ मैत्रीप्रमोद कारुण्य माध्यस्थानि च सत्त्वगुणाधिक
•
क्लिश्यमानाविनयेषु
१२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ......
१३ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा
१४ असदभिधानमनृतम्
१५ अदत्तादानं स्तेयम् १६ मैथुनमब्रझ
१७ मूर्छा परिग्रहः
....
रिमाणातिथिसँविभागव्रत सम्पन्नश्च
0000
....
....
....
....
....
....
....
....
....
१८ निश्शल्यो व्रती १९ अगार्यनगारश्च
२० अणुव्रतोऽगारी
२१ दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगप
10
२०४
२०४
.... २०५
२०६
..... २०६
२०७
२०७
२०८
२०९
२०९
....
....
....
6330
....
२२ मारणान्तिकीं सल्लेखनां जोषिता
२३ शङ्काकाङ्क्षाविचिसित्सान्यदृष्टिप्रशंसासंस्तवाः
२४ व्रतशीलेषु पञ्च पञ्च यथाक्रमम्
२५- बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः २६ मिथ्योपदेश रहो ऽभ्याख्यानकूटलेख कियान्यासापहार* साकारमन्त्रभेदाः
पृष्ठ
२०२
२०२
२०२
२०३ ·
२१०
२१२
२१३
२१४
२१४
२१४
Page #25
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्राणामनुक्रमः
ur
. सूत्राणि २७ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिक..
मानोन्मानप्रतिरूपकव्यवहाराः .... .... २१५ २८ परविवाहकरणेत्वरिकापारगृहीताऽपरिगृहीतागमना- . ___नङ्गक्रीडाकामतीव्राभिनिवेशाः .... .... २१५ २९ क्षेत्रवास्तुहिरण्यसुवर्णधनधाधान्यदासीदासकुप्यप्रमाणातिक्रमाः
.... . .... २१६ ३० ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि .... २१६ ३१ आनयनप्रेष्यप्रयोगशद्वरूपानुपातपुद्गलक्षेपाः ..... २१७ ३२ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि
.... २१७ ३३ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि .... ३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणाना- .. ___दरस्मृत्यनुपस्थानानि .. .... .... २१७ ३५ सचित्तसम्बन्धसम्मिश्राभिषवदुःपक्काहाराः .... २१८ ३६ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः २१८ ३७ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानानि ... २१८ ३८ अनुग्रहार्थं स्वस्यातिस! दानम् .... .... २१९ ३९ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः .... .... २१९
इति तत्त्वार्थाधिगमे 'मोक्षशास्त्रे सप्तमोऽध्यायः
१
.
अथ अष्टमोऽध्यायः १ मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः .... २२० २ सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते स बन्धः २२१
Page #26
--------------------------------------------------------------------------
________________
'तत्त्वार्थसूत्राणामनुक्रमः सूत्राणि -
पृष्ठं ३ प्रकृतिस्थित्यनुभवप्रदेशास्ताद्विधयः ..... .... २२३ १ आद्यो ज्ञानदर्शनाबरणवेदनीयमोहनीयायुर्नामगो. त्रान्तरायाः
. .... .... २२३ ५ पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशविपञ्चमेदा ... यथाक्रम
___.... .... २२४ ६ मतिश्रुतावधिमनःपर्ययकेवलानाम् ... .... २२४ ७ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचला
प्रचलास्त्यानगृद्धयश्च .... .... २२५ ८ सदसद्वेधे .. .... .... २२६ ९ दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्वि
नवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्व
लनविकल्पाश्चैकशः क्रोधमानमायालोभाः . .. २२६ १० नारकतैर्यग्योनमानुषदैवानि ..... .... २२८ ११ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसं
हननस्पर्शरसगन्धवर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीतिसतराणि तीर्थकरत्वं च
___... .... २२८ १२ उच्चैींचैश्च
- '... २३१ १३ दानलाभभोगोपभोगवीर्याणाम्
२३१
Page #27
--------------------------------------------------------------------------
________________
२३३
तत्त्वार्थसूत्राणामनुक्रमः सूत्राणि १४ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः
.... .... २३२ १५ सप्ततिर्मोहनीयस्य
२३२ १६ विंशतिर्नामगोत्रयोः १७ त्रयस्त्रिंशत्सागरोपमाण्यायुषः २८ अपरा द्वादशमुहूर्ता वेदनीयस्य १९ नामगोत्रयोरष्टौ २० शेषाणामन्तर्मुहूर्ता २१ विपाकोऽनुभवः २२ स यथानाम २३ ततश्च निर्जरा
.... .... २३४ २४ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाह
स्थिताः सर्वाःमप्रदेशेष्वनन्तानन्तप्रदेशाः .... २३५ २५ सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् .... .... २३६ २६ अतोऽन्यत्पापम्
.... .... २३७ इति तत्त्वार्थाधिगमे मोक्षशास्त्रेऽष्टमोऽध्यायः
. अथ नवमोऽध्यायः १ आस्रवनिरोधः संवरः
___.... २३७ २ स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रैः ३ तपसा निर्जरा च
.... .... २४० ४ सम्यग्योगनिग्रहो गुप्तिः .... ५ ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ..... २४१
Page #28
--------------------------------------------------------------------------
________________
.... २४७
__ तत्त्वार्थसूत्राणामनुक्रमः .. 'सूत्राणि
___पृष्ठं ६ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्च
न्यब्रह्मचर्याणि धर्मः .... . .... २४१ ॐ अनित्याशरणसंसारकत्वान्यत्वाशुच्यासवसंवरनिर्जरालो___कबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षाः .... २४२ ८ मार्गाच्यवननिर्जरार्थं परिषोढव्याः परिषहाः .... २४६ ९ क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्या... शय्याक्रोशवधयाचनालामरोगतृणस्पर्शमलसत्कारपु.
रस्कारप्रज्ञाज्ञानादर्शनानि .... १० सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतुर्दश ___.... २५२ ११ एकादश जिने
..... .... २५३ १२ बादरसाम्पराये सर्वे ..... .... २५३ १३ ज्ञानावरणे प्रज्ञाज्ञाने .... .... २५४ १४ दर्शनमोहान्तराययोरदर्शनालाभौ .... १५ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कार. पुरस्काराः
__.... २५१ १६ वेदनीये शेषाः
___ .... २५५ १७ एकादयो भाज्या युगपदेकस्मिन्नैकान्न विंशतः .... २५५ १८ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्प
राययथाख्यातमिति चारित्रम् ..... ... २५५ १९ अनशनावमोदर्यवृत्तिपरिसङ्ख्यानरसपरित्यागविविक्त
शय्यासनकायक्लेशा बाह्यं तपः .... .... २५६ २० प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् २५७ २१ नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्राग्ध्यानात् .... २५७ २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरि- . हारोपस्थापनाः
.... .... २५८
२५१
Page #29
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्राणामनुक्रमः
___... २५८
..
.
....
सूत्राणि २३ ज्ञानदर्शनचारित्रोपचाराः ........ २५८ २४ आचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसङ्घसाधुमनो
ज्ञानाम् २५ वाचनापच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः .... २५९ २६ बाह्याभ्यन्तरोपध्योः
.... २५९ २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधोध्यानमान्तर्मुहूर्तात् २६० २८ आरौिद्रधर्म्यशुक्लानि
.... २६० २९ परे मोक्षहेतू
. .... ... २६१ ३० आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगायस्मृतिसमन्वाहारः२६१ ३१ विपरीतं मनोज्ञस्य
__... .... २६१ ३२ वेदनायाश्च
.... २६१ ३३ निदानं च ३४ तदविरतदेशविरतप्रमत्तसँयतानाम् .... .... २६२ ३५ हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः२६२ ३६ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् . .... २६३ ३७ शुक्ले चाद्ये पूर्वविदः
.... २६४ ३८ परे केवलिनः ।
२६४ ३९ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रिया
निवर्तीनि ४. व्येकयोगकाययोगायोगानाम् ४१ एकाश्रये सवितर्कविचारे पूर्व १२ अविचारं द्वितीयम् ४३ वितर्कः श्रुतम् १४ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः
२६५
.... २६२
.... २६५
Page #30
--------------------------------------------------------------------------
________________
..
.
.
तत्त्वार्थसूत्राणामनुक्रमः ___... सूत्राणि ... ४५ सम्यग्दृष्टि श्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोप
शमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसं...ख्येयगुणनिर्जराः ... .... .... २६७ ४६ पुलाकबकुशकुशीलनिग्रन्थस्नातका निम्रन्थाः .... २६८ ४७ सँयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपादस्थानविकल्पतः साध्याः
___ .... ... २६९ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे नवमोऽध्यायः
- अथ दशमोऽध्यायः १ मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् .... २ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षोमोक्षः .... २७२ ३ औपशभिकादिभव्यत्वानां च ... .... १ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः .... ५ तदनन्तरमूवं गच्छत्यालोकान्तात् ..... ६. पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथागतिपरिणामाच २७५ ७ आविद्धकुलालचक्रवव्यपगतलेपालाबुवदेरण्डबीजवदमिशिखावश्च .
... .... २७५ ८ धार्मस्तिकायाभावात् ___.... .... २७६ .९ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानाव
गाहनान्तरसङ्ख्याल्पबहुत्वतः साध्याः .... २७६ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे दशमोऽध्यायः
Page #31
--------------------------------------------------------------------------
________________
ॐ नमः परमात्मने वीतरागा...
अथ श्रीपूज्यपादापरनामदेवनन्द्याचार्यविरचिता तत्त्वार्थवृत्तिः सर्वार्थसिद्धिः ॥ प्रथमोऽध्यायः ॥
मोक्षमार्गस्य नेतारं ।
भेत्तारं कर्मभूभृताम् ॥
ज्ञातारं विश्वतत्त्वानां | वन्दे तद्गुणलब्धये ॥ १ ॥
कश्चिद्भव्यः प्रत्यासन्ननिष्ठः प्रज्ञावान् स्वहितमुपलिप्सुर्विविक्ते परमरम्ये भव्यसत्त्वविश्रामास्पदे क्वचिदाश्रमपदे मुनिपरिषणमध्ये सन्निषण्णं मूर्त्तमिव मोक्षमार्गमवाग्विसर्ग वपुषा निरूपयन्तं युक्त्या - गमकुशलं परहितप्रतिपादनैककार्यमार्यनिषेव्यं निर्ग्रन्थाचार्यवर्यमुपसद्य सविनयं परिपृच्छति स्म । भगवन्, किं नु खलु आत्मने हितं स्यादिति ॥ स आह मोक्ष इति । स एव पुनः प्रत्याहकिं स्वरूपोऽसौ मोक्षः कश्चास्य प्राप्त्युपाय इति ॥ आचार्य आह— निरवशेषनिराकृतकर्ममलकलङ्कस्याशरीरस्यात्मनोऽचिन्त्यखा
भाविकज्ञानादिगुणमव्याबाधसुखमात्यन्तिकमवस्थान्तरं मोक्ष इति ॥ तस्यात्यन्तपरोक्षत्वाच्छद्मस्थाः प्रवादिनस्तीर्थकरम्मन्यास्तस्य स्वरूप - मस्पृशन्तीभिर्वाग्भिर्युक्त्याभासनिबन्धनाभिरन्यथा परिकल्पयन्ति 'चैत न्यं पुरुषस्य स्वरूपं तच्च ज्ञेयाकारपरिच्छेदपराङ्मुखमिति' तत्सदप्यसदेव, निराकारत्वात् खरविषाणवत् ॥ बुद्यादिवैशेषिकगुणो१ सांख्यः । २ बुद्धिसुखदुः खेच्छाद्वे प्रयत्नधर्माधर्म संस्काराः । एषामत्यन्तक्षये मोक्षमाह वैशेषिकः ।
,
Page #32
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः च्छेदः पुरुषस्य मोक्ष इति च । तदपि परिकल्पनमसदेव विशेषलक्षणशून्यस्यावस्तुत्वात् । प्रदीपनिर्वाणकल्पमात्मनिर्वाणमिति च । तस्य खरविषाणवत्कल्पना तैरेवाँहत्य निरूपिता । इत्येवमादि ॥ तस्य स्वरूपमनवद्यमुत्तरत्र वक्ष्यामः ॥ तत्प्राप्त्युपायं प्रत्यपि ते विसंवदन्ते- 'ज्ञानादेव चारित्रनिरपेक्षात्तत्प्राप्तिः, श्रद्धानमात्रादेव वा, ज्ञाननिरपेक्षाच्चारित्रमात्रादेवेति' च । व्याध्यभिभूतम्य तद्विनिवृत्त्युपायभूतभेषजविषयव्यस्तज्ञानादिसाधनत्वाभाववत् ॥ एवं व्यस्तं ज्ञानादि मोक्षप्राप्त्युपायो न भवति । किं तर्हि ? तत्रितयं समुदितमित्याह
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ सम्यगित्यव्युत्पन्नः शब्दो व्युत्पन्नो वा । अञ्चतेः क्वौ समञ्चतीति सम्यगिति । अस्यार्थः प्रशंसा । स प्रत्येक परिसमाप्यते । सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमिति । एतेषां खरूपं लक्षणतो विधानतश्च पुरस्ताद्विस्तरेण निर्देक्ष्यामः ॥ उद्देशमात्रं त्विदमुच्यते । पदार्थानां याथात्म्यप्रतिपत्तिविषयश्रद्धानसंग्रहार्थं दर्शनस्य सम्यग्विशेषणम् । येन येन प्रकारेण जीवादयः पदार्था व्यवस्थितास्तेन तेनावगमः सम्यग्ज्ञानम् । अनध्यवसायसंशयविपर्ययनिवृत्त्यर्थं सम्यग्विशेषणम् । संसारकारणनिवृत्तिं प्रत्यागूर्णस्य ज्ञानवतः कर्मादाननिमित्तक्रियोपरमः सम्यक्चारित्रम् । अज्ञानपूर्वकाचरणनिवृत्त्यर्थं सम्यग्विशेषणम् ॥ खयं पश्यति
१ वुद्धयादय एव जीवस्य विशेषलक्षणानि । तदभावे लक्ष्यस्य सुतराम भावसिद्धेः । २ बैद्धा.। ३ गत्यन्तराभावात् । ४ अन्ते । ५ सम्यग्दर्शनस्य स्वनन्तरमेव । ज्ञानस्यापि प्रथमाध्याये एव नवमसूत्रात् प्रभृति । चारित्रस्य च सप्तमनवमाध्याययोर्मध्ये । ६ एते त्रयो मिथ्याज्ञानरूपा यतः । तत एव च मोक्षसाधने नोपयुज्यन्ते। ७ उद्यतस्य । ८ कर्तृसाधनमेतत् ।
Page #33
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
"
11
"
दृश्यतेऽनेनेति दृष्टिमत्रं वा दर्शनम् ॥ जानाति ज्ञायतेऽनेन ज्ञप्तिमात्रं वा ज्ञानम् ॥ चरति चर्यतेऽनेन चरणमात्रं वा चारित्रम् ॥ नन्वेवं स एव कर्त्ता स एव करणमित्यायातम् । तच्च विरुद्धम् । सत्यं स्वपरिणामपरिणामिनोर्भेदविवक्षायां तथा ऽभिधानात् । यथाऽग्निर्दहतीन्धनं दाहपरिणामेन ॥ उक्तः कर्त्रा - दिभिः साधनभावः पर्यायपर्यायिणोरेकत्वानेकत्वं प्रत्यनेकान्तोपपत्तौ स्वातन्त्र्यपारतन्त्र्यविवक्षोपपत्तेरेकस्मिन्नप्यर्थं न विरुध्यते । अग्नौ दहनादिक्रियायाः कर्त्रादिसाधनभाववत् ॥ ज्ञानग्रहणमादौ न्याय्यं दर्शनस्य तत्पूर्वकत्वात् अल्पाच्तरत्वाच्च नैतद्युक्तं युगपदुत्पत्तेः ॥ यदाऽस्य दर्शनमोहस्योपशमात्क्षयात्क्षयोपशमाद्वा आत्मा सम्यग्दर्शनपर्यायेणाविर्भवति तदैव तस्य मत्यज्ञानश्रुताज्ञाननिवृत्तिपूर्वकं मतिज्ञानं श्रुतज्ञानं चाविर्भवति । घनपटलविगमे सवितुः प्रतापप्रकाशाभिव्यक्तिवत् ॥ अल्पाच्तरादभ्यर्हितं पूर्वं निपतति । कथमभ्यर्हितत्वं ज्ञानस्य : सम्यग्व्यपदेशहेतुत्वात् ॥ चारित्रात्पूर्वं ज्ञानं प्रयुक्तं, तत्पूर्वकत्वाच्चारित्रस्य ॥ सर्वकर्मविप्रमोक्षो मोक्षः तत्प्राप्युपायो मार्गः । मार्ग इति चैकवचननिर्देशः समस्तस्य मार्गभावज्ञापनार्थः । तेन व्यस्तस्य मार्गत्वनिवृत्तिः कृता भवति । अतः सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमित्येतत्रितयं समुदितं मोक्षस्य साक्षान्मार्गों वेदितव्यः ॥
१ करणे । २ भावे । ३ अभेदवतोऽपि भेदेन कथनात् । ४ साधनभावः साधनता। ५ तदा मत्यज्ञानश्रुताज्ञानयोरभावो भवति सम्यकच ते उत्पयेते इति नास्ति भावः । तर्हि ? ते एव मिथ्यामतिश्रुते सम्यक्त्वेन विपरिणभेते इति । ज्ञानस्य प्रादुर्भावस्तु सदा ज्ञानावरणक्षयोपशमकारणक एव अत एव श्रुतं मतिपूर्वमित्यत्र वक्ष्यते यत् सम्यक्त्वस्य तदपेक्षत्वादिति 1 ६ दर्शनस्य तत्पूर्वकत्वादिति प्रथमहेतुं निरस्य द्वितीयहेतुं दूषयन्ति । क्रमस्य सिद्धिः ।
6
७ इति
Page #34
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धि. तत्रादावुद्दिष्टस्य सम्यग्दर्शनम्य लक्षणनिर्देशार्थमिदमुच्यते
॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ . तत्त्वशब्दो भावसामान्यवाची । कथम् ? तदिति सर्वनामपदम् । सर्वनाम च सामान्ये वर्तते । तस्य भावस्तत्त्वम् ॥ तस्य कस्य? योऽर्थो यथावस्थितस्तथा तस्य भवनमित्यर्थः ॥ अर्यत इत्यर्थो निश्चीयत इत्यर्थः । तत्वेनार्थस्तत्त्वार्थः ॥ अथवा भावेन भाववतोऽभिधानं, तदव्यतिरेकात् । तत्त्वमेवार्थस्तत्त्वार्थः । तत्त्वार्थस्य श्रद्धानं तत्त्वार्थश्रद्धानं, सम्यग्दर्शनं प्रत्येतव्यम् । तत्वार्थश्च वक्ष्यमाणो जीवादिः ॥ दृशेरालोकार्थत्वात् । श्रद्धानार्थगति पपद्यते । धातूनामनेकार्थत्वाददोषः । प्रसिद्धार्थत्यागः कुत इति चेन्मोक्षमार्गप्रकरणात् ॥ तत्त्वार्थश्रद्धानं ह्यात्मपरिणामो मोक्षम्य साधनं युज्यते, भव्यजीवविषयत्वात् ॥ आलोकस्तु चक्षुरादिनिमित्तः सर्वसंसारिजीवसाधारणत्वान्न मोक्षमार्गो युक्तः ॥ अर्थश्रद्धानमिति चेत्सर्वार्थग्रहणप्रसङ्गः । तत्त्वश्रद्धानमिति चेद्भावमात्रप्रसङ्गः । सत्ताद्रव्यत्वगुणत्वकर्मत्वादि तत्त्वमिति कैश्चित्कल्प्यत इति ॥ तत्त्वमेकत्त्वमिति वा सर्वैक्यग्रहणप्रसङ्गः । पुरुष एवेदं सर्वमित्यादि कैश्चित्कल्प्यत इति । तस्मादव्यभिचारार्थमुभयोरुपादानम् ॥ तत् द्विविधं, सरागवीतरागविषयभेदात् ॥ प्रशमसंवेगानुकम्पास्तिक्याद्यभिव्यक्तिलक्षणं प्रथमम् । आत्मविशुद्धिमात्रमितरत् ॥
१ सर्वेषां नाम ( भवितुमर्हति ) सर्वनाम इत्यन्वर्थसंज्ञाकरणात् । २ इति ६ ' शब्दस्य सिद्धिः। ३ इति ' अर्थ ' शब्दस्य वाच्यार्थी भवति । ४ अत्र नन्वित्याशङ्कार्थकः शब्दोऽध्याहार्यः। ५ वैशेषिकैः । ६ कैश्चिदिति पूर्वेस्य संबन्धः । ते च वैवासा वेदान्तिनः । पूर्वोक्तस्येव स्पष्टीकरणम् । ८ इति पूर्वविवरणस्य स्पष्टीकरणम् ।
Page #35
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
अथै तत्सम्यग्दर्शनं जीवादिपदार्थविषयं कथमुत्पद्यत इत्यत आह॥ तन्निसर्गादधिगमाद्वा ॥ ३ ॥
कथमनवबुद्ध
निसर्गः स्वभाव इत्यर्थः । अधिगमोऽर्थावबोधः । तयो - हेतुत्वेन निर्देशः ॥ कस्याः ? क्रियायाः । का च क्रिया । उत्पद्यत इत्यध्याहियते, सोपस्कारत्वात् सूत्राणाम् ॥ तदेतत्सम्यग्दर्शनं निसर्गादधिगमाद्वोत्पद्यत इति ॥ अत्राह - निसर्गजे सम्यग्दर्शनेऽर्थाधिगमः स्याद्वा न वा ? यद्यस्ति, तदपि अधिगमजमेव, नार्थान्तरम् । अथ नास्ति, तत्त्वस्यार्थश्रद्धानमिति नैष दोषः । उभयत्र सम्यग्दर्शने अन्तरङ्गो हेतुस्तुल्यो दर्शनमोहस्योपशमः क्षयः क्षयोपशमो वा । तस्मिन्सति यद्वाह्योपदेशादृते प्रादुर्भवति तन्नैसर्गिकम् । यत्परोपदेशपूर्वकं जीवाद्यधिगमनिमित्तं स्यात् तदुत्तरम् । इत्यनयोरयं भेदः ॥ तद्गृहणं किमर्थम् अनन्तरनिर्देशार्थम् । अनन्तरं सम्यग्दर्शनं तदित्यनेन प्रतिनिर्दिश्यते । इतरथा मोक्षमार्गोऽपि प्रकृतस्तस्याभिसम्बन्धः स्यात् ॥ ननु च अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा- इत्यनन्तरस्य सम्यग्दर्शनस्य ग्रहणं सिद्धमिति चेन्न, ' प्रत्यासत्तेः प्रधानं बलीय ' इति मोक्षमार्ग एव सम्बध्येत । तस्मात्तद्वचनं क्रियते ॥
4
"
तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम् । अथ किं तत्त्वमित्यत
इदमाह
॥ जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥४॥ तत्र चेतनालक्षणो जीवः । सा च ज्ञानादिभेदादनेकधा भिद्यते । तद्विपर्ययलक्षणोऽजीवः । शुभाशुभकर्मागमद्वाररूप आस्रवः । आत्मकर्मणोरन्योऽन्यप्रदेशानुप्रवेशात्मको बन्धः ।
Page #36
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिःआस्रवनिरोधलक्षणः संवरः । एकदेशकर्मसंक्षयलक्षणा निर्जरा । कृत्स्नकर्मविप्रयोगलक्षणो मोक्षः ॥ एषां प्रपञ्च उत्तरत्र वक्ष्यते ॥ सर्वस्य फलस्यात्माधीनत्वादादौ जीवग्रहणम् । तदुपकारार्थत्वातदनन्तरमजीवाभिधानम् । तदुभयविषयत्वात्तदनन्तरमास्रवग्रहणम् । तत्पूर्वकत्वात्तदनन्तरं बन्धाभिधानम् । संवृतस्य बन्धाभावात्तप्रत्यनीकप्रतिपत्त्यर्थं तदनन्तरं संवरवचनम् । संवरे सति निर्जरोपपत्तेस्तदन्तिके निर्जरावचनम् । अन्ते प्राप्यत्वान्मोक्षस्यान्ते वचनम् ॥ इह पुण्यपापग्रहणं च कर्त्तव्यं, नव पदार्था इत्यन्यैरप्युक्तत्वात् ॥ न कर्त्तव्यं, तयोरास्रवे बन्धे चान्तर्भावात् ॥ यद्येवमास्रवादिग्रहणमनर्थकं, जीवाजीवयोरन्तर्भावात् ॥ नानर्थकम् । इह मोक्षः प्रकृतः । सोऽवश्यं निर्देष्टव्यः । स च संसारपूर्वकः । संसारस्य प्रधानहेतुरास्रवो बन्धश्च । मोक्षस्य प्रधानहेतुः संवरो निर्जरा च । अतः प्रधानहेतुहेतुमत्फलनिदर्शनार्थत्वात्पृथगुपदेशः कृतः ॥ दृश्यते हि सामान्येऽन्तर्भूतस्यापि विशेषस्य यथोपयोगं पृथगुपादानं प्रयोजनार्थम् । क्षत्रिया आयाताः सुरवर्माऽपीति ॥ तत्त्वशब्दो भाववाचीत्युक्तः । स कथं जीवादिभिर्द्रव्यवचनैः सामानाधिकरण्यं प्रतिपद्यते ? अव्यतिरेकात्तद्भावाध्यारोपाच्च सामानाधिकरण्यं भवति । यथा उपयोग एवात्मेति ॥ यद्येवं तत्तल्लिङ्गसङ्ख्यानुवृत्तिः प्राप्नोति । विशेषणविशेष्यसम्बन्धे सत्यपि शब्दशक्तिव्यपेक्षया उपात्तलिङ्गसङ्ख्याव्यतिक्रमो न भवति ॥ अयं क्रम आदिसूत्रेऽपि योज्यः ॥
१ क्रमेण आद्यचतुरध्याय्यां जीवसंबन्धः , पञ्चमेऽजीवः, षष्ठसप्तमयारात्रवः, अष्टमे बन्धो नवमे संवरे निर्जरा च, दशमेऽध्याये मोक्ष इति सप्ततत्त्वं वर्णित. मास्ते । २ कुन्दकुन्दाथैः ।
Page #37
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
एवमेषामुद्दिष्टानां सम्यग्दर्शनादीनां जीवादीनां च संव्यवहारविशेषव्यभिचारनिवृत्त्यर्थमाह--
॥ नामस्थापनाद्रव्यभावतस्तन्न्यासः॥ ५॥
अतद्गुणे वस्तुनि संव्यवहारार्थं पुरुषांकारान्नियुज्यमानं संज्ञाकर्म नाम । काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु सोऽयमिति स्थाप्यमाना स्थापना । गुणैद्रीप्यते गुणान्द्रोप्यतीति वा द्रव्यम् । वर्तमानतत्पर्यायोपलक्षितं द्रव्यं भावः ॥ तद्यथा- नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति चतुर्धा जीवशब्दार्थो न्यस्यते ॥ जीवनगुणमनपेक्ष्य यस्य कस्यचिन्नाम क्रियमाणं नामजीवः ॥ अक्षनिक्षेपादिषु जीव इति वा मनुष्यजीव इति वा व्यवस्थाप्यमानः स्थापनाजीवः ॥ द्रव्यजीवो द्विविधः । आगमद्रव्यजीवः नोआगमद्रव्यजीवश्चेति ॥ तत्र जीवप्राभृतज्ञायी मनुष्यजीवप्राभृतज्ञायी वा अनुपयुक्त आत्मा आगमद्रव्यजीवः ॥ नोआगमद्रव्यजीवस्त्रेधा व्यवतिष्ठते । ज्ञायकशरीर-भावि--तद्व्यतिरिक्तभेदात् । तत्र ज्ञातुर्यच्छरीरं त्रिकालगोचरं तज् ज्ञायकशरीरम् । सामान्यापेक्षया नोआगमभाविजीवो नास्ति, जीवनसामान्यस्य सदाऽपि विद्यमानत्वात् । विशेषापेक्षया त्वस्ति गत्यन्तरे । जीवो व्यवस्थितो मनुष्यभवप्राप्ति प्रत्यभिमुखो मनुष्यभाविजीवः ॥ तद्व्यतिरिक्तः कर्मनोकर्मविकल्पः ।। भावजीवो द्विविधः । आगमभावजीवो नोआगमभावजीवश्चेति । तत्र जीवप्राभृतविषयोपयोगाविष्टो मनुष्यजीवप्राभृतविषयोपयोगयुक्तो वा आत्मा आगमभावजीवः । जीवन पर्यायेण मनुप्यजीवत्व
१ हठात् ॥ २ गुणेर्गुणान्वः द्रुतं गतं प्राप्तमिति द्रव्यामत्यप्यधिकः पाठः पुस्तकान्तरे दृश्यते ॥ ३ औदारिकवक्रियिकाहारकशरीरत्रयस्य षट्पर्याप्तीनां च योग्यपुद्गलानामादानं नोकः ॥
Page #38
--------------------------------------------------------------------------
________________
सर्वार्थासद्धिः पर्यायेण वा समाविष्ट आत्मा नोआगमभावजीवः ॥ एवमितरेषामपि पदार्थानामजीवादीनां नामादिनिक्षेपविधिनियोज्यः । स किमर्थः ? अप्रकृतनिराकरणाय प्रकृतनिरूपणाय च । निक्षेपविधिना नामशब्दार्थः प्रस्तीर्यते ॥ तच्छब्दग्रहणं किमर्थम् ? सर्वसङ्ग्रहार्थम् । असति हि तच्छब्दे सम्यग्दर्शनादीनां प्रधानानामेव न्यासेनाभिसम्बन्धः स्यात्, तद्विषयभावेनोपगृहीतानामप्रधानानां जीवादीनां न स्यात् । तच्छन्दग्रहणे पुनः क्रियमाणे सति सामर्थ्यात्प्रधानानामप्रधानानां च ग्रहणं सिद्धं भवति ॥
एवं नामादिभिः प्रस्तीर्णानामधिकृतानां तत्त्वाधिगमः कुतः ? इत्यत इदमुच्यते---
॥ प्रमाणनयैरधिगमः ॥ ६॥ ..
नामादिनिक्षेपविधिनोपक्षिप्तानां जीवादीनां तत्त्वं प्रमाणेभ्यो नयैश्चाधिगम्यते ॥ प्रमाणनया वक्ष्यमाणलक्षणविकल्पाः । तत्र प्रमाणं द्विविधं, स्वार्थ परार्थं च । तत्र स्वार्थं प्रमाणं श्रुतवर्ण्यम् । श्रुतं पुनः स्वार्थ भवति परार्थं च ॥ ज्ञानात्मकं स्वार्थं वचनात्मकं परार्थम् ॥ तद्विकल्पा नयाः ॥ अत्राह- नयशब्दम्य अल्पाच्तरत्वात्पूर्वनिपातः प्राप्नोति ? नैष दोषः । अभ्यर्हितत्वात्प्रमाणस्य तत्पूर्वनिपातः । अभ्यर्हितत्वं च सर्वतो बलीयः । कुतोऽभ्यर्हितत्वम् ! नयप्ररूपणप्रभवयोनित्वात् ॥ एवं ह्युक्तं, प्रगृह्य प्रमाणतः परिणतिविशेषादर्थावधारणं नय इति । सकलविषयत्वाच्च प्रमाणम्य ।। तथा चोक्तं । " सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीन इति " ॥ नयो द्विविधः । द्रव्यार्थिकः पर्यायार्थिकश्च । पर्यायार्थिकनयेन पर्यायतत्त्वमधिगन्तव्यम् । इतरेषां नामस्थापनाद्रव्याणां द्रव्यार्थि
Page #39
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
कनयेन, सामान्यात्मकत्वात् ॥ द्रव्यमर्थः प्रयोजनमस्येत्यसौ द्रव्यार्थिकः । पर्यायोऽर्थः प्रयोजनमस्येत्यसौ पर्यायार्थिकः ॥ तत्सर्वं समुदितं प्रमाणेनाधिगन्तव्यम् ॥ ___ एवं प्रमाणनयैरधिगतानां जीवादीनां पुनरप्यधिगमोपायान्तरप्रदर्शनार्थमाह -- ॥निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः॥७॥
निर्देशः स्वरूपाभिधानम् । स्वामित्वमाधिपत्यम् । साधनमुत्पत्तिनिमित्तम् । अधिकरणमधिष्ठानम् । स्थितिः कालपरिच्छेदः । विधानं प्रकारः ॥ [१] तत्र सम्यग्दर्शनं किमिति प्रश्ने तत्त्वार्थश्रद्धानमिति निर्देशो नामादिर्वा ॥ [ २ ] सम्यग्दर्शनं कस्येत्युक्ते, सामान्येन जीवस्य ॥ विशेषेणै— गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु नारकाणां पर्याप्तकानामौपशमिकं क्षायोपशामकं चास्ति । प्रर्थमायां पृथिव्यां पर्याप्तापर्याप्तकानां क्षायिक क्षायोपशमिकं चास्ति ॥ तिर्यग्गतौ तिरश्चां पर्याप्तकानामौपशमिकमस्ति । क्षायिकं क्षायोपशामिकं
-
१ नामस्थापनाद्रव्यभावा वा निर्देश उच्यते इत्यर्थः ॥ २ सामान्येन सम्यग्दर्शनस्य स्वामी जीवो भवतीति स्वामित्वमुच्यते। ३ विशेषेण तु चतुर्दशमार्गणानुवादेन स्वामित्वमुच्यते ॥ ४ अत्र श्लोकाः ॥ प्रथमायां त्रितयं स्यात्पर्याप्तानां द्वयं तदितरेषाम् । अशमजमितरास्वपि वा क्षयजं पर्याप्तकानां तु ॥ १ ॥ पर्याप्तानां त्रितयं वयं तिरवामशान्तमितरेषाम् । क्षायिकवज्यं द्वितयं पर्याप्त स्वेव तत्स्त्रीषु ॥ २ ॥ नृणां पर्याप्तानां त्रयमितरेषां द्वयं तु शमवयम् । त्रयमपि नारीषु स्यात्पर्याप्तास्वेव नान्यासु ॥ ३ ॥ पर्याप्तापर्याप्तकदेवेषु त्रितयमस्ति सम्यक्त्वम् । देवेष्वकल्पजेषु पर्याप्तेष्वक्षय जमेव ॥ ४ ॥ क्षायिकम वरतदृष्टेिप्रभृतिषु सम्भवति वेदकं तु पुनः । अस्त्य रमादकान्तेष्वौपशमं चोपशान्तान्तम् ॥ ५॥ इत्य. प्यधिकः पाठः पुस्त कान्तरे विद्यते ॥
Page #40
--------------------------------------------------------------------------
________________
१०
सर्वार्थसिद्धिः
च पर्याप्तापर्याप्तकानामस्ति ॥ तिरश्चीनां क्षायिकं नास्ति । कु इत्युक्ते मनुष्यः कर्मभूमिज एव दर्शनमोहक्षपणप्रारम्भको भवति । क्षपणप्रारम्भकालात्पूर्वं तिर्यक्षु बद्धायुष्कोऽपि उत्कृष्टभोगभूमितिर्यक्पुरुषेष्वेवोत्पद्यते । न तिर्यक्स्त्रीषु । द्रव्यवेदस्त्रीणां तासां क्षायिकासम्भवात् । एवं तिरश्चामप्यपर्याप्तकानां क्षायोपशमिकं ज्ञेयम् । न पर्याप्तकानाम् || औपशमिकं क्षायोपशमिकं च पर्याप्तिकानामेव नापर्याप्तिकानाम् ॥ मनुष्यगतौ मनुष्याणां पर्यातापर्याप्तकानां क्षायिकं क्षायोपशमिकं चास्ति । औपशमिकं पर्यासकानामेव नापर्याप्तकानाम् ॥ मानुषीणां त्रितयमप्यस्ति पर्याप्तिकानामेव नापर्याप्तिकानाम् । क्षायिकं पुनर्भाववेदेनैव ॥ देवगतौ सामान्येन देवानां पर्याप्तापर्याप्तकानां त्रितयमप्यस्ति । औपशमिकमपर्याप्तकानां कथमिति चेच्चारित्रमोहोपशमेन सह मृतान्प्रति ॥ विशेषेण भवनवासिव्यन्तरज्योतिष्काणां देवानां देवीनां च सौधर्मैशानकल्पवासिनीनां च क्षायिकं नास्ति । तेषां पर्याप्तकानामौपशमिकं क्षायोपशमिकं चास्ति ॥ १ ॥ इन्द्रियानुवादेन पञ्चेन्द्रियाणां संज्ञिनां त्रितयमप्यस्ति, नेतरषाम् ॥२॥ कायानुवादेन त्रसकायिकानां त्रितयमप्यस्ति, नेतरेषाम् ॥ ३ ॥ योगानुवादेन त्रयाणां योगिनां त्रितयमप्यस्ति । अयोगिनां क्षायिकमेव ॥ ४ ॥ वेदानुवादेन त्रिवेदानां त्रितयमप्यस्ति । अपगतवेदानामौपशमिकं क्षायिकं चास्ति ॥ ५ ॥ कषायानुवादेन चतुष्कषायाणां त्रितयमप्यस्ति । अकषायाणामौ पशमिकं क्षायिकं चास्ति || ६ || ज्ञानानुवादेन आभिनिबोधिक श्रुतावधिमनःपर्ययज्ञानिनां त्रितयमप्यस्ति । केवलज्ञानिनां क्षायिकमेव ॥ ७ ॥ संयमानुवादेन सामायिकच्छेदोपस्थापनसंयतानां त्रितयमप्यस्ति । परिहारविशुद्धिसंयतानामौपशामिकं नास्ति । इतरत् द्वितयमप्यस्ति ।
।
I
Page #41
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः सूक्ष्मसाम्पराययथाख्यातसंयतानामौपशमिकं क्षायिकं चास्ति । संयतासंयतानां च त्रितयमप्यस्ति ॥ ८ ॥ दर्शनानुवादेन चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनिनां त्रितयमप्यस्ति । केवलदर्शनिनां क्षायिकमेव ॥ ९ ॥ लेश्यानुवादेन षड्लेश्यानां त्रितयमप्यस्ति । अलेश्यानां क्षायिकमेव ॥ १० ॥ भव्यानुवादेन भव्यानां त्रितयमप्यस्ति, नाभव्यानाम् ॥ ११ ॥ सम्यक्त्वानुवादेन यत्र यत्सम्यग्दर्शनं तत्र तदेव ज्ञेयम् ॥ १२ ॥ संज्ञानुवादेन संज्ञिनां त्रितयमप्यस्ति । नासंज्ञिनाम् । तदुभयव्यपदेशरहितानां क्षायिकमेव ॥ १३ ॥ आहारानुवादेन आहारकाणां त्रितयमप्यस्ति । अनाहारकाणां छद्मस्थानां त्रितयमप्यस्ति ॥ केवलिनां समुद्घातगतानां क्षायिकमेव ॥ १४ ॥ [ ३ ] साधनं द्विविधम्आभ्यन्तरं बाह्यं च ॥ आभ्यन्तरं दर्शनमोहस्योपशमः क्षयः क्षयोपशमो वा । बाह्यं नारकाणां प्राक्चतुर्थ्याः सम्यग्दर्शनस्य साधनं केषाञ्चिजातिम्मरणं केषाञ्चिद्धर्मश्रवणं केषाञ्चिद्वेदनाभिभवः ॥ चतुर्थीमारभ्य आ सप्तम्या नारकाणां जातिस्मरणं वेदनाभिभवश्च ॥ तिरश्चां केपाञ्चिजातिस्मरणं केषाञ्चिद्धर्मश्रवणं केषाञ्चिज्जिनबिम्बदर्शनम् ॥ मनुष्याणामपि तथैव ॥ देवानां केषांचिज्जातिस्मरणं केषाञ्चिद्धर्मश्रवणं केषाञ्चिज्जिनमहिमदर्शनं केषाञ्चिद्देवद्धिदर्शनम् ॥ एवं प्रागानतात् ॥ आनतप्राणतारणाच्युतदेवानां देवद्धिदर्शनं मुक्त्वाऽन्यत्रितयमप्यस्ति । नवग्रैवेयकवासिनां केषांचिज्जातिस्मरणं केषाञ्चिद्धर्मश्रवणम् ॥ अनुदिशानुत्तरविमानवासिनामियं कल्पना न सम्भवति । प्रागेव गृहीतसम्यक्त्वानां
१ धर्मश्रीतजातिस्मृतिसुरद्धिजिनमहिमदर्शनं बाह्यम् ॥ प्रथमदृशोऽगं विना सुर क्षयाऽऽनतादिभुवाम् ॥ १॥ वेयकिणां पूर्व द्वे सजिनार्चक्षणे नरतिरश्चाम्॥ सरुगभिभवे त्रिषु प्राक श्वश्रेष्वन्येषु सद्वितीया सा ॥ २ ॥
Page #42
--------------------------------------------------------------------------
________________
१२
सर्वार्थसिद्धिः
तत्रोत्पत्तेः ॥ [ ४ ] अधिकरण द्विविधम् । आभ्यन्तरं बाह्यं च ॥ आभ्यन्तरं स्वस्वामिसम्बन्धार्ह एव आत्मा, विवक्षातः : कारकप्रवृत्तेः ॥ बाह्यं लोकनाडी । सा कियती ? । एकरज्जुवि - ष्कम्भा चतुर्दशरज्ज्वायामा ॥[५] स्थितिरौपशमिकस्य जघन्योत्कृष्टा चान्तर्मौहूर्तिकी । क्षायिकस्य संसारिणो जघन्यान्तर्मौहूर्तिकी । उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि सान्तर्मुहूर्त्ताष्टवर्षहीनपूर्वकोटिद्वयाधिकानि । मुक्तस्य सादिरपर्यवसाना । क्षायोपशमिकस्य जघन्याऽन्तर्मौहूर्तिकी । उत्कृष्टा पट्षष्टिसागरोपमाणि ॥ [६] विधानं सामान्यादेकं सम्यग्दर्शनम् । द्वितयं निसर्गजाधिगमजभेदात् । एवं सख्येया विकल्पः शब्दतः ॥ असख्येया अनन्ताश्च भवन्ति श्रद्धातृश्रद्धातव्यभेदात् ॥ एवमयं निर्देशादिविधिर्ज्ञानचारित्रयोर्जीवाजीवादिषु चागमानुसारेण योज -
यितव्यः ॥
१ आज्ञा मार्गसमुद्भवमुपदेशात्सूत्रबीज सङ्क्षेपात् ॥ विस्तारार्थाभ्यां भवमवपरमावादिगाढं च ॥ १ ॥ इति दशविधम् ॥ अस्या आर्यांया विवरणार्थं वृत्तत्रयमाह ॥ तथाहि ॥ स्रग्धरा ॥ आज्ञासम्यक्त्वमुक्तं यदुत विरुचितं वीतरागाज्ञयैव । त्यक्तग्रन्थप्रपञ्चं शिवममृतपथं श्रद्दषन्मोहशान्तेः ॥ मार्गश्रद्वा • नमाहुः पुरुषवरपुराणोपदेशेोपयाता । या संज्ञानागमाब्धिप्रसृतिभिरुपदेशादिरादेशि दृष्टिः॥ १ ॥ आकर्म्याचारसूत्रं मुनिवरणविधेः सूचनं श्रद्दधानः । सूक्तो - Sसौ सूत्र दृष्टिदुरधिगमगतेरर्थसार्थस्य बीजैः ॥ कैश्विज्जातोपलब्धैरसम रामवशाद्बजिदृष्टिः पदार्थान् । सङ्क्षेपेणैव बुध्वा रुचिमुपगतवान् साधुसङ्क्षेपदृष्टिः ॥ २ ॥ यः श्रुत्वा द्वादशाङ्गी कृतरुचिरिह तं विद्धि विस्तारदृाष्ठम् । सञ्जातार्थात्कुतश्चित्प्रवचनवचनान्यन्तरेणार्थदृष्टिः ॥ दृष्टिः साङ्गाङ्गबाह्य प्रवचनमवगाह्योत्थिता यावगाढा | कैवल्यालोकिताथै रुचिरिह परमावादिगाढेति रूढा ॥३॥ इति श्रीगुणभद्रभदन्त नात्मानुशासनप्रारम्भे उक्तम् । एवं सङ्खधेयविकल्पाः सम्यग्दर्शनप्ररूपकशब्दानां सङ्ख्यातत्वात् ॥
Page #43
--------------------------------------------------------------------------
________________
१३
प्रथमोऽध्यायः
किमेतेरेव जीवादीनामधिगमो भवति उत अन्योऽप्यधिगमोपायोऽस्तीति परिपृष्टोऽस्तीत्याह॥सत्संख्याक्षेत्रस्पर्शन कालान्तरभावाल्पबहुत्वैश्च ॥ ॥
सदित्यस्तित्वनिर्देशः । प्रेशंसादिषु वर्तमानो नेह गृह्यते । सङ्ख्या भेदगणना । क्षेत्रं निवासो वर्तमानकालविषयः । तदेव स्पर्शनं त्रिकालगोचरम् । कालो द्विविधः । मुख्यो व्यावहारिकश्च । तयोरुत्तरत्र निर्णयो वक्ष्यते । अन्तरं विरहकालः । भावः औपशमिकादिलक्षणः । अल्पबहुत्वमन्योऽन्यापेक्षया विशेषप्रतिपत्तिः ॥ एतैश्च सम्यग्दर्शनादीनां जीवादीनां चाधिगमो वेदि - तव्यः ॥ ननु च " निर्देशादेव सद्ग्रहणं सिद्धम् । विधानग्रहणात्सङ्ख्यागतिः । अधिकरणग्रहणात्क्षेत्रस्पर्शनावबोधः । स्थितिग्रहणात्कालसङ्ग्रहः । भावो नामादिषु सङ्ग्रहीत एव । पुनरेषां किमर्थं ग्रहणमिति " ॥ सत्यं सिद्धम् । विनेयाशयवशात्तत्त्वदेशनाविकल्पः ॥ केचित्सङ्क्षेपरुचयः । अपरे नातिसङ्क्षेपेण नातिविस्तरेण प्रतिपाद्याः || सर्वसत्त्वानुग्रहार्थो हि सतां प्रयास इति अधिगमाभ्युपायभेदोद्देशः कृतः । इतरथा हि " प्रमाणनयैरेधिगमः " इत्यनेनैव सिद्धत्वादितरेषां ग्रहणमनर्थकं स्यात् ॥ तत्र जीवद्रव्यमधिकृत्य सदाद्यनुयोगद्वौ र निरूपणं क्रियते ॥ जीवाश्चतुर्दशसु गुणस्थानेषु व्यवस्थिताः || १ मिथ्यादृष्टिः । २ सासादनसम्यग्दृष्टिः । ३ सम्यङ्मिथ्यादृष्टिः । ४ असंयत सम्यग्दृष्टिः । ५ संयतासंयतः । ६ प्रमत्तसंयतः ।
१ साध्वचितप्रशस्तेषु सत्येऽस्तित्वे च सम्मतः । इति वचनात् ॥ २ नामादयस्त्रयो द्रव्यार्थिकनयविषयाः । भवः पर्यायार्थिकन यविषयो यतः ॥ प्रवेशमार्ग : ।
३
Page #44
--------------------------------------------------------------------------
________________
१४
सर्वार्थसिद्धिः
७ अप्रमत्तसंयतः । ८ अपूर्वकरणस्थाने उपशमकः क्षपकः । ९ अनिवृत्तिबादरसाम्परायस्थाने उपशपकः क्षपकः । १० सूक्ष्मसाम्परायस्थाने उपशमकः क्षपकः । ११ उपशान्तकषायवीतरागछद्मस्थः । १२ क्षीणकषायवीतरागछद्मस्थः । १३ सयोगकेवली । १४ अयोगकेवली चेति ॥ एतेषामेव जीवसमासानां निरूपणार्थं चतुर्दशमार्गणास्थानानि ज्ञेयानि ॥ गती--न्द्रिय -- काय--योग-- वेद -- कषाय- ज्ञान -- संयम-- दर्शन - लेश्या --भव्य- सम्यक्त्व - संज्ञा - SSहारका इति ॥ तत्र सत्प्ररूपणा द्विविधा, सामान्येन विशेषेण च ॥ सामान्येन तावत् अस्ति मिथ्यादृष्टिः । अस्ति सासादनसम्यग्दृष्टिरित्येवमादि ॥ विशेषेण - गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु आद्यानि चत्वारि गुणस्थानानि सन्ति । तिर्यग्गतौ तान्येव संयतासंयतस्थानाधिकानि सन्ति । मनुष्यगतौ चतुर्दशापि सन्ति । देवगतौ नारकवत् ॥ इन्द्रियानुवादेन एकेद्रियादिषु चतुरिन्द्रियपर्यन्तेषु एकमेव मिथ्यादृष्टिस्थानम् । पञ्चेन्द्रियेषु चतुर्दशापि सन्ति ॥ कायानुवादेन पृथिवीकायादिषु वनस्पतिकायान्तेषु एकमेव मिथ्यादृष्टिस्थानम् ॥ त्रसकायेषु चतुर्दशापि सन्ति ॥ योगानुवादेन त्रिषु योगेषु त्रयोदशगुणस्थानानि भवन्ति । ततः परः अयोगकेवली ॥ वेदानुवादेन त्रिषु वेदेषु मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानि सन्ति । अपगतवेदेषु अनिवृत्तिबादद्ययोग केवल्यन्तानि ॥ कषायानुवा
१ जीवाः सम्यगासते येष्विति जीवसमासाः ॥ २ चतुर्दशगुणस्थानेषु वक्तव्यम् ॥ ३ अत्र अनिवृत्तिकरणसवेदभागो ग्राह्यः ॥ ४ अत्रावेदभागानिवृत्तिकरण गुणस्थानं ग्राह्यम् ॥ ( १ ) सम्यग्मिथ्यादृष्टेः टिप्पणकारकाभिप्रायेण ज्ञातव्यम् ॥ इत्यप्यधिकः पाठः पुस्तकान्तरे दृश्यते ॥
[ सम्य मिथ्यादृष्टे : ज्ञानमज्ञानं च केवलं न सम्भवति । तस्याज्ञानत्रयाधारत्वात् । उक्तं च " मिस्से णाणत्तियमिस्सं अण्णाणत्तियेणेति ” तेन ज्ञाना
Page #45
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः देन क्रोधमानमायासु मिथ्यादृष्ट्यादीनि अनिवृत्तिबादरस्थानान्तानि सन्ति । लोभकषाये तान्येव सूक्ष्मसाम्परायस्थानाधिकानि । अकपायः उपशान्तकषायः क्षीणकषायः सयोगकेवली अयोगकेवली च ॥ ज्ञानानुवादेन मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु मिथ्यादृष्टिः सासादनसम्यग्दृष्टिश्चास्ति । ( १ ) आभिनिबोधिकश्रुतावधिज्ञानेषु असंयतसम्यग्दृष्ट्यादीनि क्षीणकषायान्तानि सन्ति । मनःपर्ययज्ञाने प्रमत्तसंयतादयः क्षीणकषायान्ताः सन्ति । केवलज्ञाने सयोगोऽयोगश्च ॥ संयमानुवादेन संयताः प्रमत्तादयोऽयोगकेवल्यन्ताः । सामायिकच्छेदोपस्थापनाशुद्धिसंयताः प्रमत्तादयोऽनिवृत्तिस्थानान्ताः । परिहारविशुद्धिसंयताः प्रमत्ताप्रमत्ताश्च । सूक्ष्मसाम्परायशुद्धिसंयता एकस्मिन्नेव सूक्ष्मसाम्परायस्थाने । यथाख्यातविहारशुद्धिसंयता उपशान्तकषायादयोऽयोगकेवल्यन्ताः । संयतासंयता एकस्मिन्नेव संयतासंयतस्थाने । असंयता आयेषु चतुर्पु गुणस्थानेषु ॥ दर्शनानुवादेन चक्षुर्दर्शनाचक्षुर्दर्शनयोमिथ्यादृष्ट्यादीनि क्षीणकषायान्तानि सन्ति । अवधिदर्शने असंयतस म्यग्दृष्ट्यादीनि क्षीणकषायान्तानि । केवलदर्शने सयोगकेवली अयोगकेवली च ॥ लेश्यानुवादेन कृष्णनीलकपोतलेश्यासु मिथ्यादृष्ट्यादीनि असंयतसम्यग्दृष्ट्य तानि सन्ति । तेजःपद्मलेश्ययोमिथ्यादृष्ट्यादीनि अप्रमत्तस्थानान्तानि । शुक्ललेश्यायां मिथ्यादृष्ट्यादीनि सयोगकेवल्यन्तानि । अलेश्या अयोगकेवलिनः ॥ भव्यानुवादेन भव्येषु चतुर्दशापि सन्ति । अभव्य आये एव स्थाने । सम्यक्त्वानुवादेन क्षायिकसम्यक्त्वे असंयतसम्यग्दृष्ट्यादीनि अयो
नवादे मिश्रस्यानभिधानम् । तस्याज्ञानप्ररूपणायामेवाभिधानं ज्ञातव्यम् । ज्ञानस्य यथार्थविषयत्वाभावात् ॥ इति श्रुतसागर: ॥ ] १ सयोगकेवलिनि औपचारिकी लेश्या ।
Page #46
--------------------------------------------------------------------------
________________
१६
सर्वार्थसिद्धिः गकेवल्यन्तानि सन्ति । क्षायोपशमिकसम्यक्त्वे असंयतसम्यग्हप्ट्यादीनि अप्रमत्तान्तानि । औपशमिकसम्यक्त्वे असंयतसम्यग्दृष्ट्यादीनि उपशान्तकषायान्तानि । सासादनसम्यग्दृष्टिः सम्यङ्मिध्यादृष्टिमिथ्यादृष्टिश्च स्वे स्वे स्थाने ॥ संज्ञानुवादेन संज्ञिषु द्वादशगुणस्थानानि क्षीणकषायान्तानि । असंज्ञिषु एकमेव मिथ्यादृष्टिस्थानम् । तदुभयव्यपदेशरहितः सयोगकेवली अयोगकेवली च ॥ आहारानुवादेन आहारकेषु मिथ्यादृष्ट्यादीनि सयोगकेवल्यन्तानि । अनाहारकेषु विग्रहगत्यापन्नेषु त्रीणि गुणस्थानानि, मिथ्यादृष्टिः सासादनसम्यग्दृष्टिरसंयतसम्यग्दृष्टिश्च । समुद्घातगतः सयोगकेवली अयोगकेवली च । सिद्धाः परमेष्ठिनः अतीतगुणस्थानाः ॥ उक्ता सत्प्ररूपाणा ॥
सङ्ख्याप्ररूपणोच्यते-- सा द्विविधा ॥ सामान्येन तावत् जीवा मिथ्यादृष्टयोऽनन्तानन्ताः। सासादनसम्यग्दृष्टयः सम्यमिथ्यादृष्टयोऽसंयतसम्यग्दृष्टयः संयतासंयताश्च पल्योपमासङ्ख्येयभागप्रमिताः ॥ प्रमत्तसंयताः कोटीपृथक्त्वसङ्ख्योः । पृथक्त्वमित्यागमसंज्ञा तिसृणां कोटीनामुपरि नवानामधः ॥ अप्रमत्तसंयताः संख्येयाः।
१ तथाहि । द्वितीये गुणस्थाने द्विपञ्चाशद्गुणकोट्यः ॥ ५२००००००० ॥ तृतीयगुणस्थाने चतुरधिकाः शतके ट्यः ॥ १०४०००००००॥ चतुर्थगुण. स्थाने सप्तशतकोट्यः ॥ ७००००००००० ॥ पञ्चमगुणस्थाने त्रयोदशकोव्यः॥ १३००००.०० ॥ तथा चोक्तम् ॥ गाथा ॥ तेरहकोटी देसे बावण्णा सासणा मुणेयव्वा ॥ मिस्सम्मि य तद्गा असंजदा सत्तसप्प कोडीओ ॥१॥
२ तथापि प्रमत्तसंयता निर्धारयितुं शक्याः । तेन तत्संख्या कथ्यते ॥ कोटीपञ्चकं त्रिनवतिलक्षा. अष्टानवतिसहस्राः शतद्वयं षट् च वेदितव्याः ॥ ५९३९८२०६ ॥ ___३ सा संख्या न ज्ञायते इति चेदुच्यते ॥ कोटीद्वयं षण्णवतिलक्षाः नवनावतिसहस्राः शतमेकमधिकम् ॥ प्रमत्तसंयतार्द्धपरिमाणा इत्यर्थः ॥ २९६९९१००॥
Page #47
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
१७ चत्वार उपशमकाः प्रवेशेन एको वा द्वौ वा त्रयो वा । उत्कर्षेण चतु:पञ्चाशत् स्वकालेन समुदिताः संख्येयाः ॥ चत्वारः क्षपका अयोगकेवलिनश्च प्रवेशेन एको वा द्वौ वा त्रयो वा। उत्कर्षेणाष्टोत्तरशतसंख्याः । स्वकालेन समुदिताः संख्ययाः ॥ सयोगकेवलिनः प्रवेशेन एको वा द्वौ वा त्रयो वा । उत्कर्षेणाष्टोत्तरशतसंख्याः । स्वकालेन समुदिताः शतसहस्रपृथक्त्वसंख्याः ॥ विशेषेण गत्यनुवादेन(१) नरकगतौ प्रथमायां पृथिव्यां नारका मिथ्यादृष्टयोऽसंख्ययाः श्रेणयः अंतरासंख्येयभागप्रमिताः ॥ द्वितीयादिप्वा सप्तम्या मिथ्यादृष्टयः श्रेण्यसंख्ययभागप्रमिताः । स चासंख्येयभागः असंख्येया योजनकोट्यः । सर्वासु पृथिवीषु सासादनसम्यग्दृष्टयः सम्यमिथ्यादृष्टयोऽसंयतसम्यग्दृष्टयश्च पल्योपमासंख्ययभागप्रमिताः ॥ तिर्यग्गतौ तिरश्चां मिथ्यादृष्टयोऽनन्तानन्ताः । सासादनसम्यग्दृष्टयः संयतासंयतान्ताः पल्योपमासंख्येयभागप्रमिताः ॥ मनुष्यगतौ मनुष्या मिथ्यादृष्टयः श्रेण्यसंख्येयभागप्रमिताः । स चासंख्येयभागः असंख्येया योजनकोट्यः । सासादनसम्यग्दृष्टयादयः संयतासंयतान्ताः संख्येयाः । प्रमत्तादीनां सामान्योक्ता संख्या । देवगतौ देवा मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टयसंयतसम्यग्दृष्टयः पल्योपमासंख्येयभागप्रमिताः ॥ ( २ ) इन्द्रियानुवादेन- एकेन्द्रिया मिथ्यादृष्टयोऽनन्तानन्ताः । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया असं
१ अपूर्वकरणानिवृत्तिकरणसूक्ष्मसांपरायोपशान्तकषायाश्चेति चत्वारः ।। २ केयं श्राणरिति चेदुच्यते ॥ सप्तरज्जुकमयी मुक्ताफलमालावदाका. शप्रदेशपंक्तिः श्रेणिरित्युच्यते ॥ मानविशेष इत्यर्थः ।।
३ प्रतरासंख्येयभागप्रमिता इति यदुक्तं स प्रतरः कियान् भवति ? । श्रेणिगुणिता श्रेणिः प्रतर उच्यते ॥ प्रतरासंख्यातभागप्रमित नामसंख्यातानां श्रेणीनां यावन्तः प्रदशास्तावन्तस्तत्र नारका इत्यर्थः ।।
Page #48
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः ख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । पञ्चेन्द्रियेषु मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । सासादनसम्यग्दृष्ट्यादयोऽयोगकेवल्यन्ताः सामान्योक्तसंख्याः ॥ ( ३ ) कायानुवादेन- पृथिवीकायिका अप्कायिकास्तेजःकायिका वायुकायिका असंख्ययलोकाः । वनस्पतिकायिका अनन्तानन्ताः । त्रसकायिकसंख्या पञ्चेन्द्रियवत् ॥ ( ४ ) योगानुवादेन-- मनोयोगिनो वाग्योगिनश्च मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । काययोगिषु मिथ्यादृष्टयोऽनन्तानन्ताः । त्रियोगिनां सासादनसम्यग्दृष्टयादयः संयतासंयतान्ताः पल्योपमासंख्येयभागप्रमिताः। प्रमत्तसंयतादयः सयोगकेवल्यन्ताः संख्येयाः। अयोगकेवलिनः सामान्योक्तसङ्ख्याः ॥ (५) वेदानुवादेनस्त्रीवेदाः पुंवेदाश्च मिथ्यादृष्टयोऽसङ्ख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः। नपुंसकवेदा मिथ्यादृष्टयोऽनन्तानन्ताः । स्त्रीवेदा नपुंसकवेदाश्च सासादनसम्यग्दृष्ट्यादयः संयतासंयतान्ताः सामान्योक्तसंख्याः। प्रमत्तसंयतादयोऽनिवृत्तिबादरान्ताः संख्येयाः । 'वेदाः सासादनसम्यग्दृष्टयादयः संयतासंयतान्ताः सामान्योक्तसंख्याः। प्रमत्तसंयतादयोऽनिवृत्तिबादरान्ताः सामान्योक्तसंख्याः। अपगतवेदा . अनिवृत्तिबादरादयोऽयोगकेवल्यन्ताः सामान्योक्तसंख्याः ॥ (६) कषायानुवादेन-- क्रोधमानमायासु मिथ्यादृष्टयादयः संयतासंयतान्ताः सामान्योक्तसंख्याः । प्रमत्तसंयतादयोऽनिवृत्तिबादरान्ताः संख्येयाः । लोभकषायाणामुक्त एव क्रमः। अयं तु विशेषः- सूक्ष्मसाम्परायसंयताः सामान्योक्तसंख्याः । अकषाया उपशान्तकषायादयोऽयोगकेवल्यन्ताः सामान्योक्तसंख्याः।। (७) ज्ञानानुवादेन-- मत्यज्ञानिनः श्रुताज्ञानिनश्च मिथ्यादृष्टिसासादनसम्यग्दृष्टयः सामान्योक्तसंख्याः । विभङ्गज्ञानिनो मिथ्या
Page #49
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
१९
दृष्टयोsसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । सासादनसम्यग्दृष्टयः पल्योपमासंख्येयभागप्रमिताः । मतिश्रुतज्ञानिनोऽसंयतसम्यग्दृष्ट्यादयः क्षीणकषायान्ताः सामान्योक्तसंख्याः । अवधिज्ञानिनोऽसंयतसम्यग्दृष्टिसंयतासंयतान्ताः सामान्योक्तसंख्याः । प्रमत्तसंयतादयः क्षीणकषायान्ताः संख्येयाः । मनः पर्ययज्ञानिनः प्रम - त्तसंयतादयः क्षीणकषायान्ताः संख्येयाः । केवलज्ञानिनः सयोगा अयोगाश्च सामान्योक्तसंख्याः ॥ ( ८ ) संयमानुवादेन — सामायिकच्छेदोपस्थापनशुद्धिसंयताः प्रमत्तादयोऽनिवृत्तिबादरान्ताः सामान्योक्तसंख्याः । परिहारविशुद्धिसंयताः प्रमत्ताश्चाप्रमत्ताश्च संख्येयाः । सूक्ष्मसाम्परायशुद्धिसंयता यथाख्यातविहारशुद्धिसंयताः संयतासंयता असंयताश्च सामान्योक्तसंख्याः ॥ ( ९ ) दर्शनानुवादेन चक्षुर्दर्शनिनो मिध्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागमिताः । अचक्षुर्दर्शनिनो मिथ्यादृष्टयोऽनन्तानन्ताः । उभये च सासादनसम्यग्दृष्ट्यादयः क्षीणकषायान्ताः सामान्योक्तसंख्याः । अवधिदर्शनिनोऽवधिज्ञानिवत् । केवलदर्शनिनः केवलज्ञानिवत् ॥ ( १० ) लेश्यानुवादेन कृष्णनीलकपोतलेश्या मिथ्यादृष्ट्यादयोऽसंयतसम्यग्दृष्टयन्ताः सामान्योक्तसंख्याः । तेजः पद्मलेश्या मिथ्यादृष्ट्यादयः संयतासंयतान्ताः स्त्रीवेदवत् । प्रमत्ताप्रमत्तसंयताः संख्येयाः । शुक्ललेश्या मिथ्यादृष्ट्यादयः संयतासंयतान्ताः पल्योपमासंख्येयभाग प्रमिताः । प्रमत्ताप्रमत्तसंयताः संख्येयाः । अपूर्वकरणादयः सयोगकेवल्यन्ता अलेश्याश्च सामान्योक्तसंख्याः ॥ ( ११ ) भव्यानुवादेन - भव्येषु मिथ्यादृष्ट्या - दयोऽयोगकेवल्यन्ताः सामान्योक्तसंख्याः । अभव्या अनन्ताः ॥ ( १२ ) सम्यक्त्वानुवादेन -- क्षायिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टयः पल्योपमासंख्येयभागप्रमिताः । संयतासंयतादय उप
Page #50
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः
शान्तकषायान्ताः संख्येयाः । चत्वारः क्षपकाः सयोगकेवलिनोऽयोगकेवलिनश्च सामान्योक्तसंख्याः । क्षायोपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्ट्यादयोऽप्रमत्तान्ताः सामान्योक्त संख्याः । औपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टिसंयतासंयताः पल्योपमासंख्येयभागप्रमिताः । प्रमत्ताप्रमत्तसंयताः संख्ययाः । चत्वार औपशमिकाः सामान्योक्तसंख्याः । सासादनसम्यग्दृष्टयः सम्यस्मिथ्यादृटयो मिथ्यादृष्टयश्च सामान्योक्तसंख्याः ॥ (१३) संज्ञानुवादेन -- संज्ञिषु मिथ्यादृष्ट्यादयः क्षीणकषायान्ताश्चक्षुर्दर्शनिवत् । असंज्ञिनो मिथ्यादृष्टयोऽनन्तानन्ताः । तदुभयव्यपदेशरहिताः सामान्योक्तसंख्याः ॥ (१४) आहारानुवादेन – आहारकेषु मिथ्यादृष्ट्यादयः सयोगकेवल्यन्ताः सामान्योक्तसंख्याः । अनाहारकेषु मिथ्यादृष्टिसासादनसम्यग्दृष्ट्यसंयतसम्यग्दृष्टयः सामान्योक्तसंख्याः । सयोगकेवलिनः संख्येयाः। अयोगकेवलिनः सामान्योक्तसंख्याः । संख्या निर्णीता ॥
२०
क्षेत्रमुच्यते— तत् द्विविधम् । सामान्येन विशेषेण च ॥ सामान्येन तावत् मिथ्यादृष्टीनां सर्वलोकैः || सासादनसम्यग्दृष्ठ्यौदीनामयोगकेवल्यन्तानां लोकस्यासंख्येयभागः ॥ सयोगकेवलिनां
१ स्वस्थानस्वस्थाने वेदना कषायमारणान्तिकसमुद्घातेषु उपपादे च एवं पंचसु पदेषु सर्वलोकोः मिथ्यादृष्टीनां क्षेत्रम् ॥
२ सास दनस्य असंयतसम्यग्दृष्टेश्च स्वस्थानस्वस्थान विहारवत् । स्वस्था· नवेदनाकषायवैक्रियिकमारणान्तिकोपपादेषु लोकस्यासंख्येयभागः क्षेत्रम् ॥ मिश्रस्य तेष्विव मारणान्तिको पपादरहितेषु । तद्रहितत्वं कुत इति चेत्तस्य मारणान्तिक मरणयोरभावात् । तदपि कुत: ? ( मरणंतसमुग्धादो वियण मिस्सम्मि' इत्यनेन मिस्सा आहारस्सनिस्सा ' इत्यादिना च तयोः प्रतिषेधानिचीयते ।। एवं देशसंयतादिषु आगमानुसारेणावबोद्धव्यम् ॥
·
Page #51
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः लोकस्यासंख्येयभागः समुद्धातेऽसंख्येया वो भागाः सर्वलोको वा ॥ विशेषेण— (१) गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु नारकाणां चतुर्पु गुणस्थानेषु लोकस्यासंख्येयभागः । तिर्यग्गतौ तिरश्चां मिथ्यादृष्ट्यादिसंयतासंयतान्तानां सामान्योक्तं क्षेत्रम् । मनुष्यगतौ मनुष्याणां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां लोकस्यासंख्येयभागः । सयोगकेवलिनां सामान्योक्तं क्षेत्रम् । देवगतौ देवानां सर्वेषां चतुर्पु गुणस्थानेषु लोकस्यासंख्येयभागः ॥ (२) इन्द्रियानुवादेन--- एकेन्द्रियाणां क्षेत्रं सर्वलोकः। विकलेन्द्रियाणां लोकस्यासंख्येयभागः । पञ्चेन्द्रियाणां मनुष्यवत् ॥ (३) कायानुवादेन-- पृथिवीकायादिवनस्पतिकायिकान्तानां सर्वलोकः । त्रसकायिकानां पञ्चेन्द्रियवत् । (४) योगानुवादेन--- वाङ्मानसयोगिनां मिथ्यादृष्ट्यादिसयोगकेवल्यन्तानां लोकस्यासंख्येयभागः । काय
१ एकस्मिन्काले सम्भवतां पूर्वोक्तशतसहस्रपृथक्त्वसंख्यानां सयोगकेवालना स्वस्थानस्वस्थानविहारवत्स्वस्थानापेक्षया च लोकस्यासंख्येयभागाः क्षेत्रम् ॥
असंख्येयभागा इति वचनेन प्रतरसमुद्धाते लोकस्यासंख्यातबहुभागमात्रं क्षेत्रमित्युक्तं ज्ञेयम् ॥ त्रिलोकसारे — सत्तासीदी चदुस्सदेत्यादिना' काथतेन सर्ववातवलयावरुद्धक्षेत्रेण ( एतावता १०२४१९८७१४८७ ) सर्वलोकासंख्यातकभागमात्रेण हानस्य सर्वलोकस्य तत्क्षेत्रत्वात् ॥ लोकपूरणापेक्षया सर्वलोकः क्षेत्रम् ॥ ___२ असंख्यया वा भागा इति वाशब्देन समुद्धाते असंख्येयभागोऽपि परामृष्टः । तेन दण्डकवाटसमुद्धातयोलोकस्यासंख्येयभाग: क्षेत्रमित्यवसेयम् । तत्र आरोहणावरोहणापेक्षया उत्कर्षे। चत्वारिंशत्केवलिनः सम्भवन्ति । तथापि क्षेत्रं लोकस्यासयेयभाग एव । उत्तरत्र सर्वत्र स्वस्थानादिपदानि यथासम्भवं योज्यानि ॥
३ भागहारभूतासङ्खयातस्योनेकविधत्वेन क्षेत्रस्य तारतम्यसद्भावेऽपि लोकस्यासखायेयभागत्वाविशेषान्मनुष्यवदिति वचनम् ।।
Page #52
--------------------------------------------------------------------------
________________
२२
सवाथसिद्धिः योगिनां मिथ्यादृष्ट्यादिसयोगकेवल्यन्तानामयोगकेवलिनां च सामान्योक्तं क्षेत्रम् ॥ (५) वेदानुवादेन--- स्त्रीपुंवेदानां मिथ्यादृष्ट्याद्यनिवृतिबादरान्तानां लोकस्यासंख्येयभागः । नपुंसकवेदानां मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानामपगतवेदानां च सामान्योक्तं क्षेत्रम् ॥ ( ६ ) कषायानुवादेन- क्रोधमानमायाकषायाणां लोभकषायाणां च मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानां सूक्ष्मसाम्परायाणामकषायाणां च सामान्योक्तं क्षेत्रम् ॥ ( ७ ) ज्ञानानुवादेन- मत्यज्ञानिश्रुताज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां सामान्योक्तं क्षेत्रम् । विभङ्गज्ञानिनां मिथ्यादृष्टिसासादनसम्यदृष्टीनां लोकस्यासंख्येयभागः। आभिनिबोधिकश्रुतावधिज्ञानिनामसँयतसम्यग्दृष्ट्यादीनां क्षीणकषायान्तानां मन पर्ययज्ञानिनां च प्रमत्तादीनां क्षीणकषायान्तानां केवलज्ञानिनां सयोगानामयोगानां च सामान्योक्तं क्षेत्रम् ॥ (८) सँयमानुवादेन- सामायिकच्छेदोपस्थापनाशुद्धिसँयतानां चतुर्णा परिहारविशुद्धिसँयतानां प्रमत्ताप्रमत्तानां सूक्ष्मसाम्परायशुद्धिसँयतानां यथाख्यातविहारशुद्धिसँयतानां चतुर्णी सँयतासँयतानामसयतानां च चतुर्णी सामान्योक्तं क्षेत्रम् ॥ (९) दर्शनानुवादेन- चक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां लोकस्यासंख्येयभागः। अचक्षुर्दर्शनिनां मिध्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तं क्षेत्रम् । अवधिदर्शनिनामवधिज्ञानिवत् । केवलदर्शनिनां केवलज्ञानिवत् ॥ (१०) लेश्यानुवादेन—कृष्णनीलकापोतलेश्यानां मिथ्यादृष्ट्याद्यसँयतसम्य
१ वाङ्मानसयोगविशिष्ट सयोगकेवलिनि समुद्धातासम्भवोऽवगन्तव्यः ॥ ओरालं दंडदुगे कवाडजुगले य तस्स मिस्सो दु॥ पदरे य ळोगपूरे कम्ने वय होइ कम्मइयम् ॥ इत्यनेन तत्र काययोगस्यैव कथनात् । काययोगे तु खस्थानस मुद्धातसम्भवो भवति ॥
Page #53
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः ग्दृष्ट्यन्तानां सामान्योक्तं क्षेत्रम् । तेजःपद्मलेश्यानां मिथ्याहप्ट्याद्यप्रमत्तान्तानां लोकस्यासंख्येयभागः । शुक्ललेश्यानां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां लोकस्यासंख्येयभागः। सयोगकेवलिनामलेश्यानां च सामान्योक्तं क्षेत्रम् ॥ ( ११ ) भव्यानुवादेन भव्यानां चतुर्दशानां सामान्योक्तं क्षेत्रम् । अभव्यानां सर्वलोकः ॥ ( १२ ) सम्यक्त्वानुवादेन - क्षायिकसम्यग्दृष्टीनामसँयतसम्यग्दृप्ट्याद्ययोगकेवल्यन्तानां क्षायोपशमिकसम्यग्दृष्टीनामसँयतसम्यग्दृप्ट्याद्यप्रमत्तान्तानामोपशमिकसम्यग्दृष्टीनामसँयतसम्यग्दृष्ट्याद्युपशा-- न्तकषायान्तानां सासादनसम्यग्दृष्टीनां सम्यङ्मिथ्यादृष्टीनां च सामान्योक्तं क्षेत्रम् (१३) सज्ञानुवादेन-- सचिनां चक्षुर्दर्शनिवत् । असज्ञिनां सर्वलोकः । तदुभयव्यपदेशरहितानां सामान्योक्तं क्षेत्रम् ॥ (१४) आहारानुवादेन- आहारकाणां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तं क्षेत्रम् । सयोगकेवलिनां लोकस्यासंख्येयभागः । अनाहारकाणां मिथ्यादृष्टिसासादनसम्यग्दृष्ट्यसँयतसम्यग्दृष्ट्ययोगकेवलिनां सामान्योक्तं क्षेत्रम् । सयोगकेवलिनां लोकस्यासंख्येयभागाः सर्वलोको वा ॥ क्षेत्रनिर्णयः कृतः ॥
स्पर्शनमुच्यते- तद् द्विविधम् । सामान्येन विशेषेण च ॥ सामान्येन तावत्- मिथ्यादृष्टिभिः सर्वलोकः
१ ये न संज्ञिनो नाप्यसंज्ञिनस्तेषाम् ॥ २ समुद्धातरहितत्वादित्यर्थः ॥
३ असंख्यातयोजनकोट्याकाशप्रदेशः परिमाणरज्जुस्तावदुच्यते । तल्लक्षणसमचतुरस्ररज्जुत्रिचत्वारिंशदधिकशतत्रयपरिमाणो ले.क उच्यते । स लोको मिथ्यादृष्टिभिः सर्व स्पृष्टः । इत्युक्तलक्षणे लोके स्वस्थानविहारः परस्थानविहारो मारणान्तिकपमुद्धातश्च प्राणिभिर्विधीयते ॥
Page #54
--------------------------------------------------------------------------
________________
२४
सर्वार्थसिद्धिः स्पृष्टः । सासार्दनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ द्वादश वा चतुर्दशभागा देशोनाः । सम्यमिथ्यादृष्ट्यसँयतसम्यग्दृष्टिभिलॊकस्यासंख्येयभागः अष्टौ वा चतुर्दशभागाः देशोनाः । सँयतासँयतैलॊकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । प्रमत्तसँयतादीनामयोगकेवल्यन्तानां क्षेत्रवत्स्पर्शनम् ॥ विशेषण (१) गत्यनुवादेन- नरकगतौ प्रथमायां पृथिव्यां नारकैश्चतुर्गुणस्थानैलॊकस्यासंख्ययभागः स्पृष्टः । द्वितीयादिषु प्राक्सप्तम्या मिथ्यादृष्टिभिः सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः एकः द्वौ त्रयः चत्वारः पञ्च चतुर्दशभागा वा देशोनाः । सम्यमिथ्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः । सप्तम्यां पृथिव्यां मिथ्यादृष्टिमिर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । शेषस्त्रिभिर्लोकस्यासंख्येयभागः ॥ तिर्यग्गतौ तिरश्वां तिर्यमिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभि
-
१ तत्र स्वस्थानविहारापेक्षया सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभाग: स्पृष्टः । एवमग्रेऽपि स्वस्थानविहारापेक्षया लोकस्यासंख्येयभागो ज्ञातव्यः । परस्थानविहारापेक्षया तु सासादनदेवानां प्रथमपृथिवीत्रये विहारात् रज्जुद्वयम् । अच्युतान्तोपरिविहार'त् षड्जवः । इत्यष्टौ द्वादश चतुर्दश भ'गा वा देशोना: स्पृष्टाः ॥ द्वादशभागाः कथं स्पृष्टा इति चेदुच्यते । सप्त. मपृथिव्या परित्यक्तः सासादनादिगुणस्थान एव मारणान्तिकं विदध तांति नियमात् ॥ षष्ठीतो मध्यलोके पञ्चरज्जवः । सासादनो मारणान्तिकं करोति । मध्यमलोकाच लोकाग्रे बादरपृथिवीकायिकबादराप्कायिकबादरवनस्पतिकायिकेषु उत्पद्यते इति सप्त रज्जव एवं द्वादशरज्जवो भवन्ति । सासादनसम्यग्दृष्टिर्हि वायुकायिकेषु तेजःकायिकेषु नरकेषु सर्वसूक्ष्मकायिकेषु चतुर्थस्थानकेषु नो. स्पद्यत इति नियमः ॥ तथा चोक्तम् ॥ गाथा ॥ ' वज्जिअ ठाणचउक तऊ वाऊ य णरय सुहुमं च ॥ अण्णच सव्वठाणे उवज्जदे सासणो जीवो ॥ १ ॥' देशोना इति कथम् ? केचित्प्रदेशाः सासादन सम्यग्दर्शन योग्या न भवन्तीति देशोनाः । एवमुत्तरत्र सर्वत्रापि वेदितव्यम् ॥
Page #55
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः लोकस्यासंख्येयभागः सप्त चतुर्दशभागा वा देशोनाः । सम्यमिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः । असंयतसम्यग्दृष्टिभिः संयतासंयतैर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः ॥ मनुष्यगतौ मनुष्यैमिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः सर्वलोको वा स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः सप्त चतुर्दशभागा वा देशोनाः । सम्यमिथ्यादृष्ट्यादीनामयोगकेवल्यन्तानां क्षेत्रवत्स्पर्शनम् ॥ देवगतौ देवैर्मिथ्यादृष्टिसासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ नव चतुर्दशभागा वा देशोनाः । सम्यमिथ्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुदेशभागा वा देशोनाः ॥ (२) इन्द्रियानुवादेन- एकेन्द्रियैः सर्वलोकः स्पृष्टः । विकलेन्द्रियैर्लोकस्यासंख्येयभागः सर्वलोको वा ॥ पञ्चेन्द्रियेषु मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः सर्वलोको वा। शेषाणां सामान्योक्तं स्पर्शनम् ॥ ( ३ ) कायानुवादेन - स्थावरकायिकैः सर्वलोकः स्पृष्टः ॥ त्रसकायिकानां पञ्चेन्द्रियवत् स्पर्शनम् ॥ ( ४ ) योगानुवादेन --- वाङ्मानसयोगिभिर्मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः सर्वलोको वा। सासादनसम्यग्दृष्ट्यादीनां क्षीणकषायान्तानां सामान्योक्तं स्पर्शनम् । सयोगकेवलिनां लोकस्यासंख्येयभागः ॥ काययोगिनां मिथ्याप्ट्यादीनां सयोगकेवल्यन्तानामयोगकेवलिनां च सामान्योक्तं स्पर्शनम् ॥ ( ५ ) वेदानुवादेन --- स्त्रीपुंवेदैमिथ्यादृष्टिभिलोकस्यासंख्येयभागः स्पृष्टः अष्टौ नव चतुर्दशभागा वा देशोनाः सर्वलोको वा । नपुंसकवेदेषु मिथ्यादृष्टीनां सासादनसम्यग्दृष्टीनां च सामान्योक्तं स्पर्शनम् । सम्यमिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः स्पृष्टः। सासादनसम्यग्दृष्टिभिलीकस्यासंख्येयभागः अष्टौ
Page #56
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः नव चतुर्दशभागा वा देशोनाः । सम्यमिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्योक्तं स्पर्शनम् । असंयतसम्यग्दृष्टिभिः संयतासंयतैलोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । प्रमत्ताधनिवृत्तिबादरान्तानामपगतवेदानां च सामान्योक्तं स्पर्शनम् ॥ ( ६ ) कषायानुवादेन – चतुष्कषायाणामकषायाणां च सामान्योक्तं स्पर्शनम् ॥ (७) ज्ञानानुवादेन - मत्यज्ञानिश्रुताज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां सामान्योक्तं स्पर्शनम् । विभङ्गज्ञानिनां मिथ्यादृष्टीनां लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः सर्वलोको वा। सासादनसम्यग्दृष्टीनां सामान्योक्तं स्पर्शनम् । आभिनिबोधिकश्रुतावधिमनःपर्ययकेवलज्ञानिनां सामान्योक्तं स्पर्शनम् । (८) संयमानुवादेनसंयतानां सर्वेषां संयतासंयतानामसंयतानां च सामान्योक्तं स्पर्शनम् ॥ (९) दर्शनानुवादेन- चक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां पञ्चेन्द्रियवत् । अचक्षुर्दर्शनिनां मिथ्याहष्ट्यादिक्षीणकषायान्तानामवधिकेवलदर्शनिनां च सामान्योक्तं स्पर्शनम् ॥ (१०) लेश्यानुवादेन--- कृष्णनीलकापोतलेश्यौर्मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः पञ्च चत्वारो द्वौ चतुर्दशभागा वा देशोनाः। द्वादशभागाः कुतो न लभ्यन्ते इति चेत् तत्रावस्थितलेश्यापेक्षया
१ मनुष्यतिर्यग्विभङ्गज्ञानिभिः क्रियमाणमारणान्तिकापेक्षया सर्वलोक इति वचनम् ॥ देवानां नव चतुर्दशभागा इति पूर्वमुक्तत्वात् ॥
२ मिथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तानाम् ॥ ३ काओ काओ काओ णीळा णीळा य णीळकिण्हा य। किण्हाय परमकिण्हा लेस्सा पढमादिपुढवीणं ॥१॥ अस्या गाथाया अर्थः कथ्यते- प्रथमायां पृथिव्यां नारकाणां जघन्या कपोतलेश्या भवति ॥ द्वितीयायां मध्यमा। तृतीयायामष्टस्विन्द्रकेषु उत्कृष्टा । सैव चरमेन्द्र के उत्कृष्टा तत्रैव च केषांचिनारकाणां जघन्या नीललेश्या च भवति ।
Page #57
--------------------------------------------------------------------------
________________
२७
प्रथमोऽध्यायः पञ्चैव। अथवा येषां मते सासादन एकेन्द्रियेषु नोत्पद्यते तन्मतापेक्षया द्वादशभागा न दत्ताः । सम्यङ्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः । तेजोलेश्यैमिथ्यादृष्टिसासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ नव चतुर्दशभागा वा देशोनाः । सम्यग्मिथ्यादृष्टयसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः । संयतासंयतर्लोकस्यासंख्ये
चतुर्थी तस्यां मध्यमा नीला । पञ्चम्यां पृथिव्यां उपरिभेषु चतुर्विन्द्रकेषु उत्कृष्टा सैव । चरमेन्द्रकेषु उत्कृष्टा नीललेश्या जघन्या कृष्णलेश्या च भवति । षष्ठयां मध्यमा कृष्णले.इया। सप्तम्यां पृथिव्यां उत्कृष्टा कृष्णलेश्या । गोमट्टसारलेश्यामार्गणागतेयं गथा। ततः षष्ठपृथिवीत: मारणान्तिकं कुर्वाणान् कृष्णलेश्यासासादनान्प्रति पञ्च चतुर्दश भागा: कथिताः ॥
सप्तमपृथिवीपरित्यागः कुत इति चेत्- “ तमतमगुणपडिवण्णा य ण मरंतीति” वचनेन तत्रत्यसासादनान मरणाभावात् । मरणाभावेऽपि मारणान्तिकाभावप्रततिः कथमिति चेत् कृष्णलेश्यापेक्षया पञ्च चतुर्दशभागा इति वचनान्यथानुपपत्तेः ।
पञ्चमपथिवीचरमेन्द्र कात् नीललेश्योत्कृष्टस्थानात् मारणान्तिक कुद्भिः सासादनैश्चत्वारश्चतुर्दशभागाः स्पृष्टाः। ४ । तृतीयपृथ्वीचरमेन्द्रकात्का पोतलेश्योत्कृष्टस्थानान्मारणान्तिकं कुर्वागौं चतुर्दशभागी स्पृष्टौ। ४ । देशोनत्वं भोगभूमिषु प्रणिधावस्पर्शनात् ॥
१ षष्टपृथ्वीपर्यन्तस्थितानामशुभलेश्याऽसंयतसम्यग्दृष्टीनां मरगमस्ति । अतो लोकस्यासंख्येयभागः । कथमिति चेत् तेषां मनुप्यक्षेत्रे एवोत्पत्तिसद्भावेन एक. रज्जुविष्कम्भे सर्वत्र स्पर्शाभावादिति ब्रूमः । श्रेणिवद्धप्रकीर्णकवर्तिनामपि स्वकीयस्वकीयपृथिव्यामेव इन्द्रकपर्यन्तं तिर्यगागत्य पुनरूागमनात्तावानेव । अन्यथा लोकासंख्येयकथनानुपपत्तेः ॥ ___ २ विहारवत्स्वस्थानापेक्षया अष्टौ चतुर्दशभागाः । ४॥ विहारवन्तस्तेजोलेश्या मिथ्यादृष्टिदेवास्तृतीयपृथ्वीतोऽष्टमपृथिवीवादरपृथिवीकायिकत्वेनोत्पत्त्यर्थं मारणान्तिकं कुर्वन्ति तदपेक्षया नव चतुर्दशभागाः। ॐ ॥
३ विहारवत्स्वस्थानापेक्षया । ४३ ॥
Page #58
--------------------------------------------------------------------------
________________
२८
सर्वार्थसिद्धिः
यभागः अध्यर्धचतुर्दशभागा वा देशोनाः ॥ प्रमत्ताप्रमत्तैर्लोकस्यासंख्येयभागः ॥ पद्मलेश्यौर्मथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तैलोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः ॥ संयतासंयतैर्लोकस्यासंख्येयभागः पञ्च चतुर्दशभागा वा देशोनाः ॥ प्रमत्ताप्रमत्तैर्लोकस्यासंख्येयभागः ॥ शक्कलेश्यैर्मिथ्यादृष्ट्यादिसंयतासंयतान्तैर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः ||
१ तेजोलेश्या - देशसंयतैः क्रियमाणमारणान्तिकसमुद्वातापेक्षयाऽभ्यर्धचतुदेशभागः। चतुर्दशभागैस्त्रिभिर्भवितव्यम् । ॐ ॥ सनत्कुमार माहेन्द्रपर्यन्तं तेजोलेश्यासद्भावादिति चोदनायां परिहारो गोमटसारे जीवकाण्डे लेश्यामार्गणायां स्पर्शाधिकारे एवं तु समुग्धादे णव चोद्दस भागयं च किंचूणम् । उववादे पढमपद दिवड्ढ चे इस य किंचूणं ॥ १ ॥ " इति गाथायास्तुरीयपादव्याख्यानं दृष्ट्वा ज्ञात्वा कर्तव्यः ॥
F
२ बिहारवत्स्वस्थानेवेदना कषायवैक्रियिकसमुद्घातापेक्षया अष्टचतुर्दशभागाः ॐ४३ ॥ प्रागुक्तेष्वप्यष्टचतुर्दशभागेष्वयं क्रमो वेदितव्यः ॥
३ पद्मश्यादेशसंयतैः क्रियमाणमारणान्तिकापेक्षया पञ्च चतुर्दशभागाः सहखारकल्पादुपरि पद्मलेश्याभावात् । पीतपद्मशुक्ललेश्या द्वित्रिशेषेष्विति वचनात् ॥
४ शुक्लेश्या देशसंयतस्य मारण न्तिकापेक्षया षट्चतुर्दशभागकथनं सुगमम् | अच्युतकल्पादुपरि तस्योत्पत्त्यभावात् । इतरेषामपि मिथ्यादृष्टयायसंयतान्तानां षट्चतुर्दशभागा इति वचनात् । शुक्ललेश्या देवानां मध्यलो. कादधो विहारो नास्तीति युक्त्याऽवगम्यते । अन्यथा अष्टौ चतुर्दशभागा इति कथयेरन् खलु शास्त्रकाराः । ननु तेषां मध्यलोकपर्यन्तमपि विहारो नास्ति । केवलं मारणान्तिकोपपादापेक्षया षट्चतुर्दशभागकथनमिति वचनं मन्तव्यम् । सम्यङ्मिथ्यादृष्टेस्तदभावात् ॥ मिस्सो आहारस्स य मिस्सा चढमाणपढमपुव्वा य। पढमुवसम्मा तमतमगुणपडिवण्णा यण मरंति ॥ इति वचनेन मरणंतसमुग्धादो वियण मिस्सा' इति वचनेन च तदवगमः । लेखकदोषोऽयं षट्चतुर्दशभागा इति न च शास्त्रकारवचनमिति च नाशङ्कनीयम् । नेमिचन्द्रसैद्धान्तिकचक्रवर्त्तिभिरपि लेश्याधिकारे तथैवोक्तत्वात् । सुक्कस्स य तिठाणे पढमो छ चोदसा उउ होणा ॥ णवरि समुग्धादाही य संखातोदा
Page #59
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः प्रमत्तादिसयोगकेवल्यन्तानां अलेश्यानां च सामान्योक्तं स्पर्शनम् ॥ (११) भव्यानुवादेन- भव्यानां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्योक्तं स्पर्शनम् । अभव्यैः सर्वलोकः स्पृष्टः॥ [१२] सम्यक्त्वानुवादेन–क्षायिकसम्यग्दृष्टीनामसंयतसम्यग्दृष्ट्याद्ययोगकेवल्यन्तानां सामान्योक्तम् । किंतु संयतासंयतानां लोकस्यासंख्येयभागः । क्षायोपशमिकसम्यग्दृष्टीनां सामान्योक्तम्
हवन्ति 'भागा वा ॥१॥ सम्वो वा खलु लोगो 'फासो होदिति णि इट्टा इति । ननु पञ्चानुत्तरपर्यन्तं शुक्ललेश्यासद्भावन ततोऽधः शुक्ललेझ्यासंयतसम्यग्दृष्टिभिरुपपादपरिणतः स्पृष्टत्वात् देशोनसप्तचतुर्दशभागा इति वचनं युक्तं । न युक्तं, मनुष्यक्षेत्रवर्तिमनुष्याणामेव तत्रोत्पत्तेः। ततः प्रच्युतानामपि मनुष्यक्षेत्रे एवोत्पत्तेर्लोकासंख्येयभागेऽन्तर्भावात् । एकरज्जुविष्कम्भे सर्वत्र स्पर्शाभावात् । कल्पातातानां विहाराभावाच्च । ननु “ सदरसहस्सारगो त्ति तिरिक्दुगं तिरियाऊ वो उज्जोज अस्थि तदा णस्थि सदर चऊ" इति गोमट्टसारकर्मकाण्डबन्धोदयसत्वाधिकारगाथया सहस्रारकल्पादुपरितनदेवानां तिर्यगायुष्यादिबन्धाभावकथनात्तेषांतियक्षत्पत्यभावोऽवगम्यते । तथा च मनुष्येष्वेवोत्पत्तावपि स्वयम्प्रभाचलबहिर्वतिीत रश्चामच्युतपर्यन्तमुत्पत्तिसद्भावात् । अन्यथा सामान्यस्पर्शकथनावसरे देशसंयतापेक्षया षट्चतुर्दशभागकथनानुपपत्तेोकासंख्येयभागकथनप्रसंगारक्षायिकसम्य. ग्दृष्टिदेशसंयतवदानताद्यच्युतपर्यन्तदेवानां विहारवत्वाच्च कल्पातीतानामेष क्रमो नास्तीति लोकासंख्येयभाग एवेत्यवगन्तव्यम् ॥
१ प्राक्सामान्यकथनावसरे देशसंयतस्ये षट् चतुर्दशभागा इत्युक्तम् । इदानीं क्षायिकसम्यग्दृष्टिदेशसंयतापेक्षया लोकासंख्येयभाग इति कथ्यते । तत्कुत इति चेत्- मानुषोत्तरपर्वतबहिर्वतितिर्यक्षु सर्वत्र क्षायिकसम्यक्त्वाभावात् । तत्र तदभावश्च “ ॥ दंसणमोहक्खवणापट्टवगो कम्मभूमिजो मणुसो ॥ तित्थयरपादमूळे केवळिसुदकेवळीमुळे ॥ ,, इति गोम० जीवकाण्डे सम्यक्त्वम गणातोऽवगम्यते । प्राग्बद्धतिर्यगायुषां पश्चादगृहीतक्षायिकसम्यक्त्वानामपि उत्तमभोगभूमितिर्यश्वेवोत्पत्तेस्तत्र क्षायिकसम्यक्त्वाभाव एव । " चत्तारि वि खेत्ताई आउगबंधेण होइ सम्मत्तं । अणुवदमहव्वदाई ण लहइ देवाउगं मोत्तुम् ॥":ति गोम कर्म. काण्ड ३३४तमगाथायावचनात्तिर्यगायुर्बन्धेऽपि सम्यक्त्वग्रहणमस्तीत्यवगन्तव्यम्॥
१ प्रतरसमुद्धाते। २ लोकपूरणसमुद्धाते ।
Page #60
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः ॥ औपशमिकसम्यक्त्वानामसंयतसम्यग्दृष्टीनां सामान्योक्तम् । शेषाणां लोकस्यांसंख्येयभागः । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टिमिथ्यादृष्टीनां सामान्योक्तम् ॥ (१३) सज्ञानुवादेनसञ्जिनां चक्षुर्दर्शनिवत् । असज्ञिभिः सर्वलोकः स्पृष्टः । तदुभयव्यपदेशरहितानां सामान्योक्तम् ॥ ( १४ ) आहारानुवादेनआहारकाणां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तम् । सेयोगकेवलिना लोकस्यासंख्येयभागः ।। अनाहारकेषु मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः एकादश
१ शेषाणां लोकासंख्येयभाग इत्यनेन उपशमसम्यग्दृष्टिदेशसंयतापेक्षयापि लोकासंख्ययभागकथनान्मनुष्यक्षेत्रबहिर्वयुपशमसम्यग्दृष्टीनां मरणरहितानां मारणान्तिकाभावोऽप्यवगम्यते । अन्यथा तदपेक्षया षट् चतुर्दशभागा इति कथयन्ति । मनुष्यक्षेत्रवर्तिद्वितीयोपशमसम्यग्दृष्टीनां मरणमस्ति। मारणान्तिकोऽस्ति नास्तीत्यत्र नास्माकं निश्चयः । उपदेशाभावात् । यद्यस्ति तदपि लोकासंख्येयभागेऽन्तर्भावः । मनुष्यक्षेत्राद् बहिरभावात् ॥
२ स्वस्थानवर्तिनां दण्डकवाटसमुद्धातवर्तिनां च ॥
३ षष्टपृथ्वीपर्यन्तवर्तिसासादनानां मध्यलोके उत्पत्तिरस्ति । मध्यलोकव. तिनामच्युतकल्पपर्यन्तमुत्पत्तिरस्ति । तत उपपादपरिणतैस्तैस्तावत्क्षत्रं स्पृष्टम् । तत एकादश चतुर्दशभागा अनाहारकसासादनापेक्षयेति सुगमम् । यदि ग्रैवेयकपर्यन्तं तेषामुत्पत्तिरास्ति तथापि लोकासंख्येयभागेऽन्तर्भावः । मनुष्याणामेव ग्रैवेयकेषूत्पत्तिः ॥ ननु सामान्यकथनावसरे सासादनापेक्षया द्वादश चतुर्दशभागा इत्युक्तं तत्सम्भवः कथमिति चेत्- सासादना अष्टमपृथ्वीपर्यन्तं मारणान्तिकं कृत्वा मिथ्यात्वपरिणामेन म्रियन्ते । तत आहारकैः सासादनैरच्युतादुपरि अष्टमपृथ्वोपर्यन्तं क्षेत्रं स्पृष्टम् । अच्युतादधः षष्ठपृथ्वीपर्य: न्तमाहारकैरनाहारकैरपि तैः स्पृष्टम् । एतदपेक्षया तत्सम्भवो भवति ॥ अष्टमपृथिव्यामुत्पद्यमानसासादन: मिथ्यापरिणामेनैव म्रियत ( इति ) कुतो नियम इति चेत्- एतैराचायैरेकविकलेन्द्रियेषु सासादनानुत्पत्तिपक्षांगी. करणात् ॥ कथमेषा प्रतीतिरिति चेत् - पूर्वभेकविकलेन्द्रिये एकमेव मिथ्या. दृष्टिगुणस्थानमित्युक्तत्वात्पूर्व तिर्यङ्मनुष्यसासादनापेक्षया सप्त चतुर्दशभागा इत्युक्तं तदप्यत्रोक्तमारणान्तिकापेक्षयेत्यवगन्तव्यम् ॥
Page #61
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
चतुर्दशभागा वा देशोनाः । संयोगकेवलिनां लोकस्यासंख्येयभागः सर्वलोको वा। अयोगकेवलिनां लोकस्यासंख्ययभागः ॥ स्पर्शनं व्याख्यातम् ॥
कालः प्रस्तूयते ॥ स द्विविधः सामान्येन विशेषेण च । सामान्येन तावत्- मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवापेक्षया त्रयो भङ्गाः । अनादिरपर्यवसानः अनादिसपर्यवसानः सादिसपर्यवसानश्चेति ॥ तत्र सादिः सपर्यवसानो जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्धपुद्गलपरिवत्र्तों देशोनः ॥ सासादनसम्यग्दृष्टे नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः ॥ एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण षडावलिकाः ॥ सम्यमिथ्यादृष्टेर्नानाजीवापेक्षया जघन्ये
१ प्रतरलोकपूरणसमुद्धातवर्तिनाम् ॥ २ आहारामार्गणायां गोमट्टसारे गाथा॥ विग्गहगतिमावण्णा केवळिणो समुहदो अजोगी य। सिद्धा य अणाहारा सेसा आहारिणो जीवा ॥१॥
३ अनादिरपर्यवसानो मिथ्यात्वकालः अभव्येषु । अनादिमिथ्यादृष्टिर्यः कश्चन भव्यः प्रथमोपशमसम्यक्त्वं गृहीष्यात तस्य प्राक्तनमिथ्यात्वकाल: अनादिसपर्यवसानः। कश्चित्तु गृहीतसम्यक्त्वो मिथ्यात्वं प्राप्नोति तस्य तन्मिथ्यात्वं सादिसपर्यवसानम् ॥
४ यः कश्चित् गृहीतवेदकोपशमसम्यक्त्वो मिथ्यात्वं प्राप्य संसारे परिभ्रमति स नियमेनार्द्धपुद्गलपरिवर्तन कालपरिसमाप्तौ संसारे न तिष्ठति किं तु मुक्तो भवति ॥ तदुक्तम्- " पुद्गलपरिवधि परितो व्यालीढवेदकोपशमौ। वसतः संसाराब्धौ क्षायिकदृष्टिर्भवचतुष्कः ॥” इति । सम्यक्त्वग्रहणं पुन: अर्धपुद्गलपरिवर्तनपरिसमाप्तेः प्रागेव भवति । अन्यथा तदा मुक्तयनुपपात्तः स्ततः सादिपर्यवसानमिथ्यात्वकालस्योत्कृष्टस्य देशे न र्धपुद्गलपारीवर्तत्वं युक्तमेव॥
५ आवलिका चासंख्यातसमयलक्षणा भवति गोमट्टसारे जीवकाण्डे सम्यक्त्वमार्गणाया तथा चोक्तम्- आवलि असंखसमया संखज्जावलिसमूह उस्सासो। सत्तुस्सासो थोऊ सत्तत्थोवो लवो भणओ ॥
Page #62
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः नान्तर्मुहूर्तः । उत्कर्षेण पल्योपमासंख्येयभागः ॥ एकजीवं प्रति जघन्यः उत्कृष्टश्चान्तर्मुहूर्त्तः ॥ असंयतसम्यग्दृष्टानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः “ ॥ तिण्णि सहस्सा सत्त य सदाणि तेहत्तरं च उस्सासा । एसो हैवइ मुहुत्तो सव्वेसिं चेव मणुयाणम् ॥” उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि ॥ संयतासंयतस्य नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षण पूर्वकोटी देशोनौं । प्रमत्ताप्रमत्तयो नाजीवापेक्षया सर्वः काल. । एकजीवं प्रति जघन्येनकः समयः ॥ उत्कर्षेणान्तर्मुहूर्तः ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः समयः । उत्कर्षणान्तर्मुहूर्तः । चतुर्णी क्षपकाणामयो
१ त्रीणि सहस्राणि सप्त शतानि त्यधिकसप्ततिरुच्छ्वासा मुहूत्तेः कथ्यते३७७३ २ यः कश्चित्संयमी सम्प्राप्तमृतिः सर्वार्थसिद्धावुत्पनस्तत्र खस्थिति जीवित्वा मृतो मनुप्यगतावुत्पनो यावद्देशसंयमं सकलसंयम वा गृहाति तावत्साधिकत्रयस्त्रिंशत्सागरोपमकालोऽसंयतसम्यग्दृष्टेरुत्कृकालो वेदितव्यः । यद्यपि " वेदगसम्मत्तहिदि जहण्णमेतामुहुत्तमुक्कस्स । छासहिसायरुवमा णिद्दिठा मणुवदेवहवे।" इति गाथोदितप्रकारेण वेदकसम्यक्त्वस्य उत्कर्षेण षट्षष्टिसागरोपमपर्यन्तं स्थितिसम्भवेऽपि असंयमेन सह तावत्कालं तस्यावस्थानासम्भवात् । मध्य देशसंयमसकलसंयमयोः प्राप्तिसम्भवादिह तस्योत्कृष्टत्वेनाग्रहणम् । इह खल्वसंयतसम्यग्दृष्टिकाल: परीक्षितुमुपक्रान्तो न तु सम्यक्त्वकालः ॥
३ वर्षाष्टकं शैशवमतीत्य गृहीतदेशसंयमः पूर्वकोट्यायुर्यो जीव' आमरणाद्देशसंयम पालयात तदपेक्षया देशोनपूर्वकोटी देशसंयतकाल: ॥
४ नन्वेवं मिथ्यादृष्टेरप्येकसमय. कस्मान्न सम्भवतीत्यनुपपन्नम् । कोऽर्थः ? मिथ्या दृष्टेरेकसमयः कालो न घटते इत्यर्थः । कस्मान ? प्रतिपन्नमिथ्यात्वस्यान्त. मुहूर्तमध्ये मरणासम्भवात् । तदुक्तम् मिथ्यात्वे दर्शनात्प्राप्ते नास्त्यनन्ता. नुबन्धिनाम् । यावदकालिकापाकान्तर्मुहूर्ते मृतिर्न च ॥ १ ॥ सम्यमिथ्यादृष्टेः परिमाणकाले तदगुणस्थ नत्यागानै कसमय. सम्भवतीति प्रतिपन्नासंयतसंयतासंयतगुणोऽप्यन्तर्मुहूर्तमध्ये न म्रियते । अतोऽसंयतसंयतासंयतयोरप्येकसमयो न भवति ॥
Page #63
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
गकेवलिनां च नानाजीवापेक्षया एकजीवापेक्षया च जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः ॥ सयोगकेवलिनां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना । विशेषेण ( १ ) गत्यनुवादेन— नरकगतौ नारकेषु सप्तसु पृथिवीषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जय॑न्येनान्तर्मुहूर्तः । उत्कर्षेण यथासंख्यं एक-त्रि-सप्त-दश-सप्तदशद्वाविंशति-त्रयस्त्रिंशत्सागरोपमाणि ॥ सासादनसम्यग्दृष्टेः सम्यग्मिथ्यादृष्टेश्च सामान्योक्तः कालः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण उक्त एवोत्कृष्टो देशोनेंः ॥ तिर्यग्गतौ तिरश्चां मिथ्यादृष्टीनां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षणानन्तः कालोऽसंख्येयाः पुलपरिवर्ताः ॥ सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टिसंयतासंयतानां सामान्येनोक्तः कालः ॥ असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि ॥ मनुष्य
१ तत्कथम् ?। चतुर्णी क्षपकाणामपूर्वकरणानिवृत्तिकरणसूक्ष्मसाम्परा. यक्षणिकषायाणामयोगकेवालेनां च मोक्षगामित्वेन चान्तरे मरणासम्भवात् ॥
२ सयोगकवलिगुणस्थानानन्तरमन्तर्मुहूर्तमध्येऽयोगकेवलिगुणस्थानप्राप्ते । ___३ अष्टवर्ष नन्तरं तपो गृहीत्वा केवलमुत्पादयतीति कियद्वर्षहीनत्वाद्देशोना पूर्वकोटी वेदितव्या ॥
४ पश्चान्मिथ्यादृष्टिगुणस्थानत्यागसम्भवात् ॥ ५ प्रथमपृथिव्यामाप देशोनत्वकथनात्तत्र गृहःतवेदकक्षायिकसम्यक्त्वानामुत्कृष्टायुष्येणेोत्पत्यभावोऽ-वगम्यते ॥ ६ यः कश्चिदनादिमिथ्यादृष्टिीवो गत्यन्तरे स्थितः तियग्गतिं प्रविष्टः स तिर्यग्गतावुत्कर्षेणानन्तकालमसंख्येयान्पुद्गलपारिवर्तान् तिष्ठ त तत ऊर्ध्व गत्यन्तरं प्राप्नोति ततस्तदपेक्षया तिमियादृष्टिकालः अनन्तः काल: असंख्येयाः पुद्गलपरिवर्ताः इत्युक्तम् ॥
Page #64
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिःगतौ मनुष्येषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वैरभ्यधिकानि ॥ सासादनसम्यग्दृष्टे नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण षडावलिकाः ॥ सम्यग्मिथ्यादृष्टेनानाजीवापेक्षया एकजीवापेक्षया च जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः ॥ असंयतसम्यग्दृष्ट नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि साँतिरेकाणि ॥ शेषाणां सामान्योक्तः कालः ॥ देवगतौ देवेषु मिथ्यादृष्टे - नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरोपमाणि ॥ सासादनसम्यग्दृष्टेः सम्यग्मिथ्यादृष्टश्च सामान्योक्तः कालः ॥ असंयतसम्यग्दृष्टानाजीवापेक्षया सर्वः कालः ॥ एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षण त्रयस्त्रिंशत्सागरोपमाणि ॥ (२) इन्द्रियानुवादेन-- एकेन्द्रियाणां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रह
१ यः कश्चिन्मनुष्यो बद्धमनुष्यायुष्कः पश्चात् गृहीतसम्यक्त्व उत्तमभागभूमावुत्पद्यते तदपक्षया सातिरेकाणि त्रिपल्योपमानि प्राक्तनमनुष्यभवसम्बन्धिना सम्यक्त्वग्रहणोत्तरकालवर्तिनायुषा आधकानि, यतो विग्रहगतावपि मनुष्यगतिनामकर्मोदयोपेतत्वेन मनुष्यत्वापरित्यागत्वात् ॥
२ तत्कीदृशामति चेत्- उक्तलक्षणमुहूर्तमध्ये तावदेकेन्द्रियो भूत्वा कश्चिज्जीवः षट्षष्टिसहस्रद्वात्रिंशदधिकशतपरिमाणानि ६६१३२जन्ममरणान्यनुभवति तथा स एव जीवस्तस्यैव मुहूर्तस्य मध्ये द्वित्रिचतुःपञ्चन्द्रियो भूत्वा यथासंख्य. मशीतिषष्टिचत्वारिंशच्चतुर्विंशतिजन्ममरणान्यनुभवति। सर्वेऽप्येते समुदिताःक्षुद्रभवा एतावन्त एव भवन्ति ६६३३६ ॥ उक्तं च गोमट्ठसारे- तिण्णिसया छत्तीसा छावठिसहस्सगाणि मरणाणि ॥ एइंदयखुद्दभवा हवंति अंतो मुहुत्तस्स ॥१॥ वियलिदिएसु सीदिं ८० सहि ६. चालीस ४० मेव
Page #65
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
३५
णम् । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुलपरिवर्ताः ॥ विकले - न्द्रियाणां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेण संख्येयानि वर्षसहस्राणि || पञ्चेन्द्रियेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् || शेषाणां सामान्योक्तः कालः ॥ ( ३ ) कायानुवादेन पृथिव्यप्तेजोवायुकायिकानां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेणासंख्येयः कालः || वनस्पतिकायिकानामेकेन्द्रियवत् ॥ त्रसकायिकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तमुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरभ्यधिके । शेषाणां पञ्चेन्द्रियवत् ॥ ( ४ ) योगानुवादेन -- वाङ्मनसयोगिषु मिथ्यादृष्ट्य संयतसम्यग्दृष्टिसंयतासंयतप्रमत्ताप्रमत्तसयोगकेवलिनां नानाजीवापेक्षया सर्वः कालः । एकजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः ॥ सासादनसम्यग्दृष्टेः सामान्योक्तः कालः ॥ सम्यमिध्यादृष्टेर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः ॥ चतुर्णामुपशमकानां क्षपकाणांच नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः समयः । उत्क - घेणान्तर्मुहूर्तः ॥ काययोगिषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः
जाणाहि ॥ पंचेंदी चवीसा २४ खुद्दभवतोमुहुत्तस्स ॥ यदा चैव मुहू तस्य मध्ये एतावन्ति जन्ममरणानि भवन्ति तदैकस्मिन्नुच्छ्वासे अष्टादश जन्ममरणानि लभ्यन्ते । तत्रैकस्य क्षुद्रभवसंज्ञा ॥
१ उत्कर्षेण अनन्तकालोऽसंख्यातपुद्गल परिवर्तनलक्षणो निरन्तरमेकेन्द्रियत्वेन मृत्वा पुनर्भवात्ततो विकलेन्द्रियः पञ्चेन्द्रियो वा भवति ॥
Page #66
--------------------------------------------------------------------------
________________
३६
सर्वार्थसिद्धिः
-
कालः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुलपरिवर्ताः ॥ शेषाणामयोगिवत् ॥ अयोगानां सामान्यवत् ॥ ( ५ ) वेदानुवादेन – स्त्रीवेदेषु मिथ्याहष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पल्योपमपृथक्त्वम् || सासादनसम्यग्दृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्योक्तः कालः । किंतु असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि देशोनानि ॥ पुंवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् || सासादनसम्यग्दृ॥ ष्ट्याद्यनिवृत्तिबादरान्तानां सामान्योक्तः कालः ॥ नपुंसक वेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुलपरिवर्ताः ॥ सासादनसम्यग्दृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्यवत् । किं त्वसंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि ॥ अपगतवेदानां सामान्यवत् ॥ ( ६ ) कषायानुवादेन चतुष्कपायाणां मिथ्यादृष्ट्याद्यप्रमत्तान्तानां मनोयोगिवत् ॥ द्वयोरुपशमकयोर्द्वयोः क्षपकयोः केवललोभस्य च अकषायाणां च सामान्योक्तः कालः ॥ ( ७ ) ज्ञानानुवादेन --- मत्यज्ञानि श्रुताज्ञानिषु मिथ्यादृष्टिसासादनसम्यग्दृष्टयोः सामान्यवत् ॥ विभज्ञानिषु मिथ्यादृष्टेर्ना -
१ देशोनानि कथमिति चेत् स्त्रीवेदासंयतैकजीवं प्रति उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि गृहीतसम्यक्त्वस्य स्त्रीवेदोत्पादाभावात् पर्याप्तः सन्सम्यक्त्वं गृहिष्यतीति पर्याप्तिसमापकान्तर्मुहूर्तहीनत्व देशोनानि तानि पश्चपञ्चाशत् पल्योपमानि स्त्रीवेदे षोडशस्वर्गे सम्भवन्तीति वेदितव्यम् ॥
Page #67
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि ॥ सासादनसम्यग्दृष्टे: सामान्योक्तः कालः ॥ आभिनिबोधिकश्रुतावधिमनःपर्ययकेवलज्ञानिनां च सामान्योक्तः कालः ॥ (८) सँयमानुवादेन- सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातशुद्धिसँय-- तानां सँयतासँयतानामसँयतानां च सामान्योक्तः कालः ॥ (९) दर्शनानुवादेन-चक्षुर्दर्शनिषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः। एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे ॥ सासादनसम्यग्दृष्टयादीनां क्षीणकषायान्तानां सामान्योक्तः कालः ॥ अचक्षुदर्शनिषु मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तः कालः॥ अवधिकेवलदर्शनिनोरवधिकेवलज्ञानिवत् ॥ (१०) लेश्यानुवादेनकृष्णनीलकापोतलेश्यासु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जंघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सप्तदशसप्तसागरोपमाणि सातिरेकाणि ॥ सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टयोः सामान्योक्तः कालः । असंयतसम्यग्दृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशॆत्सप्तदशसप्त
१ देशोनानीति कथम् -- विभंगज्ञानिमिथ्यादृष्टयेकजीवं प्रति उत्कर्षण त्रयस्त्रिंशत्सागरोपमाणि । पर्याप्तश्च विभङ्गज्ञानं प्रतिपद्यत इति पर्याप्तसमापकान्तर्मुहूर्तहीनत्वाद्देशोनानि ।।
२ स तु कालः तिर्थमनुष्यापेक्षया, तेषामेव लेश्यापरावर्तसम्भवात् ॥ एवं सर्वत्र च लेश्यायुक्तस्यान्तर्मुहूर्तस्तिर्यङ्मनुष्यापेक्षया वेदितव्य ॥ ३ तत्कथम् ? नारकापेक्षया यथासंख्यं सप्तमपञ्चमतृतीयपृथिव्यां त्रयींस्त्रंशत्सप्तदशसप्तसागरोपमाणि देवनारकाणामवस्थितलेइयत्वात् ॥ ब्रजनियमेन तल्लेश्यायुक्तो भवति । आगच्छतो नियमो नास्तीति सातिरेकाणि ॥ ४ उक्तलेश्यायुक्तासंयतसम्यग्दृष्टयेकजीवं प्रति उत्र्केषण नारकापेक्षया उक्तान्येव सागरोपमाणि । पर्याप्तिसमापकान्तर्मुहूर्तसप्तम्यां मारणान्तिके च सम्यक्त्वाभावाद्देशानानि ॥
Page #68
--------------------------------------------------------------------------
________________
३८
सर्वार्थसिद्धिः सागरोपमाणि देशोनानि ॥ तेजःपद्मलेश्ययोमिथ्यादृष्टयसँयतसम्यग्दृष्टयोनीनाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमे अष्टादश च सागरोपमाणि साँतिरेकाणि ॥ सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्ट्योः सामान्योक्तः कालः ॥ सँयतासँयतप्रमत्ताप्रमत्तानां नानाजीवापेक्षया सर्वः कालः ॥ एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः ॥ शुक्ललेश्यानां मिथ्यादृष्टेनीनाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरोपमाणि सोतिरेकाणि ॥ सासादनसम्यग्दृष्ट्यादिसयोगकेवल्यन्तानामलेश्यानां च सामान्योक्तः कालः । किं तु सँयतासँयतस्य नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः ॥ (११) भव्यानुवादेन- भव्येषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः ॥ एकजीवापेक्षया द्वौ भङ्गौ । अनादिः सपर्यवसानः सादिः सपर्यवसानश्च । तत्र सादिः सपर्यवसानो जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः ॥ सासादनसम्यग्दृष्टयाद्ययोगकेवल्यन्तानां सामान्योक्तः कालः ॥ अभव्यानामनाद्यपर्यवसानः ॥ (१२) सम्यक्त्वानुवादेन- क्षायिकसम्यग्दृष्टीनामसँयतसम्यग्दृष्ट्याद्ययोगकेवल्यन्तानां सामान्योक्तः कालः ॥ क्षायोपशमिकसम्यग्दृष्टीनां चतुर्णा सामान्योक्तः कालः ॥ औपशमिकसम्यक्त्वेषु असंयतसम्यग्दृष्टिसंयतासंयतयो नाजीवापेक्षया जवन्येनान्तर्मुहूर्तः । उत्कर्षण
१ कथमेतत्-- प्रथमस्वर्गपटलापेक्षया द्वे सागरोपमे । द्वादशस्वर्ग पटलापेक्षया अष्टादश सागरोपमाणि च तल्लेश्यायुक्तानां मारणान्तिकोत्पादसम्भवात्सातिरेकतः सागरोपमयुक्तत्वाच्च सातिरेकाणि । किंचिदाधकानीत्यर्थः।।
२ ग्रैवेयकदेवापेक्षया तेषां नामानि मारणान्तिकोत्पादावस्थायामीप शुक्ललेश्यासम्भवात्सातिरेकाणि ॥
Page #69
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः ॥ प्रमत्ताप्रमत्तयोश्चतुर्णामुपशमकानां च नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः ॥ सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टिमिथ्यादृष्टीनां सामान्योक्तः कालः ॥ (१३) सञ्ज्ञानुवादेन- संज्ञिषु मिथ्यादृष्टयाद्यनिवृत्तिबादरान्तानां पुंवेदवत् । शेषाणां सामान्योक्तः कालः ॥ असंज्ञिनां मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् ॥ तिण्णिसया छत्तीसा छावट्ठी सहस्सगाणि मरणाणि । अंतोमुहुत्तमेत्ते तावदिया चेव होंति खुद्दभवा ॥ ६६३३६ ॥ उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । तदुभयव्यपदेशरहितानां सामान्योक्तः कालः ॥ (१४) आहारानुवादेन- आहारकेषु मिथ्यादृष्टेनानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति. जघन्येनान्तर्मुहूर्तः। उत्कर्षेणांगुलासंख्येयभागा असंख्येयाः संख्येया उत्सर्पिण्यवसर्पिण्यः । शेषाणां सामान्योक्तः कालः ॥ अनाहारकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण त्रयः समयाः ॥ सासादनसम्यग्दृष्टयसँयतसम्यग्दृष्टयो नाजीवापेक्षया जघन्यनैकः समयः । . उत्कर्षणावलिकाया असंख्येयभागः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षण द्वौ समयौ ॥ सयोगकेवीलनो नानाजीवापेक्षया जघन्येन त्रयः समयाः । उत्कर्षेण संख्येयाः समयाः। एकजीवं प्रति जघन्यश्चोत्कृष्टश्च त्रयः समयाः ॥ अयोगकेवलिनां सामान्योक्तः कालः ॥ कालो वर्णितः ॥
१ एकं द्वौ त्रीन्वाऽनाहारक इति वक्ष्यमाणत्वात् ॥ २ समये संमये दण्डादिप्रारम्भकत्वात् ॥
Page #70
--------------------------------------------------------------------------
________________
४०
सर्वार्थसिद्धिः
अन्तरं निरूप्यते--- विवक्षितम्य गुणस्य गुणान्तरसंक्रमे सति पुनस्तत्प्राप्तेः प्राङ्मध्यमन्तरम् । तत् द्विविधम् । सामान्येन विशेषेण च ॥ सामान्येन तावत् - मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तमुहूर्तः । उन्कर्षेण द्वे षट्षष्ठी देशोने सागरोपमाणाम् ॥ सासादनसम्यग्दृष्टेरन्तरं नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः ॥ सम्यग्मिथ्यादृष्टेरन्तरं नानाजीवापेक्षया सासादनवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः ॥ असंयतसम्यग्दृष्ट्याद्यप्रमत्ता न्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपारिवों देशोनः ॥ चतुर्णामुपशमंकानां नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः ॥ चतुर्णां क्षपकाणामयोगकेवलिनां च नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण षण्मासाः। एकजीवं प्रति नास्त्यन्तरम् ॥ सयोगकेवलिनां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ॥ विशेषेण (१) गत्यनुवादेन- नरकगतौ नारकाणां सप्तसु पृथिवीषु मिथ्यादृष्ट्यसंयतसम्यग्दृष्ट्यो नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण एक-त्रि-सप्त दश-सप्तदश-द्वाविंशतित्रयस्त्रिंशत्सागरोपमाणि देशोनानि ॥ सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्ट्यो नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण एक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिं
Page #71
--------------------------------------------------------------------------
________________
प्रथमोऽसे निरा नाम
शत्सागरोपमाणि देशोनानि ॥ तिर्यग्गतौ तिरश्चां मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि देशोनानि ॥ सासादनसम्यग्दृष्ट्यादीनां चतुर्णां सामान्योक्तमन्तरम् ॥ मनुष्यगतौ मनुष्याणां मिथ्यादृष्टेस्तिर्यग्वत् ॥ सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्यो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटीपृथक्वरभ्यधिकानि ॥ असंयतसम्यग्दृष्टेनानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्येनान्तर्मुहूर्तः । उत्कर्षण त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वैरभ्यधिकानि ॥ संयतासंयतप्रमत्ताप्रमत्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षण पूर्वकोटीपृथक्त्वानि ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटीपृथक्त्वानि । शेषाणां सामान्यवत् ॥ देवगतौ देवानां मिथ्यादृष्ट्यसंयतसम्यग्दृष्ट्यो नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण एकत्रिंशत्सागरोपमाणि देशोनानि ॥ सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योनानाजीवापेक्षया सामान्यवत् । एक
१ आधिकमपि कस्मान्नेति चेत्-- क्षपणारम्भकवेदकयुक्तस्य तिर्यसूत्पा. दाभावात् । तद्युक्तो हि देवेष्वेवोत्पद्यते । अतो मिथ्यात्वयुक्तस्त्रिपल्योपमायुष्को भोगभूमिपूत्पद्यते। तत्र चोत्पन्नानां तिर्यङ्मनुष्याणां किञ्चिदभ्यधिकाटचत्वारिंशद्दिनेषु सम्यक्त्वग्रहणयोग्यता भवति । नियमादेतावद्दिनेषु सम्यक्त्वामथ्यात्वपरित्यागात् सम्यक्त्वं गृह्णाति । त्रिपल्योपमायुःशेष पुनर्मिथ्यात्वं प्रतिपद्यते । इति गर्भकाले किञ्चिदधिकाष्टचत्वाशिद्दिनैरवसानकाले शेषेण च हीनत्वाद्देशोनानि ज्ञातव्यानि ॥
२ यतो मनुष्या अपि भोगभूमौ तथाविधा भवन्ति ॥
Page #72
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः जीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेगैकत्रिंशत्सागरोपमाणि देशोनानि ॥ (२) इन्द्रियानुवादेनएकेन्द्रियाणां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरभ्यधिके ॥ विकलेन्द्रियाणां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । एवमिन्द्रियं प्रत्यन्तरमुक्तम् । गुणं प्रत्युभयंतोऽपि नास्त्यन्तरम् ॥ पञ्चेन्द्रियेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टि सम्यमिथ्यादृष्ट्यो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तमुहूर्तश्च । उत्कर्षेण सागरोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् ॥ असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् ॥ शेषाणां सामान्योक्तम् ॥ (३) कायानुवादेन --- पृथिव्यप्तेजोवायुकायिकानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् ॥ उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः ॥ वनस्पतिकायिकानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेणासंख्येया लोकाः ॥ एवं कार्य प्रत्य
१ गुणस्थानेत्यस्य नाम्न एकदेशं मिथ्यात्वादिकम् ॥ २ एकेन्द्रियविकलेन्द्रियतोऽपीत्यर्थः। यतस्ते एकेन्द्रियविकलेन्द्रिया मिथ्यादृष्टय एव। एकेंद्रिय विकलेंद्रियाणां चतुर्णा गुणस्थानान्तरासम्भवात् । पञ्चेन्द्रियाणां तु तत्सम्भवात् मिथ्यात्वादेः सम्यक्त्वादिना अन्तरं द्रष्टव्यम् ॥
Page #73
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
४३ न्तरमुक्तम् । गुणं प्रत्युभयतोऽपि नास्त्यन्तरम् ॥ त्रसकायिकेषु मिथ्यादृष्टेः सामान्यवत् ॥ सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टयोर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरभ्यधिके ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्यनान्तर्मुहूर्तः । उकर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरभ्यधिके । शेषाणां पञ्चेन्द्रियवत् ।। (४) योगानुवादेन--- कायवाङ्मानसयोगिनां मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिसंयतासंयतप्रमत्ताप्रमत्तसयोगकेवलिनां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ॥ सासादनसम्यग्दृष्टि सम्यमिथ्यादृष्ट्यो - नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम्। चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । चतुर्णी क्षपकाणामयोगकेवलिनां च सामान्यवत् ॥ (५) वेदानुवादेन--स्त्रीवेदेषु मिथ्यादृष्टे नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षण पञ्चपञ्चाशत्पल्योपमानि देशोनानि ॥ सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्यो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण पल्योपमशतपृथक्त्वम् ।। असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पल्योपमशतपृथक्त्वम् ।। द्वयोरुपशमकयो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पल्योपमशतपृथक्त्वम् ।। द्वयोः क्षपकयोर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् ॥
१ पृथिव्यादिचतुर्णा वनस्पतिकायिकानां चान्तरं नास्ति यतः पृथिव्यतेजोवायुकायिकास्तथा वनस्पतिकायिका उभयेऽपि मिथ्यादृष्टयो वर्तन्ते ॥
Page #74
--------------------------------------------------------------------------
________________
४४
सर्वार्थसिद्धिः एकजीवं प्रति नास्त्यन्तरम् ॥ पुंवेदेषु मिथ्यादृष्टेः सामान्यवत् ॥ सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टयोनानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण सागरोपमशतपृथक्त्वम् ॥ असंयतसम्यग्दृष्टयाद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् ॥ द्वयोरुपशमकयो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण सागरोपमशतपृथक्त्वम् । द्वयोः क्षपकयो नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण संवत्सरः साँतिरेकः । एकजीवं प्रति नास्त्यन्तरम् ॥ नपुंसकवेदेषु मिथ्यादृष्टे नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि ॥ सासादनसम्यग्दृष्टयाद्यनिवृत्त्युपशमकान्तानां सामान्योक्तम् ॥ द्वयोः क्षपकयोः स्त्रीवेदवत् ॥ अपगतवेदेषु अनिवृत्तिबादरोपशमकसूक्ष्मसाम्परायोपशमकयो नाजीवापेक्षया सामान्योक्तम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः ।। उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् ॥ शेषाणां सामान्यवत् ॥ (६) कषायानुवादेन—क्रोधमानमायालोभकषायाणां मिथ्यादृष्टयाद्यनिवृत्त्युपशमकान्तानां मनोयोगिवत् ॥ द्वयोः क्षपकयो नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण संवत्सरः सातिरेकः ॥ केवललोभस्य सूक्ष्मसाम्परायोपशमकस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् ॥ क्षपकस्य तस्य सामान्यवत् ॥ अकषायेषु उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् ॥ शेषाणां त्रयाणां
१ अष्टादशमासा इत्यर्थः॥
Page #75
--------------------------------------------------------------------------
________________
४५
प्रथमोऽध्यायः सामान्यवत् ॥ (७) ज्ञानानुवादेन-मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानिषु मिथ्यादृष्टेर्नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ॥ सासादनसम्यग्दृष्टेर्नानाजीवापेक्षया सामान्यवत् ॥ एकजीवं प्रति नास्त्यन्तरम् ॥ आभिनिबोधिकश्रुतावधिज्ञानिषु असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना ॥ सँयतासँयतस्य नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्क्षष्टिसागरोपमाणि सातिरेकाणि ॥ प्रमत्ताप्रमत्तयो नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमाणि सातिरेकाणि ॥ चतुर्णां क्षपकाणां सामान्यवत् । किं तु अवधिज्ञानिषु नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति नास्त्यन्तरम् । मनःपर्ययज्ञानिषु प्रमत्ताप्रमत्तसँयतयो नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षण पूर्वकोटी देशोना ॥ चतुर्णा क्षपकाणामवधिज्ञानिवत् ॥ द्वयोः केवलज्ञानिनोः सामान्यवत् ॥ (८) संयमानुवादेन–सामायिकच्छेदोपस्थापनशुद्धिसँयतेषु प्रमत्ताप्रमत्तयोर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः ।। द्वयोरुपशमकयो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना ॥ द्वयोः क्षपकयोः सामान्यवत् ॥ परिहारशुद्धिसंयतेषु प्रमत्ताप्रमत्तयोर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः ॥
Page #76
--------------------------------------------------------------------------
________________
४६
सर्वार्थसिद्धिः सूक्ष्मसाम्परायशुद्धिसंयतेषूपशमकस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् ॥ तस्यैव क्षपकस्य सामान्यवत् ॥ यथाख्याते अकषायवत् ॥ संयतासंयतस्य नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ॥ असंयतेषु मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि ॥ शेषाणां त्रयाणां सामान्यवत् ॥ (९) दर्शनानुवादेन- चक्षुर्दर्शनिषु मिथ्यादृष्टेः सामान्यवत् ॥ सासादनसम्यग्दृष्टिसम्याग्मथ्यादृष्टयो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण द्वे सागरोपमसहस्रे देशोने ॥ असंयतसम्यग्दृष्टयाद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे. देशोने ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे देशोने ॥ चतुर्णा क्षपकाणां सामान्योक्तम् ॥ अचक्षुर्दर्शनिषु मिथ्यादृष्टयादिक्षीणकषायान्तानां सामान्योक्तमन्तरम् ॥ अवधिदर्शनिनोऽवधिज्ञानिवत् ॥ केवलदर्शनिनः केवलज्ञानिवत् ॥ (१०) लेश्यानुवादेन- कृष्णनीलकापोतलेश्येषु मिथ्यादृष्टयसंयतसम्यग्दृष्टयो नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सप्तदंशसप्तसागरोपमाणि देशोनानि ॥ सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टयो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षण त्रयस्त्रिंशत्सप्तदशसप्तसागरोपमाणि देशोनानि ॥ तेजःपद्मलेश्ययोमिथ्यादृष्टयसंयतसम्यग्दृष्टयो नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमे अष्टादश च सागरोपमाणि
Page #77
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
४७ सातिरेकाणि ॥ सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टयो नाजीवापेक्षया सामान्यवत् ॥ एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण द्वे सागरोपमे अष्टादश च सागरोपमाणि सातिरेकाणि ॥ संयतासंयतप्रमत्ताप्रमत्तसंयतानां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ॥ शुक्ललेश्येषु मिथ्याहष्टयसंयतसम्यग्दृष्टयो नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरोपमाणि देशोनानि ॥ सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टयो नाजीवापेक्षया सामान्यवत् । एकजी प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कघेणैकत्रिंशत्सागरोपमाणि देशोनानि ॥ संयतासंयतप्रमत्तसंयतयोस्तेजोलेश्यावत् ॥ अप्रमत्तसंयतस्य नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः ॥ अयदोत्ति छलेस्साओ सुह तिय लेस्सा हु देसविरदतिये ॥ तत्तो दु सुक्कलेस्सा अजोगिठाणं अलेस्सं तु ॥ १ ॥ त्रयाणामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः ॥ उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् ॥ चतुर्णा क्षपकाणां सयोगकेवलिनामलेश्यानां च सामा-यवत् ॥ (११) भव्यानुवादेन- भव्येषु मिथ्यादृष्टयाद्ययोगकेवल्यन्तानां सामान्यवत् ॥ अभव्यानां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ॥ (१२) सम्यक्त्वानुवादेनक्षायिकसम्यग्दृष्टिप्वसँयतसम्यग्दृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना ॥ सँयतासँयतप्रमत्ताप्रमत्तसँयतानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोप
१ गोमहसारे लेश्याधिकारे उक्तमेतत् ।
Page #78
--------------------------------------------------------------------------
________________
४८
सर्वार्थसिद्धिः माणि सातिरेकाणि ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि ॥ शेषाणां सामान्यवत् । क्षायोपशमिकसम्यग्दृष्टिप्वसंयतसम्यग्दृष्टे नाजीवापेक्षया नास्त्यन्तरम् ॥ एकजीव प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना ॥ सँयतासँयतस्य नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमाणि देशोनानि ॥ प्रमत्ताप्रमत्तसँयतयो नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि ॥
औपशमिकसम्यग्दृष्टिष्वसँयतसम्यग्दृष्टे नाजीवापेक्षया जघ येनैकः समयः । उत्कर्षेण सप्त रात्रिदिनानि ॥ एकजीवं प्रति जघन्यत्कृष्टं चान्तर्मुहूर्तः ॥ सँयतासँयतस्य नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण चतुर्दश रात्रिदिनानि । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः ॥ प्रमत्ताप्रमत्तसँयतयो नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पञ्चदश रात्रिदिनानि । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः ॥ त्रयाणामुपशमकानां नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः ॥ उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् ॥ सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टयो नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षण पल्योपमासंख्येयभागः । एकजीवं प्रति नास्त्यन्तरम् ॥ मिथ्यादृष्टेर्नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ॥ (१३) सञ्ज्ञानुवादेन - संक्षिषु मिथ्यादृष्टेः सामान्यवत् ॥ सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टयो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण सागरो
Page #79
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
पमशतपृथक्त्वम् ॥ असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कपेण सागरोपमशतपृथक्त्वम् ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कपेण सागरोपमशतपृथक्त्वम् । चतुर्णी क्षपकाणां सामान्यवत् । असंज्ञिनां नानाजीवापेक्षयैकजीवापेक्षया च नास्त्यन्तरम् ॥ तदुभयव्यपदेशरहितानां सामान्यवत् ॥ (१४ ) आहारानुवादेनआहारकेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्ट्यो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षणांगुलासंख्येयभागा असंख्येया उत्सर्पिण्यवसर्पिण्यः । असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणांगुलासंख्येयभागा असंख्येया उत्सपिण्यवसर्पिण्यः ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणांगुलासंख्येयभागा असंख्येयासंख्येया उत्सर्पिण्यवसर्पिण्यः । चतुर्णा क्षपकाणां सयोगकेवलिनां च सामान्यवत् । अनाहारकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ॥ सासादनसम्यग्दृष्टे नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति नास्त्यन्तरम् ॥ असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण मासपृथक्त्वम् । एकजीवं प्रति नास्त्यन्तरम् ॥ सयोगकेवलिनां नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति नास्त्यन्तरम् ॥ अयोगकेवलिनां नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षण षण्मासाः। एकजीवं प्रति नास्त्यन्तरम् ॥ अन्तरमवगतम् ॥
Page #80
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः ___भावो विभाव्यते ॥ स द्विविधः । सामान्येन विशेषेण च ॥ सामान्येन तावत्-- मिथ्यादृष्टिरित्यौदयिको भावः। सासादनसम्यग्दृष्टिरिति पारिणामिको भावः ॥ सम्यङ्मिथ्यादृष्टिरिति क्षायोपशमिको भावः ॥ असंयतसम्यग्दृष्टिरिति औपशमिको वा क्षायिको वा क्षायोपशमिको वा भावः ॥ उक्तं च । मिच्छे खळु ओदइओ बिदिए पुण पारिणामिओ भावो । मिस्से खओवसमिओ अविरदसम्मम्मि तिण्णेव ॥ १ ॥ असंयतः पुनरौदयिकेन भावेन ॥ सँयतासँयतः प्रमत्तसँयतोऽप्रमत्तसँयत इति च क्षायोपशमिको भावः ॥ चतुर्णामुपशमकानामौपशमिको भावः ॥ चतुषु क्षपकेषु सयोगायोगकेवलिनोश्च क्षायिको भावः ॥ विशेषेण (१) गत्यनुवादेननरकगतौ प्रथमायां पृथिव्यां नारकाणां मिथ्यादृष्ट्याद्यसयतसम्यग्दृष्टयन्तानां सामान्यवत् ॥ द्वितीयादिष्वा सप्तम्या मिथ्यादृष्टिसासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टीनां सामान्यवत् ॥ असंयतसम्यग्दृष्टेरौपशमिको वा क्षायोपशमिको वा भावः । असँयतः पुनरौदयिकेन भावेन ॥ तिर्यग्गतौ तिरश्चां मिथ्यादृष्ट्यादिसँयतासँयतान्तानां सामान्यवत् ॥ मनुष्यगतौ मनुष्याणां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यवत् ॥ देवगतौ देवानां मिथ्यादृष्ट्याद्यसँयतसम्यग्दृष्ट्यन्तानां सामान्यवत् ॥ (२) इन्द्रियानुवादेन- एकेन्द्रियविकलेन्द्रियाणामौदयिको भावः । पञ्चेद्रियेषु मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यवत् ॥ ( ३ ) कायानुवादेन- स्थावरकायिकानामौदयिको भावः । त्रसकायिकानां सामान्यमेव ॥ ( ४ ) योगानुवादेन- कायवाल्मा
१ असंयतसम्यग्दृष्टौ सम्भवतोऽसंयतत्वस्यौदयिकत्वं प्राहुः असंयतत्वस्य चारित्रमोहोदयहेतुत्वात् ॥
Page #81
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः नसयोगिनां मिथ्यादृष्टयादिसयोगकेवल्यन्तानामयोगकेवलिनां च सामान्यमेव ॥ (५) वेदानुवादेन- स्त्रीपुन्नपुंसकवेदानामवेदानां च सामान्यवत् ॥ ( ६ ) कषायानुकादेन- क्रोधमानमायालोभकपायाणामकषायाणां च सामान्यवत् (७ ) ज्ञानानुवादेन- मत्यज्ञानिश्रुताज्ञानिविभङ्गज्ञानिनां मतिश्रुतावधिमनःपर्ययकेवलज्ञानिनां च सामान्यवत् ॥ ( ८ ) सँयमानुवादेन– सर्वेषां सँयतानां सँयतासँयतानामसँयतानां च सामान्यवत् (९) दर्शनानुवादेन--- चक्षुर्दशनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनिनां सामान्यवत् ॥ (१०) लेश्यानुवादेन -- षड्लेश्यानामलेश्यानां च सामान्यवत् ॥ (११) भव्यानुवादेन- भव्यानां मिथ्यादृष्ट्याद्ययोगकेवल्य तानां सामा. न्यवत् । अभव्यानां पारिणामिको भावः ॥ (१२) सम्यक्त्वानुवादेन- क्षायिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेः क्षायिको भावः । क्षायिकं सम्यक्त्वम् । असंयतत्वमौदयिकेन भावेन ॥ सँयतासँयतप्रमत्ताप्रमत्तसँयतानां क्षायोपशमिको भावः । क्षायिकं सम्यक्त्वं च॥ चतुर्णामुपशमकानामौपशमिको भावः । क्षायिकं सम्यक्त्वम्॥ शेषाणां सामान्यवत् ॥ क्षायोपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेः क्षायोपशमिको भावः । क्षायोपशमिकं सम्यक्त्वम् । असंयतः पुनरौदायकन भावेन ॥ सँयतासँयतप्रमत्ताप्रमत्तसँयतानां क्षायोपशमिको भावः । क्षायोपशमिकं सम्यक्त्वम् ॥ औपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेरौपशमिको भावः । औपशमिकं सम्यक्त्वम् । असंयतः पुनरौदयिकेन भावेन ॥ सँयतासँयतप्रमत्ताप्रमत्तसँयतानां क्षोयोपशमिको भावः । औपशमिकं सम्यक्त्वम् ॥ चतुर्णामुपश
१ अभव्यत्वधर्मस्य मुख्यत्वेन । मिथ्यात्वमुख्यत्वेन तु औदयिक एव स्यात् ॥ २ अत्र औदयिको भावः इत्येकः पाठः । औपशमिको भावः इत्येकः पाठः॥
Page #82
--------------------------------------------------------------------------
________________
५२
सर्वार्थसिद्धिः मकानामौपशमिको भावः । औपशमिकं सम्यक्त्वम् ॥ सासादनसम्यग्दृष्टेः पारिणामिको भावः ॥ सम्यमिथ्यादृष्टेः क्षायोपशमिको भावः ॥ मिथ्यादृष्टेरौदयिको भावः। (१३) संज्ञानुवादेनसंज्ञिनां सामान्यवत् । असंज्ञिनामौदयिको भावः ।। तदुभयव्यपदेशरहितानां सामान्यवत् ।। (१४) आहारानुवादेन- आहारकाणामनाहारकाणां च सामान्यवत् ॥ भावः परिसमाप्तः ॥
अल्पबहुत्वमुपवर्ण्यते ॥ तत् द्विविधं सामान्येन विशेषेण च ॥ सामान्येन तावत्-त्रय उपशमकाः सर्वतः स्तोकाः स्वगुणस्थानकालेषु प्रवेशेन तुल्यसंख्याः ॥ उपशान्तकषायास्तावन्त एव ॥ त्रयः क्षपकाः संख्येयगुणाः । क्षीणकषायवीतरागच्छद्मस्थास्तावन्त एव ॥ सयोगकेवलिनोऽयोगकेवलिनश्च प्रवेशेन तुल्यसंख्याः ॥ सयोगकेवलिनः स्वकालेन समुदिताः संख्येयगुणाः । ८९८५०२ ॥ अप्रमत्तसँयताः संख्येयगुणाः। २९६९९१०३ । प्रमत्तसँयताः संख्येयगुणाः। ५९३९८२०६॥ सँयतासँयता असंख्येयगुणाः ॥ सासौदनसम्यग्दृष्टयोऽसंख्येयगुणाः॥ सम्यग्मिथ्यादृष्टयः संख्येयगुणाः। असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः॥ मिथ्यादृष्टयोऽनन्तगुणाः।। विशेषेण (१) गत्यनुवादेन- नरकगतौ सर्वासु पृथिवीषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । सम्यग्मिथ्यादृष्टयः संख्येयगुणाः ।
१ अष्टसु समयेषु प्रवेशेन एको वा द्वौ वा त्रयो वा इत्यादिजघन्या ॥ उत्कृष्टास्तु १६॥२४॥३०॥३६॥४२॥४८॥५४ स्वगुणस्थानकालेषु प्रवेशेन तुल्यसंख्याः ॥ संख्याकथनावसरे प्रोक्ताः । तत्र द्रष्टव्यम् ॥
२ सयतासंयता: संख्येयगुणाः । संयतासंयतानां नास्त्यल्पबहुत्वम् । एकगुणस्थानवर्तित्वात् । संयतासंयतानामिव गुणस्थानभेदात् १३०००००००॥ ३ सासादनसम्यग्दृष्टयः संख्येयगुणाः ५२०००००००॥ ४ सम्यग्मिथ्यादृष्टयः संख्येयगुणाः १०४००००००० ॥ ५॥ असंयतसम्यग्दृष्टयः संख्येयगुणाः ७०००००००००॥ इति श्रुतसागरः ॥
Page #83
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः ५३ असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽसंख्येयगुणाः ॥ तिर्यग्गतौ तिरश्चां सर्वतः स्तोकाः सँयतासँयताः। इतरेषां सामान्यवत् ॥ मनुष्यगतौ मनुष्याणामुपशमकादिप्रमत्तसंयतान्तानां सामान्यवत् ॥ ततः संख्येयगुणाः संयतासँयताः ॥ सासादनसम्यग्दृष्टयः संख्येयगुणाः ॥ सम्यग्मिथ्यादृष्टयः संख्येयगुणाः ॥ असंयतसम्यग्दृष्टयः संख्येयगुणाः ॥ मिथ्यादृष्टयोऽसंख्येयगुणाः ॥ देवगतौ देवानां नारकवत् ॥ (२) इंद्रियानुवादेन- एकेन्द्रियविकलेन्द्रियेषु गुणस्थानभेदो नास्तीत्यल्पबहुत्वाभावः ॥ इन्द्रियं प्रत्युच्यते । पञ्चेद्रियायेकेन्द्रियान्ता उत्तरोत्तरं बहवः ॥ पञ्चन्द्रियाणां सामान्यवत् । अयं तु विशेषः- मिथ्यादृष्टयोऽसंख्येयगुणाः ॥ ( ३ ) कायानुवादेन- स्थावरकायेषु गुणस्थानभेदाभावादल्पबहुत्वाभावः । कायं प्रत्युच्यते । सर्वतस्तेजःकायिका अल्पाः । ततो बहवः पृथिवीकायिकाः। ततोऽप्कायिकाः। ततो वातकायिकाः । सर्वतोऽनन्तगुणा वनस्पतयः ॥ त्रसकायिकानां पञ्चेन्द्रियवत् ॥ ( ४ ) योगानुवादेन- वाङ्मानसयोगिनां पञ्चेन्द्रियवत् । काययोगिनां सामान्यवत् ॥ (५) वेदानुवादेन- स्त्रीपुंवेदानां पञ्चेन्द्रियवत् । नपुंसकवेदानामवेदानां च सामान्यवत् ।। (६) कषायानुवादेन- क्रोधमानमायाकषायाणां पुंवेदवत् । अयं तु विशेषः- मिथ्यादृष्टयोऽनन्तनुणाः ॥ लोभकषायाणां द्वयोरुपशमकयोस्तुल्या संख्या । क्षपकाः संख्येयगुणाः । सूक्ष्मसाम्परायशुध्धुपशमकसँयता विशेषाधिकाः । सूक्ष्मसाम्परायक्षपकाः संख्येयगुणाः । शेषाणां सामान्यवत् ।। (७) ज्ञानानुवादेनमत्यज्ञानिश्रुताज्ञानिषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । मिथ्यादृष्टयोऽसंख्येयगुणाः ॥ मतिश्रुतावधिज्ञानिषु सर्वतः स्तोकाश्चत्वार उपशमकाश्चत्वारः क्षपकाः संख्येयगुणाः। अप्रमत्त
Page #84
--------------------------------------------------------------------------
________________
५४
सर्वार्थसिद्धिः संयताः संख्येयगुणाः । प्रमत्तसँयताः संख्येयगुणाः । सँयतासँयताः संख्येयगुणाः । असंयत्तसम्यग्दृष्टयः संख्येयगुणाः ॥ मनःपर्ययज्ञानिषु सर्वतः स्तोकाश्चत्वार उपशमकाः । चत्वारः क्षपकाः संख्येयगुणाः । अप्रमत्तसँयताः संख्येयगुणाः । प्रमत्तसँयताः संख्येयगुणाः ॥ केवलज्ञानिषु अयोगकेवलिभ्यः संयोगकेवलिनः संख्येयगुणाः ।। (८) सँयमानुवादेन--- सामायिकच्छेदोपस्थापनशुद्धिसँयतेषु द्वयोरुपशमकयोस्तुल्यसंख्या । ततः संख्येयगुणौ क्षपकौ । अप्रमत्ताः संख्येयगुणाः । प्रमत्ताः संख्येयगुणाः ।। परिहारविशुद्धिसँयतेषु अप्रमत्तेभ्यः प्रमत्ताः संख्येयगुणाः । सूक्ष्मसाम्परायशुद्धिसँयतेषु उपशमकेभ्यः क्षपकाः संख्येयगुणाः ॥ यथाख्यातविहारशुद्धिसँयतेषु उपशान्तकषायेभ्यः क्षीणकषायाः संख्येयगुणाः ॥ अयोगकेवलिनस्तावन्त एव । सयोगकेवलिनः संख्येयगुणाः ॥ सँयतासँयतानां नास्त्यल्पबहुत्वम् । असंयतेषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । सम्यमिथ्यादृष्टयोऽसंख्येयगुणा। : असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽनन्तगुणाः ॥ (९) दर्शनानुवादेन- चक्षुर्दर्शनिनां मनोयोगिवत् ॥ अचक्षुदर्शनिनां काययोगिवत् ॥ अवधिदर्शनिनामवधिज्ञानिवत् ॥ केवलदर्शनिनां केवलज्ञानिवत् ॥ (१०) लेश्यानुवादेन- कृष्णनीलकापोतलेश्यानां असंयतवत् ॥ तेजःपद्मलेश्यानां सर्वतः स्तोका अप्रमत्ताः। प्रमत्ताः संख्येयगुणाः । एवमितरेषां पञ्चेन्द्रियवत् ॥ शुक्ललेश्यानां सर्वतः स्तोका उपशमकाः । क्षपकाः संख्येयगुणाः । सयोगकेवलिनः संख्येयगुणाः। अप्रमत्तसँयताः संख्येयगुणाः ।
१ अयोगकेवालनः एको वा द्वौ वा त्रयो वा उत्कर्षणाष्टोत्तरशतसंख्याः स्वकालेन समुदितास्तेभ्यः संख्येयाः सयोगकेवलिनः ॥ ८९८५०२ ॥
Page #85
--------------------------------------------------------------------------
________________
५५ प्रमत्तसँयताः संध्येयगुणायाम संयतासयताः सख्येयगुणाः । सासादनसम्यग्दृष्टयः सैहयवाहः । सत्यमिथ्यापक संख्येयगुणाः । मिथ्यादृष्टयोऽसंख्येयगुणाः असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । (११) भव्यानुवादेन -- भव्यानां सामान्यवत् । अभव्यानां नास्त्यल्पबहुत्वम् ।। (१२) सम्यक्त्वानुवादेन--- क्षायिकसम्यग्दृष्टिषु सर्वतः स्तोकाश्चत्वार उपशमकाः । इतरेषां प्रमत्तान्तानां सामान्यवत् । ततः सँयतासँयताः संख्येयगुणाः । असँयतसम्यग्दृष्टयोऽसंख्येयगुणाः ॥ क्षायोपशमिकसम्यग्दृष्टिषु सर्वतः स्तोका अप्रमत्ताः । प्रमत्ताः संख्येयगुणाः । सँयतासँयताः संख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः ॥ औपशमिकसम्यग्दृष्टीनां सर्वतः स्तोकाश्चत्वार उपशमकाः । अप्रमताः संख्येय गुणाः । प्रमताः संख्येयगुणाः ॥ सँयतासँयताः संख्येयगुणाः। असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः। शेषाणां नास्त्यल्पबहुत्वम् । विपक्षे एकैकगुणस्थानग्रहणात् ।। (१३) सज्ञानुवादेन- संज्ञिनां चक्षुर्दर्शनिवत् । असंज्ञिनां नास्त्यल्पबहुत्वम् । तदुभयव्यपदेशरहितानां केवलज्ञानिवत् ।। (१४ ) आहारानुवादेनआहारकाणां काययोगिवत् । अनाहारकाणां सर्वतः स्तोकाः सयोगकेवलिनः । अयोगकेवलिनः संख्येयगुणाः। सासादनसम्यग्दृष्टयोऽसंख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽनन्तगुणाः ॥ एवं मिथ्यादृष्टयादीनां गत्यादिषु मार्गणा कृता सामान्येन ।। तत्र सूक्ष्मभेद आगमाविरोधेनानुस्मर्तव्यः ॥
____एवं सम्यग्दर्शनस्यादावुद्दिष्टस्य लक्षणोत्पत्तिस्वामिविषयन्यासाधिगमोपाया निर्दिष्टाः । तत्सम्बन्धेन च जीवादीनां सज्ञापरिणामादि निर्दिष्टम् । तदनन्तरं सम्यग्ज्ञानं विचारार्हमित्याहमतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ९॥
Page #86
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः . ज्ञानशब्दः प्रत्येकं परिसमाप्यते । मतिज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानमिति ॥ इन्द्रियैर्मनसा च यथास्वमर्थान्मन्यते अनया मनुते मननमात्रं वा मतिः ॥ तदावरणक्षयोपशमे सति निरूप्यमाणं श्रूयते अनेनेति तत् शृणोति श्रवणमात्रं वा श्रुतम् ॥ अनयोः प्रत्यासन्ननिर्देशः कृतः कार्यकारणभावात् । तथा च वक्ष्यते " श्रुतं मतिपूर्वमिति" ॥ अवाग्धानादवच्छिन्नविषयोद्वा अवधिः ॥ परकीयमनोगतोऽर्थोः मन इत्युच्यते साहचर्यात्तस्य पर्ययणं परिगमनं मनःपर्ययः । मतिज्ञानप्रसङ्ग इति चेन्न । अपेक्षामात्रत्वात् । क्षयोपशमशक्तिमात्रविजृम्भितं तत्केवलं स्वपरमनोभिर्व्यपदिश्यते । यथा अभ्रे चन्द्रमसं पश्येति॥ बाह्येनाभ्यन्तरेण च तपसा यदर्थमर्थिनो मार्ग केवन्ते सेवन्ते तत्केवलम् । असहायमिति वा ॥ तदन्ते प्राप्यते इति अन्ते क्रियते । तस्य प्रत्यासन्नत्वात्तत्समीपे मनःपर्ययग्रहणम् । कुतः प्रत्यासत्तिः ? । संयमैकाधिकरणत्वात् । तस्य अवधिर्विप्रकृष्टः । कुतः ? विप्रकृष्टतरत्वात् ॥ प्रत्यक्षात्परोक्षं पूर्वमुक्तं सुगमत्वात् । श्रृंतपरिचितानुभूता हि मतिश्रुतपद्धतिः सर्वेण प्राणिगणेन प्रायः प्राप्यते यतः ॥ एवमेतत्पञ्चविधं ज्ञानम् ॥ तद्भेदादयश्च पुरस्ताद्वक्ष्यन्ते ॥
१ अवायन्ति व्रजन्तीत्यवाया. पुद्गलाः। तान् दधाति जानातात्यवधिः।। अवाग्धानात्पुद्गलपरिज्ञानादित्यर्थः ॥ २ द्रव्यक्षेत्रकालभानियतत्वेनावधीयते नियम्यते प्रमीयते परिच्छिद्यत इत्यर्थ. ॥
३ अवधानं अवधिः। कोऽर्थः ?-- अधस्ताद्बहुतरविषयग्रहणादवधिरुच्यते। देवाः खलु अवधिज्ञानेन सप्तमनरकपर्यन्तं पश्यन्ति । उपरि स्तोकं पश्यन्ति । निजविमानध्वजदण्डपर्यन्तमित्यर्थः ॥ अवच्छिन्नविषयत्वादवधिः । कोऽथ ?- रूपितलक्षणविषयत्वादवधिः ॥
४ केवलज्ञानापक्षया विप्रकृष्टेषु मतिश्रुतावधिष्वन्यतमत्वात् ॥ ५ श्रुतेन परिचिता सा चानुभूता च ॥
Page #87
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
५७
प्रमाणनयैरधिगम इत्युक्तम् । प्रमाणं च केषाञ्चित् ज्ञानमभिमतम् । केषाञ्चित् सन्निकर्षः। केषांञ्चिदिन्द्रियमिति । अतोऽ धिकृतानामेव मत्यादीनां प्रमाणत्वस्यापनार्थमाह
॥ तत्प्रमाणे ॥ १० ॥ तद्वचनं किमर्थं ? प्रमाणान्तरपरिकल्पनानिवृत्यर्थम् । सन्निकर्षः प्रमाणमिन्द्रियं प्रमाणमिति केचित्कल्पयन्ति तन्निवृत्यर्थं तदित्युच्यते । तदेव मत्यादि प्रमाणं नान्यदिति ॥ अथ सन्निकर्षप्रमाणे सति इन्द्रिये वा को दोषः ? यदि सन्निकर्षः प्रमाणं, सूक्ष्मव्यवहितविप्रकृष्टानामर्थानामग्रहणप्रसङ्गः । नहि ते इन्द्रियैः सन्निकृप्यन्ते । अतः सर्वज्ञत्वाभावः स्यात् ॥ इन्द्रियमपि यदि प्रमाणं, स एव दोषः । अल्पविषयत्वात् चक्षुरादीनां । ज्ञेयस्य चापरिमाणत्वात् । सर्वेन्द्रियसन्निकर्षाभावश्च चक्षुर्मनसोः प्राप्यकारित्वाभावात् । अप्राप्यकारित्वं च उत्तरत्र वक्ष्यते ॥ यदि ज्ञानं प्रमाणं, फलाभावः । अधिगमो हि फलमिष्टं न भावान्तरम् । स चेत्प्रमाणं, न तस्यान्यत्फलं भवितुमर्हति । फलवता च प्रमाणेन भवितव्यम् ॥ सन्निकर्षे इन्द्रिये वा प्रमाणे सति, अधिगमः फलमर्थान्तरभूतं युज्यते इति तदयुक्तम् ॥ यदि सन्निकर्षः प्रमाणं, अर्थाधिगमः फलं, तस्य द्विष्ठत्वात्तत्फलेनाधिगमेनापि द्विष्ठेन भवितव्यमिति अर्थादीनामप्यधिगमः प्राप्नोति । आत्मनश्चेतनत्वात्तत्रैव समवाय इति चेन्न । ज्ञस्वभावाभावे सर्वेषामचेतनत्वात् । ज्ञस्वभावाभ्युपगमो वा आत्मनः । स्वमतविरोधः स्यात् ॥ ननु चोक्तं, ज्ञाने
१ सांगतानाम् ॥ २ योगानाम् ॥ ३ सांख्यानाम् ॥ न चक्षुरनिन्द्रियाभ्यामिति सूत्रव्याख्यानावसरे ॥
Page #88
--------------------------------------------------------------------------
________________
.५८
सर्वार्थसिद्धिः प्रमाणे सति फलाभावः इति । नैष दोषः। अर्थाधिगमे प्रीतिदर्शनात् । ज्ञस्वभावस्यात्मनः कर्ममलीमसस्य करणालम्बनादर्थनिश्चये प्रीतिरुपजायते । सा फलमित्युच्यते । उपेक्षा अज्ञाननाशो वा फलम् ॥ रागद्वेषयोरप्रणिधानमुपेक्षा । अन्धकारकल्पाज्ञानाभावः अज्ञाननाशो वा फलमित्युच्यते ॥ प्रमिणोति प्रमीयतेऽनेन प्रमितिमात्रं वा प्रमाणम् ॥ किमनेन प्रमीयते ? जीवादिरर्थः ॥ यदि जीवादेरधिगमे प्रमाणं, प्रमाणाधिगमे अन्यप्रमाणं परिकल्पयितव्यम् । तथा सत्यनवस्था । नानवस्था । प्रदीपवत् ॥ यथा घटादीनां प्रकाशने प्रदीपो हेतुः, तत्स्वरूपप्रकाशनेऽपि स एव, न प्रकाशान्तरमस्य मृग्यं, तथा प्रमाणमपीति अवश्यं चैतदभ्युपगन्तव्यम् ॥ प्रमेयवत्प्रमाणस्य प्रमाणान्तरपरिकल्पनायां स्वाधिगमाभावात् स्मृत्यभावः। तद. भावाब्यवहारलोपः स्यात् ॥ वक्ष्यमाणभेदापेक्षया द्विवचननिर्देशः। वक्ष्यते हि " आये परोक्षं, प्रत्यक्षमन्यदिति ” स च द्विवचननिर्देशः प्रमाणान्तरसंख्यानिवृत्त्यर्थः ॥
उपमानार्थापत्यादीनामत्रैवान्तर्भावादुक्तस्य पञ्चविधस्य ज्ञानस्य प्रमाणद्वयान्तःपातित्वे प्रतिपादिते प्रत्यक्षानुमानादिप्रमाणद्वयकल्पनानिवृत्त्यर्थमाह--
॥ आये परोक्षम् ॥ ११ ॥ आदिशब्दः प्राथम्य(प्रथम)वचनः । आदौ भवमाद्यम् ॥ कथं द्वयोः प्रथमत्वं? मुख्योपचारपरिकल्पनया । मतिज्ञानं तावन्मु
१(प्रत्यक्षं चानुमानं च शाब्दं चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥ जैमिनेः षट् प्रमाणानि चत्वारि न्यायवादिनः । सांख्यस्य त्रीणि वाच्यानि द्वे वैशेषिकबौद्धयोः ॥२॥) इत्यप्यधिकः पाठस्तालपत्रपुस्तके वर्तते ॥
Page #89
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
५९ ख्यकल्पनया प्रथमम् । श्रुतमपि तस्य प्रत्यासत्या प्रथममित्युपचर्यते । द्विवचननिर्देशसामर्थ्यागौणस्यापि ग्रहणम् । आद्यं च आद्यं च आये मतिश्रुते इत्यर्थः। तदुभयमपि परोक्षं प्रमाणमित्यभिसम्बध्यते ॥ कुतोऽस्य परोक्षत्वं ? परायत्तत्वात् ॥ मतिज्ञानमिन्द्रियानिन्द्रियनिमित्तमिति वक्ष्यते श्रुतमनिद्रियस्येति च । अतः पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यनिमित्तं प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्यात्मन उत्पद्यमानं मतिश्रुतं परोक्षमित्याख्यायते । अत उपमानागमादीनामत्रैवान्तर्भावः ॥
____ अभिहितलक्षणात्परोक्षादितरस्य सर्वस्य प्रत्यक्षत्वप्रतिपादनार्थमाह--
॥ प्रत्यक्षमन्यत् ॥ १२॥ अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा । तमेव प्राप्तक्षयोपशमं प्रक्षीणावरणं वा प्रतिनियतं प्रत्यक्षम् ॥ अवधिदर्शनं केवलदर्शनमपि अक्षमेव प्रतिनियतमतस्तस्यापि ग्रहणं प्रामोति । नैष दोषः। ज्ञानमित्यनुवर्तते, तेन दर्शनस्य व्युदासः । एवमपि विभङ्गज्ञानमपि प्रतिनियतमतोऽस्यापि ग्रहणं प्रामोति । सम्यगित्यधिकारात् । ततस्तन्निवृत्तिः ॥ सम्यगित्यनुवर्तते, तेन ज्ञानं विशिष्यते, ततो विभङ्गज्ञानस्य निवृत्तिः कृता । तद्धि मिथ्यादर्शनोदयाद्विपरीतार्थविषयमिति न सम्यक् ॥ स्यान्मतमिन्द्रियव्यापारजनितं ज्ञानं प्रत्यक्षं, व्यतीतेन्द्रियविषयव्यापारं परोक्षमित्येतदविसंवादिलक्षणमभ्युपगन्तव्यमिति । तदयुक्तम् । आप्तस्य प्रत्यक्षज्ञानाभावप्रसङ्गात् ॥ यदि इन्द्रियनिमित्तमेव ज्ञानं प्रत्यक्षमिष्यते, एवं प्रसक्त्या आप्तस्य प्रत्यक्षज्ञानं न स्यात् ।
१ परापेक्षत्वात् इत्यपि पाठान्तरम् ॥
Page #90
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः नहि तस्येन्द्रियपूर्वोऽर्थाधिगमः ॥ अथ तस्यापि करणपूर्वकमेव ज्ञानं कल्प्यते, तल्यासर्वज्ञत्वं स्यात् ॥ तस्य मानस प्रत्यक्षमिति चेत्, मनःप्रणिधानपूर्वकत्वात् ज्ञानस्य सर्वज्ञत्वाभाव एव ॥ आगमतस्तत्सिद्धिरिति चेन्न । तस्य आगमस्य प्रत्यक्षज्ञानपूर्वकत्वात् ॥ योगिप्रत्यक्षमन्यज्ज्ञानं दिव्यमप्यस्तीति चेत् , न तस्य प्रत्यक्षत्वं, इन्द्रियनिमित्ताभावात् । अक्षमक्षं प्रति यद्वर्तते तत्प्रत्यक्षमित्यभ्युपगमात् ॥ किञ्च सर्वज्ञत्वाभावः प्रतिज्ञाहानिर्वा । तस्य योगिनो यज्ज्ञानं तत्प्रत्यर्थवशवर्ति स्यात् ? अनेकार्थग्राहि वा ? यदि प्रत्यर्थवशवर्ति, सर्वज्ञत्वमस्य नास्ति योगिनः, ज्ञेयस्यानन्त्यात् ॥ अथानेकार्थग्राहि, या प्रतिज्ञा " विजानाति न विज्ञानमेकमर्थद्वयम् यथा । एकमर्थं विजानाति न विज्ञानद्वयं तथा ” इति सा हीयते ॥ अथवा क्षणिकाः सर्वसंस्कारा इति प्रतिज्ञा हीयते । अनेकक्षणवत्र्येकविज्ञानाभ्युपगमात् । अनेकार्थग्रहणं क्रमेणेति ॥ युगपदेवेति चेत्, योऽस्य जन्मक्षणः स आत्मलाभार्थ एव । लब्धात्मलाभं हि किञ्चिस्वकार्य प्रति व्याप्रियते, प्रदीपवदिति चेन्न । तस्याप्यनेकक्षणविषयतायां सत्यामेव प्रकाश्यप्रकाशनाभ्युपैगमात् ॥ विकल्पातीतत्वात्तस्य शून्यताप्रसङ्गश्च ॥
१ युगपत् ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति परैरभ्युपगमात्सर्ववस्तुषु युग. पन्मन:प्रणिधानं न घटते। तत: सर्वज्ञत्वाभावः। एकं ज्ञानमनेक थ न जानातीति प्रतिज्ञासद्भावाच्च क्रमेण सर्ववस्तुज्ञानं च न घटते वस्तूनामा. नन्त्यादेकवस्तुपरिज्ञानाव रे अन्यव तुपरिज्ञानाभावाच सर्वज्ञत्व भावः सुघटः ॥
२ स्वस्मिन्सकलविकल्पाभावात्सकलविकल्पावषयत्वाञ्च योगिप्रत्यक्षस्य शून्यताप्रसङ्गः ॥ तत्त्वं विशुद्ध सकलैर्विकल्प-। विश्वाभिलाषास्पदतामतीतम् ॥ न स्वस्य वेद्यं न च तन्निगा । सुषुप्त्यवस्थ भवदुःखबाह्यम् ॥१॥ इति वचनात् ॥
Page #91
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
अभिहितोभयप्रकारस्य प्रमाणस्य आदिप्रकारविशेषप्रतिपत्यर्थमाह॥ मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध
इत्यनर्थान्तरम् ॥ १३ ॥ आदौ यदुद्दिष्टं ज्ञानं तस्य पर्यायशब्दा एते वेदितव्याः। मतिज्ञानावरणक्षयोपशमान्तरङ्गनिमित्तजनितोपयोगविषयत्वात् । एतेषां श्रुतादिष्वप्रवृत्तेश्च ॥ मननं मतिः । स्मरणं स्मृतिः । सञ्ज्ञानं सञ्ज्ञा । चिन्तनं चिन्ता । अभिनिबोधनमभिनिबोधः । इति यथासम्भवं विग्रहान्तरं विज्ञेयम् ॥ सत्यपि प्रकृतिभेदे रूढिबललाभात् पर्यायशब्दत्वम् । यथा- इंद्रः शक्रः पुरन्दरः इति, इन्दनादिक्रियाभेदेऽपि शचीपतेरेकस्यैव संज्ञाः। समभिरूढनयापेक्षया तेषामर्थान्तरकल्पनायां मत्यादिष्वपि स क्रमो विद्यत एव । किंतु मतिज्ञानावरणक्षयोपशमनिमित्तोपयोगं नातिवर्तत इति अयमत्रार्थो विवक्षितः । इतिशब्दः प्रकारार्थः । एवंप्रकारा अस्य पर्यायशब्दा इति । अभिधेयार्थो वा । मतिः स्मृतिः संज्ञा चिन्ता अभिनिबोध इत्येतैर्योऽर्थोऽभिधीयते स एक एव इति ॥
अथास्यात्मलाभे किं निमित्तमित्याह॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४ ॥
इन्दतीति इन्द्र आत्मा तस्य ज्ञस्वभावस्य तदावरणक्षयोपशमे सति स्वयमर्थान् गृहीतुमसमर्थस्य यदर्थोपलब्धिनिमित्तं लिङ्गं तदिन्द्रस्य लिङ्गमिन्द्रियमित्युच्यते ॥ अथवा लीनमर्थ
. मत्यादिपर्यायशब्दानाम ॥
Page #92
--------------------------------------------------------------------------
________________
६२
सर्वार्थसिद्धिः . गमयतीति लिङ्गम् । आत्मनः सूक्ष्मस्यास्तित्वाधिगमे लिङ्गमिन्द्रियम् । यथा इह धूमोऽमेः ॥ एवमिदं स्पर्शनादिकरणं नासति कर्तर्यात्मनि भवितुमर्हतीति ज्ञातुरस्तित्वं गम्यते ॥ अथवा इन्द्र इति नामकर्मोच्यते । तेन सृष्टमिन्द्रियमिति । तत्स्पर्शनादि उत्तरत्र वक्ष्यते ॥ अनिन्द्रियं मनः अंतःकरणमित्यनर्थान्तरम् ॥ कथं पुनरिन्द्रियप्रतिषेधेन इन्द्रलिङ्गे एव. मनसि अनिन्द्रियशब्दस्य प्रवृत्तिः? । ईषदर्थस्य नञः प्रयोगात् । ईषदिन्द्रियमनिन्द्रियमिति । यथा अनुदरा कन्या इति ॥ कथमीषदर्थः ? । इमानीन्द्रियाणि प्रतिनियतदेशविषयाणि कालान्तरावस्थायीनि च । न तथा मनः इन्द्रस्य लिङ्गमपि सत्प्रतिनियतदेशविषयं कालान्तरावस्थायि च । तदन्तःकरणमिति चोच्यते । गुणदोषविचारस्मरणादिव्यापारेषु इन्द्रियानपेक्षत्वाचक्षुरादिवद् बहिरनुपलब्धेश्च अन्तर्गतं करणमित्युच्यते ॥ तदिति किमर्थम् ? । मतिज्ञाननिर्देशार्थम् ॥ ननु च तदनन्तरं अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति, तस्यैव ग्रहणं भवति । इहार्थमुत्तरार्थं च तदित्युच्यते ॥ यन्मत्यादिपर्यायशब्दवाच्यं ज्ञानं तदिन्द्रियानिन्द्रियनिमित्तं तदेवावग्रहहावायधारणा इति । इतरथा हि प्रथमं मत्यादिशब्दवाच्यं ज्ञानमित्युक्त्वा इन्द्रियानिन्द्रियनिमित्तं श्रुतम् । तदेवावग्रहेहावायधारणा इत्यनिष्टमभिसम्बध्येत ॥
एवं निख़तोत्पत्तिनिमित्तमनिर्णीतभेदमिति तद्भेदप्रतिपत्त्यर्थमाह
॥ अवग्रहहावायधारणाः ॥ १५॥
विषयविषयिसन्निपातसमयानन्तरमाद्यग्रहणमवग्रहः। विषयविषयिसन्निपाते सति दर्शनं भवति तदनन्तरमर्थस्य “ग्रहणम.
Page #93
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
वग्रहः। यथा- चक्षुषा शुक्लं रूपमिति ग्रहणमवग्रहः ॥ अवग्रहगृहीतेऽर्थे तद्विशेषाकाङ्क्षणमीहा। यथा- शुक्लं रूपं किं बलाका पताकेति ॥ विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः । उत्पतननिपतनपक्षविक्षेपादिभिर्बलाकैवेयं न पताकेति ॥ अथैतस्ये कालान्तरेऽविस्मरणकारणं धारणा। यथा-. सैवेयं बलाका पूर्वाले यामहमद्राक्षमिति ॥ एषामवग्रहादीनामुपन्यासक्रमः उत्पत्तिकमकृतः ॥
१ ननु ईहा संशयज्ञानं भवितुमर्हति, किं बलाका पताकेति उभयकोटीपरामर्शप्रत्ययत्वात्. प्रसिद्धसंशयज्ञानवत् ॥ तथा च कथमस्याः प्रामाण्यमिति न शंकितव्यम्। हेतोरसिद्धेः। तस्या भवितव्यताप्रत्ययरूपत्वेन उभयकोटीपरामर्शिप्रत्ययरूपत्वाघटनात् । किं बलाका पताकेति वचनं तु निदर्शनद्वयोपदर्शनार्थमुक्तम् । तथा च किं बलाकेत्यत्र बलाकया भवितव्यमिति तात्पर्यम् । किं पातकेत्यत्र च पताकया भवितव्यमिति तात्पयम् ॥ कथमेषा प्रतीतिरिति चेत् प्ररूपणशास्त्रे ज्ञानमागणायां मतिज्ञानव्याख्यानावसरे श्रीमदभयसूरिवर्यैस्तथैव निरूपितत्वात् ॥ यथाहि तद्वन्थःअवग्रहेण इदं श्वतमिति ज्ञातेऽर्थे विशेषस्य बलाकारूपस्य पताकारूपस्य वा यथावस्थितस्य आकांक्षा, बलाकया भवितव्यमिति भवितव्यताप्रत्ययरूपा बलाकायामेव संजायमाना ईहाख्यं द्वितीयं ज्ञानं भवेत् ॥ अथवा पता. कारूपं विषयमालम्ब्य उत्पद्यमाना अनया पताकया भवितव्यमिति भवि. तव्यताप्रत्ययरूपा आकांक्षा ईहानाम द्वितीयं ज्ञानं भवेत् ॥ एवीमन्द्रिया. न्तरविषयेषु । मनोविषये च अवग्रहगृहीते यथावस्थितस्य विशेषस्य आकां. क्षारूपा ईहति निश्चेतव्यम् ॥ मतिज्ञानावणक्षयोपशमस्य ता. तम्यभेदेन अवग्रहेहाज्ञानयोर्भेदसंभवात् ॥ आस्मिन् सम्यग्ज्ञानप्रकरणे बलाका वा पताका वा इति संशयस्य बलाकायां पताकया भवितव्यमिति विपर्ययस्य च मिथ्या. ज्ञानस्यानवतारात् ॥
२ अर्थतस्येत्यत्र अवतस्य इत्यपेक्षितं। अवायज्ञानविषयीभूतस्येति तदर्थ.॥
३ एवविधप्रत्यभिज्ञारूपज्ञानस्य कारणभूतं संस्कारविशिष्टं ज्ञानं धारणा न विदमित्यर्थः ॥
Page #94
--------------------------------------------------------------------------
________________
६४
सर्वार्थसिद्धिः उक्तानामवग्रहादीनां प्रभेदप्रतिपत्यर्थमाह॥ बहुबहुविधक्षिप्रानिःसृता
नुक्तध्रुवाणां सेतराणाम् ॥ १६ ॥ अवग्रहादयः क्रियाविशेषाः प्रकृताः । तदपेोऽयं कर्मनिर्देशः । बहादीनां सेतराणामिति । बहुशब्दस्य संख्यावैपुल्यवाचिनो ग्रहणमविशेषात् । संख्यावाची यथा- एकः द्वौ बहव इति । वैपुल्यवाची यथा- बहुरोदनो बहुः सूपः इति । विधशब्दः प्रकारवाची । क्षिप्रग्रहणमचिरप्रतिपत्त्यर्थम् । अनिःसृतग्रहणं असकलपुद्गलोद्गमार्थम् । अनुक्तमभिप्रायेण ग्रहणम् । ध्रवं निरन्तरं यथार्थग्रहणम् । सेतरग्रहणं प्रतिपक्षसंग्रहार्थ ।। बहूनामवग्रहः । अल्पस्यावग्रहः । बहुविधस्यावग्रहः । एकविधस्यावग्रहः । क्षिप्रमवग्रहः । चिरेणावग्रहः । अनिःसृतस्यावग्रहः । निःसृतस्यावग्रहः । अनुक्तस्यावग्रहः । उक्तस्यावग्रहः । ध्रवस्यावग्रहः । अध्रवस्यावग्रहश्चेति अवग्रहो द्वादशविकल्पः ॥ एवमीहादयोःपि । त एते पञ्चभिरिन्द्रियद्वारैमनसा च प्रत्येकं प्रादुर्भाव्यन्ते ॥ तत्र बैहृवग्रहादयः मतिज्ञानावरण. क्षयोपशमप्रकर्षात् प्रभवन्ति । नेतरे इति । तेषामभ्यर्हितत्वादादौ ग्रहणं क्रियते ॥ बहुबहुविधयोः कः प्रतिविशेषः । . यावता बहुषु बहुविधेष्वपि बहुत्वमस्ति । एकप्रकारनानाप्रकारकृतो विशेषः ॥ उक्तनिःसृतयोः कः प्रतिविशेषः । यावता
१ अविशेष्योक्तत्व त् ॥ २ बढेकविधयोरविशेष इति न मन्तव्यम् । बदनामवग्रह इत्यत्र बहुत्वसंख्याया मुख्यतया ग्रहण न नेकविधस्यावग्रह इत्यर्थः ।
३ आदिशब्देन बहुविधावग्रहादयो गृह्यन्ते ।। ४ सूत्रे इतरशब्दगृहीता अबहवग्रहादयः॥
Page #95
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः सकलनिःसरणान्निःसृतम् । उक्तमप्येवंविधमेव ॥ अयमस्ति विशेष:- अन्योपदेशपूर्वकं ग्रहणमुक्तम् । स्वत एव ग्रहणं निःसृतम् ॥ अपरेषां क्षिप्रनिःसृत इति पाठः ॥ त एवं वर्णयन्ति- श्रोत्रेन्द्रियेण शब्दमवगृह्यमाणं मयूरस्य वा कुररस्य वेति कश्चित्प्रतिपद्यते । अपरः स्वरूपमेवानिःसृत इति ॥ ध्रुवावग्रहस्य धारणायाश्च कः प्रतिविशेषः ? उच्यते । क्षयोपशमप्राप्ति काले विशुद्धपरिणामसन्तत्या प्राप्तात्क्षयोपशमात्प्रथमसमये यथावग्रहस्तथैव द्वितीयादिष्वपि समयेषु नोनाभ्यधिक इति ध्रुवावग्रह इत्युच्यते ॥ यदा पुनर्विशुद्धपरिणामस्य संक्लेशपरिणामस्य च मिश्रणात्क्षयोपशमो भवति तत उत्पद्यमानोऽवग्रहः कदाचिद्बहूनां कदाचिदल्पस्य कदाचिद्बहुविधस्य कदाचिदेकविधस्य वेति न्यूनाधिकभावात् ध्रुवावग्रह इत्युच्यते ॥ धारणा पुनगृहीतार्थाविस्मरणकारणमिति महदनयोरन्तरम् ॥ ___ यद्यवग्रहादयो बहादीनां कर्मणामाक्षेप्तारः, बह्वादीनि पुनर्विशेषणानि कस्येत्यत आह
॥अर्थस्य ॥ १७ ॥ .... चक्षुरादिविषयोऽर्थः । तस्य बबादिविशेषणविशिष्टस्य अवग्रहादयो भवन्तीत्यभिसम्बन्धः क्रियते ।। किमर्थमिदमुच्यते यावता बहादिरर्थ एव ? सत्यमेव किन्तु प्रवादिपरिकल्पनानिवृत्त्यर्थमर्थस्येत्युच्यते । केचित्प्रवादिनो मन्यन्ते रूपादयो गुणा एव इन्द्रियैः सन्निकृष्यन्ते तेषामेव ग्रहणमिति । तदयुक्तम् । नहि ते रूपादयो गुणा अमूर्ती इन्द्रियैः सन्निकर्षमापद्यन्ते । न तर्हि इदानीमिदं भवति रूपं मया दृष्टं, गन्धो वा घात
१ परमतापेक्षया ॥
Page #96
--------------------------------------------------------------------------
________________
सर्वार्थासद्धिः इति । भवति च । कथं ? इयर्ति पर्यायांस्तैर्वाऽर्यत इत्यर्थो द्रव्यं तस्मिन्निन्द्रियैः सन्निकृष्यमाणे तदव्यतिरेकाद्रूपादिष्वपि संव्यवहारो युज्यते ॥
किमिमे अवग्रहादयः सर्वस्येन्द्रियानिन्द्रियस्य भवन्ति उत कश्चिद्विषयविशेषोऽस्तीत्यत आह ॥
॥ व्यञ्जनस्यावग्रहः ॥ १८ ॥ ___ व्यञ्जनमव्यक्तं शब्दादिजातं तस्यावग्रहो भवति । किमर्थमिदं ? नियमार्थ, अवग्रह एव नेहादय इति । स तर्हि एवकारः कर्तव्यो न कर्तव्यः ? । सिद्धे विधिरारभ्यमाणो नियमार्थ इति अन्तरेणैवकारं नियमार्थो भविष्यति ॥ ननुः अवग्रहग्रहणमुभयत्र तुल्यं तत्र किं कृतोऽयं विशेषः ? ॥ अर्थावाहव्यञ्जनावग्रहयोळक्ताव्यक्तकृतो विशेषः । कथम् ? । अभिनवशरावार्दीकरणवत् । यथा जलकणद्वित्रिसिक्तः शरावोऽभिनवो नार्दीभवति, स एव पुनःपुनः सिच्यमानः शनैस्तिम्यते, एवं श्रोत्रादिष्विन्द्रियेषु शब्दादिपरिणताः पुद्गला द्विव्यादिषु समयेषु गृह्यमाणा न व्यक्तीभवन्ति, पुनःपुनरवग्रहे सति व्यक्तीभवन्ति ॥ अतो व्यक्तग्रहणात्प्राग्व्यञ्जनावग्रहः। व्यक्तग्रहणमर्थावग्रहः । ततोऽव्यक्तावग्रहणादीहादयो न भवन्ति ।
सर्वेन्द्रियाणामविशेषण व्यञ्जनावग्रहप्रसङ्गे यत्रासम्भवस्तदर्थप्रतिषेधमाह
॥ न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥
चक्षुषा अनिन्द्रियेण च व्यञ्जनावग्रहो न भवति । कुतः। अप्राप्यकारित्वात् ॥ यतोऽप्राप्तमर्थमविदिक्कं युक्तसन्नि१ विशेषाभावे षट् त्रिंशत्रिशतमातिज्ञानसंख्याविघटनादित्यभिप्रायः पूर्वपक्षिणः ।
Page #97
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
६७ कर्षविशेषेऽवस्थितं बाह्यप्रकाशाभिव्यक्तमुपलभते चक्षुः, मनश्चाप्राप्तमतो नानयोर्व्यञ्जनावग्रहोऽस्ति ॥ चक्षुषोऽप्राप्यकारित्वं कथमप्यवसीयते । आगमतो युक्तितश्च ॥ आगमतस्तावत्- पुढे सुणोदि सई अपुट्ठ पुण पस्सदे एवम् । फासं रसं च गन्धं वद्धं पुठं वियाणादि ॥१॥ युक्तितश्च- अप्राप्यकारि चक्षुः स्पृष्टानवग्रहात् । यदि प्राप्यकारि स्यात् त्वगिन्द्रियवत् स्पृष्टमञ्जनं गृह्णीयात् ॥ न तु गृह्णात्यतो मनोवदप्राप्यकारीत्यवसेयम् । ततश्चक्षुर्मनसी वर्जयित्वा शेषाणामिन्द्रियाणां व्यञ्जनावग्रहः । सर्वेषामिन्द्रियानिन्द्रियाणामर्थावग्रह इति सिद्धं ॥
__ आह निर्दिष्टं मतिज्ञानं लक्षणतो विकल्पतश्च; तदनन्तरमुद्दिष्टं यत् श्रुतं तस्येदानी लक्षणं विकल्पश्च वक्तव्य इत्यत आह ॥
॥ श्रुतं मतिपूर्व ड्यनेकद्वादशभेदम् ॥ २० ॥
श्रुतशब्दोऽयं श्रवणमुपादाय व्युत्पादितोऽपि रूढिवशात् कस्मिंश्चिज्ज्ञानविशेषे वर्तते ॥ यथा कुशलवनकर्मप्रतीत्या व्युत्पादितोऽपि कुशलशब्दो रूढिवशात्पर्यवदाते वर्तते ॥ कः पुनरसौ ज्ञानविशेष इति अत आह “ श्रुतं मतिपूर्वमिति " श्रुतस्य प्रमाणत्वं पूरयतीति पूर्व निमित्तं कारणमित्यनान्तरम् ॥ मतिनिर्दिष्टा । मतिः पूर्वमस्य मतिपूर्वं मतिकारणमित्यर्थः ॥ यदि मतिपूर्व श्रुतं तदपि मत्यात्मकं प्राप्नोति कारणसदृशं हि लोके कार्य दृष्टमिति। नैतदैकान्तिकम् । दण्डादिकारणोऽयं घटो न दण्डाद्यात्मकः । अपि च सति तस्मिन् तदभावात् सत्यपि मतिज्ञाने बाह्यश्रुतज्ञाननिमित्तसन्निधानेऽपि प्रबलश्रुतावरणोदयस्य श्रुताभावः । श्रुतावरणक्षयोपशमप्रकर्षे तु सति श्रुतज्ञानमुत्पद्यत इति मतिज्ञानं निमित्तमात्रं ज्ञेयम् ॥ आह श्रुत
Page #98
--------------------------------------------------------------------------
________________
६८
सर्वार्थसिद्धिः मनादिनिधनमिष्यते । तस्य मतिपूर्वकत्वे तदभावः। आदिमतोऽन्तवत्त्वात् । ततश्च पुरुषकृतत्वादप्रामाण्यमिति, नैष दोषः ।। द्रव्यादिसामान्यार्पणात् श्रुतमनादिनिधनमिष्यते ॥ नहि केनचित्पुरुषेण कचित्कदाचित्कथञ्चिदुत्प्रेक्षितमिति । तेषामेव विशेषापेक्षया आदिरन्तश्च सम्भवतीति मतिपूर्वमित्युच्यते ॥ यथांकुरो बीजपूर्वकः स च सन्तानापेक्षया अनादिनिधन इति ॥ न चापौरुषेयत्वं प्रामाण्यकारणम् । चौर्याधुपदेशस्यास्मर्यमाणकर्तृकस्य प्रामाण्यप्रसङ्गात् ॥ अनित्यस्य च प्रत्यक्षादेः प्रामाण्ये को विरोधः?। आह, प्रथमसम्यक्त्वोत्पत्तौ युगपज्ज्ञानपरिणामान्मतिपूर्वकत्वं श्रुतस्य नोपपद्यत इति । तदयुक्तं सम्यक्त्वस्य तदपेक्षत्वात् । आत्मलाभस्तु क्रमवानिति मतिपूर्वकत्वव्याघाताभावः ॥ आह मतिपूर्वं श्रुतमित्येतल्लक्षणमव्यापि श्रुतपूर्वमपि श्रुतमिष्यते। तद्यथा- शब्दपरिणतपुद्गलस्कन्धादाहितवर्णपदवाक्यादिभावाच्चक्षुरादिविषयाच्च आद्यश्रुतविषयभावमापन्नादव्यभिचारिणः कृतसंगीतिर्जनो घटाजलधारणादिकार्यसम्बन्ध्यन्तरं प्रतिपद्यते धूमादेर्वाग्न्यादिद्रव्यं, तदा श्रुतात् श्रुतप्रतिपचिरिति। नैष दोषः । तस्यापि मतिपूर्वकत्वमुपचारतः ॥ श्रुतमपि कचिन्मतिपूर्वकत्वान्मतिरित्युपचर्यत इति ॥ भेदशब्दः प्रत्येकं परिसमाप्यते द्विभेदमनेकभेदं द्वादशभेदमिति ॥ द्विभेदं तावत्- अङ्गबाह्यमङ्गप्रविष्टमिति । अङ्गबाह्यमनेकविधं दशवैकालिकोत्तराध्ययनादि ॥ अङ्गप्रविष्टं द्वादशविधम् ॥ तद्यथा- आचारः। सूत्रकृतम् । स्थानम् । समवायः । व्याख्याप्रज्ञप्तिः । ज्ञातृधर्मकथा । उपासकाध्ययनम् । अन्तकृद्दशम् । अनुत्तरोपपादिकदशम् । प्रश्नव्याकरणम् । विपाकसूत्रम् ।
-
१ मतिश्रुतोत्पत्तेः ॥ २ ज्ञानसम्यग्भावस्य ॥
Page #99
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः दृष्टिवाद इति ॥ दृष्टिवादः पञ्चविधः- परिकर्म । सूत्रम् । प्रथमानुयोगः । पूर्वगतम् । चूलिका चेति ॥ तत्र पूर्वगतं चतुदशविधम् -- उत्पादपूर्वम् । अग्रायणीयम् । वीर्यानुप्रवादम् । अस्तिनास्तिप्रवादम् ॥ ज्ञानप्रवादम् । सत्यप्रवादम् । आत्मप्रवादम् । कर्मप्रवादम् । प्रत्याख्याननामधेयम् । विद्यानुप्रवादम् । कल्याणनामधेयम् । प्राणावायम् । क्रियाविशालम् । लोकबिन्दुसारमिति ॥ तदेतत् श्रुतं द्विभेदमनकभेदं द्वादशभेदमिति ॥ किंकृतोऽयं विशेषः? । वक्तृविशेषकृतः ॥ त्रयो वक्तारः । सर्वज्ञतीर्थकरः । इतरो वा श्रुतकेवली। आरातीयश्चेति ॥ तत्र सर्वज्ञेन परमर्षिणा परमाचिन्त्यकेवलज्ञानविभूतिविशेषेण अर्थत आगम उद्दिष्टः । तस्य प्रत्यक्षदर्शित्वात्प्रक्षीणदोषत्वाच्च प्रामाण्यम् । तस्य साक्षाच्छिष्यैर्बुध्यतिशयर्धियुक्तैर्गणधरैः श्रुतकेवलिभिरनुस्मृतग्रन्थरचनमङ्गपूर्वलक्षणं तत्प्रमाणं, तत्प्रामाण्यात् ॥ आरातीयैः पुनराचार्यैः कालदोषासङ्क्षिप्तायुर्मतिबलशिष्यानुग्रहार्थं दशवैकालिकाद्युपनिबद्धं, तत्प्रमाणमर्थतस्तदेवेदमिति ॥ क्षीरार्णवजलं घटगृहीतमिव । ____व्याख्यातं परोक्षम् । प्रत्यक्षमिदानीं वक्तव्यम् । तत् द्वेधा- देशप्रत्यक्षं सकलप्रत्यक्षं च ॥ देशप्रत्यक्षमवधिमनःपर्ययज्ञाने । सर्वप्रत्यक्षं केवलम् ॥ यद्येवमिदमेव तावदवधिज्ञानं त्रिःप्रकारस्य प्रत्यक्षस्याद्यं व्याक्रियतामित्यत्रोच्यते ॥ द्विविधोऽवधिः। भवप्रत्ययः क्षयोपशमनिमित्तश्चेति ॥ तत्र भवप्रत्यय उच्यते. ॥ भवप्रत्ययोऽवधिदेवनारकाणाम् ॥ २१ ॥ ___भव इत्युच्यते । को भवः? । आयुर्नामकर्मोदयनिमित्त आत्मनः पर्यायो भवः । प्रत्ययः कारणं निमित्तमित्यनान्त
Page #100
--------------------------------------------------------------------------
________________
७०
सर्वार्थसिद्धिः रम् ॥ भवः प्रत्ययोऽस्य भवप्रत्ययोऽवधिः । देवनारकाणां वेदितव्यः ॥ यद्येवं तत्र क्षयोपशमनिमित्तत्वं न प्राप्नोति। नैष दोषः । तदाश्रयात्तत्सिद्धेः ॥ भवं प्रतीत्य क्षयोपशमः सञ्जायत इति कृत्वा भवः प्रधानकारणमित्युपदिश्यते ॥ यथा पतत्रिणो गमनमाकाशे भवनिमित्तं न शिक्षागुणविशेषः, तथा देवनारकाणां व्रतनियमाद्यभावेऽपि जायत इति भवप्रत्यय इत्युच्यते । इतरथा हि भवः साधारण इति कृत्वा सर्वेषामविशेषः स्यात् इष्यते च तत्रावधेः प्रकर्षाप्रकर्षवृत्तिः । देवनारकाणामित्यविशेपाभिधानेऽपि सम्यग्दृष्टीनामेव ग्रहणं । कुतः ? अवधिग्रहणात् मिथ्यादृष्टीनां च विभङ्ग इत्युच्यते ॥ प्रकर्षाप्रकर्षवृत्तिश्च आगमतो विज्ञेया ॥ ____ यदि भवप्रत्ययोऽवधिदेवनारकाणां, अथ क्षयोपशमहेतुः केषामित्यत आह ॥ ॥ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥२२॥
अवधिज्ञानावरणस्य देशघातिस्पर्द्धकानामुदये सति सर्व घातिस्पर्द्धकानामुदयाभावः क्षयः । तेषामेवानुदयप्राप्तानां सदवस्था उपशमः । तौ निमित्तमस्येति क्षयोपशमनिमित्तः। सः शेषाणां वेदितव्यः ॥ के पुनः शेषाः? । मनुष्यास्तिर्यञ्चश्च । तेष्वपि यत्र सामर्थ्यमस्ति तत्रैव वेदितव्यः। नासँज्ञिनामपर्याप्तकानां च तत्सामर्थ्यमस्ति ॥ संज्ञिनां पर्याप्तकानां च न सर्वेषाम् । केषां तर्हि ? । यथोक्तसम्यग्दर्शनादिनिमित्तसन्निधाने सति शान्तक्षीणकर्मणां तस्योपलब्धिर्भवति । सर्वस्य क्षयोपशमनिमित्तत्वे क्षयोपशमग्रहणं नियमार्थ क्षयोपशम एव निमित्तं न भवं इति ॥
१ तीर्थकृतां भवप्रत्ययोऽपि अवधिर्भवतीत्यर्थः “ भवपंचइगो सुरः णिरयाणं तिथ्थे बि सब्व अंगुठो ,, इतिवचनात् ॥
Page #101
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः स एषोऽवधिः षड्विकल्पः । कुतः१ अनुगाम्यननुगामिवर्द्धमानहीयमानावस्थितानवस्थितभेदात् ॥ कश्चिदवधिर्भास्करप्रकाशवद्गच्छन्तमनुगच्छति ॥ कश्चिन्नानुगच्छति तत्रैवातिपतति उन्मुग्धप्रश्नादेशिपुरुषवचनवत् ॥ अपरोऽवधिः अरणिनिर्मथनोत्पन्नशुष्कपत्रोपचीयमानेन्धननिचयसमिद्धपावकवत्सम्यग्दर्शनादिगुणविशुद्धिपरिणामसन्निधानाद्यत्परिमाण उत्पन्नस्ततो वर्द्धते असंख्येयलोकेभ्यः ॥ अपरोऽवधिः अन्तरितपरिच्छिन्नोपादानसन्तत्यमिशिखावत्सम्यग्दर्शनादिगुणहानिसंक्लेशपरिणामविवृद्धियोगाद्यत्परिमाण उत्पनस्ततो हीयते । आ अंगुलस्यासंख्येयभागात् ॥ इतरोऽवधिः सम्यग्दर्शनादिगुणावस्थानाद्यत्परिमाण उत्पन्नस्तत्परिमाण एवावतिष्ठते न हीयते नापि वर्द्धते लिङ्गवत् । आ भवक्षयादा केवलज्ञानोत्पत्तेर्वा ॥ अन्योऽवधिः सम्यग्दर्शनादिगुणहानिवृद्धियोगाद्यत्परिमाण उत्पन्नस्ततो वर्द्धते यावदनेन वर्धितव्यं, हीयते च यावदनेन हातव्यं वायुवेगप्रेरितजलोर्मिवत् ॥ एवं षड्विकल्पोऽ वधिर्भवति ॥
एवं व्याख्यातमवधिज्ञानं तदनन्तरमिदानी मनःपर्ययज्ञानं वक्तव्यं, तस्य भेदपुरःसरं लक्षणं व्याचिख्यासुरित्याह
॥ ऋजुविपुलमती मनःपर्ययः ॥ २३ ॥
ऋज्वी निर्वर्तिता प्रगुणा च । कस्मान्निर्वर्तिता ? वाकायमनस्कृतार्थस्य परमनोगतस्य विज्ञानात् । ऋज्वी मतिर्यस्य सोऽयं ऋजुमतिः ॥ अनिवर्तिता कुटिला च विपुला च । कस्मादनिर्वर्तिता ? वाक्कायमनस्कृतार्थस्य परकीयमनोगतस्य विज्ञानात् । विपुला मतिर्यस्य सोऽयं विपुलमतिः ॥ ऋजुमतिश्च विपुलमतिश्च ऋविपुलमती ॥ एकस्य मतिशब्दस्य गतार्थत्वादप्रयोगः। अथवा ऋजुश्च विपुला च ऋजुविपुले । ऋजुविपुले मती
Page #102
--------------------------------------------------------------------------
________________
७२
सर्वार्थसिद्धिः
ययोस्तौ ऋजुविपुलमती । स एष मनःपर्ययो द्विविधः ऋजु+ मतिर्विपुलमतिरिति ॥ आह उक्तो भेदः, लक्षणमिदानीं वक्तव्य - मित्यत्रोच्यते । वीर्यान्तरायमनः पर्ययज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभावष्टम्भादात्मनः परकीयमनः सम्बन्धेन लब्धवृत्तिरुपयोगो मनःपर्ययः ॥ मनिज्ञानप्रसङ्ग इति चेदुक्तोत्तरं पुरस्तात् । अपेक्षाकारणं मन इति । परकीयमनसि व्यवस्थितोऽर्थः अनेन ज्ञायते इत्येतावदत्रापेक्ष्यते । तत्र ऋजुमतिर्मनः पर्ययः कालतो जघन्येन जीवानामात्मनश्च द्वित्रीणि भवग्रहणानि उत्कर्षेण सप्ताष्टौ गत्यागत्यादिभिः प्ररूपयति ॥ क्षेत्रतो जघन्येन गव्यूतिपृथक्त्वं, उत्कर्षेण योजनपृथक्त्वस्याभ्यन्तरं न बहिः || द्वितीयकालतो जघन्येन सप्ताष्टौ भवग्रहणानि, उत्कर्षेणासंख्येयानि गत्यागत्यादिभिः प्ररूपयति ॥ क्षेत्रतो जघन्येन योजनपृथक्त्वं, उत्कर्षेण मानुषोत्तरशैलस्याभ्यन्तरं न बहिः ॥ उक्तयोरनयोः पुनरपि विशेषप्रतिपत्त्यर्थमाह॥ विशुध्द्यप्रतिपाताभ्यां तद्विशेषः ॥ २४ ॥
――――
तदावरणक्षयोपशमे सति आत्मनः प्रसादो विशुद्धिः । प्रतिपतनं प्रतिपातः न प्रतिपातः अप्रतिपातः । उपशान्तकपायस्य चारित्रमोहोद्रेकात्प्रच्युतसँयमशिखरस्य प्रतिपातो भवति । क्षीणकषायस्य प्रतिपातकारणाभावादप्रतिपातः ॥ विशुद्धिश्व अप्रतिपातश्च विशुध्द्यप्रतिपातौ ताभ्याम् । तयोर्विशेषस्तद्विशेषः ॥ तत्र विशुध्या तावत् — ऋजुमतेर्विपुलमतिर्ब्रव्य क्षेत्रकालभावैर्विशुद्धतरः । कथमिह ? यः कार्मणद्रव्यानन्तभागोऽन्त्यः सर्वावधिना ज्ञातस्तस्य पुनरनन्तभागकृतस्यान्त्यो भागः ऋजुमतेर्विषयः ।
१ त्रिसंख्यातोऽधिका अष्टसंख्यातो न्यूना संख्या ॥
"
Page #103
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः तस्य ऋजुमतिविषयस्यानन्तभागीकृतस्यान्त्यो भागो विपुलमतेविषयः । अनन्तस्यानन्तभेदत्वात् ॥ द्रव्यक्षेत्रकालतो विशुद्धि. रुक्ता। भावतो विशुद्धिः सूक्ष्मतरद्रव्यविषयत्वादेव वेदितव्या, प्रकृष्टक्षयोपशमविशुद्धियोगात् ।। अप्रतिपातेनापि विपुलमतिविशिष्टः । स्वामिनां प्रवर्द्धमानचारित्रोदयत्वात् ॥ ऋजुमतिः पुनः प्रतिपाती, स्वामिनां कषायोद्रेकाद्धीयमानचारित्रोदयत्वात् ॥
___ यद्यस्य मनःपर्ययस्य प्रत्यात्ममयं विशेषः, अथानयोरवधिमनःपर्यययोः कुतो विशेष इत्यत आहविशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः २५
विशुद्धिः प्रसादः । क्षेत्रं यत्रस्थान्भावान्प्रतिपद्यते । स्वामी प्रयोक्ता । विषयो ज्ञेयः ॥ तत्रावधेर्मनःपर्ययो विशुद्धतरः । कुतः । सूक्ष्मविषयत्वात् ॥ क्षेत्रमुक्तं विशेषो वक्ष्यते ॥ स्वामित्वं प्रत्युच्यते । प्रकृष्टचारित्रगुणोपेतेषु वर्ततेऽप्रमत्तादिक्षीणकषायान्तेषु । तत्र चोत्पद्यमानः प्रवर्द्धमानचारित्रेषु न हीयमानचारित्रेषु। प्रवर्द्धमानचारित्रेषु चोत्पद्यमानः सप्तविधान्यतमर्द्धिप्राप्तेषूपजायते नेतरेषु । ऋद्धिप्राप्तेषु केषुचिन्न सर्वेष्विति ॥ * अस्य स्वामिविशेषविशिष्टसंयमग्रहणं वाक्ये कृतम् * ॥ अवधिः पुनश्चातुर्गतिकेष्विति स्वामिभेदादप्यनयोर्विशेषः ॥
इदानीं केवलज्ञानलक्षणाभिधानं प्राप्तकालं तदुलंध्य ज्ञानानां विषयनिबन्धः परीक्ष्यते ॥ कुतः। तस्य मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलमित्यत्र वक्ष्यमाणत्वात् ॥ यधेव
* अस्यायं स्वामिविशेषः विशिष्टसँयमग्रहणं वा प्रकृतम् ॥ इत्येक पाठः ॥ अस्यायं स्वामिविशेषः विशिष्टसँयतग्रहणं वा कृतं न सूते ॥ इत्यप्यन्यः पाठः पुस्तकान्तरे विद्यते ॥
Page #104
--------------------------------------------------------------------------
________________
७४
सर्वार्थसिद्धिः माद्ययोरेव तावन्मतिश्रुतयोर्विषयनिबन्ध उच्यतामित्यत आह॥ मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु ॥ २६ ॥
निबन्धनं निबन्धः । कस्य विषयस्य । तद्विषयग्रहणं कर्तव्यम् । न कर्तव्यम् ॥ प्रकृतं विषयग्रहणं । क प्रकृतं ! विशुद्धिक्षेत्रस्वामिविषयेभ्य इत्यतस्तस्यार्थवशाद्विभक्तिपरिणामो भवतीति विषयस्येत्यभिसम्बध्यते ॥ द्रव्येष्विति बहुवचननिर्देशः सर्वेषां जीवधर्माधर्माकाशपुद्गलानां संग्रहार्थः । तद्विशेषणार्थमसर्वपर्यायग्रहणम् ॥ तानि द्रव्याणि मतिश्रुतयोर्विषयभावमापद्यमानानि कतिपयैरेव पर्यायैर्विषयभावमास्कन्दन्ति न सर्वपर्यायैरनन्तैरपीति ॥ अत्राह- धर्मास्तिकायादीन्यतीन्द्रियाणि तेषु मतिज्ञानं न प्रवर्तते । अतः सर्वद्रव्येषु मतिज्ञानं वर्तत इत्ययुक्तम् ॥ नैष दोषः । अनिन्द्रियाख्यं करणमस्ति तदालम्बनो नोइन्द्रियावरणक्षयोपशमलब्धिपूर्वक उपयोगोऽवग्रहादिरूपः प्रागेवोपजायते ततस्तत्पूर्व श्रुतज्ञानं तद्विषयेषु स्वयोग्येषु व्याप्रियते ।।
- अथ मतिश्रुतयोरनन्तरनिर्देशार्हस्यावधेः को विषयनिबन्ध इत्यत आह
॥रूपिष्ववधेः ॥ २७ ॥ विषयनिबन्ध इत्यनुवर्तते । रूपिष्वित्यनेन पुद्गलाः पुद्गलद्रव्यसम्बन्धाश्च जीवाः परिगृह्यन्ते । रूपिष्वेवावधेर्विषयनिबन्धो नारूपेष्विति नियमः क्रियते । रूपिष्वपि भवन्न सर्वपर्यायेषु स्वयोग्येष्वेवेत्यवधारणार्थमसर्वपर्यायेष्वित्यभिसम्बध्यते ॥
अथ तदनन्तरनिर्देशभाजो मनःपर्ययस्य को विषयनिबन्ध इत्यत आह
॥ तदनन्तभागे मनःपर्ययस्य ॥ २८ ॥
१ सम्बन्धः ॥ २ तत्कारणकः॥
Page #105
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
७५
* यदेतद्रूपिद्रव्यं सर्वावधिज्ञानविषयत्वेन समर्थितं तस्यानन्तभागीकृतस्यैकस्मिन्भागे मन:पर्ययः प्रवर्तते ॥ *
अथान्ते यन्निर्दिष्टं केवलज्ञानं तस्य को विषयनिबन्ध
इत्यत आह
॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥ २९ ॥
द्रव्याणि च पर्यायाश्च द्रव्यपर्याया इति इतरेतरयोगलक्षणो द्वन्द्वः ॥ तद्विशेषणं सर्वग्रहणं प्रत्येकमभिसम्बध्यते सर्वेष द्रव्येषु सर्वेषु पर्यायेष्विति ॥ जीवद्रव्याणि तावदनन्तानन्तानि, पुद्गलद्रव्याणि च ततोऽप्यनन्तानन्तानि अणुस्कन्धभेदेन भिन्नानि, धर्माधर्माकाशानि त्रीणि, कालश्चासंख्येयस्तेषां पर्यायाश्च त्रिकाल - भुवः प्रत्येकमनन्तानन्तास्तेषु । द्रव्यं पर्यायजातं वा न किञ्चित्केवलज्ञानस्य विषयभावमतिक्रान्तमस्ति || अपरिमितमाहात्म्यं हि तदिति ज्ञापनार्थं सर्वद्रव्यपर्यायेष्वित्युच्यते ॥
आह विषयनिबन्धोऽवर्धृतो मत्यादीनां, इदं तु न निर्ज्ञातमेकस्मिन्नात्मनि स्वनिमित्तसन्निधानोपजनितवृत्तीनि ज्ञानानि यौगपद्येन कति भवन्तीत्यत उच्यतेएकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्थः ॥ ३० ॥
एकशब्दः संख्यावाची, आदिशब्दोऽवयवववचनः, एक
* अवधेर्मन पर्ययस्य सूक्ष्मविषयत्वदर्शनार्थं सूत्रमिदं न तु विषयनिबन्धनार्थम् । यतो मन:पर्ययस्यावधिविषयानन्तभागेऽन्यत्रापि च दर्शिता वृत्तिः प्रवर्तते इत्यप्यधिकः पाठः ।
*
१ ळोगागासपदे से एक्केके जे क्रिया हु एक्केका ॥ रयणाणं रासीओ ते काळाणू मुणेयव्वा ॥ १ ॥ इति गाथोक्तप्रकारेण कालद्रव्यस्याणुरूपत्वान्नानात्वं धर्माधर्माकाशानामनेकप्रदेशत्वेऽपि खण्डात्मकत्वाभावादे कैकत्वमव बोद्धव्यम् ॥ २ विवृतः इत्यपि पाठान्तरम् ॥
Page #106
--------------------------------------------------------------------------
________________
७६
सर्वार्थसिद्धिः आदिर्येषां तानि इमान्येकादीनि भाज्यानि विभक्तव्यानि यौगपद्येनैकस्मिान्नात्मनि ॥ आ कुतः? आ चतुर्थ्यः ॥ तद्यथाएकं तावत्केवलज्ञानं न तेन सहान्यानि क्षायोपशमिकानि युगपदवतिष्ठन्ते । द्वे मतिश्रुते । त्रीणि मतिश्रुतावधिज्ञानानि, मतिश्रुतमनःपर्ययज्ञानानि वा । चत्वारि मतिश्रुतावधिमनःपर्ययज्ञानानि । न पञ्च सन्ति केवलस्यासहायत्वात् ॥ ..यथोक्तानि मत्यादीनि ज्ञानव्यपदेशमेव लभन्ते, उतान्यथापीत्यत आह
॥ मतिश्रुतावधयो विपर्ययश्च ॥ ३१ ॥
विपर्ययो मिथ्येत्यर्थः । कुतः। सम्यगधिकारात् ॥ च शब्दः समुच्चयार्थः । विपर्ययश्च सम्यक्चेति ॥ कुतः पुनरेषां विपर्ययः? मिथ्यादर्शनेन सहैकार्थसमवायात् । सरजस्ककटुकालाबुगतदुग्धवत् ॥ ननु च तत्राधारदोषात् दुग्धस्य रसविपर्ययो भवति, न च तथा मत्यज्ञानादीनां विषयग्रहणे विपर्ययः ॥ तथा हि, सम्यग्दृष्टिर्यथा चक्षुरादिभिः रूपादीनुपलभते, तथा मिथ्यादृष्टिरपि मत्यज्ञानेन ॥ यथा च सम्यग्दृष्टिः श्रुतेन रूपादीनि जानाति निरूपयति च तथा मिथ्यादृष्टिरपि श्रुताज्ञानेन ॥ यथा चावधिज्ञानेन सम्यग्दृष्टिः रूपिणोऽर्थानवगच्छति तथा मिथ्थादृष्टिविभङ्गज्ञानेनेति ॥ अत्रोच्यते॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥३२॥
सद्विद्यमानमसदविद्यमानमित्यर्थः । तयोरविशेषेण यदृच्छया उपलब्धेविपर्ययो भवति ॥ कदाचिद्रूपादि सदप्यसदिति प्रति
१ जानाति निरूपयति इस्यपि पाठान्तरम् ॥
Page #107
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
७७ पद्यते, असदपि सदिति, कदाचित्सत्सदेव, असदप्यसदेवेति मिथ्यादर्शनोदयादध्यवस्यति ॥ यथा पित्तोदयाकुलितबुद्धिर्मातरं भार्येति, भार्यामपि मातेति मन्यते । यदृच्छया मातरं मातैवेति भार्यामपि भायैवेति च ॥ तदपि न तत्सम्यग्ज्ञानम् ॥ एवं मत्यादीनामपि रूपादिषु विपर्ययो वेदितव्यः ॥ तथा हि कश्चिन्मिथ्यादर्शनपरिणाम आत्मन्यवस्थितः रूपाद्युपलब्धौ सत्यामपि कारणविपर्यासं भेदाभेदविपर्यासं स्वरूपविपर्यासं च जनयति ॥ कारणविपर्यासस्तावत्- रूपादीनामेकं कारणममूर्त नित्यमिति केचित्कल्पयन्ति ॥ अपरे पृथिव्यादिजातिभिन्नाः परमाणवश्चतुस्त्रियेकगुणास्तुल्यजातीयानां कार्याणामारम्भका इति ॥ अन्ये वर्णयन्ति-- पृथिव्यादीनि चत्वारि भूतानि, भौतिकधर्मा वर्णगन्धरसस्पर्शाः, एतेषां समुदायो रूपपरमाणुरष्टक इत्यादि ॥ इतरे वर्णयन्ति- पृथिव्यप्तेजोवायवः काठिन्यादिद्रवत्वायुष्णत्वादीरणत्वादिगुणा जातिभिन्नाः परमाणवः कार्यस्यारंभकाः ॥ भेदाभेदविपर्यासः कारणात्कार्यमर्थान्तरभूतमेवेति अनर्थान्तरभूतमेवेति च परिकल्पना ॥ स्वरूपविपर्यासः रूपादयो निर्विकल्पाः सन्ति न सन्त्येव वा। तदाकारपरिणतं विज्ञानमेव । न तदालम्बनं वस्तु बाह्यमिति ॥ एवमन्यानपि परिकल्पनाभेदान् दृष्टेष्टविरुद्धान्मिथ्यादर्शनोदयात्कल्पयन्ति तत्र च श्रद्धानमुत्पादयन्ति । ततस्तन्मत्यज्ञानं श्रुताज्ञानं अवघ्यज्ञानं च भवति ॥ सम्यग्दर्शनं
१ वेदान्तिनः ॥ २ यौगाः ॥ ३ पार्थिवपरमाणुषु गन्धरसरूपस्पर्शाः । आप्येषु रसरूपस्पर्शाः । तैजसेषु रूपस्पशौं । वायवीयेषु स्पर्शः ॥ ४ सौगतविशेषाः ॥ ५ चार्वाकाः ॥ ६ प्रेरणत्वादिगुणाः ॥ ७ यौगानां कल्पना ॥ ८ सांख्यानाम् ॥ ९ वैभाष्यककल्पना ॥ १. विज्ञानाद्वैतवादिकल्पना ॥ .
Page #108
--------------------------------------------------------------------------
________________
७८
___ सर्वार्थसिद्धिः पुनस्तत्त्वार्थाधिगमे श्रद्धानमुत्पादयति । ततस्तन्मतिज्ञानं श्रुतज्ञानमवधिज्ञानं भवति ॥
आह प्रमाणं द्विप्रकारं वर्णितम् । प्रमाणैकदेशाश्च नयास्तदनन्तरोद्देशभाजो निर्देष्टव्या इत्यत आह॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्द
समभिरूढवम्भूता नयाः ॥३३ ॥ एतेषां सामान्यविशेषलक्षणं वक्तव्यम् । सामान्यलक्षणं तावद्वस्तुन्यनेकान्तात्मन्यविरोधेन हेत्वर्पणात्साध्यावशेषस्य याथाम्यप्रापणप्रवणप्रयोगो नयः । स द्वेधा द्रव्यार्थिकः पर्यायार्थिकश्चेति ॥ द्रव्यं सामान्यमुत्सर्गः अनुवृत्तिरित्यर्थः । तद्विषयो द्रव्यार्थिकः ।। पर्यायो विशेषोऽपवादो व्यावृत्तिरित्यर्थः । तद्विषयः पर्यायार्थिकः ॥ तयोर्मेदा नैगमादयः । तेषां विशेषलक्षण'मुच्यते- अनभिनिवृत्तार्थसङ्कल्पमात्रग्राही नैगमः ॥ कश्चित्पुरुषं परिगृहीतपरशुं गच्छन्तमवलोक्य कश्चित्पृच्छति किमर्थं भवान्गच्छतीति । स आह प्रस्थमानेतुमिति । नासौ तदा प्रस्थपर्यायः सन्निहितः। तदभिनित्तये सङ्कल्पमात्रे प्रस्थव्यवहारः ॥ तथा एधोदकाचाहरणे व्याप्रियमाणं कञ्चित्पृच्छति किं करोति भवानिति । स आह ओदनं पचामीति । न तदौदनपर्यायः सन्निहितः । तदर्थे व्यापारे स प्रयुज्यते ॥ एवम्प्रकारो लोकसंव्यवहारः अनभिनिर्वृत्तार्थसङ्कल्पमात्रविषयो नैगमस्य गोचरः ॥१॥ स्वजात्यविरोधेनैकध्यमुपनीय पर्यायानाक्रान्तभेदानविशेषेण समस्तग्रहणात्संग्रहः ॥ सत् द्रव्यं घट इत्यादि । सदित्युक्ते सदिति वाग्विज्ञानानुप्रवृत्तिलिङ्गानुमितसत्ताधारभूतानामविशेषेण सर्वेषां संग्रहः । द्रव्यमित्युक्तेऽपि द्रवति गच्छति तांस्तान्पर्यायानित्युपलक्षि
Page #109
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः तानां जीवाजीवतद्भेदप्रभेदानां संग्रहः । तथा घट इत्युक्तेऽपि घटबुध्यभिधानानुगमलिङ्गानुमितसकलार्थसंग्रहः । एवम्प्रकारोऽन्यो ऽपि संग्रहनयः ॥ २ ॥ संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमवहरणं व्यवहारः ॥ को विधिः ? । यः संग्रहगृहीतोऽर्थस्तदानुपूर्वेणैव व्यवहारः प्रवर्तत इत्ययं विधिः । तद्यथा- सर्वसंग्रहेण यत्संगृहीतं तच्चानपेक्षितविशेषं नालं संव्यवहारायेति व्यवहारनय आश्रीयते । यत्सत्तत् द्रव्यं गुणो वेति । द्रव्येणापि संग्रहाक्षिप्तेन जीवाजीवविशेषानपेक्षेण न शक्यः संव्यवहार इति जीवद्रव्यमजीवद्रव्यमिति वा व्यवहार आश्रीयते । जीवाजीवावपि संग्रहाक्षिप्तौ नालं संव्यवहारायेति प्रत्येकं देवनारकादिर्घटादिश्च व्यवहारेणाश्रीयते । एवमयं नयस्तावद्वतते यावत्पुनर्नास्ति विभागः ॥ ३ ॥ ऋजु प्रगुणं सूत्रयति तन्त्रयत इति ऋजुसूत्रः। पूर्वान्परांस्त्रिकालविषयानतिशय्य वर्तमानकालविषयानादत्ते अतीतानागतयोनिष्टानुत्पन्नत्वेन व्यवहाराभावात् । तच्च वर्तमान समयमानं तद्विषयपर्यायमात्रग्राह्योऽयमृजुसूत्रः ॥ ननु संव्यवहारलोपप्रसङ्ग इति चेन्नास्य नयस्य विषयमात्रप्रदर्शनं क्रियते । सर्वनयसमूहसाध्यो हि लोकसंव्यवहारः ॥ ४ ॥ लिङ्गसंख्यासाधनादिव्यभिचारनिवृत्तिपरः शब्दनयः ।। तत्र लिङ्गव्यभिचारः- पुष्यस्तारका नक्षत्रमिति ॥ संख्याव्यभिचारः- जलमापो वर्षा ऋतुराम्रा वनं वरणा नगरमिति ॥ साधनव्यभिचारः- ( कारकव्यभिचारः ) सेना पर्वतमधिवसति ॥ पुरुषव्यभिचारः-- एहि मन्ये रथेन यास्यसि, न हि यास्यसि,
१ लिङ्गादीनां व्यभिचारो दोषो नास्तीत्यभिप्रायपरः ॥ २ आधतिष्ठतीत्यर्थः ॥
Page #110
--------------------------------------------------------------------------
________________
८०.
सर्वार्थसिद्धिः
यातस्ते पितेति * ॥ कालव्यभिचारः - विश्वदृश्वाऽस्य पुत्रो जनिता । भाविकृत्यमासीदिति ॥ उपग्रहव्यभिचारः - सन्तिठते प्रतिष्ठते विरंमत्युपरमैतीति ॥ एवम्प्रकारं व्यवहारनयं न्याय मन्यते । अन्यार्थस्यान्यार्थेन सम्बन्धाभावात् ॥ लोकसमयविरोध इति चेत् । विरुध्यताम् । तत्त्वमिह मीमांस्यैते न भैषज्यमातुरेच्छानुवर्ति ॥ ५ ॥ नानार्थसमभिरोहणात्समभिरूढः । यतो नानार्थान्समतीत्यैकमर्थमाभिमुख्येन रूढः समभिरूढः ॥ गौरित्ययं शब्दो वागादिषु अर्थेषु वर्तमानः पशावभिरूढः । अथवा अर्थगत्यर्थः शब्दप्रयोगः । तत्रैकस्यार्थस्यैकेन गतार्थत्वात्पर्यायशद्वप्रयोगोऽनर्थकः ॥ शद्बभेदश्चेदस्ति अर्थभेदेनाप्यवश्यं भवितव्यमिति नानार्थसमभिरोहणात्समभिरूढः ॥ इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात्पुरन्दर इत्येवं सर्वत्र | अथवा यो यत्राभिरूढः स तत्र समेत्याभिमुख्येनारोहणात्समभिरूढः । यथा व भवानास्ते । आत्मनीति । कुतः । वस्त्वन्तरे वृत्त्यभावात् ॥ यद्यन्यस्यान्यत्र वृत्तिः स्यात्, ज्ञानादीनां रूपादीनां चाकाशे
* अस्यायमर्थ:- एहि त्वमागच्छ त्वं, एवं मन्ये; अहं रथेन यास्यामि एतावता त्वं रथेन यास्यसि; ते पिता अग्रे रथेन यात इत्यर्थः । अत्र मध्यमपुरुषस्थाने उत्तमपुरुषः उत्तमपुरुषस्थाने मध्यमः पुरुषः । तदर्थं सूत्रमिदम् । प्रहासे मन्यापदेशे तूत्तमैकवनं चोत्तमे मध्यमस्य ।
"
,
१ अत्र भविष्यत्कालेऽतीतकालविभक्तिः ॥ २ अत्र परस्म पदोपग्रहः ॥ अत्र सूत्रम् । समवप्रविभ्यः ॥ ३ रमु क्रीडायामित्यत्रात्मनेपदोपग्रहः । व्यापरिभ्यो रमः इति व्यभिचारसूत्रम् । देवदत्तमुपरमति ॥ ४ जलं पततीति वक्तव्ये आपः पतन्तीति व्यवहारो जायते अत्राप्रादोत्तरं बहुत्वाभिधायकप्रत्ययोपनिबन्धनं वस्तुतो निरर्थकमेव. बहुत्वस्य अन्वयायोगात् । तथापि शब्दानुशासन शास्त्रमहिम्ना बहुत्ववाचकप्रत्ययसमभिव्याहारः कर्तव्य एव भवति । ५ परीक्ष्यते ॥
जले
Page #111
--------------------------------------------------------------------------
________________
प्रथमोऽध्यायः
वृत्तिः स्यात् ॥ ६ ॥ येनात्मना भूतस्तेनैवाध्यवसाययतीति एवम्भूतः ॥ स्वाभिघयक्रियापरिणतिक्षणे एव स शब्दो युक्तो नान्यदेति । यदैवेन्दति तदैवेन्द्रो नाभिषेचको न पूजक इति । यदैव गच्छति तदैव गौर्न स्थितो न शयित इति ॥ अथवा येनात्मना येन ज्ञानेन भूतः परिणतस्तेनैवाध्यवसाययति । यथेन्द्रा: मिज्ञानपरिणत आत्मैवेन्द्रोऽमिश्चेति ॥ ७ ॥ उक्ता नैगमादयो नयाः उत्तरोत्तरसूक्ष्मविषयत्वादेषां क्रमः पूर्वपूर्वहेतुकत्वाँच्च ॥ एवमेते नयाः पूर्वपूर्वविरुद्धमहाविषया उत्तरोत्तरानुकूलाल्पविषयाः । द्रव्यस्यानन्तशक्तेः प्रतिशक्तिभिद्यमाना बहुविकल्पा जायन्ते ॥ त एते गुणप्रधानतया परस्परैतन्त्राः सम्यग्दर्शनहेतवः पुरुषार्थक्रियासाधनसामर्थ्यात्तन्त्वादय इव यथोपायं विनिवेश्यमानाः पटादिसञ्ज्ञाः स्वतन्त्राश्चासमर्थाः ॥ " तन्त्वादय इवेति विषम उपन्यासः । तन्त्वादयो निरपेक्षा अपि काञ्चिदर्थमात्रां जनयन्ति । भवति हि कश्चित्प्रत्येकं तन्तुस्त्वक्त्राणे समर्थः । एकश्च बल्वजो बन्धने समर्थः । इमे पुनर्नया निरपेक्षाः सन्तो न काञ्चिदपि सम्यग्दर्शनमात्रां प्रादुर्भावयन्तीति॥” नैष दोषः । अभिहितानवबोधात् । अभिहितमर्थमनवबुध्य परेणेदमुपालभ्यते । एतदुक्तं निरपेक्षेषु तन्त्वादिषु पटादिकार्य नास्तीति ॥ यत्तु तेनोपदर्शितं
-१ इन्द्रज्ञानपरिणत आत्मा इन्द्र उच्यते। अग्निज्ञानपरिणतत्वादात्मा अग्निश्चेति एवम्भूतनयलक्षणम् ॥ २ नैगमात्संग्रहोऽल्पविषयः तन्मात्रप्राहित्वात् । नगमस्तु भावाभावविषयाब्दहुविषयः। यथैव हि भावे सङ्कल्पस्तथाऽभावे नैगमस्य सङ्कल्पः। एवमुत्तरत्रापि योज्यम् । ३ नैगमः संग्रहस्य हेतुः । संग्रहो व्यवहारस्य हेतुः। व्यवहारः ऋजुसूत्रस्य हेतुः । ऋजुसूत्रः शब्दस्य हेतु: । शब्दः समभिरूढस्य हेतुः । समभिरूढः एवम्भूतस्य हतुः इत्यर्थः ॥ ४ आधीनाः ॥
Page #112
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः न तत्पटादिकार्य, किं तर्हि केवलं तन्त्वादिकार्य; तन्त्वादिकार्यमपि तन्त्वाद्यक्यवेषु निरपेक्षेषु नास्त्येवेत्यस्मत्पक्षसिद्धिरेव ॥ अथ अन्त्वादिषु पयदिकार्य शक्त्यपेक्षया अस्तीत्युच्यते । नयेष्वपि निस्पेक्षेषु बुध्यभिधानरूपेषु कारणवशात्सम्यग्दर्शनहेतुत्वपरिणतिसहायात् शक्त्याऽऽत्मनाऽस्तित्वमिति साम्यमेवोपन्यासस्य ॥
ज्ञानदर्शनयोस्तत्त्वं । नयानां चैव लक्षणम् ॥ ज्ञानस्य च प्रमाणत्व- । मध्यायेऽस्मिन्निरूपितम् ॥ १ ॥ ॥ इति तत्त्वार्थवृतौ सर्वार्थसिद्धिसञ्ज्ञायां प्रथमोऽध्यायः ॥
॥ ॐ नमः परमात्मने वीतरागाय ॥
॥ अथ द्वितीयोऽध्यायः॥ आह सम्यग्दर्शनस्य विषयभावेनोपदिष्टेषु जीवादिष्वादावुपन्यस्तस्य जीवस्य किं स्वतत्त्वमित्युच्यते॥ औपशमिकक्षायिको भावौ मिश्रश्व जीवस्य
स्वतत्त्वमौदयिकपारिणामिकौ च ॥१॥ ___ आत्मनि कर्मणः स्वशक्तेः कारणवशादनुभूतिरुपशमः । स्था कतकादिद्रव्यसम्बन्धादम्भसि पकस्य उपशमः ॥ क्षयः मात्यन्तिकी निवृत्तिः। यथा तस्मिन्नेवाम्भसि शुचिभाजनान्तरसंक्रान्ते पङ्कस्यात्यन्ताभावः ॥ उभयात्मको मिश्रः । यथा तस्मिन्नेवाम्भसि कतकादिद्रव्यसम्बधात्पकस्य क्षीणाक्षीणवृत्तिः ॥ द्रव्यादिनिमित्तवशात्कर्मणां फलप्राप्तिरुदयः ॥ द्रव्या- . मलाभमानहेतुकः परिणामः ॥ उपशमः प्रयोजनमस्येत्यौपशमिकः । एवं क्षायिकः, क्षायोपशमिकः, औदयिकः, पारिणामिकश्च ।।
Page #113
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः त एते पञ्च भावा असाधारणा जीवस्य स्वतत्त्वमित्युच्यन्ते । सम्यग्दर्शनस्य प्रकृतत्वात्तस्य त्रिषु विकल्पेषु औपशमिकमादौ लभ्यत इति तस्यादौ ग्रहणं क्रियते । तदनन्तरं क्षायिकाहणं तस्य प्रतियोगित्वात्संसार्यपेक्षया द्रव्यतस्ततोऽसंख्येयगुणत्वाच्च । तत उत्तरं मिश्रग्रहणं तदुभयात्मकत्वात्ततोऽसंख्येयगुणत्वाच । तेषां सर्वेषामनन्तगुणत्वादौदयिकपारिणामिकग्रहणमन्ते क्रियते । अत्र द्वन्द्वनिर्देशः कर्तव्यः । औपशमिकक्षायिकमिश्रीदयिकपारिणामिका इति । तथा सति द्विश्वशब्दो न कर्तव्यो भवति ॥ नैवं शंक्यम् । अन्यगुणापेक्षया मिश्र इति प्रतीयेत । वाक्ये पुनः सति चशब्देन प्रकृतोभयानुकर्षः कृतो भवति ॥ तर्हि क्षायोपशमिकग्रहणमेव कर्तव्यमिति चेन्न । गौरवात् ॥ मिश्रग्रहणं मध्ये क्रियते उभयापेक्षार्थम् । भव्यस्य औपशमिकक्षायिकौ भावौ। मित्रैः पुनरभव्यस्यापि भवति औदयिकपारिणामिकाभ्यां सह भव्यस्यापीति ॥ भावापेक्षया तल्लिङ्गसंख्याप्रसङ्गः स्वतत्त्वस्येति चेन्न । उपात्तलिङ्गसंख्यात्वात् ।। तद्भावस्तत्त्वम् । स्वं तत्त्वं स्वतत्त्वमिति ॥ ___अत्राह तस्यैकस्यात्मनो ये भावा औपशमिकादयस्ते किं भेदवन्त उताभेदा इति । अत्रोच्यते भेदवन्तः । यद्येवं, भेदा उच्यन्तामित्यत आह
॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ ___ ब्यादीनां संख्याशब्दानां कृतद्वन्द्वानां भेदशब्देन सह स्वपदार्थेऽन्यपदार्थे वा वृत्तिवेदितव्या ॥ द्वौ च नव च अष्टा
१ औपशमिकक्षायिकन्यतिरिक्तः ॥ २ औपशमिकक्षायिकयोः । ३ अभव्यस्य मिश्रो भावः क्षायोपशमिकाज्ञानत्रयादिः ॥ ४ भावशब्दापेक्षया॥
Page #114
--------------------------------------------------------------------------
________________
६४
सर्वार्थसिद्धिः दश च एकविंशतिश्च त्रयश्च द्विनवाष्टादशैकविंशतित्रयस्त एव भेदा येषामिति वा वृत्तिनिवाष्टादशैकविंशतित्रिभेदा इति ॥ यदा स्वपदार्थे वृत्तिस्तदा औपशमिकादीनां द्विनवाष्टादशैकविंशतित्रयो भेदा इत्याभिसम्बन्धः क्रियते अर्थवशाद्विभक्तिपरिणाम इति ॥ यदाऽन्यपदार्थे वृत्तिस्तदा निर्दिष्टविभक्त्यन्ता एवाभिसम्बध्यन्ते । औपशमिकादयो भावा द्विनवाष्टादशैकविंशतित्रिभेदा इति ॥ यथाक्रमवचनं यथासंख्यप्रतिपयर्थम् ॥ औपशमिको द्विभेदः । क्षायिको नवभेदः । मिश्रोऽष्टादशभेदः । औद. यिक एकविंशतिभेदः । पारिणामिकस्त्रिभेद इति ॥ यद्येवमौपशमिकस्य कौ द्वौ भेदावित्यत आह
॥ सम्यक्त्वचारित्रे ॥ ३ ॥ व्याख्यातलक्षणे सम्यक्त्वचारित्रे ॥ औपशमिकत्वं कथमिति चेदुच्यते । चारित्रमोहो द्विविधः कषायवेदनीयो नोकपायवेदनीयश्चेति ॥ तत्र कषायवेदनीयस्य भेदा अनन्तानुबन्धिनः क्रोधमानमायालोभाश्चत्वारः, दर्शनमोहस्य त्रयो भेदाः सम्यक्त्वं, मिथ्यात्वं, सम्यङ्मिथ्यात्वमिति, आसां सप्तानां प्रकृतीनामुपशमादौपशमिकं सम्यक्त्वम् ॥ अनादिमिथ्यादृष्टेभव्यस्य कर्मोदयापादितकालुप्ये सति कुतस्तदुपशमः ?। काललब्ध्यादिनिमित्तत्वात् ॥ तत्र काललब्धिस्तावत्- कर्माविष्ट आत्मा भव्यः कालेऽर्द्धपुद्गलपरिवर्तनाख्येऽवशिष्टे प्रथमसम्यक्त्वग्रहणस्य योग्यो भवति, नाधिके इति इयमेका काललब्धिः ॥ अपरा कर्मस्थितिकाललब्धिः। उत्कृष्टस्थितिकेषु कर्मसु जघन्यस्थितिकेषु च प्रथमसम्यक्त्वलाभो न भवति ॥ व तर्हि भवति? । अन्तःकोटीकोटीसागरोपमस्थितिकेषु कर्मसु बन्धमापद्यमानेषु विशुद्धपरिणामवशात्सत्कर्मसु च ततः संख्येयसागरोपमसहस्रोनायामन्तः
Page #115
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः कोटीकोटीसागरोपमस्थितौ स्थापितेषु प्रथमसम्यक्त्वयोग्यो भवति ॥ अपरा काललब्धिर्भवापेक्षया । भव्यः पञ्चेन्द्रियः सञ्जी पर्यातकः सर्वविशुद्धः प्रथमसम्यक्त्वमुत्पादयति ॥ आदिशब्देन जातिस्मरणादिः परिगृह्यते ॥ कृत्स्नस्य मोहनीयस्योपशमादौपशमिकं चारित्रम् ॥ तत्र सम्यक्त्वस्यादौ वचनं तत्पूर्वकत्वाचारित्रस्य ॥
__ यः क्षायिको भावो नवविध उद्दिष्टस्तस्य भेदस्वरूपप्रतिपादनार्थमाह॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥
चशब्दः सम्यक्त्वचारित्रानुकर्षणार्थः ॥ ज्ञानावरणस्यात्यन्तक्षयात्केवलज्ञानं क्षायिकं तथा केवलदर्शनम् ॥ दानान्तरायस्यात्यन्तक्षयादनन्तप्राणिगणानुग्रहकरं क्षायिकमभयदानम् ॥ लाभान्तरायस्याशेषस्य निरासात्परित्यक्तकवलाहारक्रियाणां केवलिनां यतः शरीरबलाधानहेतवोऽन्यमनुजासाधारणाः परमशुभाः सूक्ष्मा अनन्ताः प्रतिसमयं पुद्गलाः सम्बन्धमुपयान्ति स क्षायिको लाभः ।। कृत्स्नस्य भोगान्तरायस्यात्यन्ताभावादाविर्भूतोऽतिशयवाननन्तो भोगः क्षायिकः । यतः कुसुमवृष्ट्यादयो विशेषाः प्रादुर्भवन्ति ॥ निरवशेषस्योपभोगान्तरायस्य प्रलयात्प्रादुर्भूतोऽनन्त उपभोगः क्षायिकः । यतः सिंहासनचामरच्छत्रत्रयादयः विभूतयः ॥ वीर्यान्तरायस्य कर्मणोऽत्यन्तक्षयादाविर्भूतमनन्तवीर्यं क्षायिकम् ॥ पूर्वोक्तानां सप्तानां प्रकृतीनामत्यन्तक्षयात्क्षायिकं सम्यक्त्वम् ॥ चारित्रमपि तथा ॥ यदि क्षायिकदानादिभावकृतमभयदानादि, सिद्धेष्वपि तत्प्रसङ्गः। नैष दोषः । शरीरनामतीर्थकरनामकर्मोदयाद्यपेक्षत्वातेषां तदभावे तदप्रसङ्गः ॥ कथं तर्हि तेषां सिद्धेषु वृत्तिः ।।
Page #116
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः परमानन्तवीर्याव्याबाधसुखरूपेणैव तेषां तत्र वृत्तिः। केवलज्ञानरूपेणानन्तवीर्यवृत्तिवत् ॥
य उक्तः क्षायोपशमिको भावोऽष्टादशविकल्पस्तद्भेदनिरूपणार्थमाह॥ज्ञानाज्ञानदर्शनलब्धयश्चतुस्वित्रिपञ्चभेदाः
सम्यक्त्वचारित्रसँयमासयमाश्च ॥ ५॥
चत्वारश्च त्रयश्च त्रयश्च पच्च च चतुस्वित्रिपञ्चभेदा यासां ताश्चतुस्वित्रिपञ्चभेदाः ॥ यथाक्रममित्यनुवर्तते । तेनाभिसम्बन्धाच्चतुरादिभिर्ज्ञानादीन्यभिसम्बन्ध्यन्ते । चत्वारि ज्ञानानि, त्रीण्यज्ञानानि, त्रीणि दर्शनानि, पञ्च लब्धय इति ॥ सर्वघातिस्पर्द्धकानामुदयक्षयात्तेषामेव सदुपशमाद्देशघातिस्पर्द्धकानामुदये क्षायोपशमिको भावो भवति ॥ तत्र ज्ञानादीनां वृत्तिः स्वावरणान्तरायक्षयोपशमाझ्याख्यातव्या ॥ सम्यक्त्वग्रहणेन वेद. कसम्यक्त्वं गृह्यते । अनन्तानुबन्धिकषायचतुष्टयस्य मिथ्यात्वसम्याड्मिथ्यात्वयोश्चोदयक्षयात्सदुपशमाच्च सम्यक्त्वस्य देशघातिस्पर्द्धकस्योदये तत्त्वार्थश्रद्धानं क्षायोपशमिकं सम्यक्त्वम् ॥ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानद्वादशकषायोदयक्षयात्सदुपशमाच सज्वलनकषायचतुष्टयान्यतमदेशघातिस्पर्द्धकोदये नोकषायनवकस्य यथासम्भवोदये च निवृत्तिपरिणामः आत्मनः क्षायोपशमिकं चारित्रम् ॥ अनन्तानुबन्ध्यप्रत्याख्यानकषायाष्टकोदयक्षयात्सदुपशमाच्च प्रत्याख्यानकषायोदये सज्वलनकषायदेशघातिस्पर्द्धकोदये नोकषायनवकस्य यथासम्भवोदये च विरताविरत
-
१ सम्यक्त्वप्रकृतेः दर्शनमोहनीयभेदरूपायाः ॥
Page #117
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः परिणामः क्षायोपशमिकः संयमासँयम इत्याख्यायते ॥ य एकविंशतिविकल्प औदयिको भाव उद्दिष्टस्तस्य भेदसञ्ज्ञासकीर्तनार्थमिदमुच्यते ॥ ॥ गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासँयतासिद्ध
लेश्याश्चतुश्चतुस्त्येकैकैकैकषड्भेदाः ॥ ६ ॥
यथाक्रममित्यनुवर्तते, तेनाभिसम्बन्धात् । गतिश्चतुर्भेदा, नरकगतिस्तिर्यग्गतिर्मनुष्यमतिर्देवगतिरिति ॥ तत्र नरकगतिनामकर्मोदयान्नारको भावो भवतीति नरकगतिरौदयिकी। एवमितरत्रापि ॥ कषायश्चतुर्भेदः, क्रोधो मानो माया लोभ इति ॥ तत्र क्रोधनिर्वर्तनस्य कर्मण उदयात्क्रोध औदयिकः । एवमि. तरत्रापि ॥ लिङ्गं त्रिभेदं, स्त्रीवेदः पुंवेदो नपुंसकवेद इति ॥ स्त्रीवेदकर्मण उदयास्त्रीवेद औदयिकः । एवमितरत्रापि ।। मिथ्यादर्शनमेकभेदं, मिथ्यादर्शनकर्मण उदयात्तत्त्वार्थाश्रद्धानपरिणामो मिथ्यादर्शनमौदयिकम् ॥ ज्ञानावरणकर्मण उदयात्पदार्थानवबोधो भवति तदज्ञानमौदयिकम् ॥ चारित्रमोहस्य सर्वघातिस्पर्द्धकस्यो. दयादसँयत औदयिकः ॥ कर्मोदयसामान्यापेक्षोऽसिद्ध औदयिकः ।। लेश्या द्विविधा, द्रव्यलेश्या भावलेश्या चेति ॥ जीवभावाधिकारात् द्रव्यलेश्या नाधिकृता । भावलेश्या कषायोदयरञ्जिती योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते ॥ सा षड्विधा कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या, शुक्ललेश्या चेति ॥ ननु च उपशान्तकषाये क्षीणकषाये सयोगकेवलिनि च शुक्ललेश्याऽस्तीत्यागमः तत्र कषायानुरञ्जनाभावा१ निष्पादनस्य २ जोगपउत्ती लेस्सा कसायउदयाणुरंजिया होई ॥ इति ॥ ३ अयदोत्तिच्छुल्लेस्साओ सुह तिय लेस्साओ देसाविरदातए । तत्तो दु सुक्कलेस्सा अजोगिठाणं अलेस्सं तु ॥१॥
Page #118
--------------------------------------------------------------------------
________________
८८
सर्वार्थसिद्धिः दौदयिकत्वं नोपपद्यते ॥ नैष दोषः । पूर्वभावप्रज्ञापननयापक्षया याऽसौ योगप्रवृत्तिः कषायानुरञ्जिता सैवेत्युपचारादौदयिकीत्युच्यते । तदभावादयोगकेवल्यलेश्य इति निश्चीयते ॥ यः पारिणामिको भावस्त्रिभेद उक्तस्तद्भेदस्वरूपप्रतिपादनार्थमाह
॥ जीवभव्याभव्यत्वानि च ॥ ७ ॥
जीवत्वं भव्यत्वमभव्यत्वमिति त्रयो भावाः पारिणामिका अन्यद्रव्यासांधारणा आत्मनो वेदितव्याः ॥ कुतः पुनरेषां पारिणामिकत्वम् । कर्मोदयोपशमक्षयक्षयोपशमानपेक्षित्वात् ॥ जीवत्वं चैतन्यमित्यर्थः । सम्यग्दर्शनादिभावेन भविष्यतीति भव्यः । तद्विपरीतोऽभव्यः । त एते त्रयो भावा जीवस्य पारिणामिकाः ॥ ननु चास्तित्वनित्यत्वप्रदेशत्वादयोऽपि भावाः पारिणामिकाः सन्ति तेषामिह ग्रहणं कर्तव्यम् । न कर्तव्यम् । कृतमेव । कथं चेच्चशब्देन समुच्चितत्वात् ॥ यद्येवं, त्रय इति संख्या विरुध्द्यते । न विरुध्द्यते । असाधारणा जीवस्य भावाः पारिणामिकास्त्रय एव ॥ अस्तित्वादयः पुनर्जीवाजीवविषयत्वासाधारणा इति चशब्देन पृथग्गृह्यन्ते ॥ आह औपशमिकादिभावानुपपत्तिरमूर्तत्वादात्मनः । कर्मबन्धापेक्षा हि ते भावाः। न चामूर्तेः कर्मणां बन्धो युज्यत इति ॥ तन्न, अनेकान्तात् ॥ नायमेकान्तः अमूर्तिरेवात्मेति । कर्मबन्धपर्यायापेक्षया तदावेशास्यान्मूर्तः । शुद्धस्वरूपापेक्षया स्यादमूर्तः ॥ यद्येवं कर्मबन्धावेशादस्यैकत्वे सत्यविवेकः प्राप्नोति। नैष दोषः । बन्धं
१ अत्रासाधारणवचनं वक्ष्यमाणास्तित्वादिसाधारणपारिणामिकभावापेक्षम् ॥ २ अस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वमगुरुलघुत्वं नित्यत्वं प्रदशित्वं मूर्तत्वममूर्तत्वं चेतनत्वमचेतनत्वं चैते दशभावाः ॥ ३ अपृथक्त्वम् ॥
Page #119
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः
८९
प्रत्येकत्वे ( ऽविवेके ) सत्यपि लक्षणभेदादस्य नानात्वमवसीयते ॥ उक्तं च-- बन्धं पडि एयेतं लक्खणदो हवइ तस्स णाणे - तं । तझा अमुत्तिभवोऽणेर्यंतो होइ जीवस्स ॥ १ ॥ इति ॥ यद्येवं तदेव लक्षणमुच्यतां येन नानात्वमवसीयते । इत्यत आह
॥ उपयोगो लक्षणम् ॥ ८ ॥
उभयनिमित्तवशादुत्पद्यमानश्चैतन्यानुविधायी परिणाम उपयोगः ॥ तेन बन्धं प्रत्येकत्वे सत्यप्यात्मा लक्ष्यते । सुवर्णरजतयोर्बन्धं प्रत्येकत्वे सत्यपि वर्णादिभेदवत् ॥
तद्भेददर्शनार्थमाह
॥ स द्विविधोऽष्टचतुर्भेदः ॥ ९ ॥
"
स उपयोगो द्विविधः । ज्ञानोपयोगो दर्शनोपयोगश्चेति ॥ ज्ञानोपयोगोऽष्टभेदः । मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानं मनःपर्ययज्ञानं, केवलज्ञानं, मत्यज्ञानं, श्रुताज्ञानं, विभङ्गज्ञानं चेति ॥ दर्शनोपयोगश्चतुर्विधः । चक्षुर्दर्शनं, अचक्षुर्दर्शनं, अवधिदर्शनं, केवलदर्शनं चेति ॥ तयोः कथं भेदः । साकारानाकार भेदात् । साकारं ज्ञानमनाकारं दर्शनमिति ॥ तच्छद्मस्थेषु क्रमेण वर्तते । निरावरणेषु युगपत् । पूर्वकालभाविनोऽपि दर्शनात् ज्ञानस्य प्रागुपन्यासोऽभ्यर्हितत्वात् ॥ सम्यग्ज्ञानप्रकरणात्पूर्वं पञ्चविधो ज्ञानोपयोगो व्याख्यातः ॥ इह पुनरुपयोगग्रहणाद्विपर्ययोऽपि गृह्यते इत्यष्टविध उच्यते ॥
१ एकत्वम् ॥ २ नानात्वम् ॥ ३ अमूर्तिस्वम् ॥ ४ अनेकान्तः ॥ ५ प्रथमाध्याये ॥
Page #120
--------------------------------------------------------------------------
________________
९०
सर्वार्थसिद्धिः
यथोक्तेनानेनाभिहितपरिणामेन सर्वात्मसाधारणेनोपयोगेन ये उपलक्षिता योगिनस्ते द्विविधाः --
॥ संसारिणो मुक्ताश्च ॥ १० ॥
संसरणं संसारः परिवर्तनमित्यर्थः । स एषामस्ति ते संसारिणः ॥ तत्परिवर्तनं पञ्चविधं द्रव्यपरिवर्तनं, क्षेत्रपरिवर्तनं, कालपरिवर्तनं, भवपरिवर्तनं, भावपरिवर्तनं चेति ॥ तत्र द्रव्यपरिवर्तनं द्विविधं नोकर्मद्रव्यपरिवर्तनं कर्मद्रव्यपरिवर्तनं चेति ॥ तत्र नोकर्मद्रव्यपरिवर्तनं नाम, त्रयाणां शरीराणां षण्णां पर्यातीनां योग्या ये पुद्गला एक्रेन जीवेन एकस्मिन्समये गृहीता : स्निग्धरूक्षवर्णगन्धादिभिस्तीत्रमन्दमध्यमभावेन च यथावस्थिता द्वितीयादिषु समयेषु निर्जीर्णा अगृहीताननन्तवारानतीत्य मिश्र - कांश्चानन्तवारानतीत्य मध्ये गृहीतांश्चानन्तवारानतीत्य त एव तेनैव प्रकारेण तस्यैव जीवस्य नोकर्मभावमापद्यन्ते यावत्तावत्समुदितं नोकर्मद्रव्यपरिवर्तनम् ॥ कर्मद्रव्यपरिवर्तनमुच्यतेएकस्मिन्समये एकेन जीवेनाष्टविधकर्मभावेन पुद्गला ये गृहीताः समयाधिकामावलिकामतीत्य द्वितीयादिषु समयेषु निर्जीर्णाः पूर्वोक्तेनैव क्रमेण त एवं तेनैव प्रकारेण तस्य जीवस्य कर्म - भावमापद्यन्ते यावत्तावत्कर्मद्रव्यपरिवर्तनम् ॥ उक्तं च- सव्वेऽवि पुग्गळा खळु कमसो भुतुझिया य जीवेण । अच्छर अणंतखुतो पुग्गल परियट्टसंसारे ॥ १ ॥ क्षेत्रपरिवर्तनमुच्यते - सूक्ष्मनिगोदजीवोsपर्याप्तकः सर्वजधन्यप्रदेशशरीरो लोकस्याष्टमध्यप्रदेशान्स्वशरीरमध्यप्रदेशा-कृत्वोत्पन्नः क्षुद्रभवग्रहणं जीवित्वा मृतः स एव पुनस्तेनैवावगाहेन द्विरुत्पन्नस्तथा स्त्रिस्तथा चतुरित्येवं
१ औदारिकवै क्रियिकाहारकत्रयाणाम् ॥
―――
Page #121
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः यावद्धनांगुलस्यासंख्येयभागप्रमिताकाश देशास्तावत्कृत्वन्तत्रैव जनित्वा पुनरेकैकप्रदेशाधिकभावेन सर्वो लोक आत्मनो जन्मक्षेत्रभावमुपनीतो भवति यावत्तावक्षेत्रपरिवर्तनम् ॥ उक्तं च- सव्वं हि लोयखेते कमसो तं णवि जं ण उप्पण्णं ।. ओगाहणेण बहुसो परिभमिदो खेत्तसंसारे ॥ १ ॥ कालपरिवर्तनमुच्यते- उत्सर्पिण्याः प्रथमसमये जातः कश्चिजीवः स्वायुषः परिसमाप्तौ मृतः स एव पुनर्द्वितीयाया उत्सर्पिण्या द्वितीयसमये जातः स्वायुषः क्षयान्मृतः स एव पुनस्तृतीयाया उत्सर्पिण्यास्तृतीयसमये जात एवमनेन क्रमेणोत्सर्पिणी परिसमाप्ता, तथा अवसर्पिणी च । एवं जन्मनैरन्तर्यमुक्तं मरणस्यापि नैरन्तयं तथैव ग्राह्यभेतावत्काल परिवर्तनम् || उक्तं च .. उवसप्पिणिअवप्पिणिसमयावलियासु णिरवसेसासु । जादो मुदो य बहुसो भमणेण दु काळसंसारे ॥१॥ भवपरिवर्तनमुच्यते- नरकगतौ सर्वजघन्यमायुर्दशवर्षसहस्राणि, तेनायुषा तत्रोत्पन्नः पुनः परिभ्रम्य तेनैवायुषा तत्रैव जातः, एवं दशवर्षसहस्राणां यावन्तः समयास्तावत्कृत्वस्तत्रैव जातो मृतः पुनरेकैकसमयाधिकभावेन त्रयस्त्रिंशत्सागरोपमाणि परिसमापितानि, ततः प्रच्युत्य तिर्यग्गताब-तर्मुहूर्तायुः समुत्पन्न, पूर्वोतेनैव क्रमेण त्रीणि पल्योपमानि तेन परिसमापितानि, एवं मनुप्यगतौ च तिर्यञ्चवत्, देवगतौ नारकवत्, अयं तु विशेष:- एकत्रिंशत्सागरोपमाणि परिसमापितानि यावत्तावद्भवपरिवर्तनम् ॥ उकं च - णिरयादिजहण्णादिसु जावदु उवारल्लिया दु गेवेजा। मिच्छत्तसंसिदेण हु बहुसो वि भवछिदी भमिदा ॥१॥ भावपरिवर्तनमुच्यते- पञ्चेन्द्रियः सञी पर्याप्तको मिथ्यादृष्टिः कश्चिज्जीवः सर्वजघन्यां स्वयोग्यां ज्ञानावरणप्रकृतेः स्थितिमन्तःकोटीकोटीसंज्ञिकामापद्यते, तस्य कषा
Page #122
--------------------------------------------------------------------------
________________
९२
सर्वार्थसिद्धिः
याध्यवसायस्थानान्यसंख्येयलोकप्रमितानि षट्स्थानपतितानि तत्स्थितियोग्यानि भवन्ति, तत्र सर्वजघः यकषायाध्यवसायस्थाननिमितान्यनुभागाध्यवसायस्थानान्यसंख्येयलोकप्रमितानि भवन्ति एवं सर्वजघन्यां स्थितिं सर्वजघन्यं च कषायाध्यवसायस्थानं सर्वजघन्यमेवानुभागबन्धस्थानमास्कन्दतस्तद्योग्यं ( एकं ) सर्वजघन्यं योगस्थानं भवति, तेषामेव स्थितिकषायानुभागस्थानानां द्वितीयमसंख्येयभागवृद्धिसंयुक्तं योगस्थानं भवति, एवं च तृतीया - दिषु योगस्थानेषु चतुःस्थानपतितानि श्रेण्यसंख्येयभागममितानि योगस्थानानि भवन्ति । तथा तामेव स्थितिं तदेव कषायाध्यवसायस्थानं च प्रतिपद्यमानस्य द्वितीयमनुभवाध्यवसायस्थानं भवति, तस्य च योगस्थानानि पूर्ववद्वेदितव्यानि । एवं तृती - यादिष्वपि अनुभवाध्यवसायस्थानेषु आ असंख्येयलोकपरिसमाप्तेः । एवं तामेव स्थितिमापद्यमानस्य द्वितीयं कषायाध्यवसायस्थानं भवति, तस्याप्यनुभवाध्यवसायस्थानानि योगस्थानानि च पूर्ववद्वेदितव्यानि । एवं तृतीयादिष्वपि कषायाध्यवसायस्थानेषु आ असंख्येयलोकपरिसमाप्तेर्वृद्धिक्रमो वेदितव्यः । उक्ताया जघन्यायाः स्थितेः समयाधिकायाः कषायादिस्थानानि पूर्ववदेकसमयाधिकक्रमेण आ उत्कृष्टस्थितेस्त्रिंशत्सागरोपमकोटीकोटीपरिमितायाः कषायादिस्थानानि [ पूर्ववत् ] वेदितव्यानि ॥ वृद्धिः असंख्येयभागवृद्धिः संख्येयभागवृद्धिः संख्येयगुणवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिः " इमानि षट्स्थानानि, वृद्धिर्हानिरपि तथैव । अनन्तभागवृद्धिः अनन्तगुणवृद्धिरहितानि चत्वारि स्थानानि ज्ञातव्यानि । एवं सर्वेषां कर्मणां मूलप्रकृतीनामुत्तरप्रकृतीनां च परिवर्तनक्रमो वेदितव्यः । तदेतत्सर्वं समुदितं भावपरिवर्तनम् । उक्तं च सव्वा पयडिठ्ठिदिओ अणु
" अनन्तभाग
•
Page #123
--------------------------------------------------------------------------
________________
९३
द्वितीयोऽध्यायः भागपदेसबंधठाणाणि । मिच्छत्तसंसिदेण य भामिदा पुण भावसंसारे ॥ १ ॥ उक्तात्पञ्चविधात्संसारान्निवृत्ता ये ते मुक्ताः । संसारिणां प्रागुपादानं तत्पूर्वकत्वान्मुक्तव्यपदेशस्य ॥ य एते संसारिणस्ते द्विविधाः
॥ समनस्कामनस्काः ॥ ११ ॥ मनो द्विविधं, द्रव्यमनो भावमनश्चेति ॥ तत्र पुद्गलविपाकिकर्मोदयापेक्षं द्रव्यमनः ॥ वीर्यान्तरायनोइन्द्रियावरणक्षयोणशमापेक्षया आत्मनो विशुद्धिर्भावमनः ॥ तेन मनसा सह वर्तन्त इति समनस्काः । न विद्यते मनो येषां त इमे अमनस्काः ॥ एवं मनसो भावाभावाभ्यां संसारिणो द्विविधा विभज्यन्ते । समनस्काश्चामनस्काश्च समनस्कामनस्का इति ॥
अभ्यर्हितत्वात्समनस्कशब्दस्य पूर्वनिपातः ॥ कथमभ्यर्हितत्वं । गुणदोषविचारकत्वात् ॥
पुनरपि संसारिणां भेदप्रतिपत्त्यर्थमाह--
॥ संसारिणस्त्रसस्थावराः ॥ १२ ॥
संसारिग्रहणमनर्थकं, प्रकृतत्वात ॥ क प्रकृतं ? । संसारिणो मुक्ताश्चेति । नानर्थकम् । पूर्वापेक्षार्थ, ये उक्ताः समनस्कामनस्कास्ते संसारिण इति ॥ यदि हि (पूर्वस्य विशेषणं न स्यात् समनस्कामनस्कग्रहणं संसारिणो मुक्ताश्चेत्यनेन यथासंख्यमभिसंबंध्येत । एवं च कृत्वा संसारिग्रहणमादौ क्रियमाणमुपपन्नं भवति । तत्पूर्वीपेक्षं सदुत्तरार्थमपि भवति ॥ संसारिणो द्विविधाः। त्रसाः स्थावराः इति ॥ त्रसनामकर्मोदयवशीकृतास्त्रसाः । स्थावरनामकर्मोदयवशवर्तिनः स्थावराः ॥ तस्य. न्तीति त्रसाः स्थानशीलाः स्थावरा इति चेन्न । आगमविरोधात् ॥ आगमे हि कायानुवादेन त्रसा द्वीन्द्रियादारभ्य आ
Page #124
--------------------------------------------------------------------------
________________
सर्वार्थसिद्भिः अयोगकेवलिन इति । तस्मान्न चलनाचलनापेक्षं त्रसस्थावरत्वम् । कर्मोदयापेक्षमेव ॥ त्रसग्रहणमादौ क्रियते । अल्पाच्तरत्वादभ्यः हितत्वाच्च । सर्वोपयोगसम्भवादभ्यर्हितत्वम् ।।
एकेन्द्रियाणामतिबहुवक्तव्याभावादुल्लंघ्यानुपूर्वी स्थावरभेदप्रतिपत्त्यर्थमाह॥ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः॥ १३ ॥
स्थावरनामकर्मभेदाः पृथिवीकायादयः सन्ति, तदुदयनिमित्ता अमी इति जीवेषु पृथिव्यादयः सञ्ज्ञा वेदितव्याः ॥ प्रथनादिप्रकृतिनिष्पन्ना अपि रूढिवशात्प्रथनाद्यनपेक्षा वर्तन्ते ॥ एषां पृथिव्यादीनामार्षे चातुर्विध्यमुक्तम् । प्रत्येकं तत्कथमिति चेदुच्यते ॥ पृथिवी । पृथिवीकायः । पृथिवीकायिकः । पृथिवीजवि इत्यादि ॥ तत्र अचेतनावैश्रसिकपरिणामनिर्वृत्ता काठिन्यगुणात्मिका पृथिवी। अचेतनत्वादसत्यपि पृथिवीकायनामकर्मोदये प्रथनक्रियोपलक्षितैवेयम् ॥ अथवा पृथिवी सामान्यमुतरत्रयेऽपि सद्भावात् । कायः शरीरं 'पृथिवीकायिकजीवपरित्यक्तः पृथिवीकाय । मृतमनुष्यादिकायवत् । पृथिवीकायः अस्यास्तीति पृथिवींकायिकः । तत्कायसम्बन्धवशीकृत आत्मा समवाप्तपृथिवीकायनामकर्मोदयः कार्मणकाययोगस्थो यो न तावत्पृथिवीं का. यत्वेन गृह्णाति स पृथिवीजीवः ॥ उक्तं च- पुढवी पुढवीकायो पुढवीकाइय पुढविजीवो य । साहारणोपमुक्को सरीरगहिदो भवंतरिदो ॥ १ ॥ एवमबादिष्वपि योज्यम् ॥ एते पञ्चविधाः प्राणिनः स्थावराः। कति पुनरेषां प्राणाः । चत्वारः । स्पर्शनेन्द्रियप्राणः कायबलप्राणः उच्छासनिश्वासप्राणः आयुःप्राणश्चेति ॥
१ द्वादशीवधोपयोगसम्भवस्त्रसे । स्थावरे तु चतुर्विध एव ॥ ...
Page #125
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः अथ त्रसाः के ते इत्यत्रोच्यते ॥
॥ द्वीन्द्रियादयस्त्रसाः ॥ १४ ॥ .. द्वे इन्द्रिये यस्य सोऽयं द्वीन्द्रियः, द्वीन्द्रियः आदिर्येषां ते द्वीन्द्रियादयः ॥ आदिशब्दो व्यवस्थावाची। क व्यवस्थिताः। आगमे । कथम् । द्वीन्द्रियस्त्रीन्द्रियश्चतुरिन्द्रियः पञ्चेन्द्रियश्चेति ॥ तद्गुणसंविज्ञानवृत्तिग्रहणात् द्वीन्द्रियस्याप्यन्तर्भावः ॥ कति पुनरेषां प्राणाः ? । द्वीन्द्रियस्य तावत् षट् प्राणा पूर्वोक्ता एव रसनवाक्प्राणाधिकाः । त्रीन्द्रियस्य सप्त त एव घ्राणप्राणाधिकाः । चतुरािंद्रियम्याष्टा त एव चक्षुःप्राणाधिकाः । पञ्चेन्द्रियस्य तिरश्चोःसंज्ञिनो नव त एव श्रोत्रप्राणाधिकाः । सचिनो दश त एव मनोबलप्राणाधिकाः ॥
आदिशब्देन निर्दिष्टानामनितिसंख्यानामियत्तावधारणं कर्तव्यमित्यत आह ॥
॥ पञ्चेन्द्रियाणि ॥ १५॥ इन्द्रियशब्दो व्याख्यातार्थः । पञ्चग्रहणमवधारणार्थ, पञ्चैव नाधिकसंख्यानीति ॥ कर्मेन्द्रियाणां वागादीनामिह ग्रहणं कर्तव्यम् । न कर्तव्यम् । उपयोगप्रकरणात् ॥ उपयोगसाधनानामिह ग्रहणं कृतं, न क्रियासाधनानामनवस्थानाच ॥ क्रियासाधनानामङ्गोपाङ्गनामकर्मनिवर्तितानां सर्वेषामपि क्रियासाधनत्वमस्तीति न पञ्चैव कर्मेन्द्रियाणि ॥
१ मर्यादावाची, तेन पञ्चेन्द्रियादूर्ध्वं षडिन्द्रियादजीवो न भवतीत्य. भिप्रायः ॥ २ तद्गुणसंविज्ञानबहुव्री।हसमासे उदाहरणं लम्बणः । भद्णसावज्ञ ने बहुधनः ॥-३ तदिन्द्रयानिन्द्रियानमित्तमात सूतव्याख्यानावसरे ॥ ४ वाक्पाणिपादपायूपस्थानाम् ॥ .
Page #126
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः तेषामन्तर्भेदप्रदर्शनार्थमाह
॥ द्विविधानि ॥ १६ ॥ विधशब्दः प्रकारवाची, द्वौ विधौ येषां तानि द्विविधानि, द्विप्रकाराणीत्यर्थः ॥ को पुनस्तौ द्वौ प्रकारौ । द्रव्येन्द्रियं भावेन्द्रियमिति ॥
तत्र द्रव्येन्द्रियस्वरूपप्रतिपत्त्यर्थ( निपिनार्थ )माह॥ निवृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥
निवर्त्यते निष्पाद्यते इति निर्वृतिः ॥ केन निवर्त्यते । । कर्मणा ॥ सा द्विविधा बाह्याभ्यन्तरभेदात् ॥ उत्सेधांगुलीसंख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थितानां वृत्तिरभ्यन्तरा निर्वृतिः । तेष्वात्मप्रदेशेष्विन्द्रियव्यपदेशभाक्षु यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः सा बाह्या निर्वृतिः ॥ येन निर्वृतेरुपकारः क्रियते तदुपकरणम् ॥ पूर्ववत्तदपि द्विविधम् ॥ तत्राभ्यन्तरं कृष्णशुक्लमण्डलम् । बाह्यमक्षिपत्रपक्ष्मद्वयादि ॥ एवं शेषेष्विन्द्रियेषु ज्ञेयम् ॥
भावेन्द्रियमुच्यते॥ लब्ध्युपयोगी भावेन्द्रियम् ॥ १८ ॥
लम्भनं लब्धिः । का पुनरसौ ?। ज्ञानावरणक्षयोपशमविशेषः ॥ यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृतिप्रति व्याप्रियते
-
१ उत्सेधांगुलमिति व्यवहारांगुलं धनरूपं तदेवान गृह्यते। परमा. गमे देहगेहग्रामनरकादिप्रमाणमुत्सेधागुलेनैवेति नियमितत्वात् ॥
२ द्रव्येन्द्रियरूपनिर्वृतिम् ॥
Page #127
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः तन्निमित्त आत्मनः परिणाम उपयोगस्तदुभयं भावेन्द्रियम् ॥ इन्द्रियफलमुपयोगः तस्य कथमिन्द्रियत्वम् ? कारणधर्मस्य कार्ये दर्शनात् । यथा घटाकारपरिणतं विज्ञानं घट इति ।। स्वार्थस्य तत्र मुख्यत्वाच्च । इन्द्रस्य लिङ्गमिन्द्रियमिति यः स्वार्थः स उपयोगो मुख्यः । उपयोगलक्षणो जीव इति वचनात् । अत उपयोगस्यन्द्रियत्वं न्याय्यम् ॥
उक्तानामिन्द्रियाणां सज्ञानुपूर्वीप्रतिपादनार्थमाह॥ स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥ १९ ॥
लोके इन्द्रियाणां पारतन्त्र्यविवक्षा दृश्यते । अनेनाक्ष्णा सुष्टु पश्यामि, अनेन कर्णेन सुष्टु श्रुणोमीति । ततः पारतत्र्यात्स्पर्शनादीनां कारणत्वं । वीर्या-तरायमतिज्ञानावरणक्षयोपशमांझोपाङ्गनामलाभावष्टम्भात् आत्मना स्पृश्यतेऽनेनेति स्पर्शनम् । रस्यतेऽनेनेति रसनम् । प्रायतेऽनेनेति प्राणम् । चक्षेरनेकार्थत्वाद्दर्शनार्थविवक्षायां चष्टे अर्थान्पश्यत्यनेनेति चक्षुः । श्रूयतेड़ नेनेति श्रोत्रम् ॥ स्वातन्त्र्यविवक्षा च दृश्यते । इदं मे अक्षि सुष्टु पश्यति । अयं मे कर्णः सुष्टु श्रुणोति । ततः स्पर्शनादीनां कर्तरि निष्पत्तिः। स्पृशतीति स्पर्शनम् । रसतीति रसनम् । जिघ्रतीति प्राणम् । चष्टे इति चक्षुः। श्रुणोतीति श्रोत्रम् ॥ एषां निर्देशक्रमः एकैकवृद्धिक्रमप्रज्ञापनार्थः ॥
तेषामिन्द्रियाणां विषयप्रदर्शनार्थमाह॥ स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥ २०॥
द्रव्यपर्याययोः प्राधान्यविवक्षायां कर्मभावसाधनत्वं स्पर्शादिशब्दानां वेदितव्यम् ॥ द्रव्यप्राधान्यविवक्षायां कर्मनिर्देशः । स्पृश्यत इति स्पर्शः। रस्यत इति रसः । गन्ध्यत इति गन्धः ।
Page #128
--------------------------------------------------------------------------
________________
____ सर्वार्थसिद्धिः-- - वर्ण्यत इति वर्णः । शब्द्यत इति शब्दः ॥ पर्यायप्राधान्यविवक्षायां भावनिर्देशः । स्पर्शनं स्पर्शः। रसनं रसः। गन्धनं गन्धः । वर्णनं वर्णः । शब्दनं शब्दः ॥ एषां क्रम इन्द्रियक्रमेणैव व्याख्यातः ॥
अत्राह यत्तावन्मनोऽनवस्थानादिन्द्रियं न भवतीति प्रत्याख्यातं तत्किमुपयोगस्योपकारि उत नेति ? । तदप्युपकार्येव । तेन विनेन्द्रियाणां विषयेषु स्वप्रयोजनवृत्त्यभावात् । किमस्यैषां सहकारित्वमात्रमेवप्रयोजनमुतान्यदपीत्यत आह४ ॥ श्रुतमनिन्द्रियस्य ॥ २१ ॥
श्रुतज्ञानविषयोऽर्थः श्रुतम् । स विषयोऽनिन्द्रियस्य । परिप्राप्तश्रुतज्ञानावरणक्षयोपशमस्यात्मनः श्रुतस्यार्थेऽनिन्द्रियालम्बनज्ञानप्रवृत्तेः ॥ अथवा श्रुतज्ञानं श्रुतं तदनिन्द्रियस्यार्थः प्रयोजनमिति यावत् । स्वातन्त्र्यसाध्यमिदं प्रयोजनमनिन्द्रियस्य ॥
उक्तानामिन्द्रियाणां प्रतिनियतविषयाणां स्वामित्वनिर्देशे कर्तव्ये यत्प्रथमं गृहीतं स्पर्शनं तस्य तावत्स्वामित्वावधारणार्थमाह
॥ वनस्पत्सन्तानामेकम् ॥ २२ ॥ एकं प्रथममित्यर्थः । किं तत् । स्पर्शनम् । तत्केषाम् । पृथिव्यादीनां वनस्पत्यन्तानां वेदितव्यम् ॥ तस्योत्पत्तिकारणमु. च्यते ॥ वीर्यान्तरायस्पर्शनेन्द्रियावरणक्षयोपशमे सति शेषेन्द्रियसर्वघातिस्पर्धकोदये च शरीरनामलाभावष्टम्भे एकेन्द्रियजातिनामोदयवशवर्तितायां च सत्यां स्पर्शनमेकमिन्द्रियमाविर्भवति ॥
इतरेषामिन्द्रियाणां स्वामित्वप्रदर्शनार्थमाहकृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि २३
एकैकमिति वीप्सायां द्वित्वम् । एकैकेन वृद्धानि एकै
Page #129
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः कवृद्धानि ॥ कृमिमादिं कृत्वा, स्पर्शनाधिकारात स्पर्शनमादि कृत्वा एकैकवृद्धानीत्यभिसम्बन्धः क्रियते ॥ आदिशब्दः प्रत्येक परिसमाप्यते । कृम्यादीनां स्पर्शनं रसनाधिकम् । पिपीलिकादीनां स्पर्शनरसने घ्राणाधिके । भ्रमरादीनां स्पर्शनरसनघ्राणानि चक्षुरधिकानि । मनुष्यादीनां तान्येव श्रोत्राधिकानीति यथासंख्येनाभिसम्बन्धो व्याख्यातः ॥ तेषां निष्पत्तिः स्पैर्शनोत्पत्त्या व्याख्याता उत्तरोत्तरसर्वघातिस्पर्धकोदयेन ॥
___ एवमेतेषु संसारिषु विभेदेषु इन्द्रियभेदात्पंचविधेषु ये पञ्चेन्द्रियास्त दस्यानुक्तस्य प्रतिपादनार्थमाह
॥सज्ञिनः समनस्काः ॥ २४ ॥
मनो व्याख्यात । सह तेन ये वर्तन्ते ते समनस्काः । सचिन इत्युच्यन्ते ॥ पारिशेष्यादितरे संसारिणः प्राणिनोऽसजिन इति सिद्धम् ॥ ननु च सचिन इत्यनेनैव गतार्थत्वात्समनस्का इति विशेषणमनर्थकम् । यतो मनाव्यापारो हिताहितप्राप्तिपरिहारपरीक्षा । सञ्ज्ञाऽपि सैवेति ॥ नैतद्युक्तम् । सञ्जाशब्दार्थव्यभिचारात् । सज्ञा नामेत्युच्यते । तद्वन्तः सञ्जिन इति सर्वेषामतिप्रसङ्गः ॥ सञ्ज्ञा ज्ञानमिति चेत् सर्वेषां प्राणिनां ज्ञानात्मकत्वादतिप्रसङ्गः॥ आहारादिविषयाभिलाषः सज्ञेति चेत्तुल्यम् । तस्मात्समनस्का इत्युच्यते ॥ एवं च कृत्वा गर्भाण्डजमूछितसुषुप्त्याद्यवस्थासु हिताहितपरीक्षाभावेऽपि मनःसन्निधानात्सज्ञित्वमुपपन्नं भवति ॥
यदि हिताहितादिविषयपरिस्पन्दः प्राणिनां मनःप्रणि
१ रसनादीनामिन्द्रियाणाम् ॥ २ उत्पत्तिः॥ ३ पूर्वसूत्रव्याख्याने स्पर्सनेन्द्रियोत्पत्तिकथनेन ॥ ४ समनस्कामनस्का इत्यत्र ॥
Page #130
--------------------------------------------------------------------------
________________
ܘܘܐ
सर्वार्थसिद्धिः धानपूर्वकः अथाभिनवशरीरग्रहणं प्रत्यागूणस्य विशीर्णपूर्वमूर्तेर्निर्मनस्कस्य यत्कर्म, तत्कुत इत्युच्यते__विग्रहगतौ कर्मयोगः ॥ २५ ॥
विग्रहो देहः। विग्रहार्था गतिविग्रहगतिः ॥ अथवा विरुद्धो ग्रहो विग्रहः व्याघातः कर्मादानेऽपि नोकर्मपुद्गलादाननिरोध इत्यर्थः । विग्रहेण गतिः विग्रहगतिः ॥ सर्वशरीरप्ररोहणबीजभूतं कार्मणं शरीरं कर्मेत्युच्यते । योगो वामानस• कायवर्गणानिमित्त आत्मप्रदेशपरिस्पन्दः। कर्मणा कृतो योगः कर्मयोगः। विग्रहगतौ भवतीत्यर्थः । तेन कर्मादानं देशान्तरसंक्रमश्च भवति ॥
आह जीवपुद्गलानां गतिमास्कन्दतां देशान्तरसंक्रमः किमाकाशप्रदेशक्रमवृत्त्या भवति, उताविशेषेणेत्यत आह
॥ अनुश्रेणि गतिः ॥ २६ ॥ लोकमध्यादारभ्य ऊर्ध्वमस्तिर्यक् च आकाशप्रदेशानां क्रमसन्निविष्टानां पंक्तिः श्रेणिरित्युच्यते। अनुशब्दस्यानुपूर्येण वृत्तिः। श्रेणेरानुपूर्येणानुश्रेणीति जीवानां पुद्गलानां च गतिर्भवतीत्यर्थः ॥ अनधिकृतानां पुद्गलानां कथं ग्रहणमिति चेत्गतिग्रहणात् । यदि जीवानामेव गतिरिष्टा स्यात् गतिग्रहणमनर्थकमधिकारात्तत्सिद्धेः । उत्तरत्र जीवग्रहणाच्च पुद्गलसम्प्रत्ययः ॥ ननु चन्द्रादीनां ज्योतिष्काणां मेरुप्रदक्षिणाकाले विद्याधरादीनां च विश्रेणिगतिरपि दृश्यते तत्र किमुच्यते अनुश्रेणिगतिरिति ? कालदेशनियमोऽत्र वेदितव्यः ॥ तत्र कालनियमस्तावज्जीवानां मरणकाले भवान्तरसंक्रमे मुक्तानां चोर्ध्वगमनकाले अनुश्रेण्येव गतिः ॥ देशनियमोऽपि ऊर्ध्वलोकादधोगतिः । अधोलोकादूर्ध्वगतिः।
Page #131
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः
१०१
तिर्यग्लोकादधोगतिः । ऊर्ध्वा वा । तत्रानुश्रेण्येव ॥ पुद्गुलीनां च या लोकान्तप्रापिणी सा नियमादनुश्रेण्येव । इतरा गतिर्भर्जनीया ॥ पुनरपि गतिविशेषप्रतिपत्त्यर्थमाह—
|| अविग्रहा जीवस्य ॥ २७ ॥
विग्रहो व्याघातः कौटिल्यमित्यर्थः । स यस्यां न विद्यतेऽ सावविग्रहा गतिः ॥ कस्य ? | जीवस्य ॥ कीदृशस्य ? | मुक्तस्य ॥ कथं गम्यते मुक्तस्येति ? । उत्तरसूत्रे संसारिग्रहणादिह मुक्तस्येति विज्ञायते ॥ ननु च अनुश्रेणि गतिरित्यनेनैव श्रेण्यन्तरक्रमाभावो व्याख्यातः । नार्थोऽनेन । पूर्वसूत्र विश्रेणिगतिरपि क्वचिदस्तीति ज्ञापनार्थमिदं वचनम् ॥ ननु तत्रैव देशकालनियम उक्तः किं न ? अतस्तत्सिद्धेः ॥
।
यद्यसङ्गस्यात्मनोऽप्रतिबन्धेन गतिरालोकान्तादवगतकाला प्रतिज्ञायते, सदेहस्य पुनर्गतिः किं प्रतिबन्धिनी, उत मुक्तात्मवदित्यत आह
॥ विग्रहवती च संसारिणः प्राक्कतुर्भ्यः ॥ २८ ॥ कालावधारणार्थं प्राक्चतुर्भ्य इत्युच्यते । प्रागितिवचनं मर्यादार्थं, चतुर्थात्समयात्प्राग्विग्रहवती गतिर्भवति न चतुर्थे इति ॥ कुत इति चेत्- सर्वोत्कृष्ट विग्रहनिमित्तनिष्कुट क्षेत्रे उत्पित्सुः प्राणी निष्कुट क्षेत्रानुपूर्व्यनुश्रेण्यभावादिपुगत्यभावे निष्कुटक्षेत्र प्रापणानिमित्तां त्रिविग्रहां गतिमारभते नोर्ध्वाम् । तथाविधोपपादक्षेत्राभावात् ॥ चशब्दः समुच्चयार्थः । विग्रहवती चाविग्रहवती चेति ॥
१ परमाणुरूपाणां ॥ २ अनियमिता ॥
३. लोकाग्रकोणं निष्कुटक क्षेत्रम् ॥
Page #132
--------------------------------------------------------------------------
________________
१०२
समितिः विग्रह वत्या गतेः कालोऽवधृतः । अविग्रहायाः कियान् काल इत्युच्यते
॥ एकसमयाऽविग्रहा ॥ २९ ॥ एकः समयो यस्याः सा एकसमया। न विद्यते विग्रहो यस्याः सा अविग्रहा ॥ गतिमतां हि जीवपुद्गलानामव्याघातेनैकसमयिकी गतिरालोकान्तादपीति ॥ .. अनादिकर्मबन्धसन्ततौ मिथ्यादर्शनादिप्रत्ययक्शात्कर्माण्याददानो विग्रहगतावप्याहारकः प्रसक्तस्ततो नियमार्थमिदमुच्यते
॥ एकं द्वौ त्रीन्वाऽनाहारकः ॥ ३०॥
अधिकारात्समयाभिसम्बन्धः । वाशब्दो विकल्पार्थः । विकल्पश्च यथेच्छातिसर्गः ॥ एकं वा द्वौ वा त्रीन्वा समयाननाहारको भवतीत्यर्थः ॥ त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलग्रहणमाहारः। तदभावादनाहारकः ॥ कर्मादानं हि निरन्तरं, कार्मणशरीरसद्भावे ॥ उपपादक्षेत्रं प्रति ऋज्व्यां गतौ आहारकः । इतरेषु त्रिषु समयेषु अनाहारकः ॥ एवं गच्छतोऽभिनवमूर्त्यन्तरनिर्वृतिजन्मप्रकारप्रतिपादनार्थमाह
॥ सम्मळुनगर्भोपपादाजन्म ॥ ३१ ॥ ___ त्रिषु लोकेपूर्ध्वमस्तिर्यक् च देहस्य समन्ततो मूर्छन सम्मूछैनमवयवप्रकल्पनम् । स्त्रिया उदरे शुक्लशोणितयोर्गरणं मिश्रणं गर्भः। मानोपभुक्ताहारगरणाद्वा गर्मः। उपेत्योत्पद्यतेऽस्मिन्निति उपपादः । देवनारकोत्पत्तिस्थानविशेषसञ्ज्ञा ॥ एते त्रयः संसारिणां
१ कार्मणतजसवैक्रियिकाणाम् ॥ २ नोकर्मापेक्षया ॥ ३ उपेत्य देवाः नारकाश्च युवान एव उत्पद्यते ॥
Page #133
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः
१०३ जीवानां जन्मप्रकाराः शुभाशुभपरिणामनिमित्तकर्मभेदविपाककृताः ।।
___ अथाधिकृतस्य संसारिविषयोपभोगोपलब्ध्यधिष्ठानप्रर्वणस्य जन्मनो योनिविकल्या वक्तव्या इत्यत आह -
॥ सचित्तशीतसंवृताः सेतरा
मिश्राश्चैकशस्तद्योनयः ॥ ३२ ॥ आत्मनश्चैतन्यविशेषपरिणामश्चित्तम् । सह चित्तेन वर्तत इति सचित्तः ॥ शीत इति स्पर्शविशेषः । शुक्लोदिवदुभयवचनत्वात्तद्युक्तं द्रव्यमप्याह ॥ सम्यग्वृतः संवृतः । संवृत इति दुरुपलक्ष्यः प्रदेश उच्यते ॥ सह इतरैर्वर्तन्त इति सेतराः । सप्रतिपक्षा इत्यर्थः ॥ के पुनरितरे । अचित्तोष्णविवृताः ॥ उभयात्मको मिश्रः। सचित्ताचित्तः शीतोष्णः संवृतविवृत इति ॥ चशब्दः समुच्चयार्थः । मिश्राश्च योनयो भवन्तीति ॥ इतरथा हि पूर्वोक्तानामेव विशेषणं स्यात् ॥ एकश इति वीप्सार्थः ॥ तस्य ग्रहणं क्रममिश्रप्रतिपत्त्यर्थम् ॥ यथैवं विज्ञायेत । सचित्तश्च अचित्तश्च शीतश्च उष्णश्च संवृतश्च विवृतश्चेति ॥ मैवं विज्ञायि सचित्तश्च शीतश्चेत्यादि । तद्ग्रहणं जन्मप्रकारप्रतिनिर्देशार्थम् । तेषां सम्मूर्च्छनादीनां ज-मनां योनय इति त एते नव योनयो वेदितव्याः ॥ योनिजन्मनोरविशेष इति चेन्न । आधाराधेयभेदातद्भेदः ॥ त एते सचित्तादयो योनयः आधारा । आधेया जन्मप्रकाराः ॥ यतः सचित्तादियोन्यधिष्ठाने आत्मा सम्मूर्च्छनादिना जन्मना शरीराहारेन्द्रियादियोग्यान्पुद्गलानुपादत्ते ॥ देवनारका अचित्तयोनयः । तेषां हि योनिरुपपाददेशपुद्गलप्रचयोऽचित्तः ॥
२ शरीरनिष्ठस्य ॥ २ शुक्ल दिशब्दवच्छीतशब्द. गुणगुणिनोर्वाचकत्वाच्छीतयुक्तं द्रव्यमाह ॥
Page #134
--------------------------------------------------------------------------
________________
१०१ . सर्वार्थसिद्धिः . . गर्भजा मिश्रयोनयः। तेषां हि मातुरुदरे । शुक्रशोणितमचित्तं, तदात्मना चित्तवता मिश्रणान्मिश्रयोनिः ॥ सम्मूर्छनजास्त्रिविकल्पयोनयः। केचित्सचित्तयोनयः। अन्ये अचित्तयोनयः । अपरे मिश्रयोनयः ॥ सचित्तयोनयः साधारणशरीराः। कुतः । परस्पराश्रयत्वात् ॥ इतरे अचित्तयोनयो मिश्रयोनयश्च ॥ शीतोष्णयोनयो देवनारकाः तेषां हि उपपादस्थानानि कानिचिच्छीतानि, कानिचिदुष्णानीति ॥ उष्णयोनयस्तेजस्कायिकाः ॥ इतरे त्रिविकल्पयोनयः केचिच्छीतयोनयः केचिदुष्णयोनयः अपरे मिश्रयोनय इति ॥ देवनारकैकेन्द्रियाः संवृतयोनयः ॥ विकलेन्द्रिया विवृतयोनयः ॥ गर्भजा मिश्रयोनयः ॥ तद्भेदाश्चतुरशीतिशतसहस्रसंख्या आगमतो वेदितव्याः ॥ उक्तं च । णिच्चिदरधा दु सत्तय तरुदस वियळिंदिएसु छच्चेव । सुरणिरयतिरिय चउरो चोइस मणुए सदसहस्सा ॥ १ ॥
एवमेतस्मिन्नवयोनिभेदसङ्कटे त्रिविधजन्मनि सर्वप्राणभृतामनियमेन प्रसक्ते तदवधारणार्थमाह
॥ जरायुजाण्डजपोतानां गर्भः ॥ ३३ ॥
यज्जालवत्प्राणिपरिवरणं विततमांसशोणितं तजरायुः । यन्नखत्वक्सदृशमुपात्तकाठिन्यं शुक्लशोणितपरिवरणं परिमण्डलं तदण्डम् । किञ्चित्परिवरणमन्तरेण परिपूर्णावययो योनिनिर्गत. मात्र एव परिस्पन्दादिसामोपेतः पोतः ।। जरायौ जाता जरा
१ दौद्रियमारभ्य चतुर्शिद्रयपर्यंत ॥ २ अस्यायमर्थः-नित्यनिगोदा इतरनिगोदाश्च पृथिव्यप्तजोवायवश्व प्रत्येकं सप्तलक्षयोनयः । वनस्पतिकायि. . कः दशलक्षयानयः । द्वीन्द्रियात्रान्द्रियाश्चतुगिन्द्रयाश्च प्रत्येक द्विलक्षयोनयः । सुनारकातयश्चश्च पृथक्कतुलक्षयांनयः। मनुष्याश्चतुर्दशक्षयोनयः ॥
Page #135
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः युजाः। अण्डे जाता अण्डजाः । जरायुजाश्च अण्डजाश्च पोताश्च जरायुजाण्डजपोताः गर्भयोनयः ॥
यद्यमीषां जरायुजाण्डजपोतानां गर्भोऽवध्रियते, अथोपपादः केषां भवतीत्यत आह
॥ देवनारकाणामुपपादः ॥ ३४ ॥ देवानां नारकाणां च उपपादो जन्म वेदितव्यम् ॥ अथान्येषां किं जन्मेत्यत आह
॥ शेषाणां सम्मूर्च्छनम् ॥ ३५ ॥ गर्भजेभ्यः औपपादिकेभ्यश्चान्ये शेषाः । तेषां सम्मूर्छनं जन्मेति ॥ एते त्रयोऽपि योगा नियमार्थाः । उभयतो नियमश्च द्रष्टव्यः ॥ जरायुजाण्डजपोतानामेव गर्भः । गर्भ एव = जरायुजाण्डजपोतानाम् ॥ देवनारकाणामेवोपपादः । उपपाद एव देवनारकाणाम् ॥ शेषाणामेव सम्मूर्छनम् । सम्मूर्च्छनमेव शेषाणामिति ॥
तेषां पुनः संसारिणां त्रिविधजन्मनामाहितबहुविकल्पनवयोनिभेदानां शुभाशुभनामकर्मविपाकनिवर्तितानि बन्धफलानुभवनाधिष्ठानानि शरीराणि कानीत्यत आह -- ॥ औदारिकवैक्रियिकाहारकतैजस
कार्मणानि शरीराणि ॥ ३६ ॥ विशिष्टनामकर्मोदयापादितवृत्तीनि शीर्यन्त इति शरीराणि ॥ औदारिकादिप्रकृतिविशेषोदयप्राप्तवृत्तीनि औदारिकादीनि ॥ उदारं स्थूलम् । उदारे भवमौदारिकम् । उदारं प्रयोजनमस्येति वा औदारिकम् ।। अष्टगुणैश्वर्ययोगादेकानेकाणुमहच्छरीरविविधकरणं विक्रिया, सा प्रयोजनमस्येति वैक्रियिकम् ॥ सूक्ष्मपदा
Page #136
--------------------------------------------------------------------------
________________
१०६
सर्वार्थसिद्धिः ------- र्थनिर्ज्ञानार्थमसँयमपरिजिहीर्षया वा प्रमत्तसँयतेनाहियते निर्वय॑ते तदित्याहारकम् ॥ यत्तेजोनिमित्तं तेजसि वा भवं तत्तैजसम् ॥ कर्मणां कार्य कार्मणम् ॥ सर्वेषां कर्मनिमितत्त्वेऽपि रूढिवशाद्विशिष्टविषये वृत्तिरवसेया ॥
यथौदारिकस्येन्द्रियरुपलब्धिस्तथेतरेषां कस्मान्न भवतीत्यत आह
॥ परम्परं सूक्ष्मम् ॥ ३७॥ परशब्दस्यानेकार्थवृत्तित्वेऽपि विवक्षातो व्यवस्थार्थगतिः ।। पृथग्भूतानां शरीराणां सूक्ष्मगुणेन वीप्सानिर्देश क्रियते परम्प- . रमिति ॥ औदारिकं स्थूलं, ततः सूक्ष्म वैक्रियिकं, ततः सूक्ष्ममाहारकं, ततः सूक्ष्मं तैजसं, तैजसात्कार्मणं सूक्ष्ममिति ॥
यदि परम्परं सूक्ष्मं, प्रदेशतोऽपि न्यून परम्परं हीनमिति विपरीतप्रतिपत्तिनिवृत्यर्थमाह॥ प्रदेशतोऽसङ्ख्येयगुणं प्राक्तैजसात् ॥ ३८ ॥
प्रदिश्यन्त इति प्रदेशाः परमाणवः । संख्यामतीतोऽसंख्येयः। असंख्येयो गुणोऽस्य तदिदमसंख्येयगुणम् ।। कुतः ? प्रदेशतः। नावगाहतः। परम्परमित्यनुवृत्तेराकार्मणात्प्रसङ्गे तन्निवृत्यर्थमाह प्राक्तैजसादिति । औदारिकादसंख्येयेंगुणप्रदेशं वैकियिकम् ॥ वैक्रियिकादसंख्येयगुणप्रदेशमाहारकमिति ।। को गुणा
१ पूर्वापेक्षया परत्वमिति परशब्दो व्यवस्थार्थः ॥ २ अतिशयेन अव्ययपदम् ॥ ३ अविभागित्वेन प्ररूप्यन्त ॥ ४ श्रेण्यसंख्येयभागरूपासंख्येयगुणम् ॥
Page #137
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः
१०७ कारः ? पल्योपमासंख्येयभागः ॥ यद्येवं, परम्परं महापरिमाण प्रामोति । नैवम् । बन्धविशेषात्परिमाणभेदाभावः । तूलनिचयायःपिण्डवत् ॥
अथोत्तरयोः किं समप्रदेशत्वमुतास्ति कश्चिद्विशेष इत्यत आह
॥ अनन्तगुणे परे ॥ ३९ ॥ प्रदेशत इत्यनुवर्तते, तेनैवमभिसम्बन्धः क्रियते- आहारकात्तैजसं प्रदेशतोऽनन्तगुणं, तैजसात्कार्मणं प्रदेशतोऽनन्तगुणमिति ॥ को गुणाकारः? अभव्यानामनन्तगुणः । सिद्धानामनन्तो भागः ॥ तत्रैतत्स्याच्छल्यकवत् । मूर्तिमद्रव्योपचितत्वात्संसारिणो जीवस्याभिप्रेतगतिनिरोधप्रसङ्ग इति । तन्न । किं कारणम् । यस्मादुभेऽप्येते
॥ अप्रतीघाते ॥ ४० ॥ मूर्तिमतो मूर्त्यन्तरेण व्याघातः प्रतीघातः । स नास्त्यनयोरित्यप्रतीघाते ॥ सूक्ष्मपरिमाणादयःपिण्डे तेजोऽनुप्रवेशवत्तैजसकार्मणयोर्नास्ति वज्रपटलादिषु व्याघातः ॥ ननु च वैकि. यिकाहारकयोरपि नास्ति प्रतीघातः । सर्वत्राप्रतीघातोऽत्र विवक्षितः । यथा तैजसकार्मणयोरालोकान्तात् सर्वत्र नास्ति प्रतीघातः । न तथा वैक्रियिकाहारकयोः ॥
आह किमतावानेव विशेष उत कश्चिदन्योऽप्यस्तीत्याह
॥ अनादिसम्बन्धे च ॥ ४१ ॥ चशब्दो विकल्पार्थः । अनादिसम्बन्धे सादिसम्बन्धे चेति ॥
Page #138
--------------------------------------------------------------------------
________________
१०८
सर्वार्थसिद्धिःकार्यकारणभावसन्तत्या अनादिसम्बन्भे, विशेषापेक्षया सादिसम्बन्धे. ऽपि च बीजवृक्षवत् ॥ यथौदारिकवैक्रियिकाहारकाणि जीवस्य कादाचित्कानि, न तथा तैजसकार्मणे । नित्यसम्बन्धिनी हि ते आसंसारक्षयात् ॥
त एते तैजसकार्मणे किं कस्यचिदेव भवत उताविशेषेणेत्यत आह
॥ सर्वस्य ॥ ४२॥ सर्वशब्दो निरवशेषवाची। निरवशेषस्य संसारिणो जीवस्य ते द्वे अपि शरीरे भवत इत्यर्थः ॥
___ अविशेषाभिधानात्तैरौदारिकादिभिः सर्वस्य संसारिणो योगपद्येन सम्बन्धप्रसङ्गे सम्भविशरीरप्रदर्शनार्थमिदमुच्यते.तदादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्थ्यः ४३
तच्छब्दः प्रकृततैजसकार्मणप्रतिनिर्देशार्थः। ते तैजसकामणे आदिर्येषां तानि तदादीनि । भाज्यानि विकल्प्यानि । आ कुतः । आ चतुर्थ्यः । युगपदेकस्यात्मनः ॥ कस्यचित् द्वे, तैजसकामणे । अपरस्य त्रीणि औदारिकतैजसकार्मणानि; वैकि. यिकतैजसकार्मणानि वा। अन्यस्य चत्वारि , औदारिकाहारकतैजसकार्मणानीति विभागः क्रियते ॥ पुनरपि तेषां विशेषप्रतिपत्त्यर्थमाह-.
॥ निरुपभोगमन्त्यम् ॥ ४४ ॥
१ विग्रहगत्यासन्नस्य..
Page #139
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः अन्ते भवमन्त्यम् । किं तत् !। कार्मणम् ॥ इन्द्रियप्रणालिकया शब्दादीनामुपलब्धिरुपभोगः । तदभावान्निरुपभो. गम् ॥ विग्रहगतौ सत्यामपि इन्द्रियलब्धौ द्रव्येन्द्रियनिर्वृत्यभावाच्छब्दाद्युपभोगाभाव इति ॥ ननु तैजसमपि निरुपभोगम् । तत्र किमुच्यते निरुपभोगमन्त्यमिति ॥ तैजसं शरीरं योगनिमित्तमपि न भवति, ततोऽस्योपभोगविचारेऽनधिकारैः ॥
एवं तत्रोक्तलक्षणेषु जन्ममु अमूनि शरीराणि प्रादुर्भावमापद्यमानानि किमविशेषेण भवन्ति, उत कश्चिदस्ति प्रतिविशेष इत्यत आह
॥ गर्भसम्मूर्च्छनजमाद्यम् ॥ ४५ ॥
सूत्रक्रमापेक्षया आदौ भवमाद्यम् । औदारिकमित्यर्थः ॥ यद्गर्भजं यच्च सम्मूर्च्छनजं तत्सर्वमौदारिकं द्रष्टव्यम् ॥
तदनन्तरं यन्निर्दिष्टं, तत्कस्मिन् जन्मनीत्यत आह--
॥ औपपादिकं पैक्रियिकम् ॥ ४६॥ उपपादे भवमौपपादिकम् । तत्सर्वं वैक्रियिकं वेदितव्यम् ।
यद्यौपपादिकं वैक्रियिक, अनौपपादिकस्य वैक्रियिकत्वाभाव इत्यत आह--
१ भावेंद्रियनिीतक्षयोपशमरूपलब्धौ ॥ २ भावेन्द्रिये. ३ किमर्थम्. ४ कार्मणकायेन विग्रहगतावात्मप्रदेशपरिस्पन्दलक्षणो योगो यथा सम्भवति, तथा तैजसन तावानपि योगो न सम्भवतीत्यर्थः ॥ ५ योगनिमित्तेष्वेव ह्यौदारिकादिषूपभोगो दृष्टस्ततस्तदनिमित्त तैजसे उपभोगविचारानधिकारः॥
Page #140
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः ॥ लब्धिप्रत्ययं च ॥४७॥ चशब्देन वैक्रियिकमभिसम्बध्यते । तपोविशेषादृद्धिप्राप्तिलब्धिः । लब्धिः प्रत्ययः कारणमस्य लब्धिप्रत्ययम् । वैक्रियिक लब्धिप्रत्ययं च भवतीत्यभिसम्बध्यते ॥ किमेतदेव लब्ध्यपेक्षमुतान्यदप्यस्तीत्यत आह
॥ तैजसमपि ॥ ४८ ॥ अपिशब्देन लब्धिप्रत्ययमभिसम्बध्यते । तैजसमपि लब्धिप्रत्ययं भवतीति ॥
वैक्रियिकानन्तरं यदुपदिष्टं तस्य स्वरूपनिर्झरणार्थ स्वामिनिर्देशार्थ चाह-- ॥ शुभं विशुद्धमव्याघाति चाहारकं
प्रमत्तसँयतस्यैव ॥ ४९॥ शुभकारणत्वाच्छुभव्यपदेशः । शुभकर्मणः आहारककाययो. गस्य कारणत्वाच्छुभमित्युच्यते । अन्नस्य प्राणव्यपदेशवत् ।। विशुद्ध कार्यत्वाद्विशुद्धव्यपदेशः । विशुद्धस्य पुण्यस्य कर्मणः अशबलस्य निरवद्यस्य कार्यत्वाद्विशुद्धमित्युच्यते । तन्तूनां कार्पासव्यपदेशवत् ॥ उभयतो व्याघाताभावादव्याघाति ॥ न ह्याहारकशरीरेणान्यस्य व्याघातः । नाप्यन्येनाहारकस्येति । तस्य प्रयोजनसमुच्चयार्थः चशब्दः क्रियते ॥ तद्यथा- कदाचिल्लब्धिविशेषसद्भावज्ञापनार्थ, कदाचित्सूक्ष्मपदार्थनिर्धारणार्थ, संयमपरिपाल. नार्थं च । आहारकमिति प्रागुक्तस्य प्रत्याम्नायः ॥ यदाऽऽहा. रकशरीरं निवर्तयितुमारभते, तदा प्रमत्तो भवतीति प्रमत्तसँयतस्येत्युच्यते ॥ इष्टतोऽवधारणार्थमेवकारोपादानम् । यवं विज्ञा
Page #141
--------------------------------------------------------------------------
________________
द्वितीयोऽध्यायः
१११
येत प्रमत्तसँयतस्येवाहारकं नान्यस्येति । मैवं विज्ञायि, प्रमतसयतस्याहारकमेवेति । माभूदौदारिकादिनिवृत्तिरिति ॥
एवं विभक्तानि शरीराणि बिभ्रतां संसारिणां प्रतिगति किं विलिङ्गसन्निधानं, उत लिङ्गनियमः कश्चिदस्तीस्तत आह
-
॥ नारकसम्मूच्छिनो नपुंसकानि ॥ ५० ॥
नरकाणि वक्ष्यन्ते, नरकेषु भवा नारकाः । सम्मूर्च्छनं सम्मूर्च्छः स येषामस्तीति सम्मूच्छिनः । नारकाश्च सम्मूच्छिनश्च नारकसम्मूच्छिनः ॥ चारित्रमोह विकल्पनोकषायभेदस्य नपुंसकवेदस्याशुभनाम्नश्चोदयान्न स्त्रियो न पुमास इति नपुंसकार्नि भवन्ति ॥ नारकसम्मूच्छिनो नपुंसकान्येवेति नियमः ॥ तत्र हि स्त्रीपुंसविषयमनोज्ञशब्दगन्धरूपरसस्पर्श सम्बन्धनिमित्ता स्वल्पाऽपि सुखमात्रा नास्ति ॥ यद्येवमवधियते, अर्थादापन्नमेतदुक्तेभ्योऽन्ये संसारिणस्त्रिलिङ्गा इति ॥
यत्रात्यन्तं नपुंसकलिङ्गस्याभावस्तत्प्रतिपादनार्थमाह-॥ न देवाः ॥ ५१ ॥
स्त्रैणं पौत्र च यन्निरतिशयं सुखं गतिनामोदयापेक्षं, तद्देवा अनुभवन्तीति न तेषु नपुंसकलिङ्गानि सन्ति ॥ अथेतरे कियलिङ्गा इत्यत आह|| शेषास्त्रवेदाः ॥ ५२ ॥
त्रयो वेदा येषां ते त्रिवेदाः || के पुनस्ते वेदाः । स्त्रीत्वं पुंस्त्वं, नपुंसकत्वमिति । कथं तेषां सिद्धिः ।
वेद्यत
3
इति वेदः । लिङ्गमित्यर्थः ॥ तत् द्विविधं द्रव्यलिङ्गं भावलिङ्गं
Page #142
--------------------------------------------------------------------------
________________
११२ ____ सर्वार्थसिद्धिः चेति ॥ द्रव्यलिङ्ग योनिमेहनादिनामकर्मोदयनिर्वर्तितम् ॥ नोकषायादयापादितवृत्ति भावलिंगम् ॥ स्त्रीवेदोदयात् स्त्यायत्यस्यां गर्भ इति स्त्रीः । पुँवेदोदयात् सूते जनयत्यपत्यमिति पुमान् । नपुंसकवेदोदयात्तदुभयशक्तिविकलं नपुंसकम् ॥ रूढिशब्दाश्चैते । रूढिषु च क्रिया व्युत्पत्त्यथैव । यथा गच्छतीति गौरिति ॥ इतरथा हि गर्भधारणादिक्रियाप्राधान्ये, बालवृद्धानां तिर्यमनुष्याणां देवानां कार्मणकाययोगस्थानां च तदभावात्स्त्रीत्वादिव्यपदेशो न स्यात् ॥ त एते त्रयो वेदाः शेषाणां गर्भजानां भवन्ति ॥
य इमे जन्मयोनिशरीरलिंगसम्बन्धाहितविशेषाः प्राणिनो निर्दिश्यन्ते देवादयो विचित्रधर्माधर्मवशीकृताश्चतसृषु गतिषु शरीराणि धारयन्तस्ते किं यथाकालमुपभुक्तायुषो मूर्त्यन्तराण्यास्कन्दन्ति, उतायथाकालमपीत्यत आह--
॥ औपपादिकचरमोत्तमदेहासंख्येय
वर्षायुषोऽनपवायुषः ॥ ५३ ॥
औपपादिका व्याख्याताः देवनारका इति ॥ चरमशब्दोऽन्त्यवाची । उत्तम उत्कृष्टः । चरम उत्तमो देहो येषां ते चरमोत्तमदेहाः। विपरीतसंसारास्तजन्मनिर्वाणाऱ्या इत्यर्थः ॥ असंख्येयमतीतसंख्यानमुपमाप्रमाणेन पल्यादिना गम्यमायुर्येषां त इमे असंख्येयवर्षायुषस्तियङ्मनुष्या उत्तरकुर्वादिषु प्रसूताः ॥ औपपादिकाश्च चरमोत्तमदेहाश्च असंख्येयवर्षायुषश्च औपपादिकचरमोचमदेहासंख्येयवर्षायुषः ॥ बाह्यस्योपघातनिमित्तस्य विषशस्त्रादेः सति सन्निधाने हूस्वं भवतीत्यपवर्त्यम् । अपवर्त्यमायुर्येषां त इमे अपवर्त्यायुषः । न अपवायुषः अनपवायुषः ॥ न ह्येषामौपपादिकादीनां बाह्यनिमित्तवशादायुरपवर्त्यते इत्ययं नियमः ।
Page #143
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः
इतरेषामनियमः ॥ चरमस्य देहस्योत्कृष्टत्वप्रदर्शनार्थमुत्तमग्रहणं नार्थान्तरविशेषोऽस्ति || चरमदेहा इति वा पाठः ॥ २ ॥ जीवस्वभावलक्षणसाधनाविषयस्वरूपभेदाश्च गतिजन्मयो निदेहलिङ्गानपवर्तितायुष्कभेदाश्चाध्यायेऽस्मिन्निरूपिता भवन्तीति सम्बन्धः ॥
॥ इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसज्ञिकायां द्वितीयोऽध्यायः ॥
॥ ॐ नमः परमात्मने वीतरागाय ॥
॥ अथ तृतीयोऽध्यायः ॥
११३
भवप्रत्ययोऽवधिर्देवनारकाणामित्येवमादिषु नारकाः श्रुतास्ततः पृच्छति के ते नारका इति । तत्प्रतिपादनार्थं तदधिकरनिर्देशः क्रियते ||
॥ रत्नशर्करावा लुकापङ्कधूमतमो महातमः प्रभा भूमयो घनाम्बुवताकाशप्रतिष्ठाः सप्ताधोऽधः ॥ १ ॥
रत्नं च शर्करा च वालुका च पङ्कश्च धूमश्च तमश्च महातमश्च रत्नशर्करावालुकापङ्कघूमतमोमहातमांसि । प्रभाशब्दः प्रत्येकं परिसमाप्यते । साहचर्यात्ताच्छेन्द्यम् || चित्रादिरत्नप्रभासहचरिता भूमिः रत्नप्रभा, शर्कराप्रभासहचरिता भूमिः शर्कराप्रभा, बालुकाप्रभासहचरिता भूमिः वालुकाप्रभा, पङ्कप्रभासहचरिता भूमिः पङ्कप्रभा, धूमप्रभासहचरिता भूमिः धूमप्रभा, तमः प्रभासहचरिता भूमिः तमः प्रभा, महातमः प्रभासहचरिता भूमिः महतमः प्रभा इति । एताः सञ्ज्ञा अनेनोपायेन व्युत्पाद्यन्ते ॥ भूमिग्रहण
१ स शब्दो येषां ते तच्छन्दास्तेषां भावस्ताच्छन्द्यामिति व्युत्पत्त्या रत्नप्रभादिशब्दवाच्यत्वमित्यर्थः ॥
Page #144
--------------------------------------------------------------------------
________________
११४
सर्वार्थसिद्धिः - मधिकरणविशेषप्रतिपत्त्यर्थम् ॥ यथा स्वर्गपटलानि भूमिमनाश्रित्य व्यवस्थितानि, न तथा नारकावासाः। किं तर्हि, भूमिमाश्रिता इति ॥ तासां भूमीनामालम्बननिर्मानार्थं घनाम्बुवातादिग्रहणं क्रियते ॥ घनाम्बु च वातश्च आकाशं च घनाम्बुवाताकाशानि । तानि प्रतिष्ठा आश्रयो यासां ता घनाम्बुवाताकाशप्रतिष्ठाः ॥ [ *धनं च घनो मन्दो महान् आयतः इत्यर्थः । अम्बु च जलं उदकमित्यर्थः । वातशब्दोऽन्त्यदीपकः । तत एवं सम्बन्धनीयः । घनो धनवातः । अम्बु अम्बुवातः । वातस्तनुवातः । इति महदपेक्षया तनुरिति सामर्थ्यगम्यः । अन्यः पाठः ।। सिद्धान्तपाठस्तु घनाम्बु च वातं चेति वातशब्दः सोपस्क्रियते । वातस्तनुवात इति वा ॥ ] सर्वा एता भूमयो धनोदधिवलयप्रतिष्ठाः। घनोदधिवलयं घनवातवलयप्रतिष्ठम् । घनवातवलयं तनुवातवलयप्रतिष्ठम् । तनुवातवलयमाकाशप्रतिष्ठम् । आकाशमा. स्मप्रतिष्ठं, तस्यैवाधाराधेयत्वात् ॥ त्रीण्यप्येतानि वलयानि प्रत्येक विंशतियोजनसहस्रबाहु ल्यानि ॥ सप्तग्रहणं संख्यान्तरनिवृत्यर्थम् । सप्त भूमयो नाष्टौ न नव चेति ॥ अधोऽधोवचनं तिर्यक्प्रचयनिवृत्यर्थम् ॥ ____किं ता भूमयो नारकाणां सर्वत्रावासा आहोस्वित्वचित्कचिदिति तन्निर्धारणार्थमाह॥ तासु त्रिंशत्पञ्चविंशतिपंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमम् ॥ २॥
तासु रत्नप्रभादिषु भूमिषु नरकाण्यनेन संख्यायन्ते यथाक्रमम् ॥ रत्नप्रभायां लिंशन्नरकशतसहस्राणि, शर्कराप्रभायां पञ्च
* चतुष्कोणकंसस्थः पाठः तालपत्रपुस्तके एव वर्तते.
Page #145
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः
११५ विंशतिर्नरकशतसहस्राणि, वालुकाप्रभायां पञ्चदश नरकशतसहस्राणि, पङ्कप्रभायां दश नरकशतसहस्राणि, धूमप्रभायां त्रीणि नरकशतसहस्राणि, तमःप्रभायां पञ्चोनमेकं नरकशतसहस्रं, महातमःप्रभायां पञ्च नरकाणि ॥ रत्नप्रभायां नरकप्रस्तारास्त्रयोदश । ततोऽधः आसप्तम्या द्वौ द्वौ नरकप्रस्तारौ हीनौ ॥ इतरो विशेषो लोकानुयोगतो वेदितव्यः ॥
अथ तासु भूमिषु नारकाणां कः प्रतिविशेष इत्यत आह॥ नारका नित्याशुभतरलेश्या
परिणामदेहवेदनाविक्रियाः ॥३॥ लेश्यादयो व्याख्यातार्थाः ॥ अशुभतरा इति प्रकर्षनिदेशः । तिर्यग्गतिविषयाशुभलेश्याद्यपेक्षया, अधोऽधः स्वगत्यपेक्षया च वेदितव्यः ॥ नित्यशब्द आभीक्ष्ण्यवचनः ॥ नित्यमशुभतरा लेश्यादयो येषां ते नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रिया नारकाः ॥ प्रथमाद्वितीययोः कापोती लेश्या, तृतीयायामुपरिष्टाकापोती अधो नीला, चतुर्थ्यां नीला, पञ्चम्यामुपरि नीला अधः कृष्णा, षष्ठ्यां कृष्णा, सप्तम्यां परमकृष्णा । स्वायुषः प्रमाणावधृता द्रव्यलेश्या उक्ताः ॥ भावलेश्यास्तु अन्तर्मुहूर्तपरिवतिन्यः ॥ परिणामाः स्पर्शरसगन्धवर्णशब्दाः क्षेत्रविशेषनिमित्तवशादतिदुःखहेतवोऽशुभतराः ॥ देहाश्च तेषामशुभनामकर्मोदयाद. त्यन्ताशुभतरा विकृताकृतयो हुण्डसंस्थाना दुर्दर्शनाः ॥ तेषामुत्सेधः ॥ प्रथमायां सप्त धनूंषि, त्रयो हस्ताः षडंगुलयः । अधोऽधो द्विगुणद्विगुण उत्सेधः ॥ अभ्यन्तरासद्वेद्योदये सति अनादिपारिणामिकशीतोष्णबाह्यनिमित्तजनिताः सुतीव्रा वेदना भवन्ति रिकाणाम् ॥ प्रथमाद्वितीयातृतीयाचतुर्थीषु उष्णवेदनान्येव नर
Page #146
--------------------------------------------------------------------------
________________
११६
सर्वार्थसिद्धिः काणि ॥ पंचम्यामुपरि उष्णवेदने द्वे नरकशतसहस्र। अधः शीतवेदनमेकं शतसहस्रम् । षष्ठीसप्तम्योः शीतवेदनान्येव ॥ शुभं करिष्याम इति अशुभतरमेव विकुर्वन्ति, सुखहेतूनुत्पादयाम इति दुःखहेतूनेवोत्पादयन्ति । त एते भावा अधोऽधोऽ शुभतरा वेदितव्याः ॥
__किमेतेषां नारकाणां शीतोष्णजनितमेव दुःखमुतान्यथापि भवतीत्यत आह
॥ परस्परोदीरितदुःखाः॥ ४॥ . कथं परस्परोदीरितदुःखत्वं नारकाणाम् । भवप्रत्ययेनावधिना मिथ्यादर्शनोदयाद्विभङ्गव्यपदेशभाजा च दूरादेव दुःखहेतूनवगम्योत्पन्नदुःखाः प्रत्यासत्तौ परस्परालोकनाच प्रज्वलितकोपामयः पूर्वभवानुस्मरणाचातितीव्रानुबद्धवैराश्च शृगालादिवत्स्वाभिघाते प्रवर्तमानाः स्वविक्रियाकृतासिवासिपरशुभिण्डिमालशक्तितोमरकुन्तायोघनादिभिरायुधैः स्वकरचरणदशनैश्च छेदनभेदनतक्षणदंशनादिभिः परस्परस्यातितीव्र दुःखमुत्पादयन्ति ॥
किमेतावानेव दुःखोत्पत्तिकारणप्रकारः उतान्योऽपि कश्चिदस्तीत्यत आह॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राचतुर्थाः ॥ ५॥
देवगतिनामकर्मविकल्पस्यासुरत्वसंवर्तनस्य कर्मण उदयादस्यन्ति परानित्यसुराः । पूर्वजन्मनि सम्भावितेनातितीत्रेण संक्लेशपरिणामेन यदुपार्जितं पापकर्म तस्योदयात्सततं क्लिष्टाः संक्लिष्टाः असुराः संक्लिष्टासुराः । संक्लिष्टा इति विशेषणान्न सर्वे असुरा नार
१ स्वैः क्रियमाणाभिधाते.
Page #147
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः
११७
काणां दुःखमुत्पादयन्ति । किं तर्हि अम्बावरीषादय एव केच नेति ॥ अवधिप्रदर्शनार्थं प्राक्चतुर्थ्या इति विशेषणम् ॥ उपरि तिसृषु पृथ्वीषु संक्लिष्टासुरा बाधाहेतवो नातः परमिति प्रदर्शनार्थम् । चशब्दः पूर्वोक्तदुःखहेतुसमुच्चयार्थः ॥ सुतप्तायोरसपायननिष्टप्तायस्तम्भालिङ्ग नकूटशाल्मल्यारोहाणावतरणायोधनाभिघातवासीक्षुरतक्षणक्षारतप्ततैलावसेचनायः कुम्भीपाकाम्बरीषभर्जनवैतरणीमज्जनयन्त्र निष्पीडनादिभिर्नारकाणां दुःखमुत्पादयन्ति ॥ एवं छेदनभेदनादिभिः शकलीकृतमूर्तीनामपि तेषां न मरणमकाले भवति । कुतः ! अनपवर्त्यायुष्कत्वात् ॥
यद्येवं, तदेव तावदुच्यतां नारकाणामायुःपरिमाणमित्यत आह॥ तेष्वेकत्रि सप्तदश सप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥ ६ ॥
यथाक्रममित्यनुवर्तते । तेषु नरकेषु भूमिक्रमेण यथासंख्यमेकादयः स्थितयोऽभिसम्बन्ध्यन्ते || रत्नप्रभायामुत्कृष्टा स्थितिरेकसागरोपमा । शर्कराप्रभायां त्रिसागरोपमा । वालुकाप्रभायां सप्तसागरोपमा । पङ्कप्रभायां दशसागरोपमा । धूमप्रभायां सप्तदशसागरोपमा । तमःप्रभायां द्वाविंशतिसागरोपमा । महातमः प्रभायां त्रयस्त्रिंशत्सागरोपमा इति ॥ परा उत्कृष्टेत्यर्थः ॥ सत्त्वानामिति वचनं भूमिनिवृत्यर्थम् ॥ भूमिषु सत्त्वानामियं स्थितिः । न भूमीनामिति ॥
उक्तः सप्तभूमिविस्तीर्णोऽधोलोकः ॥ इदानीं तिर्यग्लोको वक्तव्यः । कथं पुनस्तिर्यग्लोकः । यतोऽसंख्येयाः स्वयम्भूरमणपर्यन्तास्तिर्यक्प्रचयविशेषेणावस्थिता द्वीपसमुद्रास्ततस्तिर्यग्लोक इति ॥ के पुनस्तिर्यग्व्यवस्थिता इत्यत आह-
Page #148
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः
॥ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥
जम्बूद्वीपादयो द्वीपाः । लवणोदादयः समुद्राः । यानि लोके शुभानि नामानि तन्नामानस्ते ॥ तद्यथा - १ जम्बूद्वीपो द्वीपः । लवणोदः समुद्रः । २ धातकीखण्डो द्वीपः । कालोदः समुद्रः । ३ पुष्करवरो द्वीपः । पुष्करवरः समुद्रः । ४ वारुणीवरो द्वीपः । वारुणीवरः समुद्रः । ५ क्षीरवरो द्वीपः । क्षीरवरः समुद्रः । ६ घृतवरो द्वीपः । ७ इक्षुवरो द्वीपः । इक्षुवरः समुद्रः । ८ नन्दीश्वरो द्वीपः । नन्दीश्वरवरः समुद्रः । ९ अरुणवरो द्वीपः । अरुणवरः समुद्रः । इत्येवमसंख्येया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्याः । अमीषां विष्कम्भसन्निवेशसंस्थानविशेषप्रतिपत्त्यर्थमाह
घृतवरः समुद्रः ।
॥ द्विर्द्धिर्विष्कम्भाः पूर्वपूर्व
११८
--
परिक्षेपिणो वलयाकृतयः ॥ ८ ॥
द्विद्विरिति वीप्सायां वृत्तिवचनं विष्कम्भद्विगुणत्वव्याप्यर्थम् ॥ आद्यस्य द्वीपस्य यो विष्कम्भः तद्विगुणविष्कम्भो लबणजलधिः । तद्विगुणविष्कम्भो द्वितीयो द्वीपः । तद्विगुणविष्कम्भो द्वितीयो जलधिरिति ॥ द्विर्द्धिर्विष्कम्भो येषां ते द्विद्विर्विष्कम्भाः ॥ पूर्वपूर्वपरिक्षेपिवचनं ग्रामनगरादिवद्विनिवेशो मा बिज्ञायीति ॥ वलयाकृतिवचनं चतुरस्रादिसंस्थानान्तरनिवृत्त्यर्थम् ॥
अल्लाह, जम्बूद्वीपस्य प्रदेशसंस्थानविष्कम्भा वक्तव्यास्तन्मूलत्वादितरविष्कम्भादिविज्ञानस्येत्युच्यते
Page #149
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः
॥ तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ९ ॥
तेषां मध्ये तन्मध्ये । केषां पूर्वोक्तद्वीपसमुद्राणाम् । नाभिरिव नाभिः मध्यम् । मेरुर्नाभिर्यस्य स: मेरुनाभिः । वृत्तः आदित्यमण्डलोपमानः । शतानां सहस्रं शतसहस्रम् । योजनानां शतसहस्रं योजनशतसहस्रम् | योजनशतसहस्रं विष्कम्भो यस्य सोऽयं योजनशतसहस्रविष्कम्भः ॥ कोऽसौ ! जम्बूद्वीपः ॥ कथं जम्बूद्वीपः । जम्बूवृक्षोपलक्षितत्वात् ॥ उत्तरकुरूणां मध्ये जम्बूवृक्षोऽनादिनिधनः पृथिवीपरिमाणोऽकृत्रिमः सपरिवारस्तदुपलक्षितोऽयं द्वीपः ॥
तत्र जम्बूद्वीपे षड्भिः कुलपर्वतैर्विभक्तानि सप्त क्षेत्राणि कानि तानीत्यत आह ||
॥ भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥
भरतादयः सञ्ज्ञा अनादिकालप्रवृत्ता अनिमित्ताः ॥ तत्र १ भरतवर्षः क सन्निविष्टः । दक्षिणदिग्भागे हिमवतोऽद्रेस्त्रयाणां च समुद्राणां मध्ये आरोपितचापाकारो भरतवर्ष: । विजयार्द्धन गङ्गासिन्धुभ्यां च विभक्तः षट्खण्डः ॥ क्षुद्रहिमवन्तमुत्तरेण दक्षिणेन, महाहिमवन्तं पूर्वापरसमुद्रयोर्मध्ये २ हैमवतवर्षः ॥ निषधस्य दक्षिणतो महाहिमवत उत्तरतः पूर्वापर समुद्रयोरन्तराले ३ हरिवर्षः ।। निषधस्योत्तरान्नीलतो दक्षिणतः पूर्वापरसमुद्रयोरन्तरे ४ विदेहस्य सनिवेशो द्रष्टव्यः ॥ नीलत उत्तरो रुक्मिणो दक्षिणः पूर्वापर समुद्रयोर्मध्ये ५ रम्यकवर्षः ॥ रुक्मिण उत्तरा - च्छिखरिणो दक्षिणात्पूर्वापरसमुद्रयोर्मध्ये सन्निवेशे ६ हैरण्यवत -
११९
Page #150
--------------------------------------------------------------------------
________________
१२०
सर्वार्थसिद्धिः
वर्षः ॥ शिखरिण उत्तरतस्त्रयाणां समुद्राणां मध्ये ७ ऐरावतवर्षः । स विजयार्द्धन रक्तारक्तोदाभ्यां च विभक्तः षट्खण्डः || षट्कुलपर्वता इत्युक्तं, के पुनस्ते, कथं वा व्यवस्थिता इत्यत आह
॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥ ११ ॥
·
तानि क्षेत्राणि विभजन्त इत्येवंशीलास्तद्विभाजिनः ॥ पूर्वापरायता इति पूर्वापरकोटिभ्यां लवणजलधिस्पर्शिन इत्यर्थः ॥ हिमवदादयोऽनादिकालप्रवृत्ता अनिमित्तसज्ञाः वर्षविभागहेतुत्वाद्वर्षधरपर्वता इत्युच्यन्ते ।। तत्र व हिमवान् । भरतस्य हैमवत - स्य च सीमनि व्यवस्थितः ॥ क्षुद्रहिमवान् योजनशतोच्छ्रायः ॥ हैमवतस्य हरिवर्षस्य च विभागको महाहिमवान् द्वियोजनशतोच्छ्रायः | विदेहस्य दक्षिणतो हरिवर्षस्योत्तरतो निषधो नाम पर्वतश्चतुर्योजनशतोच्छ्रायः ॥ उत्तरे त्रयोऽपि पर्वताः स्ववर्षविभाजिनो व्याख्याताः ॥ उच्छ्रायश्च तेषां चत्वारि द्वे एकं च योजनशतं वेदितव्यम् || पर्वतानामुच्छ्रायस्य चतुर्भागोऽवगाहः || तेषां वर्णविशेषप्रतिपत्त्यर्थमाह
॥ हे मार्जुनतपनीयं वैडूर्य रजतहेममयाः ॥ १२ ॥
त एते हिमवदादयः पर्वता हेमादिमया वेदितव्या यथाक्रमम् || हेममयो हिमवान् चीनपट्टवर्णः । अर्जुनमयो महाहिमवान् शुक्लवर्णः । तपनीयमयो निषधस्तरुणादित्यवर्णः ! वैडूर्यमयो नीलो मयूरग्रीवाभः । रजतमयो रुक्मी शुक्लः । हेममयः शिखरी चीनपट्टवर्णः ॥
Page #151
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः १२१ पुनरपि तद्विशेषप्रतिपत्त्यर्थमाह॥ मणिविचित्रपार्श उपरि मूले च .
तुल्यविस्ताराः ॥ १३॥ - नानावर्णप्रभादिगुणोपेतैर्मणिभिर्विचित्राणि पाणि येषां ते मणिविचित्रपार्थाः ॥ अनिष्टस्य संस्थानस्य निवृत्त्यर्थमुपर्यादिवचनं क्रियते ॥ चशब्दो मध्यसमुच्चयार्थः ॥ य एषां मूले विस्तारः स उपरि मध्ये च तुल्यः ॥
तेषां मध्ये लब्धास्पदा हूदा उच्यन्ते॥ पद्ममहापद्मतिगिंछकेसरिमहापुण्डरीक
पुण्डरीका हृदास्तेषामुपरि ॥ १४ ॥ पद्मः महापद्मः तिगिञ्छः केसरी महापुण्डरीकः पुण्डरीक इति तेषां हिमवदादीनामुपरि यथाक्रममेते हूदा वेदितव्याः ।
तत्राद्यस्य संस्थानविशेषप्रतिपत्त्यर्थमाह॥ प्रथमो योजनसहस्रायाम
स्तदईविष्कम्भो ह्दः ॥ १५ ॥ प्राक्प्रत्यक् योजनसहस्रायामः उदगवाक् पञ्चयोजनशतविस्तारो वज्रमयतलो विविधमणिकनकविचित्रिततटः पद्मनामा ह्रदः।। तस्यावगाहप्रक्लप्त्यर्थमिदमुच्यते
॥ दशयोजनावगाहः ॥१६॥ अवगाहोऽधःप्रवेशो निम्नता। दशयोजनान्यवगाहोऽस्य दशयोजनावगाहः ॥ तन्मध्ये किम् ?
॥ तन्मध्ये योजनं पुष्करम् ॥ १७॥
Page #152
--------------------------------------------------------------------------
________________
१२२
-सर्वार्थसिद्धिः योजनप्रमाणं योजनं, क्रोशायामपत्रत्वात्क्रोशद्वयविष्कम्भकर्णिकत्वाच्च योजनायामविष्कम्भम् ॥ जलतलाकोशद्वयोायनालं तावद्बहुलपत्रप्रचयं पुष्करमवगन्तव्यम् ॥
इतरेषां हूदानां पुष्कराणां चायामादिनिर्ज्ञानार्थमाह॥ तद्विगुणद्विगुणा हुदाः पुष्कराणि च ॥१८॥
स च तच्च ते, तयोईिगुणा द्विगुणास्तद्विगुणद्विगुणा इति द्वित्वं व्याप्तिज्ञानार्थम् ॥ केन द्विगुणाः? आयामादिना ॥ पद्महूदस्य द्विगुणायामविष्कम्भावगाहो महापद्महूदः । तस्य द्विगुणायामविष्कम्भावगाहस्तिगिञ्छहूदः । पुष्कराणि च किं ? द्विगुणानि द्विगुणानीत्यभिसम्बन्ध्यन्ते ॥ __ तन्निवासिनीनां देवीनां सज्ञाजीवितपरिवारप्रतिपादनार्थमाह॥ तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः ॥ १९ ॥
तेषु पुष्करेषु कर्णिकामध्यदेशनिवेशिनः शरद्विमलपूर्णचन्द्रयुतिहराः क्रोशायामाः क्रोशार्द्धविष्कम्भा देशोनकोशोत्सेधाः प्रासादास्तेषु निवसन्तीत्येवंशीलास्तन्निवासिन्यो देव्यः श्री-हीतिकीर्तिबुद्धिलक्ष्मीसंज्ञिकास्तेषु पद्मादिषु यथाक्रमं वेदितव्याः ॥ पल्योपमस्थितय इत्यनेनायुषः प्रमाणमुक्तम् ॥ समाने स्थाने भवाः सामानिकाः । सामानिकाश्च परिषदश्च सामानिकपरिषदः । सह सामानिकपरिषद्भिर्वर्तन्त इति ससामानिकपरिषत्काः ॥ तस्य पद्मस्य परिवारपद्मेषु प्रासादानामुपरि सामानिकाः परिषदश्च वसन्ति ॥
यकाभिः सरिद्भिस्तानि क्षेत्राणि प्रविभक्तानि, ता उच्यन्ते॥ गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धारिकान्ता
Page #153
--------------------------------------------------------------------------
________________
१२३
तृतीयोऽध्यायः सीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥ २० ॥
सरितो न वाप्यः । ताः किमन्तरा उत समीपाः ? इत्यत आह तन्मध्यगाः। तेषां क्षेत्राणां मध्यं, तन्मध्यं तन्मध्येन वा गच्छन्तीति तन्मध्यगाः ॥
एकत्र सर्वासां प्रसङ्गनिवृत्त्यर्थं दिग्विशेषप्रतिपत्त्यर्थमाह
॥ द्वयोईयोः पूर्वाः पूर्वगाः ॥ २१ ॥
द्वयोर्द्वयोः सरितारेकैकं क्षेत्रं विषय इति वाक्यविशेषाभिसम्बन्धादेकत्र सर्वासां प्रसङ्गनिवृत्तिः कृता ॥ पूर्वाः पूर्वगा इति वचनं दिग्विशेषप्रतिपत्त्यर्थम् ॥ तत्र पूर्वा याः सरितस्ताः पूर्वगाः। पूर्व जलधिं गच्छन्तीति पूर्वगाः ॥ किमपेक्षं पूर्वत्वं ? सूत्रनिर्देशापेक्षम् ॥ यद्येवं गङ्गासिन्ध्वादयः सप्त पूर्वगा इति प्राप्तम् । नैष दोषः । द्वयोर्द्वयोरित्यभिसम्बन्धात् ॥ द्वयोर्द्वयोः पूर्वाः पूर्वगा इति वेदितव्याः ॥ इतरासां दिग्विभागप्रतिपयर्थमाह
॥शेषास्त्वपरगाः ॥ २२॥ द्वयोर्द्वयोर्या अवशिष्टास्ता अपरगाः प्रत्येतव्याः ॥ अपरसमुद्रं गच्छन्तीत्यपरगाः॥ तत्र पद्म-हदप्रभवा पूर्वतोरणद्वारनिर्गता गङ्गा ॥ अपरतोरणद्वारनिर्गता सिन्धुः॥ उदीच्यतो. रणद्वारनिर्गता रोहितास्या ॥ महापद्म-हदप्रभवा अवाच्यतोरणद्वारनिर्गता रोहित् ॥ उदीच्यतोरणद्वारनिर्गता हरिकान्ता । तिगिञ्छहूदप्रभवा दक्षिणतोरणद्वारनिर्गता हरित् ॥ उदीच्यतोरणद्वारनिर्गता सीतोदा ॥ केसरिहूदप्रभवा अवाच्यतोरणद्वारनिर्गता सीता॥ उदीच्यतोरणद्वारनिर्गता नरकान्ता ॥ महापुण्डरीक हदप्रभवा
Page #154
--------------------------------------------------------------------------
________________
१२४
सर्वार्थसिद्धिः दक्षिणद्वारनिर्गता नारी ॥ उदीच्यतोरणद्वारनिर्गता रूप्यकूला ॥ . पुण्डरीक हदप्रभवा अवाच्यतोरणद्वारनिर्गता सुवर्णकूला ॥ पूर्वतोरणद्वारनिर्गता रक्ता ॥ अपरतोरणद्वारनिर्गता रक्तोदा ॥
तासां परिवारप्रतिपादनार्थमाह॥ चतुर्दशनदीसहस्रपरिवृता
गङ्गासिन्ध्वादयो नद्यः ॥ २३ ॥
किमर्थं गङ्गासिन्ध्वादिग्रहणं क्रियते ? नदीग्रहणार्थम् । प्रकृतास्ता अभिसम्बन्ध्यन्ते , नैवं शङ्कयम् । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति अपरगाणामेव ग्रहणं स्यात् ॥ गङ्गादिग्रहणमेवास्तीति चेत्पूर्वगाणामेव ग्रहणं स्यात् । अत उभयीनां ग्रहणार्थ गङ्गासिन्ध्वादिग्रहणं क्रियते ॥ नदीग्रहणं द्विगुणा द्विगुणा इत्यभिसम्बन्धार्थम् ॥ गङ्गा चतुर्दशनदीसहस्रपरिवृता । सिन्धुरपि ॥ एवमुत्तरा अपि नद्यः प्रतिक्षेत्रं द्विगुणा द्विगुणा भवन्ति, आविदेहान्तात् ॥ तत उत्तरा अर्द्धहीनाः ॥
उक्तानां क्षेत्राणां विष्कम्भप्रतिपत्यर्थमाह॥ भरतः षडिड्विंशपञ्चयोजनशतवितारः षट्चैकोनविंशतिभागा योजनस्य ॥ २४ ॥
षडधिका विंशतिः षड्विंशतिः । षड्विंशतिरधिकानि येषु तानि षड्विंशानि । पञ्चयोजनशतानि विस्तारो यस्य षड्विंशपञ्चयोजनशतविस्तारः भरतः ॥ किमतावानेव, नेत्याह । षट्चैको. नविंशतिभागा योजनस्य विस्तारोऽस्येत्यभिसम्बध्यते ॥
१ परिवाराः ॥
Page #155
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः
इतरेषां विष्कम्भविशेषप्रतिपत्त्यर्थमाह
॥ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥ २५ ॥ ततो भरतात् द्विगुणो द्विगुणो विस्तारो येषां तद्विगुणद्विगुणविस्ताराः ॥ के ते ? वर्षधरवर्षाः ॥ किं सर्वे ? नेत्याह, विदेहान्ता इति ॥
त इमे
अथोत्तरेषां कथमित्यत आह
१२५
॥ उत्तरा दक्षिणतुल्याः ॥ २६ ॥ उत्तरा ऐरावतादयो नीलान्ता भरतादिभिर्दक्षिणैस्तुल्या द्रष्टव्याः । अतीतस्य सर्वस्यायं विशेषो वेदितव्यः । तेन हूदपुष्करादीनां तुल्यता योज्या ||
अत्राह, उक्तेषु भरतादिषु क्षेत्रेषु मनुष्याणां किं तुल्योऽ नुभवादिः । आहोस्वित्कश्चिदस्ति प्रतिविशेष इत्यत्रोच्यतेभरतैरावतयोर्वृद्धिहासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥ २७ ॥
वृद्धिश्च ह्रासश्च वृद्धिहासौ । काभ्यां ? षट्समयाभ्याम् । कयोः ? भरतैरावतयोः । न तयोः क्षेत्रयोर्वृद्धिहासौ स्तः । असभ्भवात् । तत्स्थानां मनुष्याणां वृद्धिहासौ भवतः ॥ अथवा अधिकरणनिर्देशः भरते ऐरावते च मनुष्याणां वृद्धिहासाविति ॥ किंकृतौ वृद्धिहासौ ? अनुभवायुः प्रमाणादिकृतौ ॥ अनुभवः उपभोगः, आयुः जीवितपरिमाणं, शरीरोत्सेध इत्येवमादिभिर्वृद्धिहासौ मनुष्याणां भवतः । किंहेतुकौ पुनस्तौ ? कालहेतुकौ ॥ स च कालो द्विविधः । उत्सर्पिणी अवसर्पिणी
Page #156
--------------------------------------------------------------------------
________________
१२६
• सर्वार्थसिद्धिः
चेति ॥ तद्भेदाः प्रत्येकं षट् ॥ अन्वर्थसज्ञे चैते ॥ अनुभवादिभिरुत्सर्पणशीला उत्सर्पिणी । तैरेवावसर्पणशीला अवसर्पिणी ॥ तत्रावसर्पिणी षड्विधा -- सुषमसुषमा । सुषमा । सुषमदुष्षमा । दुष्षमसुषमा । दुष्षमा । अतिदुष्षमा ॥ उत्सर्पिण्यपि अतिदुष्षमाद्या सुषमसुषमान्ता षड्विधैव भवति ॥ अवसर्पिण्याः परिमाणं दशसागरकोटी कोट्यः । उत्सर्पिण्या अपि तावत्य एव ।। याऽसौ उभयी ( सोभयी ) कल्प इत्याख्यायते ॥ तत्र सुषम सुषमा चतस्रः सागरोपमकोटी कोट्यः । तदादौ मनुष्या उत्तरकुरुमनुष्य तुल्याः ॥ ततः क्रमेण हानौ सत्यां सुषमा भवति तिस्रः सागरोपमकोटी कोट्यः । तदादौ मनुष्या हरिवर्षमनुष्यसमाः ॥ ततः क्रमेण हानौ सत्यां सुषमदुष्षमा भवति द्वे सागरो - पमकोटी कोट्यौ । तदादौ मनुष्या हैमवतकमनुष्यसमाः ॥ ततः क्रमेण हानौ सत्यां दुष्षम सुषभा भवति एकसागरोपमकोटीकोटीद्विचत्वारिंशद्वर्षसहस्रोना । तदादौ मनुष्या विदेहजनतुल्या भवन्ति ॥ ततः क्रमेण हानौ सत्यां दुष्षमा भवति एकविंश तिवर्षसहस्त्राणि ॥ ततः क्रमेण हानौ सत्यां अतिदुष्षमा भवति एकविंशतिवर्षसहस्राणि ॥ एवमुत्सर्पिण्यपि विपरीतक्रमा वेदितव्या ॥
अथेतरासु भूमिषु काऽवस्थेत्यत आह-
॥ ताभ्यामपरा भूमयोऽवस्थिताः ॥ २८ ॥ ताभ्यां भरतैशवताभ्यामपरा भूमयोऽवस्थिता भवन्ति, न हि तत्रोत्सर्पिण्यवसर्पिण्यौ स्तः ॥
किं तासु भूमिषु मनुष्यास्तुल्यायुष आहोस्वित्कश्चिदस्ति प्रतिविशेष इत्यत आह-
॥ एकद्वित्रिपल्योपमस्थितयो हैमवतक
Page #157
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः
१२७ हारिवर्षकदैवकुरवकाः ॥ २९ ॥
हैमवते भवा हैमवतका इत्येवं वुञि सति मनुष्यसम्प्रत्ययो भवति । एवमुत्तरयोरपि ॥ हैमवतकादयस्त्रयः। एकादयस्त्रयः । तन्त्र यथासंख्यमभिसम्बन्धः क्रियते । एकपल्योपमस्थितयो हैमवतकाः। द्विपल्योपमस्थितयो हारिवर्षकाः। त्रिपल्योपमस्थितयो
दैवकुरवका इति ॥ तत्र पञ्चसु हैमवतेषु सुषमदुष्षमा सदाऽ वस्थिता । तत्र मनुष्या एकपल्योपमायुषो द्विधनुःसहस्रोछूिताः चतुर्थभक्ताहारा नीलोत्पलवर्णाः ॥ पञ्चसु हरिवर्षेषु सुषमा सदाऽ वस्थिता। तत्र मनुष्या द्विपल्योपमायुषश्चतुश्चापसहस्रोत्सेधाः षष्ठभक्ताहाराः शंखवर्णाः ॥ पञ्चसु देवकुरुषु सुषममुषमा सदाऽ वस्थिता । तत्र मनुष्यास्त्रिपल्योपमायुषः षड्धनुःसहस्रोच्छ्राया अष्टमभक्ताहाराः कनकवर्णाः॥ अथोत्तरेषु काऽवस्थेत्यत आह--
॥ तथोत्तराः ॥ ३० ॥ यथा दक्षिणा व्याख्यातास्तथैवोत्तरा वेदितव्याः ॥ हैरण्यवतका हैमवतकैस्तुल्याः । राम्यका हारिवर्षकैस्तुल्याः । दैवकुरवकैरौत्तरकुरवकाः समाख्याताः ॥
अथ विदेहेष्ववस्थितेषु का स्थितिरित्यत्रोच्यते---
॥ विदेहेषु संख्येयकालाः ॥ ३१॥ सर्वेषु पञ्चसु महाविदेहेषु संख्येयकाला मनुष्याः ॥ तत्र
१ विगतो विगष्टो देहः शरीरं मुनीनां येषु ते विदेहाः । प्रायेण मुक्तिपदप्राप्तिहेतुत्वात् । तेषु विदेहषु पञ्चानां मेरूणां सम्बन्धिनः पञ्च पूर्वविंदेहाः पञ्च अपरविदेहा उभये मिलित्वा पञ्चमहाविदेहाः कथ्यन्ते ॥ २ संख्यायते गणयितुं शक्यते इति संख्येयः । संख्येयः कालो जीवितं येषां ते संख्येयकाला॥
Page #158
--------------------------------------------------------------------------
________________
१२८
सर्वार्थसिद्धिः --- कालः सुषमैदुःषमान्तोपमः सदाऽवस्थितः । मनुष्याश्च पञ्चधनु:शतोत्सेधाः। नित्याहाराः । उत्कर्षेणैकपूर्वकोटीस्थितिकाः। जघन्येनान्तर्मुहूर्तायुषः ॥ तस्याश्च सम्बन्धे गाथां पठन्ति ॥ पुव्वैस्स दु परिमाणं सदरिं खळु कोडिसदसहस्साइम् । छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणम् ॥ १ ॥ ७०५६००००००००००
___ उक्तो भरतस्य विष्कम्भः । पुनः प्रकारान्तरेण तत्पतिपत्त्यर्थमाह
॥ भरतस्य विष्कम्भो जम्बूद्वीपस्य
नवतिशतभागः ॥ ३२ ॥ जम्बूद्वीपविष्कम्भस्य योजनशतसहस्रस्य नवतिशतभागीकृतस्यैको भागो भरतस्य विष्कम्भः स पूर्वोक्त एव ॥ उक्तं जम्बूद्वीपं परिवृत्य वेदिका स्थिता, ततः परो लवणोदः समुद्रो द्वियोजनशतसहस्रवलयविष्कम्भः । ततः परो धातकीखण्डो द्वीपश्चतुर्योजनशतसहस्रवलयविष्कम्भः ॥ तत्र वर्षादीनां संख्याविधिप्रतिपत्त्यर्थमाह--
॥ द्विर्धातकीखण्डे ॥ ३३ ॥ भरतादीनां द्रव्याणामिहाभ्यावृत्तिर्विवक्षिता। तत्र कथं सुच् । अध्याहियमाणक्रियाभ्यावृत्तिद्योतनार्थः सुच् ॥ यथा द्विस्तावानयं प्रासादो मीयत इति ॥ एवं द्विर्धातकीखण्डे भरता
१ सुषमदुःषमाकालान्तकालसदृश इत्यर्थः ॥ अत्र " दुःषमसुषमादिः" इति पाठभेदस्तालपत्रपुस्तके वर्तते ॥
२ पूर्वागं वर्षलक्षाण मशीतिश्चतुरुत्तरा । ८४.....॥ तर्गतं भवेत्पूर्व ७.५६.......... तत्कोटी पूर्वकोव्यसौ ॥ ७.५६............ ...... ॥ अस्यायमर्थ,- सप्ततिलक्षकोटिवर्षाणि षट्पश्चाशत्कोटिवर्षाण यदा भवन्ति तदैकं पूर्वमुच्यते ॥
Page #159
--------------------------------------------------------------------------
________________
१२९
तृतीयोऽध्यायः दयो मीयन्ते इति ॥ तद्यथा- द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां लवणोदकालोदवेदिकास्पृष्टकोटिभ्यां विभक्तो धातकीखण्डः पूर्वापर इति ॥ तत्र पूर्वस्य चापरस्य मध्ये द्वौ मन्दरौ। तयोरुभयतो भरतादीनि क्षेत्राणि हिमवदादयश्च वर्षधरपर्वताः। एवं द्वौ भरतौ द्वौ हिमवन्तौ इत्येवमादिसंख्यानं द्विगुणं वेदितव्यम् ॥ जम्बूद्वीपहिमवदादीनां वर्षधराणां यो विष्कम्भस्तद्विगुणो धातकीखण्डे हिमवदादीनां वर्षधराणाम् ॥ वर्षधराश्चक्रारवदवस्थिताः ॥ अरविवरसंस्थानानि क्षेत्राणि ।। जम्बूद्वीपे यत्र जम्बूवृक्षः स्थितः, तत्र धातकीखण्डे धातकीवृक्षः सपरिवारः। तद्योगाद्धातकीखण्ड इति द्वीपस्य नाम प्रतीतम् ॥ तत्परिक्षेपी कालोदः समुद्रः टङ्कछिन्नतीर्थः अष्टयोजनशतसहस्रवलयविष्कम्भः ॥ कालोदपरिक्षेपी पुष्करद्वीपः षोडशयोजनशतसहस्रवलयविष्कम्भः ॥ - तत्र द्वीपाम्भोनिधिविष्कम्भद्विगुणपरिक्लप्तिवद्धातकीखण्डवर्षादिद्विगुणवृद्धिप्रसङ्गे विशेषावधारणार्थमाह
॥ पुष्कराढ़े च ॥ ३४ ॥ (किं) द्विरित्यनुवर्तते ॥ किमपेक्षा द्विरावृत्तिः ? जम्बूद्वीप भरतहिमवदाद्यपेक्षयैव ॥ जम्बूद्वीपात्पुष्करार्धे द्वौ भरतौ द्वौ हिमवन्तौ इत्यादि । कुतः ? । व्याख्यानतः ॥ यथा धातकीखण्डे हिमवदादीनां विष्कम्भस्तथा पुष्करार्धे हिमवदादीनां विष्कम्भो द्विगुण इति व्याख्यायते ॥ नामानि तान्येव, इष्वाकारी मन्दरौ च पूर्ववत् । यत्र जम्बूद्वीपे जम्बूवृक्षस्तत्र पुष्करं सपरिवारम् । तत एव तस्य द्वीपस्यानुरूढं पुष्करद्वीप इति नाम ॥ अथ कथं पुष्करार्द्धसञ्ज्ञा ? मानुषोत्तरशैलेन विभक्तार्थत्वात्पुकरार्धसञ्ज्ञा ॥
Page #160
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः
अत्राह किमर्थं जम्बूद्वीपहिमवदादिसंख्या द्विरावृत्ता पुष्करार्धे कथ्यते ? न पुनः कृत्स्न एव पुष्करद्वीपे ! इत्यत्रोच्यते॥ प्राङ्मानुषोत्तरान्मनुष्याः ॥ ३५ ॥ पुष्करद्वीपबहु मध्यदेशभागी वलयवृत्तो मानुषोत्तरो नाम शैलः । तस्मात्प्रागेव मनुष्या न बहिरिति । ततो न बहिः पूर्वोक्तक्षेत्रविभागोऽस्ति । नास्मादुत्तरं कदाचिदपि विद्याधरा ऋद्धिप्राप्ता अपि मनुष्या गच्छन्ति अन्यत्रोपपादसमुद्धाताभ्यां । ततोऽस्यान्वर्थसञ्ज्ञा ॥ एवं जम्बूद्व|पादिष्वर्धतृतीयेषु द्वयोश्च समुद्रयोर्मनुष्या वेदितव्याः ॥ ते द्विविधाः ॥
१३०
॥ आर्या म्लेच्छाच ॥ ३६ ॥
गुणैर्गुणवद्भिर्वा अर्यन्त इत्यार्याः । ते द्विविधाः । ऋद्धिप्राप्तार्या अनृद्धिप्राप्तार्याश्चेति ॥ अनृद्धिप्राप्तार्याः पञ्चविधाः । क्षेत्रार्या जात्यार्याः कर्मार्याश्चारित्रार्या दर्शनार्याश्चेति ॥ ऋद्धिप्राप्तार्याः सप्तविधाः । बुद्धिविक्रियातपोबलौषधरसाक्षीणभेदात् ॥ म्लेच्छा द्विविधाः । अन्तद्वीपजाः कर्मभूमिजाश्चेति ॥ तत्रान्तद्वीपा लवणोदधेरभ्यन्तरेऽष्टासु दिवष्टौ । तदन्तरेषु चाष्टौ, हिमवच्छिखरिणोरुभयोश्च विजयार्द्धयोरन्तेष्वष्टौ । तत्र दिक्षु द्वीपा वेदिकायास्तिर्यक्पञ्च योजनशतानि प्रविश्य भवन्ति । विदिक्ष्वन्तरेषु च द्वीपाः पञ्चाशत्पञ्च योजनशतेषु गतेषु भवन्ति । शैलान्तेषु द्वीपाः षट्सु योजनशतेषु गतेषु भवन्ति । दिक्षु द्वीपा : शतयो - जनविस्ताराः । विदिक्ष्वन्तरेषु च द्वीपास्तदर्धविष्कम्भाः । शैलान्तेषु पञ्चविंशतियोजनविस्ताराः । तत्र पूर्वस्यां दिश्येकोरुकाः । अपरस्यां दिशि लांगूलिनः । उत्तरस्यां दिश्यभाषकाः । दक्षिणस्यां दिशि विषाणिनः । शशकर्णशष्कुली कर्णप्रावरणलम्बकर्णाः विदिक्षु । अश्वसिंहश्वमहिषवराहव्याघ्रकाक
Page #161
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः घूककपिमुखाः अन्तरेषु । मेघविद्युन्मुखाः शिखरिण उभयो. रन्तयोः । मत्स्यमुखकालमुखाः हिमवत उभयोरन्तयोः । हस्तिमुखा आदर्शमुखाः उत्तरविजयादस्योभयोरन्तयोः । गोमुखभेषमुखाः दक्षिणदिग्विजयार्धस्योभयोरन्तयोः। एकोरुका मृदाहारा गुहावासिनः शेषाः पुष्पफलाहारा वृक्षवासिनः सर्वे ते पल्योपमायुषः ॥ ते चतुर्विंशतिरपि द्वीपा जलतलादेकयोजनोत्सेधाः ॥ लवणोदधेबर्बाह्यपार्श्वेऽप्येवं चतुर्विशतिीपा विज्ञातव्याः ॥ तथा कालो. देऽपि वेदितव्याः ॥ त एतेऽन्तीपजा म्लेच्छाः कर्मभूमिजाश्च शकयवनशबरपुलिन्दादयः ॥ ___काः पुनः कर्मभूमय इत्यत आह॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र
देवकुरूत्तरकुरुभ्यः ॥ ३७॥ भरतैरावतविदेहाश्च पञ्च पञ्च, एताः कर्मभूमय इति व्यपदिश्यन्ते ॥ तत्र विदेहग्रहणादेवकुरूत्तरकुरुग्रहणे प्रसक्ते तत्प्रतिषेधार्थमाह " अन्यत्र देवकुरूत्तरकुरुभ्यः” इति ॥ अन्यत्र शब्दो वर्जनार्थः । देवकुरव उत्तरकुरवो हैमवतो हरिवर्षों रम्यको हैरण्यवतोऽन्तीपाश्च भोगभूमय इति व्यपदिश्यन्ते ॥ अथ कथं कर्मभूमित्वं ? शुभाशुभलक्षणस्य कर्मणोऽधिष्ठानत्वात् ॥ ननु सर्वं लोकत्रितयं कर्मणोऽधिष्ठानमेव, तत एवं प्रकर्षगतिर्विज्ञास्यते प्रकर्षेण यत्कर्मणोऽधिष्ठानमिति ॥ तत्राशुभकर्मणस्तावत्सप्तमनरकप्रापणस्य भरतादिष्वेवार्जनं, शुभस्य सर्वार्थसिध्यादिस्थानविशेषप्रापणस्य पुण्यकर्मण उपार्जनं, तत्रैव कृप्यादिलक्षणस्य षड्
१ असिमषिः कृषिविद्या वाणिज्यं शिल्पमित्यपि। कर्माणि षड्विधानि स्युः प्रजाजीवनहेतवः ॥ १॥ अत्रासिकर्म सेवायां मषिलिपिविधौ स्मृता ।
Page #162
--------------------------------------------------------------------------
________________
१३२
सर्वार्थसिद्धिः विधस्य कर्मणः पात्रदानादिसहितस्य तत्रैवारम्भात्कर्मभूमिव्यपदेशो वेदितव्यः ॥ इतरासु दशविधकल्पवृक्षकल्पितभोगानुभवनविषयत्वाद्भोगभूमय इति व्यपदिश्यन्ते ॥ ... उक्तासु भूमिषु स्थितिपरिच्छेदार्थमाह
॥ नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ॥ ३८ ॥
त्रीणि पल्योपमानि यस्याः सा त्रिपल्योपमा । अन्तर्गतो मुहूर्तो यस्याः सा अन्तर्मुहूर्ता ॥ यथासंख्येन सम्बन्धः ॥ मनुप्याणां परा उत्कृष्टा स्थितिः त्रिपल्योपमा ॥ अपरा जघन्या अन्तर्मुहूर्ता । मध्ये अनेकविकल्पा ॥ तत्र पल्यं त्रिविधं व्यवहारपल्यमुद्धारपल्यमद्धापल्यमिति । अन्वर्थसञ्ज्ञा एताः । आद्यं व्यवहारपल्यमित्युच्यते उत्तरपल्यद्वयस्य व्यवहारबीजत्वात् नानेन किञ्चित्परिच्छेद्यमस्तीति । द्वितीयमुद्धारपल्यं । तत उध्दृतैर्लोमकच्छेदैर्वीपसमुद्राः संख्यायन्त इति । तृतीयमद्धापल्यमद्धाकालस्थितिरित्यर्थः । तत्राद्यस्य प्रमाणं कथ्यते । तद्यथा-- प्रमाणांगुलपरिमितयोजनविष्कम्भायामावगाहानि त्रीणि पल्यानि. कुसूला इत्यर्थः । एकादिसप्तान्ताहोरात्रजाताविवालाग्राणि ताव. च्छिन्नानि यावद्वितीयं कर्तरिच्छेदं नाप्नुवन्ति, तादृशैर्लोमच्छेदैः परिपूर्ण घनीभूतं व्यवहारपल्यमित्युच्यते ॥ ततो वर्षशते एकैकलोमापकर्षणविधिना यावता कालेन तद्रिक्तं भवेत्तावाकालो व्यवहारपल्योपमाख्यः ॥ तैरेव लोमच्छेदैः प्रत्येकमसं.
कृषिभूकर्षणे प्रोक्ता विद्या शास्त्रोपजीवने ॥ २ ॥ वाणिज्यं वणिजां कर्म शिल्पं स्यात्करकौशलम् । तच्च चित्रकलापत्रच्छेदादि बहुधा स्मृतम् ॥ ३ ॥
२. देवपूजा गुरूपास्तिः खाध्यायः सँयमस्तपः । दानं चेति गृहस्थानां षटकर्माणि दिने दिने ॥१॥
Page #163
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः
१३३ ख्येयवर्षकोटीसमयमात्रच्छिनैस्तत्पूर्णमुद्धारपल्यम् ॥ ततः समये समये एकैकस्मित्रोमच्छेदेऽपकृष्यमाणे यावता कालेन तद्रिक्तं भवति तावान्काल उद्धारपल्योपमाख्यः ॥ तेषामुद्धारपल्यानां दशकोटीकोट्य एकमुद्धारसागरोपमम् ॥ अर्धतृतीयोद्धारसागरोपमानां यावन्तो रोमच्छेदास्तावन्तो द्वीपसमुद्राः ॥ पुनरुद्धारपल्यरोमच्छेदैवर्षशतसमयमात्रच्छिनैः पूर्णमद्धापल्यम् ॥ ततः समये समये एकैकस्मित्रोमच्छेदेऽपकृष्यमाणे यावता . कालेन तद्रिक्तं भवति तावान्कालोऽद्धापल्योपमाख्यः ॥ एषामद्धापल्यानां दशकोटीकोट्य एकमद्धासागरोपमम् ॥ दशाद्धासागरोपमकोटीकोट्य एकावसर्पिणी ॥ तावत्येवोत्सर्पिणी ॥ अनेनाद्धापल्येन नारकतैर्यग्योनानां देवमनुष्याणां च कर्मस्थितिर्भवस्थितिरायुःस्थितिः कायस्थितिश्च परिच्छेत्तव्या ॥ उक्ता च संग्रहगाथा- ववहारुद्धारद्धा पल्ला तिण्णेव होंति बोद्धव्वा । संखादी च सम्मुद्दा कम्मठिदि वण्णिदा तदिये ॥ १॥ यथैवेते उत्कृष्टजघन्ये स्थिती नृणां तथैव
॥ तिर्यग्योनिजानां च ॥ ३९॥ तिरश्चां योनिस्तिर्यग्योनिः । तिर्यग्गतिनामकोदयापादितं जन्मेत्यर्थः । तिर्यग्योनौ जातास्तिर्यग्योनिजाः। तेषां तिर्यग्योनिजानामुत्कष्टा भवस्थितिस्निपल्योपमा ॥ जघन्या अन्तर्मुहूर्ता ॥ मध्येऽनेकविकल्पा ॥ ७ ॥
भूबिललेश्याद्यायु
द्वीपोदधिवास्यगिरिसरःसरिताम् ॥ मानं नृणां च भेदः
स्थितिस्तिरश्चामपि तृतीयाध्याये ॥१॥ ॥ इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसज्ञिकायां तृतीयोऽध्यायः ॥ ३ ॥
Page #164
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः
॥ ॐ नमः परमात्मने वीतरागाय ॥
॥ अथ चतुर्थोऽध्यायः ॥
भवप्रत्ययो ऽवधिर्देवनारकाणामित्येवमादिष्वसकृद्देवशब्द उक्तस्तत्र न ज्ञायन्ते के देवाः कतिविधा इति वा तन्निर्णयार्थमाह-
॥ देवाश्चतुर्णिकायाः ॥ १ ॥
"
देवगतिनामकर्मोदये सत्यभ्यन्तरे हेतौ बाह्मविभूतिविशेषात् द्वीपाद्रिसमुद्रादिषु प्रदेशेषु यथेष्ट दीव्यन्ति क्रीडन्ति ते देवाः || इहैकवचननिर्देशो युक्तः “ देवश्चतुर्णिकायः " इति, जात्यभिधानाहूनां प्रतिपादको भवति ॥ बहुत्वनिर्देशस्तदन्तर्गतभेदप्रतिपत्त्यर्थः । इन्द्रसामानिकादयो बहवो भेदाः सन्ति स्थित्या - दिकृताश्च तत्सूचनार्थः ॥ देवगतिनामकर्मोदयस्य स्वधैर्मविशेपापादितभेदस्य सामर्थ्यान्निचीयन्त इति निकायाः संघाता इत्यर्थः । चत्वारो निकाया येषां ते चतुर्णिकायाः ॥ के पुनस्ते ! भवनवासिनो, व्यन्तरा, ज्योतिष्का, वैमानिकाश्चेति ॥
तेषां लेश्यावधारणार्थमुच्यते
१३४
|| आदितस्त्रिषु पीतान्तलेश्याः ॥ २ ॥
आदित इत्युच्यते अन्ते मध्ये वा ग्रहणं मा विज्ञायीति । आदौ आदितः ॥ द्वयोरेकस्य च निवृत्यर्थं त्रिग्रहणं क्रियते ॥ अथ चतुर्णं निवृत्त्यर्थं कस्मान्न भवति ? | आदित इति बचनात् ॥ षड्लेश्या उक्तास्तत्र चतसृणां लेश्यानां ग्रहणार्थं
१ आदिशब्देन, देवनारकाणामुपपादः । न देवाः । इति सूत्रद्वयं ग्राह्यम् ॥ २ स्वधर्मशब्देन भवनवासित्वादीनां असुरत्वादीनां च ग्रहणं कर्तव्यम् ॥
Page #165
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः
१३५ पीतान्तग्रहणं क्रियते ॥ पीतं तेज इत्यर्थः । पीता अन्ते यासां ताः पीतान्ताः लेश्या येषां ते पीतान्तलेश्याः ॥ एतदुक्तं भवति- आदितस्त्रिषु निकायेषु भवनवासिव्यन्तरज्योतिप्कनामसु देवानां कृष्णा नीला कापोता पीतेति चतस्रो लेश्या भवन्ति ॥
तेषां निकायानामन्तर्विकल्पप्रतिपादनार्थमाह॥ दशाष्टपञ्चद्वादशविकल्पाः
कल्पोपपन्नपर्यन्ताः ॥ ३ ॥ चतुर्णा देवनिकायानां दशादिभिः संख्याशब्दैर्यथासंख्यममिसम्बन्धो वेदितव्यः ॥ दशविकल्पा भवनवासिनः। अष्टविकल्पा व्यन्तराः । पञ्चविकल्पा ज्योतिष्काः। द्वादशविकल्पा वैमानिका इति ॥ सर्ववैमानिकानां द्वादशविकल्पान्तःपातित्वे प्रसक्ते अवेयकादिनिवृत्यर्थं विशेषणमुपादीयते कल्पोपपन्नपर्यन्ता इति ॥ अथ कथं कल्पसञ्ज्ञा ? इन्द्रादयः प्रकारा दश एतेषु कल्प्यन्त इति कल्पाः ॥ भवनवासिषु तत्कल्पनासम्भवेऽपि रूढिवशाद्वैमानिकेष्वेव वर्तते कल्पशब्दः ॥ कल्पेषूपपन्नाः कल्पोपपन्नाः। कल्पोपपन्नाः पर्यन्ता येषां ते कल्पोपपन्नपर्यन्ताः ॥ ___पुनरपि तद्विशेषप्रतिप्रत्यर्थमाह॥ इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपा-॥ लानीकप्रकीर्णकाभियोग्यकिल्मिषिकाश्चैकशः॥४॥
२ 'भवणतिया पुण्णगेसुहा' इतिवचनादपर्याप्तेषु भावनवानज्योतिष्केषु कृष्णनीलकपोतलेश्यात्रयं भवति । पर्याप्तेषु तेषु जघन्या तेजोलेश्या भवतीत्ययं विशेषोऽत्र ज्ञातव्यः॥ : . २ रूढिर्योगमपहरति ।।
Page #166
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः- अन्यदेवासाधारणाणिमादिगुणयोगादिन्दन्तीति १ इन्द्राः ॥ आजैश्वर्यवर्जितं यत्समानायुर्वीर्यपरिवारभोगोपभोगादि तत्समानं, तस्मिन्समाने भवाः २ सामानिकाः । महत्तराः पितृगुरूपाध्यायतुल्याः ॥ मन्त्रिपुरोहितस्थानीयाः ३ त्रायस्त्रिंशाः। त्रयस्त्रिंशदेव त्रायस्त्रिंशाः ॥ वयस्यपीठमर्दसदृशाः परिषदि भवाः ४ पारिषदाः ॥ ५ आत्मरक्षाः शिरोरक्षोपमानाः ॥ अर्थचरारक्षकसमानाः ६ लोकपालाः । लोकं पालयन्तीति लोकपालाः ॥ पदात्यादीनि सप्त ७ अनीकॉनि दण्डस्थानीयामि ॥ ८ प्रकीर्णकाः पौरजानपदकल्पाः ॥ ९ आभियोग्या दाससमाना वाहनादिकर्मणि प्रवृत्ता अन्तेवासिस्थानीयाः ॥ किल्बिषं पापं येषामस्ति ते १० किल्बिषिकाः ॥ ..
- एकैकस्य निकायस्य एकश एते इन्द्रादयो दश विकल्पाश्चतुर्पु निकायेषूत्सर्गेण प्रसक्तास्ततोऽपवादार्थमाह
॥ त्रायस्त्रिंशल्लोकपालवा . व्यन्तरज्योतिष्काः ॥ ५॥ ...व्यन्तरेषु ज्योतिष्केषु च त्रायस्त्रिंशैल्लोकपालांश्च वर्जयित्वा इतरेऽष्टौ विकल्पा द्रष्टव्याः ॥ _ अथ तेषु निकायेषु किमेकैक इन्द्र उतान्यः प्रतिनियमः कश्चिदस्तीत्यत आह
॥ पूर्वयोज़न्द्राः ॥ ६॥ पूर्वयोनिकाययोर्भवनवासिव्यन्तरनिकाययोः ॥ कथं द्वितीयस्य पूर्वत्वम् ? सामीप्यात्पूर्वत्वमुपचर्योक्तम् ॥ द्वीन्द्रा इति अन्तनींतवीप्सार्थः । द्वौ द्वौ इन्द्रौ येषां ते द्वीन्द्रा इति । यथा
१ सन्धानकारी ॥ २ अंगरक्षोपमानाः॥ ३ अर्थोत्पादककोपालसदृशा. ४ सेना
Page #167
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः
१३७
सप्तपर्णोऽष्टापद इति ॥ तद्यथा - भवनवासिषु तावदसुरकुमाराणां 'द्वाविन्द्रौ चमरो वैरोचनश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिसिंहो हरिकान्तश्च । सुपर्णकुमाराणां वेणुदेवो वेणुधारी च । अभिकुमाराणां अग्निशिखोऽग्निमाणवश्च । वातकुमाराणां बैलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णो विशिष्टश्च | दिक्कुमाराणां अमितगतिरमितवाहनश्चेति ॥ व्यन्तरेष्वपि किन्नराणां द्वाविन्द्रौ किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महापुरुषश्चेति । महोरगाणां अतिकायो महाकायश्च । गन्धर्वाणां गीतरतिगतियशाश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । भूतानां प्रतिरूपोऽप्रतिरूपश्च । पिशाचानां कालो महाकालश्च ॥
अथैषां देवानां सुखं कीदृशमित्युक्ते सुखावबोधनार्थमाह॥ कायप्रवीचारा आ ऐशानात् ॥ ७ ॥
प्रवीचारो मैथुनोपसेवनम् । कायेन प्रवीचारो येषां ते कायप्रवीचाराः ॥ आङ् अभिविध्यर्थः । असंहितया निर्देशः असन्देहार्थः ॥ एते भवनवास्यादय ऐशानान्ताः संक्लिष्टकर्मत्वान्मनुष्यवत्स्त्रीविषयसुखमनुभवन्तीत्यर्थः ॥ अवधिग्रहणादितरेषां सुखविभागेऽनिर्ज्ञाते तत्प्रतिपादनार्थमाह॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ॥ ८ ॥ उक्तावशिष्टग्रहणार्थं शेषग्रहणम् ॥ के पुनरुक्तावशिष्टाः ?
९ असुराणाम् ॥ २ ॥ वेणुदेव इत्यत्र वेणुदण्ड इत्यपि पाठान्तरम् ॥ ३ अत्र वेणुताली इत्यपि पाठभेदः ॥
Page #168
--------------------------------------------------------------------------
________________
१३८
सर्वार्थसिद्धिः - कल्पवासिनः ॥ स्पर्शश्च रूपं च शब्दश्च मनश्च स्पर्शरूपशब्दमनांसि, तेषु प्रविचारो येषां ते स्पर्शरूपशब्दमनःप्रवीचाराः ॥ कथमभिः सम्बन्धः ? आविरोधेन । कुतः पुनः प्रवीचारग्रहणं? इष्टसम्प्रत्ययार्थमिति ॥ कः पुनरिष्टोऽभिसम्बन्ध आर्षाविरोधी ? । सानकुमारमाहेन्द्रयोर्देवा देवाङ्गनास्पर्शमात्रादेव परां प्रीतिमुपलभन्ते, तथा देव्योऽपि । ब्रह्मब्रह्मोत्तरलान्तवकापिष्ठेषु देवा दिव्याङ्गनानां शृङ्गाराकारविलासचतुरमनोज्ञवेषरूपावलोकनमात्रादेव परमसुखमाप्नुवन्ति । शुक्रमहाशुक्रशतारसहस्रारेषु देवा देववनितानां मधुरसङ्गीतमूदुहसितललितकथितभूषणरवश्रवणमात्रादेव परां प्रीतिमास्कन्दन्ति । आनतप्राणतारणाच्युतकल्पेषु देवाः स्वाङ्गनामनःसङ्कल्पमात्रादेव परं सुखमाप्नुवन्ति ॥ अथोत्तरेषां किंप्रकारं सुखमित्युक्ते तन्निश्चयार्थमाह
॥ परेऽप्रवीचाराः ॥ ९॥ परग्रहणमितराशेषसंग्रहार्थम् । अप्रवीचारग्रहणं परमसुखप्रतिपत्त्यर्थम् ॥ प्रवीचारो हि वेदनाप्रतिकारः। तदभावे तेषां परमसुखमनवरतं भवति ॥
उक्ता ये आदिनिकायदेवा दशविकल्पा इति तेषां सामान्यविशेषसज्ञाविज्ञापनार्थमिदमुच्यते
॥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिकुमाराः ॥ १०॥
भवनेषु वसन्तीत्येवंशीला भवनवासिनः । आदिनिकायस्येयं सामान्यसञ्ज्ञा । असुरादयो विशेषसञ्ज्ञा विशिष्टनामकर्मोदयापादितवृत्तयः । सर्वेषां देवानामवस्थितवयःस्वभावत्वेऽपि वेषभूषायुधयानबा
Page #169
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः
१३९
हनक्रीडनादिकुमारवदेषामाभासन्त इति भवनवासिषु कुमारव्यपदेशो रूढः । स प्रत्येकं परिसमाप्यते असुरकुमारा इत्येवमादि ॥ क तेषां भवनानीति चेदुच्यते - रत्नप्रभायाः पङ्कबहुल भागेऽसुरकुमाराणां भवनानि । खरपृथिवीभागे उपर्यधश्व एकैकयोजनसहस्रं वर्जयित्वा शेषनवानां कुमाराणामावासाः ॥
द्वितीयनिकायस्य सामान्यविशेषसञ्ज्ञावधारणार्थमाह॥ व्यन्तराः किन्नर किम्पुरुषमहोरगगन्धर्व
यक्षराक्षसभूतपिशाचाः ॥ ११ ॥
विविधदेशान्तराणि येषां निवासास्ते व्यन्तरा इत्यन्वर्था सामान्य ज्ञेयमष्टानामपि विकल्पानाम् ॥ तेषां व्यन्तराणामष्टौ विकल्पाः किन्नरादयो वेदितव्या नामकर्मोदयविशेषापादिताः ॥ व पुनस्तेषामावासा इति चेदुच्यते - अस्माज्जम्बूद्वीपादसंख्येयान्द्वी - पसमुद्रानतीत्य उपरिष्टे खरपृथिवीभागे सप्तानां व्यन्तराणामावासाः ॥ राक्षसानां पकबहुलभागे ||
तृतीयस्य निकायस्य सामान्यविशेषसञ्ज्ञासङ्कीर्तनार्थमाह|| ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥ १२ ॥
ज्योतिस्वभावत्वादेषां पञ्चानामपि ज्योतिष्का इति सामान्यसञ्ज्ञा अन्वर्था || सूर्यादयस्तद्विशेषसञ्ज्ञा नामकर्मोदयप्रत्ययाः ॥ सूर्याचन्द्रमसाविति पृथग्ग्रहणं प्राधान्यख्यापनार्थम् ॥ किं कृतं पुनः प्राधान्यं ? प्रभावादिकृतम् ॥ क्व पुनस्तेषामावासाः ? इत्यत्रोच्यते अस्मात्समानभूमिभागादूर्ध्वं सप्तयोजनशतानि नवत्युत्तराणि ७९० उत्पत्य सर्वज्योतिषामधोभागविन्यस्तास्तारका श्वचरन्ति । ततो दशयो
Page #170
--------------------------------------------------------------------------
________________
१४०
सर्वार्थसिद्धिः जनान्युत्पत्य सूर्याश्चरन्ति । ततोऽशीतियोजनान्युत्पत्य चन्द्रमसो भ्रमन्ति । ततश्चत्वारि योजनान्युत्पत्य नक्षत्राणि । ततश्चत्वारि योजनान्युत्पत्य बुधाः। ततस्त्रीणि योजनान्युत्पत्य शुक्राः । ततस्त्रीणि योजनान्युत्पत्य बृहस्पतयः । ततस्त्रीणि योजनान्युत्पत्याङ्गारकाः । ततस्त्रीणि योजनान्युत्पत्य शनैश्वराश्चरन्ति । स एष ज्योतिर्गणगोचरो नभोऽवकाशो दशाधिकयोजनशतबहलस्तिर्यगसंख्यातद्वीपसमुद्रप्रमाणो घनोदधिपर्यन्तः॥ उक्तं च-णउदुतरसत्तसया दस सीदी चदुदु. गतियचउक्कम् । तारारविससिरिक्खा बुहभग्गवगुरुअंगिरारसणी ॥१॥
ज्योतिप्काणां गतिविशेषप्रतिपयर्थमाह॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥ ___ मेरोः प्रदक्षिणाः मेरुप्रदक्षिणाः । मेरुप्रदक्षिणा इति वचनं गतिविशेप्रतिपत्त्यर्थ विपरीतगतिर्मा विज्ञायीति ॥ नित्यगतय इति विशेषणमनुपरतक्रियाप्रतिपादनार्थम् । नृलोकग्रहणं विषयार्थम् । अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोज्योतिष्का नित्यगतयो नान्यत्रेति ॥ ज्योतिप्कविमानानां गतिहेत्वभावात्तवृत्यभाव इति चेन्न, असिद्धत्वात् ॥ गतिरताभियोग्यदेवप्रेरितगतिपरिणामाकर्मविपाकस्य वैचिच्यातेषां हि गतिमुखेनैव कर्म विपच्यत इति ॥ एकादशभिर्योजनशतैरेकविंशैमेरुमप्राप्य ज्योतिष्काः प्रदक्षिणाश्चरन्ति ।
गतिमज्जोतिस्सम्बन्धेन व्यवहारकालप्रतिपत्त्यर्थमाह-.
॥ तत्कृतः कालविभागः ॥ १४ ॥ तद्ग्रहणं गतिमज्ज्योतिःप्रतिनिर्देशार्थम् । न केवलया गत्या नापि केवलैज्योतिर्भिः कालः परिच्छिद्यते , अनुपलब्धेरपरिवर्तनाच्च ॥ कालो द्विविधो व्यावहारिको मुख्यश्च ॥ व्यावहारिकः कालविभागस्तस्कृतः समयावलिकादिः क्रियाविशेषपरिच्छिन्नोऽ
Page #171
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः
१४१ न्यस्यापरिच्छिन्नस्य परिच्छेदहेतुः ॥ मुख्योऽन्यो वक्ष्यमाणलक्षणः॥ इतरत्र ज्योतिषामवस्थानप्रतिपादनार्थमाह -
॥ बहिरवस्थिताः ॥ १५ ॥ बहिरित्युच्यते , कुतो बहिः ? नृलोकात् ॥ कथमवगम्यते ? अर्थवशाद्विभक्तिपरिणामो भवति ॥ ननु च नृलोके नित्यगतिवचनादन्यत्रावस्थानं ज्योतिष्काणां सिद्धं । अतो बहिरवस्थिता इति वचनमनर्थकमिति । तन्न । किं कारणम् ? नृलोकादन्यत्र बहिर्कोतिषामस्तित्वमवस्थानं चासिद्धम् । अतस्तदुभयसिध्द्यर्थ बहिरवस्थिती इत्युच्यते ॥ विपरीतगतिनिवृत्यर्थ कादाचित्कगतिनिवृ. त्यर्थं च सूत्रमारब्धम् ॥ तुरीयस्य निकायस्य सामान्यसञ्ज्ञासङ्कीर्तनार्थमाह -
॥ वैमानिकाः ॥ १६ ॥ वैमानिकग्रहणमधिकारार्थम् । इत उत्तरं ये वक्ष्यन्ते तेषां वैमानिकसम्प्रत्ययो यथा स्यादिति अधिकारः क्रियते ॥ विशेषेणात्मस्थान सुकृतिनो मानयन्तीति विमानानि । विमानेषु भवा वैमानिकाः ॥ तानि विमानानि विविधानि । इन्द्रकश्रेणिपुष्पप्रकीर्णकभेदेन ॥ तत्र इन्द्रकविमानानि इन्द्रवन्मध्ये व्यवस्थितानि । तेषां चतसृषु दिक्षु आकाशप्रदेशश्रेणिवदवस्थानात् श्रेणिविमानानि । विदिक्षु प्रकीर्णपुष्पवदवस्थानात्पुष्पप्रकीर्णकानि ॥
तेषां वैमानिकानां भेदावबोधनार्थमाह
॥ कल्पोपपन्नाः कल्पातीताश्च ॥ १७ ॥
, निश्चला वर्तन्ते इत्यर्थः ॥ २ अप्रदक्षिण •॥ .
Page #172
--------------------------------------------------------------------------
________________
१४२
सर्वार्थसिद्धिः कल्पेषूपपन्नाः कल्पोपपन्नाः कल्पानतीताः कल्पातीताश्चेति द्विविधा वैमानिका ॥ तेषामवस्थानविशेषनिपिनार्थमाह--
॥ उपर्युपरि ॥ १८॥ किमर्थमिदमुच्यते ? तिर्यगवस्थितिप्रतिषेधार्थमुच्यते ॥ न ज्योतिष्कवत्तिर्यगवास्थताः । न व्यन्तरवदसमावस्थितयः । उपर्युपरीत्युच्यन्ते ॥ के ते? कल्पाः ॥
यद्येवं, कियत्सु कल्पविमानेषु ते देवा भवन्तीत्यत आह-- ॥ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु . विजयवैजयन्तजयन्तापरााजतेषु
सर्वार्थसिध्दौ च ॥ १९ ॥ कथमेषां सौधर्मादिशब्दानां कल्पाभिधानं ? चातुरर्थिकेनाणा , स्वभावतो वा कल्पस्याभिधानं भवति ॥ अथ कथमि. न्द्राभिधानं ? स्वभावतः साहचर्याद्वा ॥ तत्कथमिति चेदुच्यतेसुधर्मा नाम सभा, साऽस्मिन्नस्तीति सौधर्मः कल्पः । तदस्मिन्नस्तीत्यण् । तत्कल्पसाहचर्यादिन्द्रोऽपि सौधर्मः ॥ ईशानो नाम इन्द्रः स्वभावतः । ईशानस्य निवासः कल्प ऐशानस्तस्य निवास इत्यण् । तत्साहचर्यादिन्द्रोऽपि ऐशानः ॥ सनत्कुमारो नाम इन्द्रः स्वभावतः । तस्य निवास इत्यण् । सानत्कुमारः कल्पः । तत्साहचर्यादिन्द्रोऽपि सानत्कुमारः ॥ माहेन्द्रो नामेन्द्रः स्वभावतस्तस्य निवासः कल्पो माहेन्द्रः । तत्साहचर्यादिन्द्रोऽपि माहेन्द्रः ।।
Page #173
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः
१४३ एवमुत्तरत्रापि योज्यम् ॥ आगमापेक्षया व्यवस्था भवतीति , उपर्युपरीत्यनेन द्वयोर्द्वयोरभिसम्बन्धो वेदितव्यः ॥ प्रथमौ सौधर्मशानकल्पौ , तयोरुपरि सानत्कुमारमाहेन्द्रौ , तयोरुपरि ब्रह्मलोकब्रह्मोत्तरौ , तयोरुपरि लान्तवकापिष्ठौ , तयोरुपरि शुक्रमहाशुक्रौ , तयोरुपरि शतारसहस्रारौ , तयोरुपरि आनतप्राणतौ , तयोरुपरि आरणाच्युतौ ॥ अध उपरि च प्रत्येकमिन्द्रसम्बन्धो वेदितव्यः । मध्ये तु प्रतिद्वयमेकः ॥ सौधर्मेशानसानत्कुमारमाहेन्द्राणां चतुर्णा चत्वार इन्द्राः। ब्रह्मलोकब्रह्मोत्तरयोरेको ब्रह्मेन्द्रो नाम । लान्तवकापिष्ठयोरेको लान्तवाख्यः । शुक्रमहाशुक्रयोरेकः शुक्रसञ्ज्ञः । शतारसहस्रारयोरेकः शतारनामा । आनतप्राणतारणाच्युतानां चतुर्णी चत्वारः । एवं कल्पवासिनां द्वादश इन्द्रा भवन्ति ।। जम्बूद्वीपे महामन्दरो योजनसहस्रावगाहो भवति नवनवतियोजनसहस्रोच्छूयः । तस्याधस्तादधोलोकः । बाहुल्येन तत्प्रमाण-(मेरुप्रमाण)स्तिर्यक्प्रसृतस्तिर्यग्लोकः । तस्योपरिष्टादूर्ध्वलोकः । मेरुचूलिका चत्वारिंशद्योजनोच्छ्राया । तस्या उपरि केशान्तरमात्रे व्यवस्थितमृजुविमानमिन्द्रकं सौधर्मस्य ॥ सर्वमन्यल्लोकानुयोगाद्वेदितव्यम् ॥ नवसु अवेयकेष्विति नवशब्दस्य पृथग्वचनं किमर्थम् ? । अन्यान्यपि नवविमानानि अनुदिशसञ्जकानि सन्तीति ज्ञापनार्थम् । तेनानुदिशानां ग्रहणं वेदितव्यम् ॥ एषामधिकृतानां वैमानिकानां परस्परतो विशेषप्रतिपत्यर्थमाहस्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥ २० ॥
स्वोपात्तस्यायुष उदयात्तस्मिन्भवे शरीरेण सहावस्थानं स्थितिः । शापानुग्रहशक्तिः प्रभावः । सुखमिन्द्रियार्थानुभवः । शरीर
Page #174
--------------------------------------------------------------------------
________________
fo
१४४
सर्वार्थसिद्धिः . वसनाभरणादिदीप्तिः द्युतिः । लेश्या उक्ता । लेश्याया विशुद्धिलेश्याविशुद्धिः । इन्द्रियाणामवधेश्च विषय इन्द्रियावधिविषयः । तेभ्यस्तैर्वाऽधिका इति ॥ तस्मिन्नुपर्युपरि प्रतिकल्पं प्रतिप्रस्तारं च वैमानिकाः स्थित्यादिभिरधिका इत्यर्थः । यथा स्थित्यादिभिरुपर्युपर्यधिका एवं गत्यादिभिरपीत्यतिप्रसङ्गे
तन्निवृत्यर्थमाह॥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२१॥
देशादेशान्तरप्राप्तिहेतुर्गतिः । शरीरं वैक्रियिकमुक्तम् । लोभकषायोदयाद्विषयेषु सङ्गः परिग्रहः । मानकषायादुत्पन्नोऽ हकारोऽभिमानः । एतैर्गत्यादिभिरुपर्युपरि हीनाः ॥ देशान्तरविषयक्रीडारतिप्रकर्षाभावादुपर्युपरि गतिहीनाः ॥ शरीरं सौधर्मेशानयोदेवानां सप्तारनिप्रमाणम् । सानत्कुमारमाहेन्द्रयोः षडरत्निप्रमाणम् ।। ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्टेषु पञ्चारलिप्रमाणम् ॥ शुक्रमहाशुक्रशतारसहस्रारेषु चतुररलिप्रमाणम् ॥ आनतप्राणतयोरर्द्धचतुर्थारनिप्रमाणम् ॥ आरणाच्युतयोस्त्र्यरतिप्रमाणम् ॥ अधोग्रैवेयकेषु अर्द्धतृतीयारनिप्रमाणम् ॥ मध्यप्रैवेयकेष्वरनिद्वयप्रमाणम् ॥ उपरिमौवेयकेषु अनुदिशविमानेषु च अध्यभरलिप्रमाणम् ॥ अनुत्तरेष्वरत्निप्रमाणम् ।। परिग्रहश्च विमानपरिच्छेदादिरुपयुपरि हीनः ।। अभिमानश्चोपर्युपरि तनुकषायत्वाद्धीनः ॥ पुरस्तात्रिषु निकायेषु देवानां लेश्याविधिरुक्तः ॥
इदानीं वैमानिकेषु लेश्या विधिप्रतिपत्त्यर्थमाहपीतपद्मशुक्कलेश्या द्वित्रिशेषेषु ॥ २२ ॥
पीता च पद्मा च शुक्ला च ताः पीतपद्मशुक्लाः। पीतपद्मशुक्ला लेश्या येषां ते पीतपद्मशुक्ललेश्याः ॥ कथं -हस्वत्वम् ? । औत्तरपदिकम्
Page #175
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः - १४५ यथाहुः-द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानमिति ॥ अथवा पीतश्च पद्मश्च शुक्लश्च पीतपद्मशुक्ला वर्णवन्तोऽर्थाः । तेषामिव लेश्या येषां ते पीतपद्मशुक्ललेश्याः ॥ तत्र कस्य का लेश्येत्यत्रोच्यते- सौधर्मेशानयोः पीतलेश्याः । सानत्कुमारमाहेन्द्रयोः पीतपद्मलेश्याः । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्टेषु पद्मलेश्याः । शुक्रमहाशुक्रशतारसहस्रारेषु पद्मशुक्ललेश्याः। आनतादिषु शुक्ल. लेश्याः। तत्राप्यनुदिशानुत्तरेषु परमशुक्ललेश्याः। सूत्रेऽनभिहितं कथं मिश्रग्रहणं ? साहचाल्लोकवत् ॥ तद्यथा-छत्रिणो गच्छन्ति इति अछत्रिषु छत्रिव्यवहारः । एवमिहापि मिश्रयोरन्यतरग्रहणं भवति ॥ अयमर्थः सूत्रतः कथं गम्यते ? इति चेदुच्यते-- एवमभिसम्बन्धः क्रियते, द्वयोः कल्पयुगलयोः पीतलेश्या । सानत्कुमारमाहेन्द्रयोः पद्मलेश्याया अविवक्षातः ॥ ब्रह्मलोकादिषु त्रिषु कल्पयुगलेषु पद्मलेश्या । शुक्रमहाशुक्रयोः शुक्ललेश्याया अविवक्षातः ॥ शेषेषु शतारादिषु शुक्ललेश्या । पद्मलेश्याया अविवक्षात इति नास्ति दोषः ॥ आह कल्पोपपन्ना इत्युक्तं तत्रेदं न ज्ञायते के कल्पा इत्यत्रोच्यते
॥प्राग्वेयकेभ्यः कल्पाः ॥ २३ ॥ - इदं न ज्ञायते इत आरभ्य कल्पा भवन्तीति सौधर्मादिग्रहणमनुवर्तते । तेनायमर्थो लभ्यते- सौधर्मादयः प्राग्वेयकेभ्यः कल्पा इति पारिशेष्यादितरे कल्पातीता इति ॥
लौकान्तिका देवा वैमानिकाः सन्तः क गृह्यन्ते ! कल्पोपपन्नेषु । कथमिति चेदुच्यते
. ॥ ब्रह्मलोकालया लौकान्तिकाः ॥२४॥ ... एत्य तस्मिन् लीयन्त इति आलयः आवासः । ब्रह्मलोक
Page #176
--------------------------------------------------------------------------
________________
१४६
सर्वार्थसिद्धिः -- आलयो येषां ते ब्रह्मलोकालया लौकान्तिका देवा वेदितव्याः । यद्येवं सर्वेषां ब्रह्मलोकालयानां देवानां लौकान्तिकत्वं प्रसक्तं ? । अन्वर्थसञ्ज्ञाग्रहणाददोषः ॥ ब्रह्मलोको लोकः तस्यान्तो लोकान्तः तस्मिन्भवा लौकान्तिका इति न सर्वेषां ग्रहणम् । तेषां हि विमानानि ब्रह्मलोकस्यान्तेषु स्थितानि ॥ अथवा जन्मजरामरणाकीर्णो लोकः संसारः तस्यान्तो लोकान्तः । लोकान्ते भवा लौकान्तिकाः ते सर्वे परीतसंसाराः । ततश्च्युता एकं गर्भावासं प्राप्य परिनिर्वास्यन्ति ।।
तेषां सामान्येनोपदिष्टानां भेदप्रदर्शनार्थमाह॥ सारस्वतादित्यवह्नयरुणगर्दतोय
तुषिताव्याबाधारिष्टाश्च ॥ २५ ॥ क्व इमे सारखतादयः । अष्टास्वपि पूर्वोत्तरादिषु दिक्षु यथाक्रममेते सारस्वतादयो देवगणा वेदितव्याः । तद्यथा- पूर्वोतरकोणे सारस्वतविमानं, पूर्वस्यां दिशि आदित्यविमानं, पूर्वदक्षिणस्यां दिशि वह्निविमानं, दक्षिणस्यां दिशि अरुणविमानं, दक्षिणापरकोणे गर्दतोयविमानं, अपरस्यां दिशि तुषितविमानं, उत्तरापरस्यां दिशि अव्याबाधविमानं, उत्तरस्यां दिशि अरिष्टवि. मानम् ॥ चशब्दसमुच्चितास्तेषामन्तरे द्वौ द्वौ देवगणौ ॥ तद्यथासारस्वतादित्यान्तरे अग्न्याभसूर्याभाः। आदित्यस्य च वहेश्चान्तरे चन्द्रामसत्याभाः। वयरुणान्तराले श्रेयस्करक्षेमकराः । अरुणगदेतोयान्तराले वृषभेष्टकामचराः । गर्दतोयतुषितमध्ये निर्माणरजोदिगन्तरक्षिताः। तुषिताव्याबाधमध्ये आत्मरक्षितसर्वरक्षिताः । अव्याबाधारिष्टान्तराले मरुद्वसवः । अरिष्टसारस्वतान्तराले अश्वविश्वाः ।। सर्वे एते स्वतन्त्रा हीनाधिकत्वाभावात्, विषयरतिविरहाद्देवर्षयः,
Page #177
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः
११७ इतरेषां देवानामर्चनीयाः, चतुर्दशपूर्वधराः, तीर्थकरनिष्क्रमणप्रतिबोधनपरा वेदितव्याः ॥ __आह उक्ता लौकान्तिकास्ततश्च्युत्वा एक गर्भवासमवाप्य निर्वास्यन्तीत्युक्ताः । किमेवमन्येप्वपि निर्वाणप्राप्तिकालविभागो विद्यते ? इत्यत आह. ॥ विजयादिषु विचरमाः ॥ २६ ॥
आदिशब्दः प्रकारार्थे वर्तते, तेन विजयवैजयन्तजयन्तापराजितानुदिशविमानानामिष्टानां ग्रहणं सिद्धं भवति ॥ कः पुनरत्र प्रकारः ? अहमिन्द्रत्वे सति सम्यग्दृष्ट्युपपादः । सर्वार्थसिद्धिप्रसङ्ग इति चेन्न तेषां परमोत्कृष्टत्वात् । अन्वर्थसञ्ज्ञातः एकचरमत्वसिद्धेः ॥ चरमत्वं देहस्य । मनुष्यभवापेक्षया द्वौ चरमौ देहौ येषां ते द्विचरमाः। विजयादिभ्यश्च्युता अप्रतिपतितसम्यक्त्वा मनुष्येषूत्पद्य संयममाराध्य पुनर्विजयादिषुत्पद्य ततश्च्युताः पुनमनुष्यभवमवाप्य सिध्द्यन्तीति द्विचरमदेहत्वम् ।
__ आह जीवस्यौदयिकेषु भावेषु तिर्यग्योनिगतिरौदयिकीत्युक्तं, पुनश्च स्थितौ तिर्यग्योनिजानां चेति । तत्र न ज्ञायते के तिर्यग्योनयः ? इत्यत्रोच्यते
औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २७॥ __औपपादिका उक्ता देवनारकाः । मनुष्याश्च निर्दिष्टाः । प्राङ्मानुषोत्तरान्मनुप्या इति । एभ्योऽन्ये संसारिणो जीवाः शेषास्तिर्यग्योनयो वेदितव्याः ॥ तेषां तिरश्चां देवादीनामिव क्षेत्रवि. भागः पुनर्निर्देष्टव्यः । सर्वलोकव्यापित्वात्तेषां क्षेत्रविभागो नोक्तः ॥
ओह स्थितिरुक्ता नारकाणां मनुष्याणां तिरश्चां च ।
Page #178
--------------------------------------------------------------------------
________________
१४८
सर्वार्थसिद्धिः -- देवानां नोक्ता । तस्यां वक्तव्यायामादावुद्दिष्टानां भवनवासिनां स्थितिप्रतिपादनार्थमाह-- ॥ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमाईहीनमिता ॥ २८ ॥
असुरादीनां सागरोपमादिभिर्यथाक्रममत्राभिसम्बन्धो वेदितव्यः ॥ इयं स्थितिरुत्कृष्टा । जघन्याऽप्युत्तरत्र वक्ष्यते ॥ तद्यथाअसुराणां सागरोपमा स्थितिः । नागानां त्रिपल्योपमा स्थितिः । सुपर्णानामर्द्धतृतीयानि । द्वीपानां द्वे । शेषाणां षण्णामध्यर्द्धपल्योपमम् ॥ ___आद्यदेवनिकायस्थित्यभिधानादनन्तरं व्यन्तरज्योतिष्कस्थितिवचने क्रमप्राप्ते सति तदुल्लङ्घय वैमानिकानां स्थितिरुच्यते । कुतः ? तयोरुत्तरत्र. लघुनोपायेन स्थितिवचनात् ॥ तेषु चादावुद्दिष्टयोः कल्पयोः स्थितिविधानार्थमाह--
॥ सौधर्मेशानयोः सागरोपमे अधिके ॥२९॥ ___ सागरोपमे इति द्विवचननिर्देशात् द्वित्वगतिः । अधिके इत्ययमधिकारः । आ कुतः? आ सहस्रारात् । इदं तु कुतो ज्ञायते ? उत्तरत्र तुशब्दग्रहणात् । तेन सौधर्मेशानयोर्देवानां द्वे सागरोपमे सातिरेके प्रत्येतव्ये ॥
उत्तरयोः स्थितिविशेषप्रतिपत्त्यर्थमाह॥ सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३०॥
१ घातायुष्कसम्यग्दृष्ट्यपेक्षया किश्चिदूनार्द्धसागरोपममाधिकं भवति सोध. मेकल्पासहस्रारपर्यन्तम् ॥ सम्मे घादेऊणं सायारदळमहियमासहस्सारा इति । वचनात् ॥
Page #179
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः
१४९ अनयोः कल्पयोर्देवानां सप्तसागरोपमाणि साधिकानि उत्कृष्टा स्थितिः॥
ब्रह्मलोकादिष्वच्युतावसानेषु स्थितिविशेषप्रतिपत्त्यर्थमाह॥ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ३१
सप्तग्रहणं प्रकृतम् । तस्येह व्यादिभिर्निर्दिष्टैरभिसम्बन्धो वेदितव्यः ॥ सप्त त्रिभिरधिकानि, सप्त सप्तभिरधिकानीत्यादि
यो योरभिसम्बन्धो वेदितव्यः ॥ तुशब्दो विशेषणार्थः ॥ किं विशिनष्टि ? अधिकशब्दोऽनुवर्तमानश्चतुर्भिरभिसम्बध्यते नोत्तराभ्यामित्ययमों विशिष्यते ॥ तेनायमर्थो भवति- ब्रह्मलोकब्रह्मो. तरयोर्दशसागरोपमाणि साधिकानि ॥ लान्तवकापिष्टयोश्चतुर्दशसागरोपमाणि साधिकानि ॥ शुक्रमहाशुक्रयोः षोडशसागरोपमाणि साधिकानि ॥ शतारसहस्रारयोरष्टादशसागरोपमाणि साधिकानि ॥ आनतप्राणतयोविंशतिसागरोपमाणि ॥ आरणाच्युतयोविंशतिसागरोपमाणि ॥
तत उर्ध्वं स्थितिविशेषप्रतिपत्त्यर्थमाह॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु
विजयादिषु सर्वार्थसिद्धौ च ॥ ३२॥ - अधिकग्रहणमनुवर्तते । तेनेहाभिसम्बन्धो वेदितव्यः । एकैकेनाधिकानीति ॥ नवग्रहणं किमर्थम् ? प्रत्येकमेकैकमधिकमिति ज्ञापनार्थम् ॥ इतरथाहि अवेयकेष्वेकमेवाधिकं स्यात् ॥ विजयादिष्विति आदिशब्दस्य प्रकारार्थत्वादनुदिशानामपि ग्रहणम् ॥ सर्वार्थसिद्धेः पृथग्रहणं जघन्याभावप्रतिपादनार्थम् ॥ तेनायमर्थः , अधौद्मवेयकेषु प्रथमे त्रयोविंशतिः। द्वितीये चतुर्वि
Page #180
--------------------------------------------------------------------------
________________
१५०
सर्वार्थसिद्धिः .. शतिः ॥ तृतीये पञ्चविंशतिः ॥ मध्यमौवेयकेषु प्रथमे षड्विंशतिः ॥ द्वितीये सप्तविंशतिः ॥ तृतीयेऽष्टाविंशतिः ॥ उपरिमअवेयकेषु प्रथमे एकोनत्रिंशत् ।। द्वितीये त्रिंशत् ॥ तृतीये एकत्रिंशत् ॥ अनुदिशविमानेषु द्वात्रिंशत् ॥ विजयादिषु त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः । सर्वार्थसिद्धेस्त्रयस्त्रिंशदेवेति ॥
निर्दिष्टोत्कृष्टस्थितिकेषु जघन्यस्थितिप्रतिपादनार्थमाह
॥ अपरा पल्योपममधिकम् ॥ ३३ ॥
पल्योपमं व्याख्यातम् । अपरा जघन्यस्थितिः ॥ पल्योपमं साधिकम् ॥ केषां ? सौधर्मेशानीयानाम् ॥ कथं गम्यते ? परतः परत इत्युत्तरत्र वक्ष्यमाणत्वात् ॥
तत ऊर्ध्व जघन्यस्थितिप्रतिपादनार्थमाहपरतः परतः पूर्वापूर्वाऽनन्तरा ॥ ३४ ॥
परस्मिन्देशे परतः । वीप्सायां द्वित्वम् । पूर्वशब्दस्यापि । अधिकग्रहणमनुवर्तते ॥ तेनैवमभिसम्बन्धः क्रियते- सौधर्मेशानयोढ़े सागरोपमे साधिके उक्ते , ते साधिके सानत्कुमारमाहेन्द्रयोजघन्यस्थितिः ॥ सानत्कुमारमाहेन्द्रयोः परा स्थितिः सप्तसागरोपमाणि साधिकानि, तानि ब्रह्मब्रह्मोत्तरयोर्जघन्या स्थितिरित्यादि ॥
नारकाणामुत्कृष्टा स्थितिरुक्ता । जघन्यां सूत्रेऽनुपात्तामप्रकृतामपि लघुनोपायेन प्रतिपादयितुमिच्छन्नाह
॥ नारकाणां च द्वितीयादिषु ॥ ३५ ॥
चशब्दः किमर्थः ? । प्रकृतसमुच्चयार्थः ॥ किं च प्रकृतं । परतः परतः पूर्वा पूर्वाऽनन्तरा अपरा स्थितिरिति ॥ तेनायमों लभ्यते-- रत्नप्रभायां नारकाणां परास्थितिरेकं सागरोपमम् । सा
Page #181
--------------------------------------------------------------------------
________________
चतुर्थोऽध्यायः
१५१ शर्कराप्रभायां जघन्या। शर्कराप्रभायामुत्कृष्टा स्थितिस्त्रीणि सागरोपमाणि । सा वालुकाप्रभायां जघन्येत्यादि ॥ एवं द्वितीयादिषु जघन्या स्थितिरुक्ता ॥
प्रथमायां का जघन्येति तत्प्रदर्शनार्थमाह॥दशवर्षसहस्राणि प्रथमायाम् ॥ ३६॥
अपरा स्थितिरित्यनुवर्तते । रत्नप्रभायां दशवर्षसहस्राणि अपरा स्थितिदितव्या ॥ अथ भवनवासिनां का जघन्या स्थितिरित्यत आह
॥ भवनेषु च ॥ ३७॥ चशब्दः किमर्थः ? प्रकृतसमुच्चयार्थः ॥ तेन भवनवासिनामपरा स्थितिर्दशवर्षसहस्राणीत्यभिसम्बध्यते ॥ व्यन्तराणां तर्हि का जघन्या स्थितिरित्यत आह
॥ व्यन्तराणां च ॥ ३८॥ चशब्दः प्रकृतसमुच्चयार्थः ॥ तेन व्यन्तराणामपरा स्थितिदशवर्षसहस्राणीत्यवगम्यते ॥
अथैषां परा स्थितिः का इत्यत्रोच्यते ॥
॥ परा पल्योपममधिकम् ॥ ३९ ॥ परा उत्कृष्टा स्थितिय॑न्तराणां पल्योपममधिकम् ॥ इदानीं ज्योतिप्काणां परा स्थितिर्वक्तव्येत्यत आह
॥ज्योतिष्काणां च ॥ ४०॥ चशब्दः प्रकृतसमुच्चयार्थः ॥ तेनैवमभिसम्बन्धः । ज्योति
Page #182
--------------------------------------------------------------------------
________________
१५२
सर्वार्थसिद्धिः काणां परा स्थितिः पल्योपममधिकमिति ॥ अथापरा कियतीत्यत आह
॥ तदष्टभागोऽपरा ॥ ४१॥ तस्य पल्योपमस्याष्टभागो ज्योतिष्काणामपरा स्थितिरित्यर्थः ॥
अथ लौकान्तिकानां विशेषोक्तानां स्थितिविशेषो नोक्तः । स कियानित्यत्रोच्यते-- ॥ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥ ४२
अविशिष्टाः सर्वे ते शुक्ललेश्याः पञ्चहस्तोत्सेधशरीराः ॥ चतुर्णिकायदेवानां । स्थानं भेदाः सुखादिकम् ॥ ॥ परापरस्थितिलेश्या । तुर्याध्याये निरूपितम् ॥ १ ॥ ॥ इति तत्वार्थवृत्तौ सर्वार्थासद्धिसज्ञिकायां चतुर्थोऽध्यायः ॥
ॐ नमः परमात्मने वीतरागाय.
॥ अथ पश्चमोऽध्यायः॥ इदानीं , सम्यग्दर्शनस्य विषयभावेनोपक्षिप्तेषु जीवादिषु जीवपदार्थो व्याख्यातार्थः । अथाजीवपदार्थो विचारप्राप्तस्तस्य सज्ञाभेदसङ्कीर्तनार्थमिदमुच्यते
॥ अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १॥
कायशब्दः शरीरे व्युत्पादितः । इहोपचारादध्यारोप्यते । कुत उपचारः ? । यथा शरीरं पुद्गलद्रव्यप्रचयात्मकं तथा धर्मादिष्वपि प्रदेशप्रचयापेक्षया काया इव काया इति । अजीवाश्च
Page #183
--------------------------------------------------------------------------
________________
पंचमोऽध्यायः
१५३ ते कायाश्च अर्जीवकायाः ॥ विशेषणं विशेष्येणेति वृत्तिः ॥ ननु च नीलोत्पलादिषु व्यभिचारे सति विशेषणविशेष्ययोगः । इहापि व्यभिचारयोगोऽस्ति । अजीवशब्दोऽकाये कालेऽपि वर्तते , कायो ऽपि जीवे । किमर्थः कायशब्दः ? । प्रदेशबहुत्वज्ञापनार्थः । धर्मादीनां प्रदेशा बहव इति ॥ ननु च असंख्येयाः प्रदेशा धर्माधर्मैकजीवानामित्यनेनैव प्रदेशबहुत्वं ज्ञापितम् । सत्यमिदम् । परं किन्त्वस्मिन्विधौ सति तदवधारणं विज्ञायते , असंख्येयाः प्रदेशा न संख्येया नाप्यनन्ता इति ॥ कालस्य प्रदेशप्रचयाभावज्ञापनार्थं च इह कायग्रहणम् । कालो वक्ष्यते । तस्य प्रदेशप्रतिषेधार्थमिह कायग्रहणम् ॥ यथाऽणोः प्रदेशमात्रत्वाद्वितीयादयोऽस्य न सन्ती. त्यप्रदेशोऽणुः । तथा कालपरमाणुरप्येकप्रदेशत्वादप्रदेश इति ॥ तेषां धर्मादीनामजीव इति सामान्यसञ्ज्ञा जीवलक्षणाभावमुखेन प्रवृत्ता ॥ धर्माधर्माकाशपुद्गला इति विशेषसञ्ज्ञाः सामयिक्यः ॥ _ अत्राह सर्वव्यपर्यायेषु केवलस्येत्येवमादिषु द्रव्याण्युक्तानि , कानि तानीत्युच्यते. ॥द्रव्याणि ॥ २॥ ___ यथास्वं पर्यायैर्द्रयन्ते द्रवान्त वा तानि द्रव्याणि ॥ द्रव्यत्वयोगाव्यमिति चेन्न । उभयासिद्धेः ॥ यथा दण्डदण्डिनोयोगो भवति पृथक्सिद्धयोः , न च तथा द्रव्यद्रव्यत्वे पृथक्सिद्धे स्तः ॥ यद्यपृथसिद्धयोरपि योगः स्यादाकाशकुसुमस्य प्रकृतिपुरुषस्य द्वितीयशिरसश्च योगः स्यादिति ॥ अथ पृथासद्धिरभ्युपगम्यते , द्रव्यत्वकल्पना निरर्थिका । गुणसमुदायो द्रव्य मिति चेत्तत्रापि गुणानां समुदायस्य च भेदाभावे तद्रव्यव्यपदेशो नोपपद्यते । भेदाभ्युपगमे च पूर्वोक्त एव दोषः ॥ ननु गुणान्द्रवन्ति गुणैर्वा द्रूयन्त इति विग्रहेऽपि स एव दोष इति
Page #184
--------------------------------------------------------------------------
________________
१५४
सर्वार्थसिद्धिःचेन्न । कथञ्चिद्भेदाभेदोपपत्तेस्तद्व्यपदेशसिद्धिः , व्यतिरेकेणानुपलधेरभेदः सञ्जालक्षणप्रयोजनादिभेदाढ़ेद इति ॥ प्रकृता धर्मादयो बहवस्तत्सामानाधिकरण्याबहुत्वनिर्देशः ॥ स्यादेतत्संख्यानुवृत्तिवत्पुल्लिङ्गानुवृत्तिरपि प्राप्नोति । नैष दोषः। आविष्टलिङ्गाः शब्दा न कदाचिल्लिङ्गं व्यभिचरन्ति । अतो धर्मादयो द्रव्याणि भवन्तीति ॥
अनन्तरत्वाच्चतुर्णामेव द्रव्यव्यपदेशप्रसङ्गेऽध्यारोपणार्थमिदमुच्यते
॥ जीवाश्च ॥ ३॥ ... जीवशब्दो व्याख्यातार्थः । बहुत्वनिर्देशो व्याख्यातभेदप्रतिपत्त्यर्थः । चशब्दः सञ्जानुकर्षणार्थः जीवाश्च द्रव्याणीति ॥ एवमेतानि वक्ष्यमाणेन कालेन सह षट् द्रव्याणि भवन्ति ॥ ननु द्रव्यस्य लक्षणं वक्ष्यते 'गुणपर्ययवद्रव्यमिति' तल्लक्षणयोगाद्धर्मादीनां द्रव्यत्वव्यपदेशो भवति नार्थः परिगणनेन ? ॥ परिगणनमवधारणार्थ, तेनान्यवादिपरिकल्पितानां पृथिव्यादीनां निवृत्तिः कृता भवति ॥ कथं ? पृथिव्यप्तेजोवायुमनांसि पुद्गलद्रव्येऽन्तर्भवन्ति रूपरसगन्धस्पर्शवत्त्वाच्चक्षुरिन्द्रियवत् ॥ वायुमनसो रूपादियोगाभाव इति चेन्न । बायुस्तावद्रूपादिमान्स्पर्शवत्त्वाद्धटादिवत् ॥ चक्षुरादिकरणग्राह्यत्वाभावाद्रूपाद्यभाव इति चेत्परमाण्वादिष्वतिप्र. सङ्गः स्यात् ।। आपो गन्धवत्यः स्पर्शवत्त्वात्पृथिवीवत् ॥ तेजोऽपि रसगन्धवत् रूपवत्त्वात् ॥ तद्वदेव मनोऽपि द्विविधं द्रव्यमनो भावमनश्चेति । तत्र भावमनो ज्ञानम्, तस्य जीवगुणत्वा. दात्मन्यन्तर्भावः । द्रव्यमनश्च रूपादियोगात्पुद्गलद्रव्यविकारः ॥ रूपादिवन्मनः ज्ञानोपयोगकारणत्वाच्चक्षुरिन्द्रियवत् ॥ ननु अमूर्ते ऽपि शब्दे ज्ञानोपयोगकारणत्वदर्शनाव्यभिचारी हेतुरिति चेन्न ।
Page #185
--------------------------------------------------------------------------
________________
पंचमोऽध्यायः
१५५
1
तस्य पौद्गलिकत्वान्मूर्तिमत्त्वोपपत्तेः ॥ ननु यथा परमाणूनां रूपादिमत्कार्यत्वदर्शनाद्रूपादिमत्त्वम्, न तथा वायुमनसो रूपादिमत्कार्यं दृश्यते इति चेन्न । तेषामपि तदुत्पत्तेः । सर्वेषां परमाणूनां सर्वरूपादिमत्कार्यत्वप्राप्तियोग्यत्वाभ्युपगमात् ॥ नच केचित्पार्थिवादिजातिविशेषयुक्ताः परमाणवः सन्ति, जातिसङ्करेणारम्भदर्शनात् ॥ दिशोऽप्याकाशेऽन्तर्भावः । आदित्योदयाद्यपेक्षया आकाशप्रदेशपंक्तिषु इत इदमिति व्यवहारोपपत्तेः ॥
उक्तानां द्रव्याणां विशेषप्रतिपत्त्यर्थमाह
॥ नित्यावस्थितान्यरूपाणि ॥ ४ ॥
नित्यं ध्रुवमित्यर्थः । नेः ध्रुवे त्यः इति निष्पादितत्वात् ॥ धर्मादीनि द्रव्याणि गतिहेतुत्वा दिविशेषलक्षणद्रव्यार्थादेशा दस्तित्वादिसामान्यलक्षणद्रव्यार्थादेशाच्च कदाचिदपि न व्ययन्तीति नित्यानि । वक्ष्यते हि तद्भावाव्ययं नित्यमिति । इयत्ताऽव्यभिचारादवस्थितानि धर्मादीनि षडपि द्रव्याणि कदाचिदपि षडिति इयत्वं नातिवर्तन्ते । ततोऽवस्थितानीत्युच्यन्ते ॥ न विद्यते रूपमेषामित्य-:रूपाणि, रूपप्रतिषेधेन तत्सहचारिणां रसादीनामपि प्रतिषेधः । तेन अरूपाण्यमूर्तीत्यर्थः ॥
यथा सर्वेषां द्रव्याणां नित्यावस्थितानीत्येतत्साधारणं लक्षणं तथा अरूपित्वं पुद्गलानामपि प्राप्तम् । अतस्तदपवादार्थमाह
|| रूपिणः पुद्गलाः ॥ ५॥
रूपं मूर्तिरित्यर्थः ॥ का मूर्तिः ? रूपादिसंस्थानपरिणामो मूर्तिः ॥ रूपमेषामस्तीति रूपिणः । मूर्तिमन्त इत्यर्थः ॥ अथवा रूपमिति गुणविशेषवचनशब्दस्तदेषामस्तीति रूपिणः ॥ रसाद्यग्र
Page #186
--------------------------------------------------------------------------
________________
१५६ . सर्वार्थसिद्धिः हणमिति चेन्न । तदविनाभावात्तदन्तर्भावः ॥ पुद्गला इति बहुवचनं भेदप्रतिपादनार्थम् ॥ भिन्ना हि पुद्गलाः। स्कन्धपरमाणुभेदात्तद्विकल्प उपरिष्टाद्वक्ष्यते ॥ यदि प्रधानवदरूपत्वमेकत्वं चेष्टं स्यात् विश्वरूपकार्यदर्शनविरोधः स्यात् ॥ . आह किं पुद्गलवद्धर्मादीन्यपि द्रव्याणि प्रत्येकं भिन्नानीत्यत्रोच्यते
॥ आ आकाशादेकद्रव्याणि ॥ ६ ॥
आङ् अयमभिविध्यर्थः । सौत्रीमानुपूर्वीमनुसृत्यैतदुक्तं , तेन धर्माऽधर्माकाशौनि गृह्यन्ते । एकशब्दः संख्यावचनस्तेन द्रव्यं विशिष्यते, एकं द्रव्यं एकद्रव्यमिति ॥ यद्येवं बहुवचनमयुक्तं, धर्माद्यपेक्षया बहुत्वसिद्धिर्भवति ॥ ननु एकस्यानेकार्थप्रत्यायनशक्तियोगादेकैकमित्यस्तु लघुत्वाद्रव्यग्रहणमनर्थकं , तथापि द्रव्यापेक्षया एकत्वख्यापनार्थ द्रव्यग्रहणम् ॥ क्षेत्रभावाद्यपेक्षया असंख्येयत्वानन्तत्वविकल्पस्येष्टत्वात् न जीवपुद्गलवदेषां बहुत्वमित्येतदनेन ख्याप्यते ॥ . अधिकृतानामेव एकद्रव्याणां विशेषप्रतिपत्त्यर्थमिदमुच्यते---
॥ निष्क्रियाणि च ॥ ७ ॥ उभयनिमित्तवशादुत्पद्यमानः पर्यायो द्रव्यस्य देशान्तरप्रा
१ सकृत्सकलपरिणामानां सानिध्याधानाद्धर्मः । २ सकृत्सकलास्थिति. परिणामिसान्निध्याधानादधर्मः। ३ आकाशा तेऽस्मिन्द्रव्याणि स्वयं वाऽऽकाशत इत्याकाशम् ॥
१ क्रियापरिणामशाक्तयुक्तं द्रव्यमभ्यन्तरनिमित्तं. प्रेरणादिकं बाह्यनिमित्तं तद्वशादित्यर्थः ॥
१ गत्यादिपरिणतस्य बलाधानं कुर्वन्ति, न तु खयं प्रेरयन्तीति भावः ॥
Page #187
--------------------------------------------------------------------------
________________
पंचमोऽध्यायः
१५७
तिहेतुः क्रिया, तस्याः निष्क्रान्तानि निष्क्रियाणि ॥ अत्र चोद्यतेधर्मादीनि द्रव्याणि यदि निष्क्रियाणि ततस्तेषामुत्पादो न भवेत् । क्रियापूर्वको हि घटादीनामुत्पादो दृष्टः । उत्पादाभावाच्च व्ययाभाव इति । अतः सर्वद्रव्याणामुत्पादादित्रय कल्पनाव्याघात इति ॥ तन्न ॥ किं कारणम् १ | अन्यथोपपत्तेः ॥ क्रियानिमित्तोत्पादाभावेऽ 1 प्येषां धर्मादीनामन्यथोत्पादः कल्प्यते ॥ तद्यथा - द्विविध उत्पादः स्वनिमित्तः परप्रत्ययश्च ॥ स्वनिमित्तस्तावदनन्तानामगुरुलघुगुणानामागमप्रामाण्यादभ्युपगम्यमानानां षट्स्थानपतितया वृध्या हान्या च प्रवर्तमानानां स्वभावादेतेषामुत्पादो व्ययश्च ॥ परप्रत्ययोऽपि अश्वादिगतिस्थित्यवगाहनहेतुत्वात्क्षणे क्षणे तेषां भेदात्तद्धेतुत्वमपि भिन्नमिति परप्रत्ययापेक्ष उत्पादो विनाशश्च व्यवहियते ॥ ननु यदि निष्क्रियाणि धर्मादीनि जीवपुद्गलानां गत्यादिहेतुत्वं नोपपद्यते । जलादीनि हि क्रियावन्ति मत्स्यादीनां गत्यादिनिमित्तानि दृष्टानीति ॥ नैष दोषः ॥ बलाधाननिमित्तत्वाच्चक्षुर्वत् । यथारूपोपलब्धौ चक्षुर्निमित्तमपि न व्याक्षिप्तमनस्कस्यापि भवति ॥ अधिकृतानां धर्माधर्माकाशानां निष्क्रियत्वेऽभ्युपगते जीवपुद्गलानां सक्रियत्वमर्थादापन्नम् ॥ कालस्यापि सक्रियत्वमिति चेन्न । अनधिकारात् ॥ अत एवासावेतैः सह नाधिक्रियते ॥
अजीवकाया इत्यत्र कायग्रहणेन प्रदेशास्तित्वमात्रं निर्ज्ञातं नत्वियत्तावधारिता प्रदेशानामतस्तन्निर्धारणार्थमिदमुच्यते॥ असङ्खयेयाः प्रदेशा धर्माधर्मैकजीवानाम् ॥ ८ ॥
संख्यामतीता असंख्येयाः || असंख्येयस्त्रिविधः । जघ्यन्य उत्कृष्टोऽजघन्योत्कृष्टश्चेति ॥ तत्रेहाजघन्योत्कृष्टासंख्येयः परिगृह्यते || प्रदिश्यन्त इति प्रदेशाः ।। वक्ष्यमाणलक्षणः परमाणुः
Page #188
--------------------------------------------------------------------------
________________
१५८
सर्वार्थसिद्धिः स यावति क्षेत्रे व्यवतिष्ठते स प्रदेश इति व्यवहियते ॥ धर्माधर्मैकजीवास्तुल्यासंख्येयप्रदेशाः ॥ तत्र धर्माधर्मों निष्क्रियौ लोकाकाशं व्याप्य स्थितौ । जीवस्तावत्पदेशोऽपि सन् संहरणविसर्पणस्वभावत्वात्कर्मनिवर्तितं शरीरमणुमहद्वाऽधितिष्ठस्तावदवगाह्य वर्तते , यदा तु लोकपूरणं भवति मन्दरस्याधश्चित्रवज्रपटलमध्ये जीवस्याष्टौ मध्यप्रदेशा व्यवतिष्ठन्ते । इतरे प्रदेशा ऊर्ध्वमस्तिर्यक् कृत्स्नं लोकाकाशं व्यनुवते ॥
अथाकाशस्य कति प्रदशा इत्यत आह
॥ आकाशस्यानन्ताः ॥९॥ लोकेऽलोके चाकाशं वर्तते ॥ अविद्यमानोऽन्तो येषां ते अनन्ताः ॥ के ? प्रदेशाः। कस्य ? आकाशस्य ॥ पूर्ववदस्यापि प्रदेशकल्पनाऽवसेया ॥ उक्तममूर्तानां प्रदेशपरिमाणम् ॥ इदानीं मूर्तानां पुद्गलानां प्रदेशपरिमाणं निर्ज्ञातव्यमित्यत आह॥ संख्येयाऽसंख्येयाश्च पुद्गलानाम् ॥ १०॥
चशब्देनानन्ताश्चेत्यनुकृष्यन्ते । कस्यचित्पुद्गलद्रव्यस्य व्यणु. कादेः संख्येयाः प्रदेशाः कस्यचिदसंख्येया अनन्ताश्च ॥ अनन्तानन्तोपसंख्यानमिति चेन्न । अनन्तसामान्यात् ॥ अनन्तप्रमाणं त्रिविधमुक्तं परीतानन्तं युक्तानन्तमनन्तानन्तं चेति । तत्सर्वमनन्तसामान्येन गृह्यते ॥ स्यादेतदसंख्यातप्रदेशो लोकः अनन्तप्रदेशस्यानन्तानन्तप्रदेशस्य च स्कन्धस्याधिकरणमिति विरोधस्ततो नानन्त्यमिति ॥ नैष दोषः । सूक्ष्मपरिणामावगाहनशक्तियोगात्परमाण्वादयो हि सूक्ष्मभावेन परिणता एकैकस्मिन्नप्याकाशप्रदेशेऽ नन्तानन्ता अवतिष्ठन्ते , अवगाहनशक्तिश्चैषामन्याहताऽस्ति , तस्मादेकस्मिन्नपि प्रदेशे अनन्तानन्तानामवस्थानं न विरुध्द्यते ॥
Page #189
--------------------------------------------------------------------------
________________
पंचमोऽध्यायः
१५९ पुद्गलानामित्यविशेषवचनात्परमाणोरपि प्रदेशत्वप्रसङ्गे तत्प्र. तिषेधार्थमाह
॥ नाणोः ॥ ११ ॥ अणोः प्रदेशा न सन्तीति वाक्यशेषः ॥ कुतो न सन्तीति चेत् प्रदेशमात्रत्वात् । यथा आकाशप्रदेशस्यैकस्य प्रदेशभेदाभावादप्रदेशत्वमेवमणोरपि प्रदेशमात्रत्वात्प्रदेशभेदाभावः ॥ किं च ततोऽ ल्पपरिमाणाभावान्न ह्यणोरल्पीयानन्योऽस्ति । यतोऽस्य प्रदेशा भिधेरन् ॥ ' एषामवधृतप्रदेशानां धर्मादीनामाधारप्रतिपत्यर्थमिदमुच्यते--
॥ लोकाकाशेऽवगाहः ॥ १२ ॥ उक्तानां धर्मादीनां द्रव्याणां लोकाकाशेऽवगाहो न बहिरित्यर्थः ॥ यदि धर्मादीनां लोकाकाशमाधारः। आकाशस्य क आधार इति ? || आकाशस्य नास्त्यन्य आधारः । स्वप्रतिष्ठमाकाशम् ॥ यद्याकाशं स्वप्रतिष्ठं , धर्मादीन्यपि स्वप्रतिष्ठान्येव । अथ . धर्मादीनामन्य आधारः कल्प्यते , आकाशस्याप्यन्य आधारः कल्प्यः । तथा सत्यनवस्थाप्रसङ्ग इति चेन्नैष दोषः ॥ नाकाशादन्यदधिकपरिमाणं द्रव्यमस्ति । यत्राकाशं स्थितमित्युच्यते । सर्वतोऽनन्तं हि तत् । ततो धर्मादीनां पुनरधिकरणमाकाशमि. त्युच्यते व्यवहारनयवशात् । एवम्भूतनयापेक्षया तु सर्वाणि द्रव्याणि स्वप्रतिष्ठान्येव ॥ तथा चोक्तं , क भवानास्ते? आत्मनीति ॥ धर्मादीनि लोकाकाशान्न बहिः सन्तीति एतावत् अत्राधाराधेयकल्पनासाध्यं फलम् ॥ ननु च लोके पूर्वोत्तरकालभाविनामाधाराधेयभावो दृष्टः यथा कुण्डे बदरादीनां । न तथाऽऽकाशं पूर्वम् ।
Page #190
--------------------------------------------------------------------------
________________
१६०
सर्वार्थसिद्धिः धर्मादीन्युत्तरकालभावी नि । अतो व्यवहारनयापेक्षयाऽपि आधाराधेयकल्पनानुपपत्तिरिति ॥ नैष दोषः ॥ युगपद्धाविनामपि आधाराधेयभावो दृश्यते । घटे रूपादयः शरीरे हस्तादय इति ॥ लोक इत्युच्यते । को लोकः ? । धर्माधर्मादीनि द्रव्याणि यत्र लोक्यन्ते स लोक इति । अधिकरणसाधने घञ् ॥ आकाशं द्विधा विभक्तं । लोकाकाशमलोकाकाशं चेति ॥ लोक उक्तः । स यत्र तल्लोकाकाशम् । ततो बहिः सर्वतोऽनन्तमलोकाकाशम् ॥ लोकालोकविभागश्च धर्माधर्मास्तिकायसद्भावाद्विज्ञेयः ॥ असति हि तस्मिन्धर्मास्तिकाये जीवपुद्गलानां गतिनियमहेत्वभावाद्विभागो न स्यात् । असति चाधर्मास्तिकाये स्थितेराश्रयनिमित्ताभावात् स्थितेरभावः । तस्या अभावे लोकालोकविभागाभावो वा स्यात् । तस्मादुभयसद्भावाल्लोकालोकविभागसिद्धिः ॥ तत्रावध्रियमाणानामवस्थानभेदसम्भवाद्विशेषप्रतिपत्त्यर्थमाह--
॥ धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ कृत्सवचनमशेषव्याप्तिप्रदर्शनार्थम् । अगारेऽवस्थितो घट इति यथा , तथा धर्माधर्मयोलॊकाकाशेऽवगाहो न भवति ? किं तर्हि । कृत्ले , तिलेषु तैलवदिति ॥ अन्योन्यप्रदेशप्रवेशव्याघाताभावः अवगाहनशक्तियोगाद्वेदितव्यः ।।
अतो विपरीतानां मूर्तिमतामेकप्रदेशसंख्येयासंख्येयानन्तप्रदेशानां पुद्गलानामवगाहविशेषप्रतिपत्त्यर्थमाह॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥
एक एव प्रदेशः एकप्रदेशः । एकप्रदेश आदिर्येषां त इमे एकप्रदेशादयः । तेषु पुद्गलानामवगाहो भाज्यो विकल्प्यः ॥ अवयवेन विग्रहसमुदायः समासार्थ इति एकप्रदेशोऽपि गृह्यते ॥
Page #191
--------------------------------------------------------------------------
________________
पंचमोऽध्यायः तद्यथा-एकस्मिन्नाकाशप्रदेशे परमाणोरवगाहः । द्वयोरेकत्रोभयत्र च बद्धयोरबद्धयोश्च । त्रयाणामेकत्र द्वयोस्त्रिषु च बद्धानामबद्धानां च ॥ एवं संख्येयासंख्येयानन्तप्रदेशानां स्कन्धानामेकसंख्येयासंख्येयप्रदेशेषु लोकाकाशेऽवस्थानं प्रत्येतव्यम् ॥ ननु युक्तं तावदमूर्तयोधर्माधर्मयोरेकत्राविरोधेनावरोध इति । मूर्तिमतां पुद्गलानां कथमित्यत्रोच्यते- अवगाहनस्वभावत्वात्सूक्ष्मपरिणामाच्च मूर्तिमतामप्यवगाहो न विरुध्द्यते । एकापवरके अनेकदीपप्रकाशावस्थानवत् ।।
आगमप्रामाण्याच तथाऽध्यवसेयम् ॥ तदुक्तम्- ओगाढगाढणिचिओ पुग्गळकाएहि सव्वदो ळोगो । सुहुमेहि बादरेहि अणंताणंतेहि विविहेहिं ॥ १ ॥ .... अथ जीवानां कथमवगाहनमित्यत्रोच्यते-- . - ॥ असंख्येयभागादिषु जीवानाम् ॥ १५ ॥
लोकाकाशे इत्यनुवर्तते । तस्यासंख्येयभागीकृतस्यैको भागोड संख्येयभाग इत्युच्यते । स आदिर्येषां ते संख्येयभागादयः । तेषु जीवानामवगाहो वेदितव्यः ॥ तद्यथा--- एकस्मिन्नसंख्येयभागे एको जीवोऽवतिष्ठते । एवं द्वित्रिचतुरादिष्वपि असंख्येयभागेषु आ सर्वलोकादवगाहः प्रत्येतव्यः ॥ नानाजीवानां तु सर्वलोक एव ॥ यद्येकस्मिन्नसंख्येयभागे एको जीवोऽवतिष्ठते, कथं द्रव्यप्रमाणेनानन्तानन्तो जीवराशिः सशरीरोऽवतिष्ठते ? । लोकाकाशे सूक्ष्मबादरभेदादवस्थानं प्रत्येतव्यम् । बादरास्तावत्सप्रतिघातशरीराः। सूक्ष्मास्तु सशरीरा अपि सूक्ष्मभावादेवैकनिगोदजीवावगाहेऽपि प्रदेशे साधारणशरीरा अनन्तानन्ता वसन्ति ॥ न ते परस्परेण बादरैश्च व्याहन्यन्त इति नास्त्यवमाहविरोधः ॥ · अत्राह लोकाकाशतुल्यप्रदेशे एकजीव इत्युक्तं, तस्य
Page #192
--------------------------------------------------------------------------
________________
१६२
सर्वार्थसिद्धिः कथं लोकस्यासंख्येयभागादिषु वृत्तिः। ननु सर्वलोकव्यायैव भवितव्यामित्यत्रोच्यते
॥ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ . अमूर्तस्वभावस्यात्मनोऽनादिबन्धप्रत्येकत्वात् कथञ्चिन्मूर्ततां बिभ्रतः कार्मणशरीरवशान्महदणु च शरीरमधितिष्ठतस्तद्वशात्प्रदेशसंहरणविसर्पणस्वभावस्य तावत्प्रमाणतायां सत्यां असंख्येयभागादिषु वृत्तिरुपपद्यते, प्रदीपवत् ॥ यथा निरावरणव्योमप्रदेशेऽनवधृतप्रकाशपरिमाणस्य प्रदीपस्य शरावमानिकापवरकाद्यावरणवशातत्परिमाणतेति ॥ अत्राह धर्मादीनामन्योन्यप्रदेशानुप्रवेशात्सङ्करे सति, एकत्वं प्राप्नोतीति ॥ तन्न । परस्परमत्यन्तसँश्लेषे सत्यपि स्वभावं न जहति ॥ उक्तं- अण्णोणं पविसंता दिता ओगासमण्णमण्णस्स || मेलंता विय णिचं सग सम्भावं ण जहंति॥१॥ : यद्येवं धर्मादीनां स्वभावभेद उच्यतामित्यत आह
॥ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥१७॥ . देशान्तरप्राप्तिहेतुर्गतिः । तद्विपरीता स्थितिः। उपगृह्यत इत्युपग्रहः । गतिश्च स्थितिश्च गतिस्थिती। गतिस्थिती एव उपग्रहौ गतिस्थित्युपग्रहौ ॥ धर्माधर्मयोरिति कर्तृनिर्देशः ॥ उपक्रियत इत्युपकारः । कः पुनरसौ ? गत्युपग्रहः स्थित्युपग्रहश्च ॥ यद्येवं द्वित्वनिर्देशः प्राप्नोति ? । नैष दोषः । सामा. न्येन व्युत्पादित उपात्तसंख्यः शब्दान्तरसम्बन्धे सत्यपि न पूर्वोपात्तां संख्यां जहाति ॥ यथा- साधोः कार्य तपःश्रुते इति ॥ एतदुक्तं भवति- गतिपरिणामिनां जीवपुद्गलानां गत्युपग्रहे कर्तव्ये धर्मास्तिकायः साधारणाश्रयो जलवन्मत्स्यगमने ॥ तथा स्थितिपरिणामिनां जीवपुद्गलानां स्थित्युपग्रहे कर्तव्ये अधर्मा
Page #193
--------------------------------------------------------------------------
________________
पंचमोऽध्यायः
१६३
स्तिकायः साधारणाश्रयः पृथिवीधातुरिवाश्वादिस्थिताविति ॥ ननु च उपग्रहवचनमनर्थकमुपकार इत्येवं सिद्धत्वात् । गतिस्थिती धर्माधर्मयो रुपकार इति ॥ नैष दोषः याथासंख्यनिवृत्त्यर्थमुपमहवचनम् । धर्माधर्मयोर्गतिस्थित्योश्च यथासंख्यं भवति, एवं जीवपुद्गलानां यथासंख्यं प्राप्नोति धर्मस्योपकारो जीवानां गतिः अधर्मस्योपकारः पुद्गलानां स्थितिरिति । तन्निवृत्त्यर्थमुपग्रह वचनं क्रियते || आह धर्माधर्मयोर्य उपकारः स आकाशस्य युक्तः सर्वगतत्वादिति चेत् — तदयुक्तं, तस्यान्योपकारसद्भावात् सर्वेषां धर्मादीनां द्रव्याणामवगाहनं तत्प्रयोजनम् । एकस्यानेकप्रयोजनकल्पनायां लोकालोकविभागाभावः । भूमिजलादीन्येव तत्योजनसमर्थानि नार्थे धर्माधर्माभ्यामिति चेन्न साधारणाश्रय इति विशिष्योक्तत्वात् । अनेककारणसाध्यत्वाच्चैकस्य कार्यस्य ॥ तुल्यबलवत्त्वात्तयोर्गतिस्थितिप्रतिबन्ध इति चेन्न - अप्रेरकत्वात् ॥ अनुपलब्धेर्न तौ स्तः स्वरविषाणवदिति चेन्न सर्वप्रवाद्य- विप्रतिपत्तेः । सर्वे हि प्रवादिनः प्रत्यक्षाप्रत्यक्षानर्थानभिवाञ्छन्ति || अस्मान्प्रतिहेतोरसिद्धेश्च । सर्वज्ञेन निरतिशयप्रत्यक्षज्ञानचक्षुषा धर्मादयः सर्वे उपलभ्यन्ते । तदुपदेशाच्च श्रुतज्ञानिभिरपि ॥
अत्राह यद्यतीन्द्रिययोर्धर्माधर्मयो रुपकारसम्बन्धेनास्तित्वमवत्रियते, तदनन्तरमुद्दिष्टस्य नभसोडतीन्द्रियस्याधिगमे क उपकार इत्युच्यते
॥ आकाशस्यावगाहः ॥ १८ ॥
१ अश्वादिस्थितौ भूम्याधारवदित्यर्थः ॥ दधातीति धातुः आधार इत्यर्थः ॥ २ ' प्रतिपक्षिकार्यकारणत्वे सति ' इति शेषः ॥
Page #194
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः
उपकार इत्यनुवर्तते ॥ जीवपुद्गलादीनामवगाहिनामवकाशदानमवगाह आकाशस्योपकारो वोदितव्यः ॥ आह जीवपुद्गलानां क्रियावतामवगाहिनामवकाशदानं युक्तम् । धर्मास्तिकायादयः पुनर्निष्क्रिया नित्यसम्बन्धास्तेषां कथमवगाह इति चेन्न - उपचारतस्तत्सिद्धेः । यथा गमनाभावेऽपि सर्वगतमाकाश मित्युच्यते सर्वत्र सद्भावात् एवं धर्माधर्मावपि • अवगाहक्रियाभावेऽपि सर्वत्र व्याप्तिदर्शनादवगा हिनावित्युपचर्येते ॥ · आह यद्यवकाशदानमस्य स्वभावः वज्रादिभिर्लोष्टादीनां भित्यादिभिर्गवादीनां च व्याघातो न प्राप्नोति । दृश्यते च व्याघातः । तस्मादस्यावकाशदानं हीयते इति ।। नैष दोषः । • बज्रलोष्टादीनां स्थूलानां परस्परव्याघात इति नास्यावकाशदान• सामर्थ्यं हीयते । तत्रावगाहिनामेव व्याघातात् । वज्रादयः पुनः स्थूलत्वात्परस्परं प्रत्यवकाशदानं न कुर्वन्तीति नासावा - काशदोषः । ये खलु पुद्गलाः सूक्ष्मास्ते परस्परं प्रत्यवकाशदानं कुर्वन्ति ॥ यद्येवं नेदमाकाशस्यासाधारणं. लक्षणमितरेषामपि तत्सद्भावादिति ॥ तन्न । सर्वपदार्थानां साधारणावगा - हनहेतुत्वमस्या साधारणं लक्षणमिति नास्तिं दोषः ॥ अलोकाकाशे तदभावादभाव इति चेन्न - स्वभावापरित्यागात् ॥ :
१६४
उक्त आकाशस्योपकारः । अथ तदनन्तरोद्दिष्टानां पुद्गलानां क उपकार इत्यत्रोच्यते—
॥ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥ इदमयुक्तं वर्तते । किमत्रायुक्तम् ? पुद्गलानां क उपकार
१ तय अवगाहृदानस्य इत्यर्थः । अवकाशदानाभावश्च अवगाह्यद्रव्या
भावात ॥
Page #195
--------------------------------------------------------------------------
________________
१६५
पंचमोऽध्यायः इति परिप्रश्ने पुद्गलानां लक्षणमुच्यते भवता शरीरादीनि पुद्गलमयानीति ॥ नैतदयुक्तम् । पुद्गलानां लक्षणमुत्तरत्र " स्पर्शरसगन्धवर्णवन्तः पुद्गला इत्यत्र" वक्ष्यते । इदं तु जीवान् प्रति पुद्गलानामुपकारप्रतिपादनार्थमेवेति उपकारप्रकरणे उच्यते ॥ शरीराण्युतानि औदारिकादीनि , सौम्यादप्रत्यक्षाणि , तदुदयापादित (तदुभयोपपादित ?) वृत्तीन्युपचयशरीराणि कानिचित्प्रत्यक्षाणि कानिचिदप्रत्यक्षाणि ॥ एतेषां कारणभूतानि कर्माण्यपि शरीरमहणेन गृह्यन्ते ॥ एतानि पौगलिकानीति कृत्वा जीवानामुपकारे पुद्गलाः प्रवर्तन्ते ॥ स्यान्मतं. कार्मणमपौद्गलिकमनाकारत्वादाकाशवत् । आकारवता हि औदारिकादीनां पौगलिकत्वं युक्तमिति ।। तन्न । तदपि पौद्गलिकमेव, तद्विपाकस्य मूर्तिमत्सम्बन्धनिमि.. तत्त्वात् ॥ दृश्यते हि ब्रीह्यादीनामुदकादिद्रव्यसम्बन्धप्रापितपरिपा
कानां पौगलिकत्वम् । तथा कार्मणमपि गुडकण्टकादिमूर्तिम. व्योपनिपाते सति विपच्यमानत्वात्पौद्गलिकमित्यवसेयम् ॥ वाक
द्विविधा । द्रव्यवाक् भाववागिति ॥ तत्र भाववाक् तावतीर्यान्तरायम· तिश्रुतज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभनिमित्तत्वात् पौद्गलिकी । तदभावे तद्वत्त्यभावात् ॥ तत्सामोपेतेन क्रियावताऽऽत्मना प्रेर्यमाणाः पुद्गला वाक्त्वेन विपरिणमन्त इति द्रव्यवागपि पौगलिकी। श्रीनेन्द्रियविषयत्वात् । इतरेन्द्रियविषया कस्मान्न भवति ? तद्व- हणायोग्यत्वात् । घ्राणग्राह्ये गन्धद्रव्ये रसायनुपलब्धिवत् ॥ अमूर्ता वागिति चेन्न- मूर्तिमद्हणावरोधव्याघाताभिभवादिदर्शनान्मूर्तिम
. . . . १ ताल्वोष्टपुटव्यापारा। २ मूर्तिमता इन्द्रियेण ग्रहणम् । मूर्तिमता
कुड्यादिनावरणम् ! मूर्तिमता प्रतिकूलवाय्यादिना व्याघातः। ३ बलीयसा .. वन्यन्तरेणाभिभः ॥
Page #196
--------------------------------------------------------------------------
________________
१६६
सर्वार्थसिद्धिः त्वसिद्धेः ॥ मनो द्विविधं द्रव्यमनो भावमनश्चेति ॥ - भावमनस्तावल्लब्ध्युपयोगलक्षणं पुद्गलावलम्बनत्वात् पौद्गलिकम् ॥ द्रव्यमनश्च , ज्ञानावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामलाभप्रत्यया गुण. दोषविचारस्मरणादिप्रणिधानाभिमुखस्यात्मनोऽनुग्राहकाः पुद्गला मनस्त्वेन परिणता इति पौद्गलिकम् ॥ कश्चिदाह मनो द्रव्यान्तरं रूपादिपरिणामरहितमणुमात्रं तस्य पौगलिकत्वमयुक्तमिति ॥ तदयुक्तम् ॥ कथम्? उच्यते- तदिन्द्रियेणात्मना च सम्बद्धं वा स्यादसम्बद्धं वा । यद्यसम्बद्धं, तन्नात्मन उपकारकं भवितुम. हति । इन्द्रियस्य च साचिव्यं न करोति ॥ अथ सम्बद्धं, एकस्मिन्प्रदेशे सम्बद्धं सत्तदणु इतरेषु प्रदेशेषु उपकारं न कुर्यात् ॥ अष्टवशादस्य अलातचक्रवत्परिभ्रमणमिति चेनतत्सामर्थ्याभावात् । अमूर्तस्यात्मनो निष्क्रियस्यादृष्टो गुणः, स निष्क्रियः सन्नन्यत्र क्रियारम्भे न समर्थः । दृष्टो हि वायुद्रव्यविशेषः क्रियावान्स्पर्शवान्प्राप्तवनस्पती परिस्पन्दहेतुस्तद्विपरीतलक्षणश्चायमिति क्रियाहेतुत्वाभावः ॥ वीर्यान्तरायज्ञानावरणक्षयोपश माङ्गोपाङ्गनामोदयापेक्षिणाऽऽत्मना उदस्यमानः कोष्ठयो वायुरुच्छ्वासलक्षणः प्राण इत्युच्यते ॥ तेनैवात्मना बाह्यो वायुरभ्यन्तरीक्रियमाणो निःश्वासलक्षणोऽपान इत्याख्यायते ॥ एवं तावप्यात्मानुग्राहिणौ जीवितहेतुत्वात् ॥ तेषां मनःप्राणापानानां मूर्तिमत्त्वमवसेयम् । कुतः ? मूर्तिमद्भिः प्रतिघातादिदर्शनात् ॥ प्रतिभयहेतुभिरशनिपातादिभिमनसः प्रतिघातो दृश्यते । सुरादिभिश्चाभिभवः ॥ हस्ततलपुटादिभिरास्यसंवरणात्प्राणापानयोः प्रतिघात उपलभ्यते । श्लेष्मणा चाभिभवः ॥ न चामूर्तस्य मूर्तिमद्भिरभिघातादयः स्युः ॥ अत एवा. त्मास्तित्वसिद्धिः । यथा यन्त्रप्रतिमाचेष्टितं प्रयोक्तुरस्तित्वं गमयति , तथा प्राणापानादिकर्मापि क्रियावन्तमात्मानं साधयति ॥
Page #197
--------------------------------------------------------------------------
________________
पंचमोऽध्यायः
१६७
किमेतावानेव पुद्गलकृत उपकार आहोस्विदन्योऽप्यस्ती -
त्यत आह
॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥ सदसद्वेद्येऽन्तरङ्गतौ सति बाह्यद्रव्यादिपरिपाकनिमित्तवशादुत्पद्यमानः प्रीतिपरितापरूपः परिणामः सुखदुःखमित्याख्यायते । भवधारणकारणायुराख्यकर्मोदयाद्भवस्थितिमादधानस्य जीवस्य पूर्वोक्तप्राणापान क्रियाविशेषान्युच्छेदो जीवितमित्युच्यते । तदुच्छेदो मरणम् । एतानि सुखादीनि जीवस्य पुद्गलकृत उपकारः ॥ कुतः ? मूर्तिमद्धेतुसन्निधाने सति तदुत्पत्तेः ॥ उपकाराधिकारादुपग्रहवचनमनर्थकम् । नानर्थकम् । स्वोपग्रह प्रदर्शनार्थमिदम् । पुनलानां पुद्गलकृत उपकार इति ॥ तद्यथा - कांस्यादीनां भस्मादिभिलादीनां कतकादिभिरयः प्रभृतीनामुदकोदिभिरुपकारः क्रियते ॥ चशब्दः किमर्थः । समुच्चयार्थः । अन्योऽपि पुद्गलकृत उपकारोऽस्तीति समुच्चीयते । यथा शरीराणि एवं चक्षुरादीनीन्द्रियायपीति ॥
D
एवमाद्यमजीवकृतमुपकारं प्रदर्श्य जीवकृतोपकारप्रदर्शनार्थमाह॥ परस्परोपग्रहो जीवानाम् ॥ २१ ॥
1
परस्परशब्दः कर्मव्यतिहारे वर्तते । कर्मव्यतिहारश्च क्रियाव्यतिहारः । परस्परस्योपग्रहः परस्परोपग्रहः । जीवानामुपकारः ॥
१ अन्वर्थकानि वचनानि किञ्चिदिष्टं ज्ञापयन्त्याचार्यस्येति न्यायोऽत्रावगन्तव्यः। अन्यत्रापि यथासम्भवमयं योजनीयः ॥ २ खड्गधारा श्रितं तोयं भिनत्ति गजमस्तकम् ॥ ३ यथा शरीराणि पुद्गलकृत उपकारस्तथेन्द्रियाण्यपि तत्कृतोऽन्य उपकार इत्यर्थः ॥
Page #198
--------------------------------------------------------------------------
________________
१६८ सर्वार्थसिद्धिः कः पुनरसौ ? । स्वामी भृत्यः , आचार्यः शिष्यः, इत्येवमादिभावेन वृत्तिः परस्परोपग्रहः ।। स्वामी तावद्वित्तत्यागादिना भृत्यानामुपकारे वर्तते । भृत्याश्च हितप्रतिपादनेनाहितप्रतिषेधेन च ॥ आचार्य - उभयलोकफलप्रदोपदेशदर्शनेन तदुपदेशविहितक्रियानुष्ठाप्रनेन च शिष्याणामनुग्रहे वर्तते । शिप्या अपि तदानुकूल्यवृत्या आचार्याणामुपकाराधिकारे ।। पुनरुपग्रहवचनं किमर्थम् ? पूर्वोक्तसुखादिचतुष्टयप्रदर्शनार्थं पुनरुपग्रहवचनं क्रियते ॥ सुखादीन्यपि जीवानां जीवकृत उपकार इति ॥ . . . . . .... आह यद्यवश्यं सतोपकारिणा भवितव्यं; संश्च कालोऽभि. मतस्तस्य क उपकार इत्यत्रोच्यते॥ वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ॥२२ . वृतेर्णिजन्तात्कर्मणि भावे वा युट् स्त्रीलिङ्गे वर्तनेति भवति । वय॑ते वर्तते वर्तनमात्रं वा वर्तना इति ॥ धर्मादीनां द्रव्याणां स्वपर्यायनिवृति प्रति स्वात्मनैव वर्तमानानां बाह्योपग्रहाद्विना तद्व. त्यभावात्तत्प्रवर्तनोपलक्षितः काल इति कृत्वा वर्तना कालस्योपकारः ॥ को णिजर्थः ? । वर्तते द्रव्यपर्यायस्तस्य वर्तयिता कालः ॥ यद्येवं कालस्य क्रियावत्वं प्रामोति । यथा शिष्योऽधीते , उपाध्यायोऽध्यापयतीति ॥ नैष दोषः । निमित्तमात्रेऽपि हेतुकर्तृव्यपदेशो दृष्टः । यथा कारीषोऽग्निरध्यापयति । एवं कालस्य हेतुकर्तृता ॥ स कथं काल इत्यवसीयते ! समयादीनां क्रियाविशेषाणां समयादिभिर्निर्वय॑मानानां च पाकादीनां समयः पाक इत्येवमादिष्वसज्ञारूढिसद्भावेऽपि समयः कालः, ओदनपाककालः इति अध्यारोप्यमाणः कालव्यपदेशः तव्यपदेशनिमित्तस्य मुख्यस्य काल
१ सङ्घटनेन । २ सर्वोक्तागमः ।
Page #199
--------------------------------------------------------------------------
________________
पंचमोऽध्यायः
स्यास्तित्वं गमयति । कुतः ? गौणस्य मुख्यापेक्षत्वात् ॥ द्रव्यस्य पर्यायो धर्मान्तरनिवृत्तिधर्मान्तरोपजननरूपः; अपरिस्पन्दात्मकः परि. णामो , जीवस्य क्रोधादिः । पुद्गलस्य वर्णादिः । धर्माधर्माकाशानामगुरुलघुगुणवृद्धिहानिकृतः ॥ क्रिया परिस्पन्दात्मिका । सा द्विविधा । प्रायोगिकवैस्रसिकभेदात् । तत्र प्रायोगिकी शकटादीनां , वैससिकी मेघादीनाम् ॥ परत्वापरत्वे क्षेत्रकृते कालकृते स्तः । ते अत्र कालोपकरणात्काल कृते गृह्यते ॥ त एते वर्तनादय उपकाराः कालस्यास्तित्वं गमयान्ति ॥ ननु वर्तनाग्रहणमेवास्तु , तद्भेदाः परिणामादयस्तेषां पृथग्ग्रहणमनर्थकम् । नानर्थकम् । कालद्वयसूचनार्थत्वात्प्रपञ्चस्य ॥ कालो हि द्विविधः परमार्थकालो व्यवहारकालश्च । परमार्थकालो वर्तनालक्षणः । परिणामादिलक्षणो व्यवहारकालः ॥ अन्येन परिच्छिन्नः अन्यस्य परिच्छेदहेतुः क्रियाविशेषः काल इति व्यवहियते । स त्रिधा व्यवतिष्ठते भूतो वर्तमानो भविष्यन्निति ॥ तत्र परमार्थकाले कालव्यपदेशो मुख्यः। भूतादिव्यपदेशो गौणः ॥ व्यवहारकाले भूतादिव्यपदेशो मुख्यः । कालव्यपदेशो गौणः । क्रियावद्रव्यापेक्षत्वात्कालकृतत्वाच्च ॥
अत्राह धर्माधर्माकाशपुद्गलजीवकालानामुपकारा उक्ताः । लक्षणं चोक्तम् “ उपयोगो लक्षणमित्येवमादि " पुद्गलानां तु सामान्यलक्षणमुक्तं " अजीवकाया इति " विशेषलक्षणं नोक्तम् । तत्किमित्यत्रोच्यते--
॥ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः॥ २३ ॥
स्पृश्यते स्पर्शनमात्रं वा स्पर्शः । सोऽष्टविधः । मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षभेदात् ॥ रस्यते रसनमात्रं वा रसः । स
Page #200
--------------------------------------------------------------------------
________________
१७. सर्वार्थसिद्धिः पञ्चविधः । तिक्ताम्लकटुमधुरकषायभेदात् ॥ गन्ध्यते गन्धनमात्रं वा गन्धः । स द्वेधा । सुरभिरसुरभिरिति ॥ वर्ण्यते वर्णनमात्रं वा वर्णः । स पञ्चविधः । कृष्णनीलपीतशुक्ललोहितभेदात् ॥ त एते मूलभेदाः प्रत्येकं संख्येयासंख्येयानन्तभेदाश्च भवन्ति ॥ स्पर्शश्च रसम्ध गन्धश्च वर्णश्च स्पर्शरसगन्धवर्णास्त एतेषां सन्तीति स्पर्शरसगन्धवर्णवन्त इति । नित्ययोगे वन्निर्देशः ॥ यथा क्षीरिणो न्ययोधा इति ॥ ननु च रूपिणः पुद्गला इत्यत्र पुद्गलानां रूपकत्वमुक्तं तदविनाभाविनश्च रसादयस्तत्रैव परिगृहीता इति व्याख्यातं तस्मात्तेनैव पुद्गलानां रूपादिमत्त्वसिद्धेः सूत्रमिदमनर्थकमिति ॥ नैष दोषः । नित्यावस्थितान्यरूपाणीत्यत्र धर्मादीनां नित्यत्वादिनिरूपणेन पुद्गलानामरूपत्वप्रसङ्गे तदपाकरणार्थं तदुक्तम् ॥ इदं तु तेषां स्वरूपविशेषप्रतिपत्त्यर्थमुच्यते ॥ : . ५.. , : अवशिष्टपुद्गलविकारप्रतिपत्त्यर्थमिदमुच्यते-- ... ॥ शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतम
श्छायाऽऽतपोद्योतवन्तश्च ॥ २४ ॥
शब्दो द्विविधो भाषालक्षणो विपरीतश्चेति ॥ भाषालक्षणो द्विविधः । साक्षरोऽनक्षरश्चेति ॥ अक्षरीकृतः शास्त्राभिव्यञ्जकः संस्कृतविपरीतभेदादार्यम्लेच्छव्यवहारहेतुः ॥ अनक्षरात्मको द्वीन्द्रियादीनामतिशयज्ञानस्वरूपप्रतिपादनहेतुः स एषः सर्वप्रायोगिकः । अभाषात्मको द्विविधः । प्रायोगिको वैस्रसिकश्चेति ॥ वैस्रसिको बलाहकादिप्रभवः । प्रायोगिकश्चतुर्धा , ततविततधनसौषिरभेदात् ॥ तत्र चर्मतनननिमित्तः पुष्करभेरीदर्दुरादिप्रभवस्ततः । तन्त्रीकृत. वीणासुघोषादिसमुद्भवो विततः । तालघण्टालालनाद्यभिघातजो घनः । १ अत्र · सर्वः प्रायोगिकः ' इति पाठः साधुरिति प्रतिभाति २ वीणाभदः।
Page #201
--------------------------------------------------------------------------
________________
१७१
पंचमोऽध्यायः वंशशंखादिनिमित्तः सौषिरः ॥. बन्धो द्विविधो वैस्रसिकः प्रायोगिकश्च ॥ पुरुषप्रयोगानपेक्षो वैस्रसिकः । तद्यथा- स्निग्धरूक्षत्वगुणनिमित्तो विद्युदुल्काजलधारामीन्द्रधनुरादिविषयः ॥ पुरुषप्रयोग. निमित्तः प्रायोगिकः, अजीवविषयो जीवाजीवविषयश्चेति द्विधा भिन्नः । तत्राजीवविषयो जतुकाष्ठादिलक्षणः। जीवाजीवविषयः कर्मनोकर्मबन्धः ॥ सौक्ष्म्यं द्विविधं , अन्त्यमापेक्षिकं च ॥ तत्रान्त्यं परमाणूनाम् । आपेक्षिकं बिल्वामलकबदरादीनाम् ॥ स्थौल्यमपि द्विविधं , अन्त्यमापेक्षिकं चेति ॥ तत्रान्त्यं जगद्व्यापिनि महास्कन्धे । आपेक्षिकं बदरामलकबिल्वतालादिषु ॥ संस्थानमाकृतिः । तविविधं , इत्थंलक्षणमनित्थंलक्षणं चेति ॥ वृत्तव्यस्रचतुरस्रायतपरिमण्डलादीनामित्थंलक्षणम् । ततोऽन्य मेघादीनां संस्थानमनेकविधमित्थमिदमिति निरूपणाभावादनित्थंलक्षणम् ॥ भेदाः षोढा, उत्कर चूर्णखण्डचूर्णिकाप्रतराणुचटनविकल्पात् ॥ तत्रोत्करः काष्ठादीनां करपत्रादिभिरुत्करणम् । चूों यवगोधूमादीनां सक्तुकणिकादिः । खण्डो घटादीनां कपालशर्करादिः । चूर्णिका माषमु. गादीनाम् । प्रतरोऽभ्रपटलादीनाम् । अणुचटनं सन्तप्तायःपिण्डादिषु अयोधनादिभिरभिहन्यमानेषु स्फुलिङ्गनिर्गमः ॥ तमो दृष्टिप्रतिबन्धकारणं प्रकाशविरोधि ॥ छाया प्रकाशावरणनिमित्ता । सा द्वेधा , वर्णादिविकारपरिणता प्रतिबिम्बमातात्मिका चेति ॥ आतपः आदित्यादिनिमित्तः उष्णप्रकाशलक्षणः ॥ उद्योतश्चन्द्रमणिखद्योतादिप्रभवः प्रकाशः ।। त एते शब्दादयः पुद्गलद्रव्यविकारास्त एषां सन्तीति शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपो. द्योतवन्तः पुद्गला इत्यभिसम्बध्यते ॥ चशब्देन नोदनाभिघातादयः पुद्गलपरिणामा आगमे प्रसिद्धाः समुच्चीयन्ते ॥
दर्पणादिसंस्थानम् ।। २ गोलकसंस्थानम् । ३ कवादिभिः । ..
Page #202
--------------------------------------------------------------------------
________________
१७२
सर्वार्थसिद्धिः उक्तानां पुद्गलानां भेदप्रदर्शनार्थमाह
॥ अणवः स्कन्धाश्च ॥ २५ ॥ प्रदेशमात्रभाविस्पर्शादिपर्यायप्रसवसामर्थ्यनाण्यन्ते शब्यन्त इत्यणवः ॥ सौक्ष्म्यादात्मादय आत्ममध्या आत्मान्ताश्च ॥ उक्तं च- अत्तादिअत्तमज्झं अत्तत्तं णेव इंदिये गेज्झम् । जद्दव्वं अविभागी तं परमाणुं विआणेहि ॥ १ ॥ स्थूलभावेन ग्रहणनिक्षेपणा. दिव्यापारस्कन्धनात्स्कन्धा इति सज्ञायन्ते ॥ रूढौ क्रिया कचिसती उपलक्षणत्वेनाश्रीयते इति ग्रहणादिव्यापारायोग्येष्वपि द्यणुकादिषु स्कन्धाख्या प्रवर्तते ॥ अनन्तभेदा अपि पुद्गला अणुजात्या स्कन्धजात्या च द्वैविध्यमापद्यमानाः सर्वे गृह्यन्त इति तज्जात्याधारानन्तभेदसंसूचनार्थ बहुवचनं क्रियते ॥ अणवः स्कन्धा इति भेदाभिधानं पूर्वोक्तसूत्रद्वयभेदसम्बन्धनार्थम् ॥ स्पर्शरसगन्धवर्णवन्तोऽणवः । स्कन्धाः पुनः शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च स्पर्शादिमन्तश्चेति ॥ ___आह किमेषां पुद्गलानामणुस्कन्धलक्षणः परिणामोऽनादिरुत आदिमानित्युच्यते । स खलुत्पत्तिमत्त्वादादिमान्प्रतिज्ञायते ॥ यद्येवं तस्मादभिधीयतां कस्मानिमित्तादुत्पद्यन्त इति ॥ तत्र स्कन्धानां तावदुत्पचिहेतुप्रतिपादनार्थमुच्यते
॥ भेदसङ्घातेभ्य उत्पद्यन्ते ॥ २६ ॥
संघातानां द्वितीयनिमित्तवशाद्विदारणं भेदः । पृथग्भूतानामेकत्वापत्तिः संघातः ॥ ननु च द्वित्वाविवचनेन भवितव्यम् ॥ बहुवचननिर्देशस्तृतीयसंग्रहार्थः । भेदात्संघातानेदसंघाताभ्यां च उत्पद्यन्त इति ॥ तद्यथा-- द्वयोः परमाण्वोः संघाताविप्रदेशः स्कन्ध उत्पद्यते । द्विप्रदेशस्याणोश्च त्रयाणां वा अणूनां संघातात्रि.
Page #203
--------------------------------------------------------------------------
________________
पंचमोऽध्यायः
१७३
प्रदेशः । द्वयोर्द्विप्रदेश योखिप्रदेशस्याणोश्वतुर्णां वा अणूनां संघाताचतुः प्रदेशः ॥ एवं संख्येयासंख्येयानन्तानामनन्तानन्तानां च संघातात्तावत्प्रदेशाः । एषामेव भेदात्तावद्वि प्रदेशपर्यन्ताः स्कन्धा उत्पद्यन्ते । एवं भेदसंघाताभ्यामेकसमयिकाभ्यां द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते । अन्यतो भेदेनान्यस्य संघातेनेति । एवं स्कन्धानामुत्पत्तिहेतुरुक्तः ॥
अणोरुत्पत्तिहेतुप्रदर्शनार्थमाह|| भेदादणुः || २७ ॥
सिद्धे विधिरारभ्यमाणो नियमार्थो भवति । अणोरुत्पत्तिभेदादेव न संघातान्नापि भेदसंघाताभ्यामिति ॥
"
आह संघातादेव स्कन्धानामात्मलाभे सिद्धे भेदग्रहणमनर्थकमिति ॥ तग्रहणप्रयोजनप्रतिपादनार्थमिदमुच्यते
॥ भेदसंघाताभ्यां चाक्षुषः ॥ २८ ॥ अनन्तानन्तपरमाणुसमुदयनिष्पाद्योऽपि कश्चिच्चाक्षुषः कश्चिदचाक्षुषः ॥ तत्र योऽचाक्षुषः स कथं चाक्षुषो भवतीति चेदुच्यते । भेदसंघाताभ्यां चाक्षुषः । न भेदादिति ॥ का तत्रोपपतिरिति चेत् ब्रूमः । सूक्ष्मपरिणामस्य स्कन्धस्य भेदें सौक्ष्म्याप रित्यागादचाक्षुषत्वमेव । सौक्ष्म्यपरिणतः पुनरपरः सत्यपि तद्भेदेऽ न्यसंघातान्तरसंयोगात्सौक्ष्म्यपरिणामोपरमे स्थौल्योत्पत्तौ चाक्षुषो
1
भवति ॥
आह धर्मादीनां द्रव्याणां विशेषलक्षणान्युक्तानि सामान्यलक्षणं नोक्तं, तद्वक्तव्यम् ॥ उच्यते
॥ सत् द्रव्यलक्षणम् ॥ २९ ॥
"
Page #204
--------------------------------------------------------------------------
________________
१७४
सर्वार्थासद्धिः यत्सत्तद्रव्यमित्यर्थः ।।... यद्येवं तदेव तावद्वक्तव्यं किं सत् ? इत्यत आह॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ३० ॥
चेतनस्याचेतनस्य वा द्रव्यस्य स्वां जातिमजहत उभयनिमित्तवशाद्भावान्तरावाप्तिरुत्पादनमुत्पादः। मृत्पिण्डस्य घटपर्यायवत् ॥ तथा पूर्वभावविगमनं व्ययः । यथा घटोत्पत्तौ पिण्डाकृतेः ॥ अनादिपारिणामिकस्वभावेन व्ययोदयाभावात् ध्रुवति स्थिरीभवतीति ध्रुवः। ध्रुवस्य भावः कर्म वा ध्रौव्यम् । यथा मृत्पिण्डघटाद्यवस्थासु मृदाद्यन्वयः ॥ तैरुत्पादव्ययधौव्यैर्युक्तं सदिति ॥ आह भेदे सति युक्तशब्दो दृष्टः । यथा दण्देन युक्तो देवदत्त इति । तथा सति तेषां त्रयाणां तैर्युक्तस्य द्रव्यस्य चाभावः प्रामोति ॥ नैष दोषः। अभेदेऽपि कथञ्चिदभेदनयापेक्षया युक्तशब्दो दृष्टः । यथा सारयुक्तः स्तम्भ इति ॥ तथा सति तेषामविनाभावात्सयपदेशो युक्तः ॥ समाधिवचनों वा युक्तशब्दः । युक्तः समाहितः तदात्मक इत्यर्थः । उत्पादव्ययध्रौव्ययुक्तं सत् उत्पादव्ययध्रौव्यात्मकमिति यावत् । एतदुक्तं भवति--- उत्पादादीनि त्रीणि द्रव्यस्य लक्षणानि। द्रव्यं लक्ष्यम् । तत्पर्यायार्थिकनयापेक्षया परस्परतो द्रव्याचार्थान्तरभावः ॥ द्रव्यार्थिकनयापेक्षया व्यतिरेकेणानुपलब्धेरनर्थान्तरभाव इति लक्ष्यलक्षणभावसिद्धिः ॥
___ आह नित्यावस्थितान्यरूपाणीत्युक्तं तत्र न ज्ञायते कि नित्यमित्यत आह.. ॥ तद्भावाव्ययं नित्यम् ॥ ३१ ॥
१ अन्तरङ्गबहिरङ्ग ॥ २ अभेदेऽपि कथाञ्चद्भदापेक्षया इसरि पाठान्तरम् ॥ ३ अभावो न प्राप्नोतीत्यर्थः ॥
Page #205
--------------------------------------------------------------------------
________________
पंचमोऽध्यायः तद्भाव इत्युच्यते । कस्तद्भावः? । प्रत्यभिज्ञानहेतुता । तदेवेदमिति स्मरणं प्रत्यभिज्ञानम् । तदकस्मान भवतीति योऽ स्य हेतुः स तद्भावः । तस्य भावस्तद्भावः ॥ येनात्मना प्राग्दृष्टं वस्तु तेनैवात्मना पुनरपि भावात्तदेवेदमिति प्रत्यभिज्ञायते ॥ यद्यत्यन्तविरोधोऽभिनवप्रादुर्भावमात्रमेव वा स्यात्ततः स्मरणानुपपत्तिः । तदधीनो लोकसंव्यवहारो विरुध्द्यते । ततस्तद्भावेनाव्ययं नित्य; मिति निश्चीयते ॥ तत्तु कथञ्चिद्वेदितव्यम् । सर्वथानित्यत्वे अन्यथाभावाभावात्संसारतन्निवृत्तिकारणप्रक्रियाविरोधैः स्यात् ॥
ननु इदमेव विरुद्ध तदेव नित्यं तदेवानित्यमिति । यदि नित्यं व्ययोदयाभावादनित्यताव्याघातः । अथानित्यत्वमेव स्थित्यभावानित्यताव्याघात इति ॥ नैतद्विरुद्धम् ॥ कुतः ? ---
॥ अर्पितानर्पितसिद्धेः ॥ ३२ ॥ - अनेकान्तात्मकस्य वस्तुनः प्रयोजनवशाद्यस्यकस्यचिद्धमस्य विवक्षया प्रापितं प्राधान्यमर्पितमुपनीतमिति यावत् । तद्विपरीतमनर्पितम् । प्रयोजनाभावात् ॥ सतोऽप्यविवक्षा भवतीत्यु: पसर्जनीभूतमनर्पितमित्युच्यते । अर्पितं चानर्पितं चार्पितानर्पिते । ताभ्यां सिद्धरर्पितानर्पितसिद्धर्नास्ति विरोधः ॥ तद्यथा- एकस्य देवदत्तस्य पिता पुत्रो भ्राता माता भागिनेय इत्येवमादयः सम्बन्धा जनकत्वजन्यत्वादिनिमित्ता न विरुध्यन्ते । अर्पणा; भेदात् ॥ पुत्रापेक्षया पिता, पित्रपेक्षया पुत्र इत्येवमादिः ।
१ अ.त्मनः सर्वथा नित्यत्वे नरनारकादिरूपेण संसारस्तद्विनिवृत्तिरूपमो. क्षश्च न घटते । तत: संसारस्वरूपकथनं मोक्षोपायकथनं च विरुध्द्यत इति भावः।
. २ एते पित्रादयो आपक्षिका अपि पारमार्थिका एव । धूम देः स्वसा. ध्यापेक्षयाऽन्यसाध्यापेक्षया च साधनत्वःसाधत्ववत् ॥
Page #206
--------------------------------------------------------------------------
________________
१७६
सर्वार्थसिद्धिः
तथा द्रव्यमपि सामान्यार्पणया नित्यं विशेषार्पणयाऽनित्यमिति नास्ति विरोधः ।। तौ च सामान्यविशेषौ कथञ्चित् भेदाभेदाभ्यां व्यवहारहेतू भवतः ॥
अत्राह - सतोऽनेकनयव्यवहारतन्तत्वात् उपपन्ना भेदसंघातेभ्यः सतां स्कन्धात्मनोत्पत्तिरिदं तु सन्दिग्धं किं संघातः संयोगादेव व्यणुकादिलक्षणो भवति, उत कश्विद्विशेषोऽवधियत इति ? | उच्यते - सति संयोगे बन्धादेकत्वपरिणामात्मकात्संघातो निष्पद्यते ॥ यद्येवमिदमुच्यतां, कुतो नु खलु पुद्गलजात्त्यपरित्यागे सति भवति केषांचिद्बन्धोऽन्येषां च नेति । उच्यते - यस्मा त्तेषां पुद्गलात्माविशेषेऽप्यनन्तपर्यायाणां परस्पर विलक्षणपरिणामादाहितसामर्थ्याद्भवन्प्रतीतः -
॥ स्रिग्धरूक्षत्वाद्बन्धः ॥ ३३ ॥
बाह्याभ्यन्तरकारणवशात् स्नेहपर्यायाविर्भावात् स्त्रिद्यतेऽ स्मिन्निति स्निग्धः। तथा रूक्षणाद्रक्षः । स्निग्धश्च रूक्षश्च स्त्रिग्धरूक्षौ तयोर्भावः स्निग्धरूक्षत्वं । त्रिग्धत्वं चिक्कणगुणलक्षणः पर्यायः । तद्विपरीतपरिणामो रूक्षत्वं ॥ स्त्रिग्धरूक्षत्वादिति हेतुनिर्देशः । तत्कृतो बन्धो व्यणुकादिपरिणामः द्वयोः स्त्रिग्धरूक्षयोरण्वोः परस्परश्लेषलक्षणे बन्धे सति व्यणुकस्कन्धो भवति ॥ एवं संख्येयासंख्येयानन्तप्रदेशः स्कन्धो योज्यः । तत्र स्नेहगुणः एकद्वित्रिचतुः संख्येयासंख्येयानन्तविकल्पः ॥ तथा रूक्षगुणोऽपि ॥ तद्गुणाः परमाणवः सन्ति । यथा तोयाजागोमहिष्युष्टी क्षीरघृतेषु स्नेहगुणः प्रकर्षाप्रकर्षेण प्रवर्तते । पांशुकणिकाशर्करादिषु च रूक्षगुणो दृष्टः । तथा परमाणुष्वपि स्निग्धरूक्षगुणयोर्वृत्तिः प्रकर्षाप्रकर्षेण अनुमीयते ॥
Page #207
--------------------------------------------------------------------------
________________
१७७
.
....."
MORS
पंचमोऽध्यायः स्निग्धरूक्षत्वगुणनिमित्ते बन्धे अविशेषेण प्रसक्ते अनिष्ट गुणनिवृत्यर्थमाह
॥ न जघन्यगुणानाम् ॥ ३४ ॥ जघन्यो निकृष्टः गुणो भागः । जघन्यो गुणो येषां ते जघन्यगुणाः। तेषां जघन्यगुणानां नास्ति बन्धः । तद्यथा- एकगुणस्निग्धस्यैकगुणस्निग्धेन व्यादिसंख्येयासंख्येयानन्तगुणस्निग्धेन च नास्ति बन्धः । तस्यैवैकगुणस्निग्धस्य एकगुणरूक्षेण व्यादुिसख्येयासंख्येयानन्तगुणरूक्षेण वा नास्ति बन्धः । तथा एकगुणरूक्षस्यापि योज्यमिति ॥
एतौ जघन्यगुणस्निग्धरूक्षौ वर्जयित्वा अन्येषां स्निग्धानां रूक्षाणां च परस्परेण बन्धो भवतीत्यविशेषेण प्रसङ्गे तत्रापि प्रतिषेधविषयख्यापनार्थमाह
॥ गुणसाम्ये सदृशानाम् ॥ ३५ ॥ 'सदृशग्रहणं तुल्यजातीयसंप्रत्ययार्थं । गुणसाम्यग्रहणं तुल्य'भागसंप्रत्ययार्थम् ॥ - एतदुक्तं भवति- द्विगुणस्निग्धानां द्विगुणरूक्षैः त्रिगुणस्निग्धानां त्रिगुणरूझैः द्विगुणस्निग्धानां द्विगुणस्निग्धैः द्विगुणरूक्षाणां द्विगुणरूक्षश्चेत्येवमादिषु नास्ति बन्ध इति ।। यद्येवं सदृशग्रहणं किमर्थं ? गुणवैषम्ये सदृशानामपि बंधप्रतिपत्त्या सदृशग्रहणे क्रियते ॥. ... ...... - अतो विषमगुणानां तुल्यजातीयानामतुल्यजातीयानां च अनियमन-बन्धप्रसक्तौ विशिष्टार्थसंप्रत्ययार्थमिदमुच्यते--..-----
॥ यधिकादिगुणानां तु ॥ ३६ ॥ द्वाभ्यां गुणाभ्यामधिको ब्यधिकः । कः पुनरसौ ?: चतुः
Page #208
--------------------------------------------------------------------------
________________
१७८
सर्वार्थसिद्धिः . र्गुणः ॥ आदिशब्दः प्रकारार्थः । कः पुनरसौ प्रकारः ? यधिकता। तेन पञ्चगुणादीनां सम्प्रत्ययो न भवति; तेन व्यधिकादिगुणानां तुल्यजातीयानामतुल्यजातीयानां च बन्ध उक्तो भवति । नेतरषाम् ॥ तद्यथा- द्विगुणस्निग्धस्य परमाणोरेकगुगस्निग्धेन द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा नास्ति बन्धः ।। चतुर्गुणस्निग्धेन पुनरस्ति बन्धः ॥ तस्यैव पुनर्द्विगुणस्निग्धस्य पञ्चगुणस्निग्धेन षट्सप्ताष्टसंख्येयासंख्येयानन्तगुणस्निग्धेन वा बन्धो नास्ति । एवं त्रिगुणस्निग्धस्य पञ्चगुणस्निग्धेन बन्धोऽस्ति ॥ शेषैः पूर्वोत्तरैर्न भवति ॥ चतुर्गुणस्निग्धस्य षड्गुणस्निग्धेनास्ति बन्धः । शेषैः पूर्वोत्तरैर्नास्ति । एवं शेषेप्वपि योज्यः ॥ तथाद्विगुणरूक्षस्य एकद्वित्रिगुणरूक्षैर्नास्ति बन्धः। चतुर्गुणरूक्षेण त्वस्ति बन्धः ॥ तस्यैव द्विगुणरूक्षस्य पञ्चगुणरूक्षादिभिरुत्तरैनास्ति बन्धः ॥ एवं त्रिगुणरूक्षादीनामपि द्विगुणाधिकैर्बन्धो योज्यः ॥ एवं भिन्नजातीयेष्वपि योज्यः ॥ उक्तंच- गिद्धस्स णिद्धेण दुराधिएण । लुख्खस्स लुख्खेण दुराधिएण ॥ गिद्धस्स लुखेण हवेदि बंधो। जहण्णवजो विसमे समे वा ॥१॥ तुशब्दो विशेषणार्थः प्रेतिषेधं व्यावर्तयति बन्धं च विशेषयति ॥
किमर्थमधिकगुणविषयो बन्धो व्याख्यातः न : समगुणविषयः इत्यत आह
॥ बन्धेऽधिको पारिणामिकौ ॥ ३७॥ अधिकारात् गुणशब्दः सम्बध्यते । अधिकगुणावधिका
१ विसदृशानां तु बन्धः स्निग्धरूक्षत्वादिति सिद्ध एव । अनेन सदृशग्रहणेन विसदृशानामपि योग्यत्वे सति बन्धविधिः स्थापित इत्यर्थः ॥ २ न जघन्यगुणानामिति सूत्रादनुवर्तमानम् ॥
Page #209
--------------------------------------------------------------------------
________________
१७९
पंचमोऽध्यायः विति भावान्तरापादनं परिणामकत्वं क्लिन्नगुडवत् ॥ यथा क्लिन्नो गुडोऽधिकमधुररसः परीतानां रेण्वादीनां स्वगुणोत्पादनात् परिणामकः । तथाऽन्योऽप्यधिकगुणः अल्पीयसः परिणामक इति कृत्वा द्विगुणादिस्निग्धरूक्षस्य चतुर्गुणादिस्निग्धरूक्षः परिणामको भवति । ततः पूर्वावस्थापच्यवनपूर्वकं तार्तीयिकमवस्थान्तरं प्रादुर्भवतीत्येकत्वमुपपद्यते ॥ इतरथा हि शुक्लकृष्णतंतुवत् संयोगे सत्यप्यपरिणामकत्वात्सर्वं विविक्तरूपेणैवावतिष्ठेत ॥ उक्तेन विधिना बंधे पुनः सति ज्ञानावरणादीनां कर्मणां त्रिंशत्सागरोपमकोटीकोट्यादिस्थितिरुपपन्ना भवति ॥
___उत्पादव्ययध्रौव्ययुक्तं सदिति द्रव्यलक्षणमुक्तं पुनरपरेण प्रकारेण द्रव्यलक्षणप्रतिपादनार्थमाह -
॥ गुणपर्यायवत् द्रव्यम् ॥ ३८ ॥ गुणाश्च पर्यायाश्च गुणपर्यायाः तेऽस्य संतीति गुणपर्यायवद्रव्यम् ॥ अत्र मतोरुत्पत्तावुक्त एव समाधिः । कथंचित् भेदोपपत्तेरिति ॥ के गुणाः के पर्यायाः ? ॥ अन्वयिनो गुणा व्यतिरोकणः पर्यायाः । उभयैरुपेतं द्रव्यमिति ॥ उक्तं च- गुण इदि दव्वविहाणं दव्वविकारो हि पज्जवो भणिदो। तेहि अणूणं दवं अजुदपसिद्धं हवे णिच्चम् ॥ १ ॥ इति । एतदुक्तं भवतिद्रव्यं द्रव्यांतरायेन विशिष्यते स गुणः । तेन हि तद्रव्यं विधीयते । असति तस्मिन् द्रव्यसंकरप्रसंगः स्यात् ॥ तद्यथा- जीवः पुद्गलादिभ्यो ज्ञानादिभिर्गुणैर्विशिष्यते पुद्गलादयश्च रूपादिमिः । ततश्चाविशेषे संकरः स्यात् ॥ ततः सामान्यापेक्षया अन्वयिनो ज्ञानादयो जीवस्य गुणाः। पुद्गलादीनां च रूपादयः ॥ तेषां विकारा विशेषात्मना भिद्यमानाः पर्यायाः ॥ घटज्ञानं पटज्ञानं क्रोधो मानो गंधो वर्णस्तीवो मंद इत्येवमादयः । तेभ्योऽन्यत्वं
Page #210
--------------------------------------------------------------------------
________________
१८०
सर्वार्थसिद्धिः
4.
कथंचिदापद्यमानः समुदायो द्रव्यव्यपदेशभाक् ॥ यदि हि सर्वथा समुदायोऽनर्थांतरभूत एव स्यात् सर्वाभावः स्यात् ॥ तद्यथापरस्पर विलक्षणानां समुदाये सति एकानर्थांतरभावात् समुदायस्य सर्वाभावः परस्परतोऽर्थांतर भूतत्वात् ॥ यदिदं रूपं तस्मादर्थांतरभूता रसादयः । ततः समुदयोऽनर्थांतरभूतः ॥ यश्च रसादिभ्योऽथांतर'भूताद्रूपादनर्थंतरभूतः समुदायः स कथं रसादिभ्योऽर्थांतरभूतों न मयेत् । ततश्च रूपमात्रं समुदायः प्रसक्तः ॥ नचैकं रूपं समु"दायो भवितुमर्हति । ततः समुदायाभावः । समुदायाभावाच तदनर्थांतरभूतानां समुदायिनामप्यभाव इति सर्वाभावः । एवँ "रसादिष्वपि योज्यम् ॥ तस्मात्समुदायमिच्छता कथंचिदर्थांतर• भाव एषितव्यः ॥
उक्तानां द्रव्याणां लक्षणनिर्देशात्तद्विषय एव द्रव्याध्यवसाये - प्रसक्के अनुक्तद्रव्यसंसूचनार्थमिदमाह -
॥ कालश्च ॥ ३९ ॥
किम् ? द्रव्यमिति वाक्यशेषः ॥ कुतः । तल्लक्षणोपेतत्वात् ॥ द्विविधं लक्षणमुक्तम् । उत्पादव्ययधौव्ययुक्तं सत् गुण- पर्याय द्रव्यमिति च ॥ तदुभयं लक्षणं कालस्य विद्यते । तद्यथा--- - श्रव्यं तावत्कालस्य स्वप्रत्ययं स्वभावव्यवस्थानात् ॥ व्ययोंदयौ : परप्रत्ययौ । अगुरुलघुगुणवृद्धिहान्यपेक्षया स्वप्रत्ययौ च ॥ तथा 1 गुणी अपि कालस्य साधारणासाधारणरूपाः सन्ति ॥ तत्रासाधा - रणी वर्तनाहेतुत्वं साधारणाश्चाचेतनत्वामूर्तत्वसूक्ष्मत्वागुरुलघुत्वादर्यः ॥ पर्यायाश्च व्ययोत्पादलक्षणा योज्याः । तस्माद्विप्रकारलक्षणोपेतत्वादाकाशादिवत्कालस्य द्रव्यत्वं सिद्धम् ॥ तस्यास्तिविलि धर्मादिवव्याख्यातं वर्तनालक्षणः काल इति । किमर्थ
,
Page #211
--------------------------------------------------------------------------
________________
पंचमोऽध्यायः
१८१ मयं कालः पृथगुच्यते । यत्रैव धर्मादय उक्तास्तत्रैवायमपि वक्तव्यः । अजीवकाया धर्माधर्माकाशकालपुद्गला इति ॥ नैवं शंक्यम् । तत्रोपदेशे, सति ..कायत्वमस्य - स्यात् । नेष्यते च मुख्योपचारप्रदेशप्रचयकल्पनाभावात् ॥ धर्मादीनां तावन्मुख्यप्रदे. शपचय उक्तः; असंख्येयाः प्रदेशा इत्येवमादिना ॥ अणोरप्येकप्रदेशस्य पूर्वोत्तरप्रज्ञापननयापेक्षयोपचारकल्पनया प्रदेशप्रचय उक्तः । कालस्य पुनद्वैधाऽपि प्रदेशप्रचयकल्पना नास्तीत्यकायत्वम् ॥ अपि च तत्र पाठे निष्क्रियाणि चेत्यत्र धर्मादीनामाकाशान्तानां निष्क्रियत्वे प्रतिपादिते इतरेषां जीवपुद्गलादीनां सक्रियत्वप्राप्तिवत्कालस्यापि सक्रियत्वं स्यात् ॥ अथाकाशात्प्राकाल उद्दिश्येत ? तन्न
आ आकाशादेकद्रव्याणीत्येकद्रव्यत्वमस्य स्यात् । तस्मात्पृथगिह कालोद्देशः क्रियते ॥ अनेकद्रव्यत्वे सति किमस्य प्रमाणं १ । लोकाकाशस्य यावन्तः प्रदेशास्तावन्तः कालाणवो निष्क्रिया एकैकाकाशप्रदेशे एकैकवृत्त्या लोकं व्याप्य व्यवस्थिताः ॥ उक्तं च-ळोगागासपदेसे एकेके जे छिया हु एकेके ।। रयणाणं रासीविव ते काळाणू असंखव्वाणि ॥ १ ॥ रूपादिगुणविरहादमूर्ताः ॥
वर्तनालक्षणस्य मुख्यस्य कालस्य प्रेमाणमुक्तम् । परि-णामादिगम्यस्य व्यवहारकालस्य किं प्रमाणमित्यत इदमुच्यते---
॥ सोऽनन्तसमयः ॥४०॥ - साम्प्रतिकस्यैकसमायिकत्वेऽपि अतीता अनागताश्च समया
अनन्ता इति कृत्वा अनन्तसमय इत्युच्यते ॥ अथवा मुख्यस्यैव कालस्य प्रमाणावधारणार्थमिदमुच्यते ॥ अनन्तपर्यायवतनाहेतुत्वादेकोऽपि कालाणुरनन्त इत्युपचर्यते । समयः पुनः परमनिरुद्धः कालांशस्तत्पचयविशेष आवलिकादिरवगन्तव्यः ॥
Page #212
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः
आह गुणपर्यायवद्रव्यमित्युक्तं तत्र के गुणा इत्यत्रोच्यते॥ द्रव्याश्रया निर्गुणा गुणाः ॥ ४१ ॥ द्रव्यमाश्रयो येषां ते द्रव्याश्रयाः । निष्क्रान्ता गुणेभ्यो निर्गुणाः । एवमुभयलक्षणोपेता गुणा इति ॥ निर्गुणा इति विशेषणं व्यणुकादिनिवृत्त्यर्थम् ॥ तान्यपि हि कारणभूतपरमाशुद्रव्याश्रयाणि गुणवन्ति तु तस्मान्निर्गुणा इति विशेषणातानि निर्वाचितानि भवन्ति ॥ ननु पर्याया अपि घटसंस्थानादयो द्रव्याश्रया निर्गुणाश्च तेषामपि गुणत्वं प्राप्नोति ॥ द्रव्याश्रया इति वचनान्नित्यं द्रव्यमाश्रित्य वर्तन्ते गुणा इति विशेषणत्वात्पर्यायाश्च निवर्तिता भवन्ति । ते हि कादाचित्का इति ॥ असकृत्परिणामशब्द उक्तः । तस्य कोऽर्थ इति प्रश्ने
१८२
उत्तरमाह
॥ तद्भावः परिणामः ॥ ४२ ॥
अथवा गुणा द्रव्यादर्थान्तरभूता इति केषाञ्चिद्दर्शन तकि भवतोऽभिमतं नेत्याह- यद्यपि कथञ्चिद्व्यपदेशादिभेदहेतुत्वापेक्षया द्रव्यादन्ये, तथापि तदव्यतिरेकात्तत्परिणामाच्च नान्ये ॥ यद्येव स उच्यतां कः परिणाम इति तन्निश्चयार्थमिदमुच्यते- धर्मादीनि द्रव्याणि येनात्मना भवन्ति तद्भावः तत्त्वं परिणाम इति व्याख्यायते । स द्विविधोऽनादिरादिमांश्च । तत्रानादिर्धर्मादीनां गत्युपग्रहादिः सामान्यापेक्षया । स एवादिमांश्च भवति विशेषापेक्षया ॥ ५ ॥
1
॥ इति तत्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां पंचमोऽध्यायः ॥
Page #213
--------------------------------------------------------------------------
________________
षष्ठोऽध्यायः
॥
ॐ नमः परमात्मने वीतरागाय ॥
॥ अथ षष्ठोऽध्यायः ॥
अथाजीवपदार्थो व्याख्यातः इदानीं तदनन्तरोद्देशभागास्रवपदार्थो व्याख्येय इति । ततस्तत्प्रसिध्यर्थमिदमुच्यते
॥ काय़वाङ्मनःकर्म योगः ॥ १ ॥
१८३
कायादयः शब्दा व्याख्यातार्थाः । कर्म क्रिया इत्यनर्थी - तरम् ।। कायवाङ्मनसां कर्म कायवाङ्मनः कर्म, योग इत्याख्या - यते ।। आत्मप्रदेशपरिस्पन्दो योगः । स निमित्तभेदात्रिधा भिद्यते ॥ काययोगो वाग्योगो मनोयोग इति । तद्यथा वीर्यान्तरायक्षयो पशमसद्भावे सति औदारिका दिसप्तविधकायवर्गणान्यतमालंबनापेक्षया आत्मप्रदेशपरिस्पन्दः काययोगः । शरीरनामकर्मोदयापादितवाम्बर्गणालम्बने सति वीर्यान्तरायमत्यक्षराद्यावरणक्षयोपशमापादिताभ्यन्तरवाग्लब्धिसान्निध्ये वाक्परिणामाभिमुखस्यात्मनः प्रदेशपरिस्पन्दो वाग्योगः || अभ्यन्तरवीर्यान्तरायनोइन्द्रियावरणक्षयोपशमात्मकमनोलब्धिसन्निधाने बाह्यनिमित्तमनोवर्गणालम्बने च सति मनःपरिणामाभिमुखस्यात्मनः प्रदेशपरिस्पन्दो मनोयोगः ॥ क्षयेऽपि त्रिविधवर्गणापेक्षः सयोगकेवलिन आत्मप्रदेशपरिस्पन्दो योगो वेदितव्यः ॥
आह अभ्युपगत आहितत्रैविध्यक्रियो योग इति ॥ प्रकृत इदानीं निर्दिश्यतां किंलक्षण आस्रव इत्युच्यते । योऽयं योगशब्दाभिधेयः संसारिणः पुरुषस्य --
॥ स आस्रवः ॥ २ ॥
यथा सरस्सलिलावाहिद्वारं तदाऽखवकारणत्वात् आसव
Page #214
--------------------------------------------------------------------------
________________
१८४
सर्वार्थसिद्धिः इत्याख्यायते तथा योगप्रणालिकया आत्मनः कर्म आस्रवतीति योग आस्रव इति व्यपदेशमर्हति ॥
आह कर्म द्विविधं पुण्यं पापं चेति । तस्य किमविशेषेण योग आस्रवणहेतुराहोस्विदस्ति कश्चित्प्रतिविशेष इत्यत्रोच्यते
॥ शुभः पुणस्याशुभः पापस्य ॥ ३॥ . कः शुभयोगः को वा अशुभः ? प्राणांतिपातादत्तादानमैथुनादिरशुभः काययोगः । अनृतभाषणपरुषासभ्यवचनादिरशुभो वाग्योगः । वधचिन्तनेासूयादिरशुभो मनोयोगः ॥ ततो विप. रीतः शुभः ॥ कथं योगस्य शुभाशुभत्वं ॥ शुभपरिणामनिवृत्तो योगः शुभः ॥ अशुभपरिणामनिवृत्तश्चाशुभः ॥ न पुनः शुभाशुभकर्मकारणत्वेन ॥ यद्येवमुच्यते शुभयोग एव न स्यात् । शुभयोगस्यापि ज्ञानावरणादिबन्धहेतुत्वाभ्युपगमात् ॥ पुनात्यात्मानं पूयतेऽनेनेति वा पुण्यम् । तत्सद्वेद्यादि ॥ पाति रक्षति आत्मानं शुभादिति पापम् । असद्वेद्यादि ।
_ आह किमयमास्रवः सर्व संसारिणां समानफलारम्भहेतुराहोस्वित्कश्चिदस्ति विशेष इत्यत्रोच्यते॥ सकषायाकषाययोः साम्परायिकर्यापथयोः ॥ ४ ॥
स्वामिभेदादास्रवभेदः । स्वामिनौ द्वौ ॥ सकषायोऽकषायश्चेति ॥ कषायः क्रोधादिः । कषाय इव कषायः । क उपमार्थः ? यथा कषायो नैयग्रोधादिः श्लेषहेतुस्तथा क्रोधादिरप्यात्मनः कर्मश्लेषहेतुत्वात् कषाय इव कषाय इत्युच्यते ॥ सह कषायेण वर्तत इति सकषायः । न विद्यते कषायो यस्येत्यकषायः। सकषायश्चाकषायश्च सकषायाकषायौ तयोः सकषायाकषाययोः ॥ सम्परायः संसारः तत्प्रयोजनं कर्म साम्परायिकम् । ईरणमीर्यायोगो गतिरि
Page #215
--------------------------------------------------------------------------
________________
षष्ठोऽध्यायः
१८५ त्यर्थः । तद्वारकं कर्म ईर्यापथम् । साम्परायिकं च ईर्यापथं च साम्परायिकर्यापथे। तयोः साम्परायिकर्यापथयोः ॥ यथासंख्यममिसम्बन्धः ॥ सकषायस्यात्मनो मिथ्यादृष्टेः साम्परायिकस्य कर्मण आस्रवो भवति ॥ अकषायस्य उपशान्तकषायादेः ईर्यापथस्य कर्मण आस्रवो भवति ॥
___ आदावुद्दिष्टस्यास्रवस्य भेदप्रतिपादनार्थमाह॥ इन्द्रियकषायाव्रतक्रियाः पंचचतुःपंचपंचविंशति
सङ्ख्याः पूर्वस्य भेदाः ॥५॥
अत्र इंद्रियादीनां पंचादिभिर्यथासंख्यमभिसंबन्धो वेदितव्यः ॥ इंद्रियाणि पंच। चत्वारः कषायाः । पंचावतानि । पंचविंशतिक्रिया इति ॥ तत्र पंचेंद्रियाणि स्पर्शनादीन्युक्तानि ॥ चत्वारः कषायाः क्रोधादयः ॥ पंचावतानि प्राणव्यपरोपणादीनि वक्ष्यन्ते ॥ पंचविंशतिक्रिया उच्यन्ते- चैत्यगुरुप्रवचनपूजादिलक्षणा सम्यक्त्ववर्धिनी क्रिया सम्यक्त्वक्रिया । अन्यदेवतास्तवनादिरूपा मिथ्यात्वहेतुका प्रवृत्तिमिथ्यात्वक्रिया ॥ गमनागमनादिप्रवर्तनं कायादिभिः प्रयोगक्रिया । सँयतस्य सतः अविरतिं प्रत्याभिमुख्य समादानक्रिया । ईर्यापथनिमित्तेर्यापथक्रिया । ता एताः पंच क्रियाः ॥ कोधावेशात्प्रादोषिकी क्रिया । प्रदु. ष्टस्य सतोऽभ्युद्यमः कायिकी क्रिया। हिंसोपकरणादानादाधिकरणिकी क्रिया । सत्त्वदुःखोत्पत्तितन्त्रत्वात्पारितापिकी क्रिया। आयुरिन्द्रियबलप्राणानां वियोगकरणात्प्राणातिपातिकी क्रिया । ता एताः पञ्चक्रियाः ॥ रागाद्रीकृतत्वात्प्रमादिनो रमणीयरूपालोकनाभिप्रायो दर्शनक्रिया । प्रमादवशात्स्प्रष्टव्यसञ्चेतनानुबन्धः स्पर्शनक्रिया । अपूर्वाधिकरणोत्पादनात्प्रात्ययिकी क्रिया । स्त्रीपुरुष
Page #216
--------------------------------------------------------------------------
________________
१८६
सर्वार्थसिद्धिः पशुसम्पातिदेशेऽन्तर्मलोत्सर्गकरणं समन्तानुपातनक्रिया। अप्रमृष्टादृष्टभूमौ कायादिनिक्षेपोऽनाभोगक्रिया । ता एताः पंचक्रियाः ॥ यां परेण निर्वयां क्रियां स्वयं करोति सा स्वहस्तक्रिया । पापादानादिप्रवृत्तिविशेषाभ्यनुज्ञानं निसर्गक्रिया । पराचरितसावद्यादिप्रकाशनं विदारणक्रिया । यथोक्तामाज्ञामावश्यकादिचारित्रमोहोदयात्क. मिशक्नुवतोऽन्यथाप्ररूपणादाज्ञाव्यापादिकी क्रिया । . शाठ्याल. स्याभ्यां प्रवचनोपदिष्टविधिकर्तव्यतानादरोऽनाकांक्षक्रिया । ता एतः पंचक्रियाः ॥ छेदनभेदनविशसनादिक्रियापरत्वमन्येन वा क्रियमाणे प्रहर्षः प्रारम्भक्रिया । परिग्रहाविनाशार्था पारिग्राहिकी क्रिया। ज्ञानदर्शनादिषु निकृतिर्वचनं मायाक्रिया । अन्य मिथ्या दर्शनक्रियाकरणकारणाविष्टं प्रशंसादिभिदृढयति यथा साधु करोषीति सा मिथ्यादर्शनक्रिया । संयमघातिकर्मोदयवशादनिवृत्तिरप्रत्याख्यानक्रिया । ता एताः पञ्चक्रियाः ॥ ( समुदिताः पञ्चविंशतिक्रियाः ) एतानीन्द्रियादीनि कार्यकारणभेदाद्भदमापद्यमानानि साम्परायिकस्य कर्मण आस्रवद्वाराणि भवन्ति ।।
___अत्राह योगत्रयस्य सर्वात्मकार्यत्वात्सर्वेषां संसारिणां साधारणस्य ततो बन्धफलानुभवनम्प्रत्यविशेष इत्यत्रोच्यते । नैतदेवम् । यस्मात् सत्यपि प्रत्यात्मसम्भवे तेषां जीवपरिणामेभ्यः अनन्तविकल्पेभ्यो विशेषोऽभ्यनुज्ञायते । कथमिति चेदुच्यते॥ तीवमन्दज्ञाताज्ञातभावाधिकरणवीर्य- .
विशेषेभ्यस्तद्विशेषः ॥ ६ ॥ बाह्याभ्यन्तरहेतूदीरणवशादाद्विक्तः परिणामस्तीवः । तद्विपरीतो मन्दः । अयं प्राणी हन्तव्य इति ज्ञात्वा प्रवृत्तितिमित्युच्यते । मदात्प्रमादाद्वाऽनवबुध्य प्रवृत्तिरज्ञातम् । अधिक्रिय
Page #217
--------------------------------------------------------------------------
________________
षष्ठोऽध्यायः
१८७
तेऽस्मिन्नर्था इत्यधिकरणं द्रव्यमित्यर्थः । द्रव्यस्य स्वशक्तिविशेषो वीर्यम् । भावशब्दः प्रत्येकं परिसमाप्यते - तीव्रभावः, मन्दभाव इत्यादिः । एतेभ्यस्तस्यास्त्रवस्य विशेषो भवति कारणभेदाद्धि कार्यभेद इति ॥
अत्राह अधिकरणमित्युक्तं, तत्स्वरूपमनिर्ज्ञातमतस्तदुच्यतामिति । तत्र भेदप्रतिपादनद्वारेणाधिकरणखरूपनिर्ज्ञानार्थमाह॥ अधिकरणं जीवाजीवाः ॥ ७ ॥
उक्तलक्षणा जीवाजीवाः ॥ यद्युक्तलक्षणाः पुनर्वचनं किमर्थम् । अधिकरणविशेषज्ञापनार्थं पुनर्वचनम् ॥ जीवाजीवा अधिकरणं इत्ययं विशेषो ज्ञापयितव्य इत्यर्थः । कः पुनरसौ ! हिंसाद्युपकारणभाव इति ॥ स्यादेतन्मूलपदार्थयोर्द्वित्वाज्जीवाजीवाइति द्विर्वचनं न्यायप्राप्तमिति । तन्न - पर्यायाणामधिकरणत्वात् । येन केनचित्पर्यायेण विशिष्टं द्रव्यमधिकरणम् । न सामान्यमिति बहुवचनं कृतम् ॥ जीवाजीवाः अधिकरणं कस्य ? आस्रवस्येत्यर्थवशादभिसम्बन्धो भवति ॥
तत्र जीवाधिकरणभेदप्रतिपत्त्यर्थमाह
॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ८ ॥
प्राणव्यपरोपणादिषु प्रमादवतः प्रयत्नावेशः संरम्भः । साधनसमभ्यासीकरणं समारम्भः । प्रक्रम आरम्भः । योगशब्दो व्याख्यातार्थः । कृतवचनं स्वातन्त्र्यप्रतिपत्त्यर्थम् । कारिताभिधानं परप्रयोगापेक्षम् । अनुमतशब्दः प्रयोजकस्य मानसपरिणामप्रदर्शनार्थः । अभिहितलक्षणाः कषायाः क्रोधादयः । विशिप्यतेऽर्थोऽ र्थान्तरादिति विशेषः । स प्रत्येकमभिसम्बध्यते - संरम्भविशेषः
--
R
·
Page #218
--------------------------------------------------------------------------
________________
१८८
सर्वार्थसिद्धिः समारम्भविशेष इत्यादि ॥ आद्यं जीवाधिकरणं एतैर्विशेषैर्भिद्यत इति वाक्यशेषः ॥ एते चत्वारः सुजन्तास्त्र्यादिशब्दा यथाक्रमममिसम्बन्ध्यन्ते-- संरम्भसमारम्भारम्भास्त्रयः। योगास्त्रयः । कृतकारितानुमतास्त्रयः । कषायाश्चत्वार इति ॥ एतेषां गणनाभ्यावृत्तिः सुचा द्योत्यते ॥ एकश इति वीप्सानिर्देशः । एकैकं त्र्यादीन् भेदान् नयेदित्यर्थः ॥ तद्यथा- क्रोधकृतकायसंरम्भः । मानकृतकायसंरम्भः । मायाकृतकायसंरम्भः । लोभकृतकायसंरम्भः । क्रोधकारितकायसरम्भः । मानकारितकायसंरम्भः । मायाकारितकायसंरम्भः । लोभकारितकायसंरम्भः । क्रोधानुमतकायसंरम्भः । मानानुमतकायसंरम्भः । मायानुमतकायसंरम्भः । लोभानुमतकायसंरम्भश्चेति द्वादशधा कायसंरम्भः ॥ एवं वाग्योगे मनोयोगे च द्वादशधा संरम्भः । त एते पिण्डिताः षट्त्रिंशत् , तथा समारम्भा अपि षट्त्रिंशत् । आरम्भा अपि षट्त्रिंशत् । एते सपिण्डिता जीवाधिकरणास्रवभेदाः अष्टोत्तरशतसंख्याः सम्भवन्ति ॥ चशब्दोऽ नन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसज्वलनकषायभेदकृतान्तर्भेदसमुच्चयार्थः ॥
परस्याजीवस्याधिकरणस्य भेदप्रतिपत्त्यर्थमाह
॥ निर्वर्तनानिक्षेपसँयोगनिसर्गा
द्विचतुर्हित्रिभेदाः परम् ॥ ९॥ निवर्त्यत इति निर्वर्तना निष्पादना। निक्षिप्यत इति निक्षेपः स्थापना । संयुज्यते इति संयोगः मिश्रीकृतं । निसृज्यत इति निसर्गः प्रवर्तनम् ॥ एते व्यादिभिर्यथाक्रममभिसम्बध्यन्ते- निर्वर्तना विभेदा । निक्षेपश्चतुर्भेदः। संयोगो विभेदः । निसर्गस्त्रिभेद इति ॥ त एते भेदा अजीवाधिकरणस्य वेदितव्याः ॥
Page #219
--------------------------------------------------------------------------
________________
षष्ठोऽध्यायः
1
परवचनमनर्थकम्, पूर्वसूत्रे आद्यमिति वचनादिदमवशिष्टार्थं भवतीति ॥ नानर्थकम् । अन्यार्थः परशब्दः । संरम्भादिभ्योऽ न्यानि निर्वर्तनादीनि । इतरथा हि निर्वर्तनादीनामात्मपरिणामसद्भावाज्जीवाधिकरणविकल्पा एवेति विज्ञायन्ते ॥ निर्वर्तनाधिकरणं द्विविधम्, मूलगुणनिर्वर्तनाधिकरणमुत्तरगुणनिर्वर्तनाधिकरणञ्चेति ॥ तत्र मूलगुण निर्वर्तनं पञ्चविधम् । शरीरवाङ्मनःप्राणापानाश्च । उत्तरगुणनिर्वर्तनं काष्ठपुस्तचित्रकर्मादि || निक्षेपश्चतुर्विधः । अप्रत्यवेक्षितनिक्षेपाधिकरणं दुष्प्रसृष्टनिक्षेपाधिकरणं सहसानिक्षेपाधि - करणमनाभोगनिक्षेपाधिकरणं चेति ॥ संयोगो द्विविधः । भक्तपानसंयोगाधिकरणमुपकरणसंयोगाधिकरणं चेति ॥ निसर्गस्त्रिविधः । कायनिर्सर्गाधिकरणं वामिसर्गाधिकरणं मनोनिसर्गाधिकरणञ्चेति ॥ उक्तः सामान्येन कर्मास्रवभेदः ||
·
१८९
इदानीं कर्मविशेषास्रवभेदो वक्तव्यः । तस्मिन् वक्तव्ये आद्ययोर्ज्ञानदर्शनावरणयोरास्रवभेदप्रतिपत्त्यर्थमाह—
॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥ १० ॥ तत्त्वज्ञानस्य मोक्षसाधनस्य कीर्तने कृते कस्यचिदनभिव्याहरतः अन्तः पैशुन्यपरिणामः प्रदोषः । कुतश्चित्कारणान्नास्ति न वेद्मीत्यादि ज्ञानस्य व्यपलपनं निह्नवः । कुतश्चित्कारणाद्भावितमपि विज्ञानं दानार्हमपि यतो न दीयते तन्मात्सर्यम् । ज्ञानव्यवच्छेदकरणमन्तरायः । कायेन वाचा च परप्रकाश्यज्ञानस्य वर्ज - नमासादनम् । प्रशस्तज्ञानदूषणमुपघातः । आसादनमेवेति चेत्
१ अप्रसृष्टादृष्टभूमौ कायादिनिक्षेपोऽनाभोगः ||
·
Page #220
--------------------------------------------------------------------------
________________
१९० सर्वार्थसिद्धिः सतो ज्ञानस्य विनयप्रदानादिगुणकीर्तनाननुष्ठानमासादनम् । उपघातस्तु ज्ञानमज्ञानमेवेति ज्ञाननाशाभिप्राय इत्यनयोरयं भेदः ॥ तच्छब्देन ज्ञानदर्शनयोः प्रतिनिर्देशः क्रियते । कथं पुनरप्रकृत. योरनिर्दिष्टयोस्तच्छब्देन परामर्शः कर्तुं शक्यः? प्रश्नापेक्षया ॥ ज्ञानदर्शनावरणयोः क आस्रव इति प्रश्ने कृते तदपेक्षया तच्छब्दो ज्ञानदर्शने प्रतिनिर्दिशति ॥ एतेन ज्ञानदर्शनवत्सु तत्साधनेषु च प्रदोषादयो योज्याः तन्निमित्तत्त्वात् ॥ त एते ज्ञानदर्शनावरणयोरात्रवहेतवः ॥ एककारणसाध्यस्य कार्यस्यानेकस्य दर्शनात् तुल्येऽपि प्रदोषादौ ज्ञानदर्शनावरणास्रवसिद्धिः॥ अथवा- विषयभेदादास्रवभेदः । ज्ञानविषयाः प्रदोषादयो ज्ञानावरणस्य । दर्शनविषयाः प्रदोषादयो दर्शनावरणस्येति ॥ ___ यथाऽनयोः कर्मप्रकृत्योरास्रवभेदास्तथा॥ दुःखंशोकतापाकन्दनवधपरिदेवनान्यात्मपरो
भयस्थान्यसवेद्यस्य ॥ ११॥ पीडालक्षणः परिणामो दुःखम् । अनुग्राहकसम्बन्धविच्छेदे वैक्लव्यविशेषः शोकः । परिवादादिनिमित्तादाविलान्तःकरणस्य तीव्रानुशयस्तापः । परितापजाताश्रुपातप्रचुरविप्रलापादिभिर्व्यक्तक्रन्दनमाक्रन्दनम् । आयुरिन्द्रियबलप्राणवियोगकरणं वधः । संक्लेशपरिणामावलम्बनं गुणस्मरणानुकीर्तनपूर्वकं स्वपरानुग्रहाभिलाषविषयमनुकम्पाप्रचुरं रोदनं परिदेवनम् ॥ ननु च- शोकादीनां दुःखविशेषत्वात् दुःखग्रहणमेवास्तु । सत्यमेवम् । तथापि कतिपयविशेषप्रतिपादनेन दुःखजात्यन्तरविधानं क्रियते । यथा गौरित्युक्ते
१ अत्र दुःखजात्यनुविधानमिति पाठान्तरम् ।।
Page #221
--------------------------------------------------------------------------
________________
षष्ठोऽध्यायः
१९१ अनिर्माते विशेषे तत्प्रतिपादनार्थं खण्डमुण्डकृष्णशुक्लाद्युपादानं क्रियते, तथा दुःखविषयास्रवासंख्येयलोकभेदसम्भवात् दुःखमित्युक्ते विशेषानिर्ज्ञानात्कतिपयविशेषनिर्देशेन तद्विशेषप्रतिपत्तिः क्रियते ॥ तान्येतानि दुःखादीनि क्रोधावेशादात्मस्थानि भवन्ति परस्थान्युभयस्थानि च ॥ एतानि सर्वाण्यसद्वद्यास्रवकारणानि वेदितव्यानि ॥ अत्र चोद्यते- यदि दुःखादीन्यात्मपरोभयस्थान्यसवेद्यास्रवनिमित्तानि, किमर्थमार्हतैः केशलञ्चनानशनातपस्थानादीनि दुःखनिमितान्यास्थीयन्ते परेषु च प्रतिपाद्यन्ते इति ॥ नैष दोषः- अन्तरङ्गक्रोधाद्यावेशपूर्वकाणि दुःखादीन्यसद्वेद्यास्रवनिमित्तानीति विशेष्योक्तत्वात् ॥ यथा कस्यचिाद्भिषजः परमकरुणाशयस्य निःशल्यस्य सँयतस्योपरि गण्डं पाटयतो दुःखहेतुत्वे सत्यपि न पापबन्धो बाह्यनिमित्तमात्रादेव भवति । एवं संसारविषयमहादुःखादुद्विमस्य भिक्षोस्तन्निवृत्त्युपायं प्रति समाहितमनस्कस्य शास्त्रविहिते कर्मणि प्रवर्तमानस्य संक्लेशपरिणामाभावात् दुःखनिमित्तत्वे सत्यपि न पापबन्धः ॥ उक्तञ्च- नै दुःख न सुखं यद्वद्धतुर्दृष्टश्चिकित्सिते ॥ चिकित्सायां तु युक्तस्य स्यात् दुःखमथवा सुखम् ॥ १ ॥ नै दुःखं न सुखं तद्वद्धतुर्मोक्षस्य साधने ॥ मोक्षोपाये तु युक्तस्य स्यात् दुःखमथवा सुखम् ॥ २॥
___उक्ता असद्वद्यास्रवहेतवः सवेद्यस्य पुनः क इत्यत्रोच्यते॥ भूतव्रत्यनुकम्पादानसरागसँयमादियोगः क्षान्तिः
शौचमिति सद्यस्य ॥ १२॥ ..
१ चिकित्सायां युक्तस्य केवलं दुःख ' सुखं च रुक्प्रतिकारे हेतुर्न भवतीत्यर्थः ॥ २ रोगप्रतिकारे ॥ ३ मोक्षोपाये यु. तस्य पुंसः केवलं दु खं सुखं च मोक्षस्य साधने हेतुर्न भवति ।।
Page #222
--------------------------------------------------------------------------
________________
१९२
सर्वार्थसिद्धिः तासु तासु गतिषु कर्मोदयवशाद्भवन्तीति भूतानि प्राणिन इत्यर्थः । व्रतान्यहिंसादीनि वक्ष्यन्ते, तद्वन्तो व्रतिनः ॥ ते द्विविधाः । अगारम्प्रतिनिवृत्तौत्सुक्याः सँयताः, गृहिणश्च सँयतासँयताः । अनुग्रहार्दीकृतचेतसः परपीडामात्मस्थामिव कुर्वतोऽ नुकम्पनमनुकम्पा । भूतेषु व्रतिषु चानुकम्पा भूतव्रत्यनुकम्पा । परानुग्रहबुध्द्या स्वस्यातिसर्जन दानम् । संसारकारणनिवृत्तिम्प्रत्यागू) अक्षीणाशयः सराग इत्युच्यते । प्राणीन्द्रियेष्वशुभप्रवृत्तेविरतिः संयमः । सरागस्य संयमः सरागो वा संयमः सरागसँयमः। आदिशब्देन संयमासँयमाकामनिर्जराबालतपोऽनु. रोधः । योगः समाधिः सम्यक्प्रणिधानमित्यर्थः ॥ भूतव्रत्यनुकम्पादानसरागसँयमादीनां योगः भूतव्रत्यनुकम्पादानसरागसँयमा. दियोगः । क्रोधादिनिवृत्तिः शान्तिः । लोभप्रकाराणामुपरमः शौचम् ॥ इतिशब्दः प्रकारार्थः। के पुनस्ते प्रकाराः ? । अई. त्पूजाकरणपरताबालवृद्धतपस्विवैयावृत्त्यादयः ॥ भूतग्रहणात् सिद्धे बतिग्रहणं तद्विषयानुकम्पाप्राधान्यख्यापनार्थम् ॥ त एते सद्वेद्यस्यास्रवा ज्ञेयाः ॥
___ अथ तदनन्तरोद्देशभाजो मोहस्यास्रवहेतौ वक्तव्ये तद्भेदस्य दर्शनमोहस्यास्रवहेतुप्रदर्शनार्थमिदमुच्यते॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य १३
निरावरणज्ञानाः केवलिनः । तदुपदिष्टं बुध्धतिशयर्द्धियुक्तगणधरानुस्मृतं ग्रन्थरचनं श्रुतं भवति । रत्नत्रयोपेतश्रमणगणः सङ्घः । अहिंसालक्षणस्तदागमदेशितो धर्मः । देवाश्चतुर्णिकाया उक्ताः । गुणवत्सु महत्सु असद्भूतदोषोद्भावनमवर्णवादः ॥ एतेष्ववर्णवादो दर्शनमोहस्यास्रवहेतुः । कवलाभ्यवहारजीविनः केवलिन इत्येवमादिवचनं केवलिनामवर्णवादः । मांस
Page #223
--------------------------------------------------------------------------
________________
षष्ठोऽध्यायः
१९३ भक्षणाद्यभिधानं श्रुतावर्णवादः । शूद्रत्वाशुचित्वाद्याविर्भावना सङ्घावर्णवादः । जिनोपदिष्टो धर्मो निर्गुणस्तदुपसेविनो ये ते चासुरा भविष्यन्तीत्येवमभिधानं धर्मावर्णवादः। सुरामांसोपसेवाद्याघोषणं देवावर्णवादः ॥
द्वितीयस्य मोहस्यास्रवभेदप्रतिपादनार्थमाह -- . ॥ कषायोदयात्तीबपरिणामश्चारित्रमोहस्य ॥ १४ ॥
कषाया उक्ताः। उदयो विपाकः । कषायाणामुदयात्तीत्रपरिणामश्चारित्रमोहस्यास्रवो वेदितव्यः ॥ तत्र स्वपरकषायोत्पादनं तपस्विजनवृत्तदूषणं. संक्लिष्टलिङ्गव्रतधारणादिः कषायवेदनीयस्यासवः ॥ सद्धर्मोपहसनदीनातिहासबहुविप्रलापोपहासशीलतादिहास्य. वेदनीयस्य । विचित्रक्रीडनपरताव्रतशीलारुच्यादिः रतिवेदनीयस्य । परारतिप्रादुर्भावना रतिविनाशनपापशीलसंसर्गादिः अरतिवेदनी. यस्य । स्वशोकोत्पादनापरशोकप्लुताभिनन्दनादिः शोकवेदनीयस्य । स्वभयपरिणामः परभयोत्पादनादिर्भयवेदनीयस्य । कुशलक्रिया. चारजुगुप्सादिर्जुगुप्साघेदनीयस्य । अलीकाभिधायितातिसन्धानपरत्वं पररन्ध्रापेक्षित्वप्रवृद्धरागादिः स्त्रीवेदनीयस्य । स्तोकक्रोधा. नुत्सुकत्वस्वदारसन्तोषादिः (वेदनीयस्य । प्रचुरकषायगुह्येन्द्रियव्यपरोपणपराङ्गनास्कन्दादिर्नपुंसकवेदनीयस्य ॥
निर्दिष्टो मोहनीयस्यास्रवभेदः । इदानीं तदनन्तरनिर्दिष्टस्यायुषः कारणप्रदर्शनार्थमिदमुच्यते - ॥ बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥ १५॥
आरम्भः प्राणिपीडाहेतुव्यापारः । ममेदंबुद्धिलक्षणः परि. ग्रहः । आरम्भाश्च परिग्राश्च आरम्भपरिग्रहाः। बहव आरम्भपरिग्रहा यस्य सः बहारम्मपरिग्रहः । तस्य भावः बहारम्भपरिग्र
Page #224
--------------------------------------------------------------------------
________________
१९४
सर्वार्थसिद्धिः
त्वम् ॥ हिंसादिक्रूरकर्मा जनप्रवर्तन परस्वहरणविषयातिगृद्धिकृष्णलेश्याभिजातरौद्रध्यानमरणकालतादिलक्षणो नारकस्यायुष आसवा
भवति ॥
आह उक्तो नारकस्यायुष आस्रवः । तैर्यग्योनस्येदानीं वक्तव्य इत्यत्रोच्यते—
॥ माया तैर्यग्योनस्य ॥ १६ ॥
चारित्र मोहकर्मविशेषस्योदयादाविर्भूत आत्मनः कुटिलभावो माया निकृतिः तैर्यग्योनस्यायुष आस्रवो वेदितव्यः । तत्प्रपञ्चो मिथ्यात्वोपेतधर्मदेशना निःशीलता सम्धानप्रियता नीलकपोतले - श्यार्तध्यानमरणकालतादिः ॥
आह व्याख्यातस्तैर्यग्योनस्यायुष आस्रवः । इदानीं मानुषस्यायुषः को हेतुरित्यत्रोच्यते
॥ अल्पारम्भपरिग्रहत्वं मानुषस्य ॥ १७ ॥ नारकायुरास्रवो व्याख्यातः । तद्विपरीतो मानुषस्यायुष, इति सङ्क्षेपः ॥ तद्व्यासः - विनीतस्वभावप्रकृतिभद्रताप्रगुणव्यवहारतातनुकषायत्व मरणकाला संक्लेशतादिः ॥
किमेतावानेव मानुषस्यायुष आस्रव इत्यत्रोच्यते|| स्वभाव मार्दवञ्च ॥ १८ ॥
मृदोर्भावो मार्दवम् । स्वभावेन मार्दवं स्वभावमार्दवम् । उपदेशानपेक्षमित्यर्थः । एतदपि मानुषस्यायुष आस्रवः ॥ पृथग्योगकरणं किमर्थं ? उत्तरार्थम् । देवायुष आस्रवोऽपि यथा स्यात् ॥ किमेतदेव द्वितीयं मानुषस्यास्रवो ! नेत्युच्यते-
॥ निश्शीलव्रतत्वं च सर्वेषाम् ॥ १९ ॥
Page #225
--------------------------------------------------------------------------
________________
.... षष्ठोऽध्यायः चशब्दोऽधिकृतसमुच्चयार्थः । अल्पारम्भपरिग्रहत्वञ्च निःशीलवतत्वञ्च ॥ शीलानि च व्रतानि च शीलवतानि वक्ष्यन्ते। निष्क्रान्तः शीलवतेभ्यो निःशीलव्रतः। तस्य भावो निःशी. लवतत्वम् ॥ सर्वेषां ग्रहणं सकलायुरास्रवप्रतिपत्त्यर्थम् ॥ किं देवायुषोऽपि भवति ।। सत्यम्, भवति भोगभूमिजापेक्षया ॥
अथ चतुर्थस्यायुषः क आस्रव इत्यत्रोच्यते॥ सरागसँयमसँयमासँयमाकामनिर्जरा
बालतपांसि देवस्य ॥ २० ॥ सरागसँयमः सयमासँयमश्च व्याख्यातौ । अकामनिर्जराअकामश्चारकनिरोधबन्धनबध्येषु क्षुत्तृष्णानिरोधब्रह्मचर्यभूशय्यामलधारणपरितापादिः । अकामेन निर्जरा अकामनिर्जरा । बालतपो मिथ्यादर्शनोपेतमनुपायकायक्लेशप्रचुरं निकृतिबहुलव्रतधारणम् ॥ तान्येतानि दैवस्यायुष आस्रवहेतवो वेदितव्याः ॥ ... किमतावानेव दैवस्यायुष आस्रवाः नेत्याह
॥ सम्यक्त्वं च ॥ २१ ॥ कि? । दैवस्यायुष आस्रव इत्यनुवर्तते ॥ अविशेषामिधानेऽपि सौधर्मादिविशेषगतिः। कुतः? पृथक्करणात् ॥ यद्येवं, पूर्वसूत्रे उक्त आस्रवविधिरविशेषेण प्रसक्तः; तेन, सरागसँयमसयमासयमावपि भवनवास्याद्यायुष आस्रवौ प्राप्नुतः ॥ नैष 'दोषः- सम्यक्त्वाभावे तव्यपदेशाभावात्तदुभयमप्यत्रान्तर्भवति ॥ - आयुषोऽनन्तरमुद्दिष्टस्य नाम्न आस्रवविधौ वक्तव्ये, तत्राऽ शुभनाम्न आस्रवप्रतिपत्त्यर्थमाह- . ॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥२२॥
Page #226
--------------------------------------------------------------------------
________________
१९६
सर्वार्थसिद्धिः योगस्त्रिप्रकारो व्याख्यातः। तस्य वक्रता कौटिल्यम् । विसंवादनमन्यथाप्रवर्तनम् ॥ ननु च नार्थभेदः । योगवक्रतै. वान्यथाप्रवर्तनम् ॥ सत्यमेवमेतत्- स्वगता योगवक्रतेत्युच्यते । परगतं विसंवादनं, सम्यगभ्युदयनिःश्रेयसार्थासु क्रियासु प्रवर्तमानमन्यं तद्विपरीतकायवाङ्मनोभिर्विसंवादयति · मैवं कापीरेवं कुर्विति ॥ एतदुभयमशुभनामकर्मास्रवकारणं वेदितव्यम् ॥ चशब्देन मिथ्यादर्शनपैशुन्यास्थिरचित्तताकूटमानतुलाकरणपरनिन्दाऽऽ त्मप्रशंसादिः समुच्चीयते ॥
अथ शुभनामकर्मणः क आस्रव इत्यत्रोच्यते
॥ तद्विपरीतं शुभस्य ॥ २३ ॥ ... कायवाङ्मनसामृजुत्वमविसंवादनं च तद्विपरीतम् ॥ चश. ब्देन समुच्चितस्य च विपरीतं ग्राह्यम् । धार्मिकदर्शनसद्भावो. पनयनसंसरणभीरुताप्रमादवर्जनादि ॥ तदेतच्छुभनामकर्मास्रवकारणं वेदितव्यम् ॥ आह किमतावानेव शुभनाम्न आस्रवविधिरुत कश्चिदस्ति प्रतिविशेषः ? इत्यत्रोच्यते- यदिदं तीर्थकरनामकर्मानन्तानुपमप्रभावमचिन्त्यविभूतिविशेषकारणं त्रैलोक्यविजयकरं तस्यास्रवविधिविशेषोऽस्तीति ॥
" यद्येवमुच्यतां के तस्यास्रवाः ? इत्यत इंदमारभ्यते॥ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधियावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥ २४ ॥
Page #227
--------------------------------------------------------------------------
________________
षष्ठोऽध्यायः
१९७ i," जिनेन भगवतार्हत्परमष्ठिनोपदिष्टे निम्रन्थलक्षणे मोक्षवमनि रुचिर्दर्शनविशुद्धिः प्रागुक्तलक्षणा। तस्याष्टावङ्गानिनिश्शङ्कितत्वं, निष्काङ्क्षिता, विचिकित्साविरहता, अमूढदृष्टिता, उपबृंहणं, स्थितीकरणं, वात्सल्यं, प्रभावनं चेति ॥ सम्यग्ज्ञानादिषु मोक्षसाधनेषु तत्साधनेषु च गुर्वादिषु स्वयोग्यवृत्त्या साकार आदरो विनयस्तेन सम्पन्नता विनयसम्पन्नता ॥ अहिं. सांदिषु व्रतेषु तत्प्रतिपालनार्थेषु च क्रोधवर्जनादिषु शीलेषु निरवद्या वृत्तिः शीलव्रतेष्वनतिचारः ॥ जीवादिपदार्थस्वतत्त्वविषये सम्यग्ज्ञाने नित्यं युक्तता अभीक्ष्णज्ञानोपयोगः ॥ संसा. रदुःखान्नित्यभीरुता संवेगः ॥ त्यागो दानं, तत्रिविधमाहारदानमभयदानं ज्ञानदानं चेति । तच्छक्तितो यथाविधि प्रयुज्यमानं त्याग इत्युच्यते ॥ अनिगूहितवीर्यस्य मार्गाविरोधिकायक्लेशस्तपः ॥ यथा भाण्डागारे दहने समुत्थिते तत्प्रशमनमनुष्ठीयते बहूपकारत्वात्तथाऽनेकव्रतशीलसमृद्धस्य मुनेस्तपसः कुतश्चित्प्रत्यूहे समुपस्थिते तत्सन्धारणं समाधिः ॥ गुणवत्दुःखोपनिपाते निरवयेन विधिना तदपहरणं वैयावृत्त्यम् ॥ अह. दाचार्यबहुश्रुतेषु प्रवचनेषु च भावविशुद्धियुक्तोऽनुरागो भक्तिः ॥ पण्णामावश्यकक्रियाणां यथाकालं प्रवर्तनमावश्यकापरिहाणिः ॥ ज्ञानतपोजिनपूजाविधिना धर्मप्रकाशनं मार्गप्रभावना ॥ वत्से धेनुवत्सधर्मणि स्नेहः प्रवचनवत्सलत्वम् ॥ तान्येतानि षोडशकारणानि सम्यग्भाव्यमानानि व्यस्तानि समस्तानि च तीर्थकरनामकर्मास्रवकारणानि प्रत्येतव्यानि ॥
इदानीं नामास्रवाभिधानानन्तरं गोत्रास्रवे वक्तव्ये सति नीचैर्गोत्रस्यास्रवविधानार्थमिदमाह--
॥ परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने
Page #228
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः . च नीचैर्गोत्रस्य ॥ २५ ॥
तथ्यस्य वा दोषस्योद्भावनं प्रति इच्छा निन्दा । गुणोद्भावनाभिप्रायः प्रशंसा । यथासंख्यमभिसम्बन्धः- परनिन्दा , आत्मप्रशंसेति ॥ प्रतिबन्धकहेतुसन्निधाने सति अनुद्भूतवृत्तिता अनाविर्भाव उच्छादनम् । प्रतिबन्धकाभावेन प्रकाशवृत्तिता उद्भावनम् ॥ अत्रापि च यथाक्रममभिसम्बन्धः- सद्गुणोच्छादनमसद्गुणोद्भावनमिति ॥ तान्येतानि नीचे!त्रस्यास्रवकारणानि वेदितव्यानि ॥ .
अथोच्चैर्गोत्रस्य क आस्रवविधिरत्रोच्यते- तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥ २६ ॥ .. तदित्यनेन . प्रत्यासत्तेनींचैर्गोत्रस्यास्रवः प्रतिनिर्दिश्यते ॥
अनेन प्रकारेण वृत्तिविपर्ययः ॥ तस्य विपर्ययस्तद्विपर्ययः ॥ कः पुनरसौ विपर्ययः । आत्मनिन्दा, परप्रशंसा , सद्गुणोद्धावनमसद्गुणोच्छादनं च ॥ गुणोत्कृष्टेषु विनयेनावनतिर्नीचैर्वृत्तिः । विज्ञानादिमिरुत्कृष्टस्यापि सतस्तत्कृतमदविरहोऽनहङ्कारताऽनुत्सेकः । तान्येतान्युत्तरस्योच्चैर्गोत्रस्यास्रवकारणानि भवन्ति ॥
अथ गोत्रानन्तरमुद्दिष्टस्यान्तरायस्य क आस्रव इत्युच्यते
॥ विघ्नकरणमन्तरायस्य ॥ २७ ॥ दानादीन्युक्तानि दानलाभभोगोपभोगवीर्याणि चेत्यत्र । तेषां विहननं विघ्नः । विघ्नस्य करणं विघ्नकरणमन्तरायस्यास्रवविधिर्वेदितव्यः ॥ अत्र चोद्यते-- तत्पदोषनिह्नवादयो ज्ञानदर्शनावरणादीनां प्रतिनियता आस्रवहेतवो वर्णिताः; किं ते प्रतिनियतज्ञा. नावरणाद्यास्रवहेतव एव उताविशेषेणेति । यदि प्रतिनियतज्ञानावरणाद्यास्रवहेतव एव , आगमविरोधः प्रसज्यते। आगमे हि
Page #229
--------------------------------------------------------------------------
________________
१९९
सप्तमोऽध्यायः सप्तकर्माणि आयुर्वाणि प्रतिक्षणं युगपदासवन्तीत्युक्तम् । तद्वि. रोधः स्यात् ॥ अथाविशेषेणास्रवहेतोर्विशेषनिर्देशो न युक्त इति ॥ अत्रोच्यते- यद्यपि तत्प्रदोषादिभिर्ज्ञानावरणादीनां सर्वासां कर्मप्रकृतीनां प्रदेशबन्धनियमो नास्ति । तथाप्यनुभागनियमहेतुवेन तत्प्रदोषनिहवादयो विभज्यन्ते ॥ ७ ॥ ..... .
॥ इति तत्वार्थवृत्तौ सर्वार्थसिद्धिसज्ञिकायां षष्ठोऽध्यायः ॥ . . . ..
.: ॥ ॐ नमः परमात्मने वीतरागाय ॥ ..
॥ अथ सप्तमोऽध्यायः ।। आस्रवपदार्थो व्यख्यातस्तत्प्रारम्भकाले एवोक्तं "शुभः पुण्यस्येति" तत्सामान्येनोक्तम् । तविशेषप्रतिपत्त्यर्थ कः पुनः शुभ इत्युक्ते इदमुच्यते॥ हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥१॥ - प्रमत्तयोगात्प्राणव्यपरोपणं हिंसेत्येवमादिमिः सूहिंसादयो निर्देश्यन्ते । तेभ्यो विरमणं विरतिव्रतमित्युच्यते ॥ व्रतमभिस. धिकृतो नियमः ॥ इदं कर्तव्यमिदं न कर्तव्यमिति वा ॥ ननु च-हिंसादयः परिणामविशेषा अध्रुवाः कथं तेषामपादानत्वमुच्यते? बुध्धपाये , ध्रुवत्वविवक्षोपपत्तेः ॥ यथा धर्माद्विरमतीत्यत्र य एष मनुष्यः सम्भिन्नबुद्धिः स पश्यति- दुष्करो धर्मः फलं चास्य श्रद्धामात्रगम्यमिति स्वबुध्या सम्प्राप्य निवर्तते ॥ एवमि
१ ध्रुवमपायेऽपादानमिति सूत्रस्य सद्भावात् ॥ २ प्रेक्षापूर्वकाशत्यभिप्रायः ॥ ३ आलोचयति ।।
Page #230
--------------------------------------------------------------------------
________________
२००
सर्वार्थसिद्धिः हापि य एष मनुष्यः प्रेक्षापूर्वकारी स पश्यति- य एते हिंसादयः परिणामास्ते पापहेतवः पापकर्मणि प्रवर्तमानानिहैव. राजानो दण्डयन्तिः परत्र च दुःखमाप्नुवन्तीति- स्वबुध्या सम्प्राप्य निवतते ॥ ततो बुध्या ध्र वत्वविवक्षोपपत्तेरपादानत्वं युक्तम् ॥ विरतिशब्दः प्रत्येकं परिसमाप्यते- हिंसाया विरतिः, अनृताद्विरतिरित्येवमादि ॥ तत्र- अहिंसाव्रतमादौ क्रियते प्रधानत्वात् । सत्यादीनि हि तत्परिपालनार्थानि सस्यस्य वृतिपरिक्षेपवत् ॥ सर्वसावद्यनिवृत्तिलक्षणसामायिकापेक्षया एकं व्रतं , तदेव छेदोपस्थापनापेक्षया पञ्चविधमिहोच्यते ॥ ननु च- अस्य व्रतस्यास्रवहेतुत्वमनुपपन्नं सँवरहेतुष्वन्तर्भावात् । सँवरहेतवो वक्ष्यन्ते गुप्तिसमित्यादयः । तत्र दशविधे धर्मे संयमे वा व्रतानामन्तर्भाव इति ॥ नैष दोषः- तत्र सँवरो निवृत्तिलक्षणो वक्ष्यते । प्रवृत्तिश्चात्र दृश्यते हिंसानृतादत्तादानादिक्रियाप्रतीतेः, गुप्त्यादिसँवरपरिकर्मत्वाच ॥ व्रतेषु हि कृतपरिकर्मा साधुः सुखेन सँवरं करोतीति ततः पृथक्त्वेनोपदेशः क्रियते ॥ननु च– षष्ठमणुव्रतमस्ति रात्रिभोजनविरमणं तदिहोपसंख्यातव्यम् । न । भावनास्वन्तर्भावात् । अहिंसावतभावना हि वक्ष्यन्ते । तत्र आलोकितपानभोजनभावना कार्येति ।। तस्य पञ्चतयस्य व्रतस्य भेदप्रतिपयर्थमाह
॥ देशसर्वतोऽणुमहती ॥२॥ - देशः एकदेशः। सर्वः सकलः । देशश्च सर्वश्च देशसः। ताभ्यां देशसर्वतः । विरतिरित्यनुवर्तते । अणु च महच्चाणुमहत्ती। व्रताभिसम्बन्धान्नपुंसकलिङ्गनिर्देशः ॥ यथासंख्यमभिसम्बध्यते । देशतो विरतिरणुव्रतं सर्वतोविरतिर्महाव्रतमिति द्विधा भिद्यते
१ दशविधधर्मान्यतमे.
Page #231
--------------------------------------------------------------------------
________________
सप्तमोऽध्यायः प्रत्येकं व्रतम् ॥ एतानि व्रतानि भावितानि वरौषधवयत्नवते दुःखनिवृत्तिनिमित्तानि भवन्ति ॥ किमर्थ कथं वा भावनं तेषामित्यत्रोच्यते---
॥ तत्स्थैर्यार्थ भावनाः पञ्चपञ्च ॥ ३ ॥
तेषां व्रतानां स्थिरीकरणायैकैकस्य व्रतस्य पंचपंच भावना वेदितव्याः ॥
यद्येवमाद्यस्याहिंसाव्रतस्य भावनाः का इत्यत्रोच्यते॥ वामनोगुप्तीर्यादाननिक्षेपणसमित्यालो
कितपानभोजनानि पञ्च ॥ ४ ॥ वाग्गुप्तिः । मनोगुप्तिः । इर्यासमितिः । आदाननिक्षेपणसमितिः । आलोकितपानभोजनमित्येताः पञ्चाहिंसाव्रतस्य भावनाः ॥
अथ द्वितीयस्य व्रतस्य का इत्यत्रोच्यतेक्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनु
वीचिभाषणं च पञ्च ॥ ५ ॥ क्रोधप्रत्याख्यानम् । लोभप्रत्याख्यानम् । भीरुत्वप्रत्याख्यानम् । हास्यप्रत्याख्यानम् । अनुवीचिभाषणं चेत्येताः पञ्चभावनाः सत्यव्रतस्य ज्ञेयाः ॥ अनुवीचिभाषणं निरवद्यानुभाषणमित्यर्थः ॥
इदानीं तृतीयस्य व्रतस्य का भावना इत्यत्राह॥शून्यागारविमोचितावासपरोपरोधाकरणभैक्षशुद्धि
सद्धर्माविसंवादाः पञ्च ॥ ६ ॥ शून्यागारेषु गिरिगुहातरुकोटरादिष्वावासः । परकीयेषु च
Page #232
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः
विमोचितेष्वावासः । परेषामुपरोधाकरणम्। आचारशास्त्रमार्गेण भैक्षशुद्धिः । ममेदं तवेदमिति सधर्मभिरविसंवादः । इत्येताः पञ्चादत्तादानविरमणव्रतस्य भावनाः ||
अथेदानीं ब्रह्मचर्यव्रतस्य भावना वक्तव्या इत्यत्राह - ॥ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पंच ॥७॥
त्यागशब्दः प्रत्येकं परिसमाप्यते । स्त्रीरागकथाश्रवणत्यागः । तन्मनोहराङ्गनिरीक्षणत्यागः । पूर्वरतानुस्मरणत्यागः । वृष्येष्टरस - त्यागः । शरीरसंस्कारत्यागश्चेति चतुर्थव्रतस्य भावनाः पञ्च विज्ञेयाः ||
अथ पञ्चमव्रतस्य भावनाः का इत्यत्रोच्यते॥ मनोज्ञामनोज्ञेन्द्रियविषय रागद्वेषवर्जनानि पञ्च ॥८॥ पञ्चानामिन्द्रियाणां स्पर्शन | दीनामिष्टानिष्टेषु विषयेषूपनिपतितेषु स्पर्शादिषु रागद्वेषवर्जनानि पञ्च आकिंचन्यस्य व्रतस्य भावनाः प्रत्येतव्याः ॥
२०२
किञ्चान्यद्यथाऽमीषां व्रतानां द्रढिमार्थं भावनाः प्रतीयन्ते तद्विपश्चिद्भिरिति भावनोपदेशः, तथा तदर्थं तद्विरोधिष्वपीत्याह--- ॥ हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥ ९ ॥
अभ्युदयनिःश्रेयसार्थानां क्रियाणां विनाशकप्रयोगोऽपायः । अवद्यं गर्ह्यम् । अपायश्वावद्यं चापायावद्ये तयोर्दर्शनमपायावद्यदर्शनं भावयितव्यम् ॥ क इहामुत्र च । केषु हिंसा? । ? दिषु ॥ कथमिति चेदुच्यते - हिंसायां तावत्, हिंस्रो हि नित्योद्वेजनोयः सततानुबद्धवैरश्च इह् च वधबन्धपरिक्लेशादीन् प्रतिलभते ।
-
Page #233
--------------------------------------------------------------------------
________________
सप्तमोऽध्यायः प्रेत्य चाशुभां गतिम् । गर्हितश्च भवतीति हिंसायां व्युपरमः श्रेयान् ॥ तथा अनृतवादी अश्रद्धेयो भवति इहैव च जिव्हाछेदादीन् प्रतिलभते । मिथ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यो बहूनि व्यसनान्यवामोति प्रेत्य चाशुभां गतिं , गर्हितश्च भवतीति अनृतवचनात् व्युपरमः श्रेयान् ॥ तथा स्तेनः परद्रव्यापहरणासक्तः सर्वस्योद्वेजनीयो भवति । इहैव चाभिघातवघबन्धहस्तपादकर्णनासोतरौष्ठच्छेदनभेदनसर्वस्वहरणादीन् प्रतिलभते प्रेत्य चाशुभां गतिं , गर्हितश्च भवतीति स्तेयात् व्युपरतिः श्रेयसी ॥ तथा अब्रह्मचारी मदविप्रमोद्धान्तचित्तो वनगज इव वासितावञ्चितो विवशो वधबन्धनपरिक्लेशाननुभवति । मोहाभिभूतत्त्वाच्च कार्याकार्यानभिज्ञो न किञ्चित्कुशलमाचरति । पराङ्गनालिङ्गनसङ्गकृतरतिश्चेहैव वैरानुबन्धिनो लिङ्गच्छेदनवधबन्धसर्वस्वहरणादीनपायान् प्रामोति । प्रेत्य चाशुभां गतिमश्नुते, गर्हितश्च भवति, अतो विरतिरात्माहिता ॥ तथा परिग्रहवान् शकुनिरिव गृहीतमांसखण्डोऽन्येषां तदर्थिनां पतत्रिणामिहैव तस्कारादीनामभिभवनीयो भवति । तदर्जनरक्षणप्रयत्नकृताँश्च दोषान् बहूनवामोति न चास्य तृप्तिर्भवति इन्धनरिवाः । लोभाभिभूतत्वाच्च कार्याकार्यानपेक्षो भवति प्रेत्य चाशुभां गतिमास्कन्दते । लुब्धोऽयमिति गर्हितश्च भवतीति: तद्विरमणं श्रेयः ॥ एवं हिंसादिष्वपायावद्यदर्शनं भावनीयम् ॥ .. . - हिंसादिषु भावनान्तरप्रतिपादनार्थमाह.. ॥ दुःखमेव वा ॥ १० ॥
हिंसादयो दुःखमेवेति भावयितव्याः ॥ कथं हिंसादयो दुःखम् ! दुःखकारणत्वात् । यथा अन्नं वै प्राणा इति ॥ कार. णस्य कारणत्वाद्वा यथा धनं प्राणा इति । धनकारणमन्नपानं अन्नपानकारणाः प्राणा इति ॥ तथा हिंसादयोऽसद्वेद्यकर्मकारणम् ।
Page #234
--------------------------------------------------------------------------
________________
२०४
सर्वार्थसिद्धिः
असद्वेधकर्म च दुःखकारणमिति दुःखकारणे दुःखकारणकारणे वा दुःखोपचारः ॥ तदेतत् दुःखमेवेति भावनं परोत्मसाक्षिकमवगन्तव्यम् (१) ॥ ननु च तत्सर्वं न दुःखमेव विषयरतिसुखसद्भावात् । न तत्सुखं वेदनाप्रतिकारत्वात्कच्छूकण्डूयनवत् ॥ पुनरपि भावनान्तरार्थमाह
॥ मैत्रीप्रमोदकारुण्यमाध्यस्थानि च सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥ ११ ॥
परेषां दुःखानुत्पत्त्यभिलाषो मैत्री । वदनप्रसादादिभिरभिव्यज्यमानान्तर्भक्तिरागः प्रमोदः । दीनानुग्रहभावः कारुण्यम् । रागद्वेषपूर्वक पक्षपाताभावो माध्यस्थम् । दुष्कर्मविपाकवशान्नानायोनिषु सीदन्तीति सत्त्वा जीवाः । सम्यग्ज्ञानादिभिः प्रकृष्टा गुणाधिकाः । असद्वेद्योदयापादितक्लेशाः क्लिश्यमानाः । तस्वार्थश्रवणग्रहणाभ्यामसम्पादितगुणा अविनेयाः । एतेषु सत्त्वादिषु यथासंख्यं मैत्र्यादीनि भावयितव्यानि ॥ सर्वसत्त्वेषु मैत्री, गुणाधिकेषु प्रमोदः क्लिश्यमानेषु कारुण्यं, अविनेयेषु माध्यस्थमित्येवं भावयतः पूर्णान्य हिंसादीनि व्रतानि भवन्ति ॥
"
पुनरपि भावनान्तरमाह
॥ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥ १२ ॥ जगत्स्वभावस्तावदनादिर निधनो वेत्रासनझल्लरी मृदङ्गनिभः । अत्र जीवा अनादिसंसारेऽनन्तकालं नानायोनिषु दुःख भोजंभोजं पर्यटन्ति । न चात्र किञ्चिन्नियतमस्ति । जलबुदबुदोपमं
----
१ अत्र ' परत्रात्रसाक्षिकमिति पाठस्तालपत्रपुस्तके वर्तते । परन्नात्मसाक्षिकमित्यन्यः पाठस्तृतीयपुस्तके वर्तते ॥
Page #235
--------------------------------------------------------------------------
________________
सप्तमोऽध्याय
२०५ जीवितं, विद्युन्मेघादिविकारचपला भोगसम्पद इत्येवमादि जगत्स्वभावचिन्तनात्संसारात्संवेगो भवति ॥ कायस्वभावश्च अनित्यता दुःख. हेतुत्वं निःसारता अशुचित्वमित्येवमादि ॥ कायस्वभावचिन्तनाद्विषयरागनिवृत्तर्वैराग्यमुपजायते इति जगत्कायस्वभावौ भावयितव्यौ ॥
अत्राह उक्तं भगवता हिंसादिनिवृत्तिव्रतमिति, तत्र न जानीमः के हिंसादयः क्रियाविशेषा इत्यत्रोच्यते । युगपद्वक्तुमशक्यत्वातल्लक्षणनिर्देशस्य क्रमप्रसङ्गे याऽसावादौ चोदिता सैव तावदुच्यते॥ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥ १३ ॥
प्रमादः सकषायत्वं तद्वानात्मपरिणामः प्रमत्तः प्रमत्तस्य योगः प्रमत्तयोगः तस्मात्प्रमत्तयोगात् इंन्द्रियादयो दशप्राणास्तेषां यथासंभवं व्यपरोपणं वियोगकरणं हिंसेत्यभिधीयते ॥ सा प्राणिनो दुःखहेतुत्वादधर्भहेतुः ॥ प्रमत्तयोगादिति विशेषणं केवलं प्राणव्यपरोपणं नाधर्मायेति ज्ञापनार्थम् ॥ उक्तं च- वियोजयति चासुभिनं च वधेन सँयुज्यते इति ॥ उक्तं च- उच्चाळिदंमि पादे इरियासमिदस्स णिग्गमठ्ठाणे । आवादेज कुळिङ्गो मरेज तं जोगमासेजें ॥ १॥ णहि तस्स तण्णिमित्तो बन्धो सुहमोवि देखिदो समये ॥ मुच्छापरिग्गहोत्ति य अझ्झप्पपमाणदो भणिदो ॥२॥ ननु च प्राणव्यपरोपणाभावेऽपि प्रमत्तयोगमात्रादेव हिंसेप्यते । उक्तं च-- मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा। पयदस्स णस्थि बन्धो हिंसामितेण समिदस्स ॥ १॥ इति । नैष दोषः । अत्रापि प्राणव्य
१ एकेन्द्रियादिषु यावतां सम्भवस्तावतां व्यपरोपणम् । २ प्रियेत ३ पादयोगम्. ४ आसाद्य. ५ अध्यात्म ॥
Page #236
--------------------------------------------------------------------------
________________
.२०६
सर्वार्थसिद्धिः परोपणमस्ति भावलक्षणम् ॥ तथा चोक्तम्- स्वयमेवात्मनाss स्मानं हिनस्त्यात्मा प्रमादवान् ॥ पूर्व प्राण्यन्तराणान्तु पश्चात्स्याद्वा न वा वधः ॥ १॥ इति ॥
आह अभिहितलक्षणा हिंसा; तदनन्तरोद्दिष्टमनृतं किं लक्षणमित्यत्रोच्यते... ॥ असदभिधानमनृतम् ॥ १४ ॥
- सच्छब्दः प्रशंसावाची न सदसदप्रशस्तमिति यावत् । असतोऽर्थस्याभिधानमसदभिधानमनृतम् ॥ ऋतं सत्यं न ऋतमनृतम् ॥ किं पुनरप्रशस्तं ? प्राणिपीडाकरं यत्तदप्रशस्तम् ॥ विद्यमानार्थविषयं वा अविद्यमानार्थविषयं वा ॥ उक्तं चप्रागेवाहिंसाप्रतिपालनार्थमितरद्रतमिति। तस्माद्धिंसाकर्मवचोऽनृतमिति निश्चयम् ॥
अथानृतानन्तरमुद्दिष्टं यत्स्तेयं तस्य किं लक्षणमित्यत आह.. ॥ अदत्तादानं स्तेयम् ॥ १५ ॥
आदानं ग्रहणमदत्तस्यादानमदत्तादानं स्तेयमित्युच्यते । यद्येवं कर्मनोकर्मग्रहणमपि स्तेयं प्रामोति अन्येनादत्तत्त्वात् ॥ नैष दोषः। दानादाने यत्र सम्भवतस्तत्रैव स्तेयव्यवहारः । कुतः ? अदत्तग्रहणसामर्थ्यात् ॥ एवमपि भिक्षोमिनगरादिषु भ्रमणकाले रथ्याद्वारादिप्रवेशाददत्तादानं प्रामोति ॥ नैष दोषः। सामान्येन मुक्तत्वात् ॥ तथाहि- अयं भिक्षुः पिहितद्वारा. दिषु न प्रविशति अमुक्तत्वात् ॥ अथवा प्रमत्तयोगादित्यनुवर्तते प्रमत्तयोगाददत्तादानं यत् तत्स्तयमित्युच्यते ॥ न च रथ्यादि प्रविशतः प्रमत्तयोगोऽस्ति । तेनैतदुक्तं भवति यत्र संक्ले. शपरिणामेन प्रवृत्तिस्तत्र स्तेयं भवति बाह्यवस्तुनो ग्रहणे वाड ग्रहणे च ॥
Page #237
--------------------------------------------------------------------------
________________
सप्तमोऽध्यायः
अथ चतुर्थमत्रझ किं लक्षणमित्यत्रोच्यते - ॥ मैथुनमब्रह्म ॥ १६ ॥
२०७
स्त्रीपुंसयोश्चारित्रमोहोदये सति रागपरिणामाविष्टयोः परस्परस्पर्शनं प्रति इच्छा मिथुनम् । मिथुनस्य कर्म मैथुनमित्युच्यते । न सर्वं कर्म । कुतः - लोके शास्त्रे च तथा प्रसिद्धेः । लोके तावदागोपालादिप्रसिद्धं स्त्रीपुंसरागपरिणामनिमित्तं चेष्टितं मैथुनमिति । शास्त्रेऽपि अश्ववृषभयो मैथुनेच्छायामित्येवमादिषु तदेव गृह्यते ॥ अपि च प्रमत्तयोगादित्यनुवर्तते तेन स्त्रीपुंसमिधुन विषयं रतिसुखार्थं चेष्टितं मैथुनमिति गृह्यते न सर्वम् ॥ अहिंसादयो धर्मा यस्मिन् परिपाल्यमाने बृंहन्ति वृद्धिमुपयान्ति तद्ब्रश । न ब्रह्म अब्रह्म । किं तत् ? मैथुनम् ॥ तत्र हिंसादयो दोषाः पुष्यन्ति ॥ यस्मान्मैथुनसेवनप्रवणः स्थास्तूश्चरिष्णून् प्राणिनो हिनस्ति । मृषावादमाचष्टे । अदत्तमादत्ते । सचेतनमितरच्च परिग्रहं गृह्णाति ॥
अथ पञ्चमस्य परिग्रहस्य किं लक्षणमित्यत आह॥ मूर्छा परिग्रहः ॥ १७ ॥
मूर्चेत्युच्यते । का मूर्छा बाबानां गोमहिषमणिमुक्तादीनां चेतनाचेतनानां रागादीनामुपधीनां च संरक्षणार्जनसंस्कारादिलक्षणाव्यावृत्तिर्मूर्छा ॥ ननु च - लोके वातादिप्रकोपविशेषस्य मूर्खेति प्रसिद्धिरस्ति तद्ब्रहणं कस्मान्न भवति ? सत्यमेवैतत् । मूर्छतिरयं मोहसामान्ये वर्तते । सामान्यचोदनाश्च विशेषेष्वव - तिष्ठन्त इत्युक्ते विशेषे व्यवस्थितः परिगृह्यते । परिग्रहप्रकरणात् ॥ एवमपि बाह्यस्य परिग्रहत्वं न प्राप्नोति । अध्यात्मिकस्य संग्रह - णात् ॥ सत्यमेवैतत् - प्रधानत्वादभ्यन्तर एव संगृह्यते । असत्यपि
Page #238
--------------------------------------------------------------------------
________________
२०८
सर्वार्थसिद्धिः बाझे ममेदमिति सङ्कल्पवान् सपरिग्रहो भवति ॥ अथ बाह्यः परिग्रहो न भवत्येव । भवति च मूर्छाकारणत्वाद्यदि ममेदमिति, सङ्कल्पपरिग्रहसज्ञानाद्यपि परिग्रहः प्रामोति; तदपि हि ममेदमिति सकल्प्यते रागादिपरिणामवत् ॥ नैष दोषः- प्रमत्तयोगादित्यनुवर्तते । ततो ज्ञानदर्शनचारित्रवतोऽप्रमत्तस्य मोहाभावान्न मूर्छाऽस्तीति निःपरिग्रहत्वं सिद्धम् ॥ किञ्च तेषां ज्ञानादीनामहेयत्वादात्मस्वभावत्वादपरिग्रहत्वं । रागादयः पुनः कर्मोदयतन्त्रा इति अनास्मस्वभावत्वाद्धेयाः । ततस्तेषु सङ्कल्पः परिग्रह इति युज्यते । तन्मूलाः सर्वे दोषाः ॥ ममेदमिति हि सति संकल्पे संरक्षणादयः सञ्जायन्ते । तत्र च हिंसाऽवश्यम्भाविनी । तदर्थमनृतं जल्पति । चौर्य वा आचरति । मैथुने च कर्मणि प्रयतते । तत्प्रभवा नरकादिषु दुःखप्रकाराः ॥
एवमुक्तेन प्रकारेण हिंसादिदोषदर्शिनोऽहिंसादिगुणाहि. तचेतसः परमप्रयत्नस्याहिंसादीनि व्रतानि यस्य सन्ति सः
॥ निश्शल्यो व्रती ॥ १८॥ शृणाति हिनस्तीति शल्यम् । शरीरानुप्रवेशिकाण्डादिप्रहरणं तच्छल्यमिव शल्यं; यथा तत् प्राणिनो बाधाकरं तथा शरीरमानसबाधाहेतुत्वाकर्मोदयविकारः शल्यमित्युपचर्यते ॥ तत्रिविधम्- मायाशल्यम् । निदानशस्यम् । मिथ्यादर्शनशल्यमिति ॥ माया निकृतिर्वञ्चना। निदानं विषयभोगाकाङ्क्षा । मिथ्यादर्शनमतत्त्वश्रद्धानम् । एतस्मात्रिविधाच्छल्यान्निष्क्रान्तो निश्शल्यो व्रती इत्युच्यते । अत्र चोद्यते- शल्याभावान्निःशल्यः ता. मिसम्बन्धाद्ती, न निश्शल्यत्वाद्रती भवितुमर्हति । नहि देवदत्तो दण्डसम्बन्धाच्छत्री भवति इत्यत्रोच्यते- उभयविशेषणविशिष्टत्वान्न
Page #239
--------------------------------------------------------------------------
________________
सप्तमोऽध्यायः
२०९ हिंसाधुपरतिमात्रसम्बन्धात् व्रती भवत्यन्तरेण शल्याभावम् । सति शल्यापगमे व्रतसम्बन्धात् व्रती विवक्षितो यथा बहुक्षीरघृतो. गोमानिति व्यपदिश्यते । बहुक्षीरघृताभावात्सतीष्वपि गोषु न गोमांस्तथा सशल्यत्वात्सत्स्वपि व्रतेषु न व्रती ॥ यस्तु निःशल्यः स व्रती। तस्य भेदप्रतिपत्त्यर्थमाह
॥ अगार्यनगारश्च ॥ १९ ॥ प्रतिश्रयार्थिभिः अङ्गयते इति अगारं वेश्म, तद्वानगारी। न विद्यते अगारमस्येत्यनगारः ॥ द्विविधो व्रती अगारी अनगारश्वेति ॥ ननु चात्र विपर्ययोऽपि प्रामोति- शून्यागारदेवकुलाद्यावासस्य मुनेरगारित्वं, अनिवृत्तविषयतृष्णस्य कुतश्चित्कारणाद् गृहं विमुच्य वने वसतोऽनगारत्वञ्च प्रामोतीति ॥ नैष दोषः । भावागारस्य विवक्षितत्वात् ॥ चारित्रमोहोदये सत्यगारसम्बन्ध प्रत्यनिवृत्तः परिणामो भावागारमित्युच्यते ॥ स यस्यासावगारी ॥.. वने वसन्नपि च गृहे वसन्नपि तदभावादनगार इति च भवति ॥ ननु चागारिणो व्रतित्वं न प्रामोति असकलव्रतत्वात् ॥ नैष दोषः । नैगमादिनयापेक्षया अगारिणोऽपि वतित्वमुपपद्यते । नगरावासवत् ॥ यथा गृहे अपवरके वा वसन्नपि नगगवास इत्युच्यते । तथा असकलव्रतोऽपि नैगमसंग्रहव्यवहारनयापेक्षया व्रतीति व्यपदिश्यते ॥
___ अत्राह किं हिंसादीनामन्यतमस्माद्यः प्रतिनिवृत्तः से खल्वगारी व्रती । नैवम् ॥ किं तर्हि ? । पञ्चतय्या अपि विरतेवैकल्येन विवक्षित इत्युच्यते
॥ अणुक्तोऽगारी ॥ २० ॥
१ आश्रयातिभिः
Page #240
--------------------------------------------------------------------------
________________
२.१०
सर्वार्थासद्धिः १८:, अणुशब्दोऽल्पवचनः । अणूनि व्रतान्यस्य अणुवातोऽगारीत्युच्यते ॥ कथमस्य व्रतानामणुत्वं ? सर्वसायद्यनिवृत्यसम्भवात् ।। . कुलस्तर्थसौ : निवृत्तः . त्रसपाणिव्यपरोपणानिवृत्तः अगारीत्याधः : मणुव्रतम् ॥ स्नेहमोहादिवशाद् गृहविनाशे ग्रामविनाशे वा कारण; मित्यभिमतादसत्यवचनानिवृत्तो गृहीति द्वितीयमणुव्रतम् ॥ अन्यपीडाकरपार्थिवभयादिवशादवश्यं परित्यक्तमपि यददत्तं ततः प्रतिनिवृत्तादरः श्रावक इति तृतीयमणुव्रतम् ॥ उपाचाया अनुपात्तायोश्च पराङ्गनायाः सङ्गानिवृत्तरतिर्गृहीति चतुर्थमणुव्रतम् ॥ धनधान्यक्षेत्रादीनामिच्छावशात् कृतपरिच्छेदो गृहीति पञ्चममणुव्रतम्।।
' आह अपरित्यक्तागारस्य किमेतावानेव विशेषः आहोस्विदस्ति कश्चिदन्योऽपीत्यत आह . .
दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासो-: पभोगपरिभोगपरिमाणातिथिसँविभागवतसम्पन्नश्च ॥
" विरतिशब्दः प्रत्येक परिसमाप्यते । दिग्विरतिः । देशविरतिः । अनर्थदण्डविरतिरिति ॥ एतानि त्रीणि गुणवतानि व्रतशब्दस्य प्रत्येकममिसम्बन्धात् ॥ तथा सामायिकवतम् । प्रोषधोपवासव्रतम् । उपभोगपरिभोगपरिमाणवतम् । अतिथिसंविभागव्रतमिति ॥ एतैर्वतैः सम्पन्नो गृही विरताविरत इत्युच्यते । तद्यथा- दिक्पाच्यादिः तंत्र प्रसिद्धैरभिज्ञानरवधिं कृत्वा नियमनं दिग्विरतिव्रतम् ॥ ततो बहिस्त्रसस्थावरव्यपरोपणनिवृत्तेहाव्रतत्वमवसेयम् । तत्र लाभे सत्यपि परिणामस्य निवृत्तेोभनिरा' सश्च कृतो भवति ।। प्रामादीनामवधृतपरिमाणप्रदेशो देशः । ततो बहिनिवृतिर्देशविरतिव्रतम् । पूर्ववद्वहिर्महाव्रतत्वं . व्यवस्थाप्यम् ।।. असत्युपकारे पापादानहेतुरनर्थदण्डः । ततो विरतिरनर्थदण्डविरतिः ॥
11
T
..
.
".
Page #241
--------------------------------------------------------------------------
________________
सप्तमोऽध्याय • अनर्थदण्ड : पंचविधः । अपध्यानम् । पापोपदेशः । प्रमादाचरितम्। 'हिंसाप्रदानम् । अशुभश्रुतिरिति ॥ तत्र परेषां जयपराजयवधबन्धनाझच्छेदपरस्वहरणादि कथं स्यादिति मनसा चिन्तनमपध्यानम् ।। तिर्यक्लेशवाणिज्यपाणिवधकारम्भकादिषु पापसँयुक्तं वचनं पापोपदेशः ॥ प्रयोजनमन्तरेण वृक्षादिच्छेदनभूमिकुट्टनसलिलसेचनीयबधकार्य प्रमादाचरितम् ॥ विषकण्टकशस्त्रामिरज्जुकशादण्डादिहि"सोपकरणप्रदानं हिंसाप्रदानम् ॥ हिंसागारादिप्रवर्धनदुष्टकथाश्रवणशिक्षणव्यापृतिरशुभश्रुतिः ॥ समेकीभावे वर्तते । तद्यथा सजत घृतं सङ्गतं तैलमित्युच्यते एकीभूतमिति गम्यते । एकत्वेन अथनं गमनं समयः, समय एव सामायिकं , समयः प्रयोजनमस्येति वा विगृह्म :सामायिकम् । इयति देशे एतावति काले इत्यवधारिते सामायिक स्थितस्य महाव्रतत्वं पूर्ववद्वेदितव्यम् ॥ अणुस्थूलकृ. तहिंसादिनिवृत्तेस्सयमप्रसङ्ग इति चेन्न । तद्धातिकर्मोदयासद्भावात् ।। महानतत्वाभावः इति चेदुपचाराद्राजकुले सर्वगतचैत्राभिधानवत् ।। प्रोषधशब्दः पर्वपर्यायवाची ॥ शब्दादिग्रहणं प्रति निवृत्तौत्सुक्यानि पञ्चापीन्द्रियाण्युपेत्य तस्मिन् वसन्तीत्युपवासः । चतुर्विधाहारपरित्याग इत्यर्थः ॥ प्रोषधे उपवासः प्रोषधोपवासः । स्वशरीरसंस्कारकारणस्नानगन्धमाल्याभरणादिविरहितः शुभावकाशे, साधुनिवासे चैत्यालये स्वप्रोषधोपवासगृहे वा धर्मकथाचिन्तनावहितान्तःकरणः सन्नुपवसेत् निरारम्भश्रावकः ॥ उपभोगोऽशनपानगन्धमाल्यादिः ।.. परिभोग आच्छादनप्रावरणालङ्कारशयनासनगृहयानंचाहनादिः । तयोः परिमाणमुपभोगपरिभोगपरिमाणम् ।। मधु मांसं माञ्चः सदा परिहर्तव्यं त्रसघातानिवृत्तचेतसा ॥ केतस्पर्जुन:पुष्पादीनि शृंगवेरमूलकादीनि बहुजन्तुयोनिस्थानान्यनन्तकाग्रव्य. पदेशाणि परिहर्तव्यानि बहुधाताल्पफलत्वात् ॥ यानवाहनाभरः
Page #242
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः णादिष्वेतावदेवेष्टमतोऽन्यदनिष्टमित्यनिष्टान्निवर्तनं कर्तव्यं कालनियमेन यावज्जीव वा यथाशक्ति ॥ संयममविनाशयन्नततीत्यतिथिः । अथवा नास्य तिथिरस्तीत्यतिथिः अनियतकालागमन इत्यर्थः ॥ अतिथये सँविभागोऽतिथिसँविभागः । स चतुर्विधः- भिक्षोपकरणौषधप्रतिश्रयभेदात् ॥ मोक्षार्थमभ्युद्यतायातिथये संयमपरायणाय शुद्धाय शुद्धचेतसा निरवद्या भिक्षा देया। धर्मोपकरणानि च सम्यग्दर्शनाद्युपबृंहणानि दातव्यानि । औषधमपि योग्यमुपयोजनीयम् । प्रतिश्रयश्च परमधर्मश्रद्धया प्रतिपादयितव्य इति ॥ च शब्दो वक्ष्यमाणगृहस्थधर्मसमुच्चयार्थः ।।
कः पुनरसौ ?-- ॥ मारणान्तिकी सल्लेखनां जोषिता ॥ २२ ॥
स्वपरिणामोपासस्यायुष इन्द्रियाणां बलानां च कारणवशासङ्कयो मरणम् । अन्तग्रहणं तद्भवमरणप्रतिपत्त्यर्थम् । मरणमन्तः मरणान्तः। स प्रयोजनमस्य इति मारणान्तिकी ॥ सम्यक्कायकपायलेखना सल्लेखना । कायस्य बाह्यस्याभ्यन्तराणां च कषायाणां तत्कारणहापनक्रमेण सम्यग्लेखना सल्लेखना । तां मारणान्तिकी सल्लेखनां जोषिता सेविता गृहीत्यभिसम्बध्यते ॥ ननु च विस्पष्टार्थ सेवितेत्येवं वक्तव्यम् । न । अर्थविशेषोपपत्तेः। न केवलं सेवनमिह परिगृह्यते । किं तर्हि ? प्रीत्यर्थोऽपि- यस्मादसत्यां प्रीतौ बलान्न सल्लेखना कार्यते । सत्यां हि प्रीतौ स्वयमेव करोति ॥ स्यान्मतमात्मवधः प्रामोति स्वाभिसन्धिपूर्वकायुरादिनि. वृत्तेः ॥ नैष दोषः । अप्रमत्तत्त्वात् । प्रमत्तयोगात्प्राणव्यपरोपणं हिंसेत्युक्तम् । न चास्य प्रमादयोगोऽस्ति । कुतः? रागाद्यभावात् ।
१ तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना ॥ अतिथि ..तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥
Page #243
--------------------------------------------------------------------------
________________
सप्तमोऽध्यायः रागद्वेषमोहाविष्टस्य हि विषशस्त्राद्युपकरणप्रयोगवशादात्मानं प्रतः स्वघातो भवति, न सल्लेखनां प्रतिपन्नस्य रागादयः : सन्ति ततो नात्मवधदोषः ॥ उक्तं च- रागादीणमणुप्पा अहिंसगत्ति भासिदं समये । तेसिं चेदुप्पत्ती हिंसेत्ति जिणेहि णिहिट्ठा ॥१॥ किन्चमरणस्यानिष्टत्वाद्यथा वणिजो विविधपण्यदानादानसञ्चयपरस्य स्वगृहविनाशोऽनिष्टः, तद्विनाशकारणे च कुतश्चिदुपस्थिते यथाशक्ति च परिहरति , दुःपरिहारे च पण्यविनाशो यथा न भवति तथा यतते एवं गृहस्थोऽपि व्रतशीलपण्यसञ्चये प्रवर्तमानः तदाश्रयस्य न पातमभिवाञ्छति । तदुपप्लवकारणे चोपस्थिते स्वगुणाविरोधेन परिहरति । दुःपरिहारे च यथा स्वगुणविनाशो न भवति तथा प्रयतत इति कथमात्मवधो भवेत् ॥
अत्राह निःशल्यो व्रतीत्युक्तं तत्र च तृतीयं शल्यं मिथ्यादर्शनम् । ततः सम्यग्दृष्टिना तिना निःशल्येन भवितव्यमित्युक्तं तत्सम्यग्दर्शनं किं सापवादं निरपवादमिति ? उच्यतेकस्यचिन्मोहनीयावस्थाविशेषात्कदाचिदिमे भवन्त्यपवादाः॥ शङ्काकालाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः
सम्यग्दृष्टेरतिचाराः ॥ २३ ॥ निःशकितत्वादयो व्याख्याता दर्शनविशुद्धिरित्यत्र । तत्प्रतिपक्षभूताः शङ्कादयो वेदितव्याः। अथ प्रशंसासंस्तवयोः को विशेषः ? मनसा मिथ्यादृष्टेनिचारित्रगुणोद्भावनं प्रशंसा, भूताभूतगुणोद्भाववचनं संस्तव इत्ययमनयोर्मेदः ॥ ननु च सम्यग्दर्शनमष्टाजमुक्तं तस्यातिचारैरप्यष्टभिर्भवितव्यम् ॥ नैष दोषः । व्रतशीलेषु पञ्चपञ्चातिचारा इत्युत्तरत्र विवक्षुणाऽऽचार्येण प्रशं
• १ अनुत्पाद इत्यर्थः २ अहिंसकत्वमिति.
Page #244
--------------------------------------------------------------------------
________________
HLEF
सर्वार्थसिद्धिः सासंस्तवयोरितरीनतिचारानन्तव्य पञ्चैवातिचारा उक्ताः ॥
आह सम्यग्दृष्टेरतिचारा उक्ताः किमेवं व्रतशीलेष्वपि भवन्तीति । ओमित्युक्त्वा. तदतिचारसंख्यानिर्देशार्थमाह..॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ २४ ॥
- ब्रतानि च शीलानि च व्रतशीलानि तेषु व्रतशीलेषु । शीलग्रहणमनर्थकम्, व्रतग्रहणेनैव सिद्धेः ॥ नानर्थकम् - विशे. पज्ञापनार्थ व्रतपरिरक्षणार्थं शीलमिति दिग्विरत्यादीनीहः शील. ग्रहणेन गृह्यन्ते ॥
... अगार्यधिकारात् अगारिणो व्रतशीलेषु पंच पंचातिचारा वक्ष्यमाणा यथाक्रमं वेदितव्याः । तद्यथा- आद्यस्य ताबदहिंसात्तस्य॥ बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः ॥२५॥
अभिमतदेशगतिनिरोधहेतुबन्धः ॥ दण्डकशावेत्रादिभिरभिघातः प्राणिनां वधः। न प्राणव्यपरोपणम् । ततः प्रागेवास्य विनिवृत्तत्त्वात् ॥ कर्णनासिकादीनामवयवानामपनयनं छेदः ॥ न्याय्यभारादतिरिक्तवाहनमतिमारारोपणम् ॥ गवादीनां क्षुत्पिपा. साबाधाकरणमन्नपाननिरोधः ॥ एते पंचाहिंसाणुव्रतस्यातिचाराः ॥
॥ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रिया" न्यासापहारसाकारमन्त्रभेदाः ॥ २६ ॥
अभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेषु अन्यस्यान्यथा प्रवतनमतिसन्धापनं वा मिथ्योपदेशः । यत्स्त्रीपुंसाभ्यामेकान्तेऽनुष्ठितस्य क्रियाविशेषस्य . प्रकाशनं तद्रहोभ्याख्यानं वेदितव्यम् । अन्येनानुक्तं यत्किंचित्परप्रयोगवशादेवं तेनोक्तमनुष्ठितमिति वंच.
Page #245
--------------------------------------------------------------------------
________________
सप्तमोऽध्यायः नानिमित्त: लेखन कूटलेखक्रिया । हिरण्यादेवस्या निक्षेप्नुर्विी स्मृतसंख्यस्याल्पसंख्येयमादधानस्यैवमित्यनुज्ञानवचनं त्यासापहारः । अर्थप्रकरणाङ्गविकारभूनिक्षेपणादिभिः पराकूतमुपलभ्य तदाविष्का रपामसूयादिनिमित्त यत्तत्साकारमन्त्रभेद इति कथ्यते ॥ त एते. सत्याणुव्रतस्य पंचातिचारा बोद्धव्याः ॥ . ॥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥ २७ ॥
मुष्णन्तं स्वयमेव वा प्रयुक्तेऽन्येन वा प्रयोजयति प्रयुतमनुमन्यते वा यतः स स्तेनप्रयोगः । अप्रयुक्तेनाननुमतेन च चौरेणानीतस्य ग्रहणं तदाहृतादानम् । उचितन्यायादन्येन प्रकारेण दानग्रहणमतिक्रमः । विरुद्धं राज्यं विरुद्धराज्यं विरु:द्धराज्येऽतिक्रमः विरुद्धराज्यातिक्रमः । तत्र ह्यल्पमूल्यलभ्यानि महार्याणि द्रव्याणीति प्रयत्नः ॥ प्रस्थादि मानं, तुलाद्युन्मानमेतेन न्यूनेनान्यस्मै देयमधिकेनात्मनो ग्राह्यमित्येवमादिकूटप्रयोगो हीनाधिकमानोन्मानम् ॥ कृत्रिमैर्हिरण्यादिभिर्वचनापूर्वको व्यवहारः प्रतिरूपकव्यवहारः॥ त एते. पंचादत्तादानाणुव्रतस्यातिचाराः ।। ॥ परविवाहकरणेत्वारिकापरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडाकामतीव्राभिनिवेशाः ॥ २८ ॥
कन्यादानं विवाहः परस्य विवाहः परविवाहः परविवाहस्य करणं परविवाहकरणम् । परपुरुषानेति गच्छतीत्येवं. शीला इत्वरी, कुत्सायां क इत्वरिका । या एकपुरुषभर्तृका सा परिगृहीता। या. गणिकात्वेन (श्चलित्वेन वा परपुरुषगमनशीलगः अस्वामिका सा. अपरिगृहीता । परिगृहीता चापरिगृहीता च. परिगृहीतापरिगृहीते। इत्वरिके च ते. परिमू
Page #246
--------------------------------------------------------------------------
________________
२१६
सर्वार्थसिद्रिः हीतापरिगृहीते च. इत्वरिकापरिगृहीताऽपरिगृहीते, . तयोर्गमने इत्वरिकापरिगृहीतापरिगृहीतागमने । अझं प्रजननं योनिश्च ततोऽन्यत्र क्रीडा अनङ्गक्रीडा । कामस्य प्रवृद्धः परिणामः कामतीव्राभिनिवेशः। त एते पञ्च स्वदारसन्तोषव्रतस्यातिचाराः।। ॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदास
कुप्यप्रमाणातिक्रमाः॥ २९ ॥ क्षेत्रं सस्याधिकरणम् । वास्तु अगारम् । हिरण्यं रूप्यादि व्यवहारतन्त्रम् । सुवर्ण प्रतीतम् । धनं गवादि । धान्यं व्रीह्यादि । दासीदासं भृत्यस्त्रीपुंसवर्गः। कुप्यं क्षौमकार्पासकौशेयचन्दनादि । क्षेत्रं च वास्तु च क्षेत्रवास्तु, हिरण्यं च सुवर्ण च हिरण्य. सुवर्ण, धनं च धान्यं च धनधान्यं, दासी च दासश्च दासीदासं, क्षेत्रवास्तु च हिरण्यसुवर्णं च धनधान्यं च दासीदासं च कुप्यं च- क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यानि । एतावानेव परिग्रहो मम नान्य इति परिच्छिन्नात्प्रमाणात्क्षेत्रवास्त्वादिविषयादतिरेका अतिलोभवशात्प्रमाणातिकमा (रेका) इति प्रत्याख्यायन्ते ॥ त एते परिग्रहपरिमाणवतस्यातिचाराः।।
उक्ता व्रतानामतिचाराः शीलानामतिचारा वक्ष्यन्ते, तद्यथा॥ ऊर्ध्वाधस्तिर्यग्व्यातक्रमक्षेत्रवृद्धि
स्मृत्यन्तराधानानि ॥ ३०॥ परिमितस्य दिगवधेरतिलकनमतिक्रमः। स समासतस्त्रि. विधः- ऊर्ध्वातिक्रमः । अधोऽतिक्रमः । बिलप्रवेशादिस्तिर्यगतिक्रमः ॥ परिगृहीताया दिशो लोभावेशादाधिक्याभिसन्धिः क्षेत्रवृद्धिः । स एषोऽतिक्रमः प्रमादान्मोहाद्यासङ्गाद्वा भवतीत्यवसेयः ॥.
Page #247
--------------------------------------------------------------------------
________________
सप्तमोऽध्यायः
२१७ अननुस्मरणं स्मृत्यन्तराधानम् । त एते दिग्विरमणस्यातिचाराः ॥ ॥ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ३१
आत्मना सङ्कल्पिते देशे स्थितस्य प्रयोजनवशाद्यत्कि - चिदानयेत्याज्ञापनमानयनम् । एवं कुर्विति नियोगः प्रेष्यप्रयोगः । व्यापारकरान्पुरुषान्प्रत्यभ्युत्कासिकादिकरणं शब्दानुपातः । स्वविग्रहदर्शनं रूपानुपातः । लोष्टादिनिपातः पुद्गलक्षेपः ॥ त एते देशविरमणस्य पञ्चातिचाराः ॥
॥ कन्दर्पकौत्कुच्य माखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ॥ ३२ ॥
रागोद्रेकात्प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । तदेवोभयं परत्र दुष्टकायकर्मप्रयुक्तं कौत्कुच्यम् । धाष्टर्यप्रायं यत्कि - ञ्चनानर्थकं बहुप्रलपितं मौखर्यम् । असमीक्ष्य प्रयोजनमाधिक्येन करणमसमीक्ष्याधिकरणम् । यावताऽर्थेनोपभोगपरिभोगौ सोऽर्थस्ततो ऽन्यस्याधिक्यमानर्थक्यम् ॥ त एते पञ्चानर्थदण्डविरतेरतिचाराः ॥ ॥ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि ॥ ३३ ॥
योगो व्याख्यातस्त्रिविधः । तस्य दुष्टं प्रणिधानं योगदुष्प्रणिधानम् - कायदुष्प्रणिधानम् । वाग्दुष्प्रणिधानम् । मनोदुष्प्रणिधानमिति। अनादरोऽनुत्साहः । अनैकाम्यं स्मृत्यनुपस्थानम् । त एते पंच सामायिकस्यातिक्रमाः ॥ ॥ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥ ३४ ॥ जन्तवः सन्ति न सन्ति : वेति प्रत्यवेक्षणं चक्षुर्व्यापारः । मृदुनोपकरणेन यत्क्रियते प्रयोजनं तत्प्रमार्जितम् । तदुभयं प्रति
Page #248
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः
षेघविशिष्टमुत्सर्गादिभिरभिसम्बध्यते - अप्रत्यवेक्षिताप्रमार्जितोत्सर्ग इत्येवमादि ॥ तत्र अप्रत्यवेक्षिताप्रमार्जितायां भूमौ मूत्रपुरीषोसर्गः अप्रत्यवेक्षिताप्रमार्जितोत्सर्गः । अप्रत्यवेक्षिताप्रमार्जितस्यार्ह - दाचार्यपूजोपकरणस्य गन्धमाल्य धूपादेरात्मपरिधानाद्यर्थस्य च वस्त्रादेरादानमप्रत्यवेक्षिताप्रमार्जितादानम् । अप्रत्यवेक्षिताप्रमार्जितस्य प्रावरणादेः संस्तरस्योपक्रमणं, अप्रत्यवेक्षिताप्रमार्जितसंस्तरोपक्रमणम् । क्षुदभ्यर्दितत्वादावश्यकेष्वनादरोऽनुत्साहः । स्मृत्यनुपस्थानं व्याख्यातम् ॥ त एते पञ्च प्रोषधोपवासस्यातिचाराः ॥ ॥ सचित्तसम्बन्धसम्मिश्राभिषवदुः पक्काहाराः ॥३५॥
२१८
सह चितेन वर्तते इति सचित्तं चेतनावद्द्रव्यम् । तदुपश्लिष्टः सम्बन्धः । तद्व्यतिकीर्णः सम्मिश्रः । कथं पुनरस्य सचित्तादिषु प्रवृत्तिः स्यात् प्रमादसम्मोहाभ्याम् । द्रवो वृष्यो वाऽभिषवः । असम्यक्पको दुःपक्कः । एतैराहारो विशेष्यते सचिचाहारः सम्बन्धाहारः सम्मिश्राहारोऽभिषवाहारो दुः पक्काहार इति ॥ त एते पच भोगोपभोगपरिसंख्यानस्यातिचाराः ॥
॥ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३६ ॥
सचित्ते पद्मपत्रादौ निक्षेपः सचित्त निक्षेपः । अपिधानमावरणं सचित्तेनैव सम्बध्यते सचित्तापिधानमिति । अन्यदातृदे यार्पणं परव्यपदेशः । प्रयच्छतोऽप्यादराभावोऽन्यदातृगुणा सहनं • वा मात्सर्यम् । अकाले भोजनं कालातिक्रमः । त एते पंचाति - थिसंविभागशीलातिचाराः ||
॥ जीवितमरणाशंसामित्रानुरागसुखानु
Page #249
--------------------------------------------------------------------------
________________
सप्तमोऽध्यायः
२१९ बन्धनिदानानि ॥ ३७॥ आशंसनमाशंसा आकाङ्क्षणमित्यर्थः । जीवितं च मरणं च जीवितमरणं , जीवितमरणस्याशंसे जीवितमरणाशंसे । पूर्वसुहसहपांसुक्रीडनाद्यनुस्मरणं मित्रानुरागः । अनुभूतप्रीतिविशेषस्मृतिसमन्वाहारः सुखानुबन्धः । भोगाकाङ्क्षया नियतं दीयते चित्तं तस्मिंस्तेनेति वा निदानम् ॥ त एते पंच सल्लेखनाया अतिचाराः ।। ... अत्राह- उक्तं भगवता तीर्थकरत्वकारणकर्मास्रवनिर्देशे शक्तितस्त्यागतपसीति, पुनश्चोक्तं शीलविधानेऽतिथिसंविभाग इति । तस्य दानस्य लक्षणमनिर्जातं तदुच्यतामित्यत आह
॥ अनुग्रहार्थं स्वस्यातिसर्गों दानम् ॥ ३८॥
स्वपरोपकारोऽनुग्रहः । स्वोपकारः पुण्यसंचयः, परोपकारः सम्यग्ज्ञानादिवृद्धिः ॥ स्वशब्दो धनपर्यायवचनः। अनुग्रहार्थ स्वस्यातिसर्गस्त्यागो दानं वेदितव्यम् ॥
अत्राह- उक्तं दानं तत्किमविशिष्टफलमाहोस्विदस्ति काश्चिप्रतिविशेष इत्यत आह॥ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥ ३९॥
प्रतिग्रहादिक्रमो विधिः। विशेषो गुणकृतः । तस्य प्रत्येकमभिसम्बन्धः क्रियते- विधिविशेषो द्रव्यविशेषो दातृविशेषः पात्रविशेष इति ॥ तत्र विधिविशेषः प्रतिग्रहादिष्वादरानादरकृतो भेदः । तपःस्वाध्यायपरिवृद्धिहेतुत्वादिद्रव्यविशेषः । अनसूयाविषादादिर्दातृविशेषः । मोक्षकारणगुणसंयोगः पात्रविशेषः । ततश्च पुण्यफलविशेषः क्षेत्रादिविशेषाद्वीजफलविशेषवत् ॥ ७॥
॥ इति तत्वार्थवृत्तौ सर्वार्थासद्धिसज्ञिकायां सप्तमोऽध्यायः ।।
Page #250
--------------------------------------------------------------------------
________________
२२०
सर्वार्थासद्धिः ॥ ॐ नमः परमात्मने वीतरागाय ॥
॥ अथाष्टमोऽध्यायः ॥ - व्याख्यात आस्रवपदार्थस्तदनन्तरोद्देशभाग्बन्धपदार्थ इदानीं व्याख्येयस्तस्मिन्व्याख्येये सति पूर्वं बन्धहेतूपन्यासः क्रियते तत्पूकत्वाद्वन्धस्येति ॥ ॥मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः१ . मिथ्यादर्शनादय उक्ताः। क मिथ्यादर्शनं तावदुक्तं ? तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्यत्र, तत्प्रतिपक्षभूतमास्रवविधाने च क्रियासु व्याख्यातं मिथ्यादर्शनक्रियेति ॥ विरतिरुक्ता । तत्प्र. तिपक्षभूता अविरतिाया। आज्ञाव्यापादनक्रिया अनाकांक्षाक्रियेत्यनयोः प्रमादस्यान्तर्भावः । स च प्रमादः कुशलेष्वनादरः ॥ कषायाः क्रोधादयः अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसज्वलनविकल्पाः प्रोक्ताः । व? इन्द्रियकषाया इत्यत्रैव ॥ योगाः कायादिविकल्पाः प्रोक्ताः । व? कायवाङ्मनःकर्म योग इत्यत्र ॥ मिथ्यादर्शनं द्विविधम् । नैसर्गिक परोपदेशपूर्वकं च । तत्र परोपदेशमन्तरेण मिथ्यात्वकर्मोदयवशायदाविर्भवति तत्त्वार्थाश्रद्धानलक्षणं तन्नैसर्गिकम् ॥ परोपदेशनिमित्तं चतुर्विधम् । क्रियाक्रियावाद्यज्ञानिवैनयिकविकल्पात् ॥ अथवा पञ्चविधं मिथ्यादर्शनम्- एकान्तमिथ्यादर्शनम् । विपरीतमिथ्यादर्शनम् । संशयमिध्यादर्शनम् । वैनयिकमिथ्यादर्शनम् । अज्ञानमिथ्यादर्शनं चेति ॥ तत्र इदमेव इत्थमेवेति धर्मिधर्मयोरभिनिवेश एकान्तः । पुरुष एवेदं सर्वमिति वा नित्यमेवेति ॥ सग्रन्थो निम्रन्थः, केवली कवलाहारी, स्त्री सिध्यतीत्येवमादिः विपर्ययः ॥ सम्यग्दर्शनज्ञानचारित्राणि किं मोक्षमार्गः स्याद्वा न वेत्यन्यतरपक्षापरि
Page #251
--------------------------------------------------------------------------
________________
अष्टमोऽध्यायः
२२१ प्रहः संशयः ॥ सर्वदेवतानां सर्वसमयानां च समदर्शनं वैनयिकम् ॥ हिताहितपरीक्षाविरहोऽज्ञानिकत्वं ॥ उक्तञ्च- असिदिसदं किरियाणं अकिरियाणं च होइ चोळसीदि ॥ सत्तच्छ. ण्णाणीणं वेणइयाणं तु बत्तीसम् ॥ १॥ अविरतिदशविधाषटकायषट्करणविषयभेदात् । षोडश कषाया नव नोकषायास्ते. षामीषद्भेदो न भेद इति पञ्चविंशतिकषायाः ॥ चत्वारो मनोयोगाश्चत्वारो वाग्योगाः पंच काययोगा इति त्रयोदशविकल्पो योगः ॥ आहारककाययोगाहारकमिश्रकाययोगयोः प्रमत्तसँयते सम्भवात्पञ्चदशापि भवन्ति ॥ प्रमादोऽनेकविधः- पञ्चसमितित्रिगुप्तिशुध्धष्टकोत्तमक्षमादिविषयभेदात् । शुध्यष्टकस्यार्थः भावकायविनयेर्यापथभिक्षाप्रतिष्ठापनशयनासनवाक्यशुद्धयोऽष्टौ, दशलक्षणो धर्मश्च ॥ त एते पञ्च बन्धहेतवः समस्ता व्यस्ताश्च भवन्ति ॥ तद्यथा- मिथ्यादृष्टेः पञ्चापि समुदिता बन्धहेतवो भवन्ति ॥ सासादनसम्यग्दृष्टिसममिथ्यादृष्ट्यसयतसम्यग्दृष्टीनामविरत्यादयश्चत्वारः ॥ सँयतासँयतस्याविरतिर्विरतिमिश्राः, प्रमादकषाययोगाश्च । प्रमत्तसँयतस्य प्रमादकषाययोगाः। अप्रमत्तादीनां चतुर्णा योगकषायौ । उपशान्तकषायक्षीणकषायसयोगकेवलिनामेक एव योगः। अयोगकेवलिनो न बन्धहेतुः ॥ उक्ता बन्धहेतवः। ___ इदानी बन्धो वक्तव्य इत्यत आह॥ सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गला
नादत्ते स बन्धः ॥ २॥ ..... सह कषायेण वर्तत इति सकषायः । सकषायस्य भावः सकषायत्वम् । तस्मात्सकषायत्वादिति ॥ पुनर्हेतु निर्देशः किमर्थम् ।
Page #252
--------------------------------------------------------------------------
________________
२२२
सर्वार्थसिद्धिः
जठराग्न्याशयानुरूपाहारग्रहणवत्तीव्रमन्दमध्यमकषायाशयानुरूपस्थित्यनुभवविशेषप्रतिपय॑थम् ॥ अमूर्तिरहस्त आत्मा कथं कर्मादत्त इति चोदितः सन् जीव इत्याह ॥ जीवनाज्जीवः प्राणधारणादायुःसम्बन्धान्नायुविरहादिति ॥ कर्मयोग्यानिति लघुनिर्देशासिद्धेः। कर्मणो योग्यानिति पृथग्विभक्त्युच्चारणं वाक्यान्तरज्ञापनार्थम् ॥ किं पुनस्तद्वाक्यान्तरम् । कर्मणो जीवः सकषायो भवतीत्येकं वाक्यम् । एतदुक्तं भवति- कर्मण इति हेतुनिर्देशः कर्मणो हेतोजीवः सकषायो भवति नाकर्मकस्य कषायलेपोऽस्ति ततो जीवकर्मणोरनादिसम्बन्ध इत्युक्तं भवति ॥ तेनामूर्तो जीवो मूर्तेन कर्मणा कथं बध्यते इति चोद्यमपाकृतं भवति ॥ इतरथा हि बन्धस्यादिमत्त्वे आत्यन्तिकी शुद्धिं दधतः सिद्धस्येव बन्धाभावः प्रसज्येत ॥ द्वितीयं वाक्यं कर्मणो योग्यान् पुद्गलानादत्त इति । अर्थवशाद्विभक्तिपरिणाम इति पूर्व हेतुसम्बन्धं त्यक्त्वा षष्ठीसम्बन्ध. मुपैति कर्मणो योग्यानिति ॥ पुद्गलवचनं कर्मणस्तादात्म्यख्यापनार्थम् । तेनात्मगुणोऽदृष्टो निराकृतो भवति तस्य संसारहेतुत्वानुपपत्तेः ।। आदत्त इति हेतुहेतुमद्भावख्यापनार्थम् । अतो मिथ्यादर्शनाद्यावेशादार्दीकृतस्यात्मनःसर्वतो योगविशेषात्तेषां सूक्ष्मैकक्षेत्रावगाहिनामनन्तानन्तप्रदेशानां पुद्गलानां कर्मभावयोग्यानामविभागेनोपश्लेषो बन्ध इत्याख्यायते ॥ यथा भाजनविशेषे क्षिप्तानां विविधरसबीजपुष्पफलानां मदिराभावेन परिणामस्तथा पुद्गलानामप्यात्मनि स्थितानां योगकषायवशात्कर्मभावेन परिणामो वेदितव्यः ॥ "स" वचनमन्यनिवृत्त्यर्थम् । स एष बम्धो नान्योऽस्तीति । तेन गुणगुणिबन्धो निवर्तितो भवति ॥ कर्मादिसाधनो बन्धशब्दो व्याख्येयः ।।
___ आह किमयं बन्ध एकरूप एव, आहोस्वित्प्रकारा अप्यस्य सन्तीत्यत इदमुच्यते
Page #253
--------------------------------------------------------------------------
________________
२२३
अष्टमोऽध्यायः ॥ प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः॥३॥
प्रकृतिः स्वभावः । निम्बस्य का प्रकृतिः? तिक्तता । गुडस्य का प्रकृतिः? मधुरता । तथा ज्ञानावरणस्य का प्रकृतिः।। अर्थानवगमः । दर्शनावरणस्य का प्रकृतिः? अर्थानालोच (क) नम् ॥ वेद्यस्य सदसल्लक्षणस्य सुखदुःखसंवेदनम् ॥ दर्शनमोहस्य तत्त्वार्थाश्रद्धानम् ॥ चारित्रमोहस्यासँयमः ॥ आयुषो भवधारणम् ॥ नामो नारकादिनामकरणम् ॥ गोत्रस्योचैनींचैः स्थानसंशब्दनम् ॥ अन्तरायस्य दानादिविघ्नकरणम् ॥ तदेवं लक्षणं कार्यम्- प्रक्रियते प्रभवत्यस्या इति प्रकृतिः । तत्स्वभावादप्रच्युतिः स्थितिः । यथा- अजागोमहिष्यादिक्षीराणां माधुर्यस्वभावादप्रच्युतिः स्थितिः। तथा ज्ञानावरणादीनामर्थानवगमादिस्वभावादप्रच्युतिः स्थितिः । तद्रसविशेषोऽनुभवः । यथा- अजागोमहिष्यादिक्षीराणां तीव्रमन्दादिभावेन रसविशेषः । तथा कर्मपुद्गलानां स्वगतसामर्थ्यविशेषोऽ नुभवः ॥ इयत्तावधारणं प्रदेशः । कर्मभावपरिणतपुद्गलस्कन्धानां ‘परमाणुपरिच्छेदेनावधारणं प्रदेशः ॥ विधिशब्दः प्रकारवचनः । त एते प्रकृत्यादयश्चत्वारस्तस्य बन्धस्य प्रकाराः ॥ तत्र योगनिमिचौ प्रकतिप्रदेशौ कषायनिमित्तौ स्थित्यनुभवौ । तत्प्रकर्षाप्रकर्षभेदात्तद्वन्धविचित्रभावः । तथा चोक्तम्- जोगा पयडि पएसा ठिदिअणुभागा कसायदो कुणदि । अपरिणदुच्छिण्णेसु य बंधठिदिकारणं णस्थि ॥१॥
तत्राद्यस्य प्रकृतिबन्धनस्य भेदप्रदर्शनार्थमाह-'. ॥ आयो ज्ञानदर्शनावरणवेदनीय
मोहनीयायुर्नामगोत्रान्तरायाः ॥ ४॥ १ कर्मत्वेनापरिणतेषु निर्जीणेषु च ॥
Page #254
--------------------------------------------------------------------------
________________
२२४
सर्वार्थसिद्धिः ___ आद्यः प्रकृतिबन्धो ज्ञानावरणाद्यष्टविकल्पो वेदितव्यः । आवृणोत्यात्रियतेऽनेनेति वा आवरणम् । तत्प्रत्येकमभिसम्बध्यतेज्ञानावरणं , दर्शनावरणमिति ॥ वेदयति वेद्यत इति वा वेद. नीयम् ॥ मोहयति मुह्यतेऽनेनेति वा मोहनीयम् ॥ एत्यनेन नारकादिभवमित्यायुः ॥ नमयत्यात्मानं नम्यतेऽनेनेति वा नाम ॥ उच्चैर्नीचैश्च गूयते शब्द्यत इति वा गोत्रम् ॥ दातृदेयादीनामन्तरं मध्यमेतीत्यन्तरायः ॥ एकेनात्मपरिणामेनादीयमानाः पुद्गला ज्ञानावरणाद्यनेकभेदं प्रतिपद्यन्ते सकृदुपभुक्तानपरिणामरसरुधिरादिवत् ॥
आहोक्तो मूलप्रकृतिबन्धोऽष्टविधः । इदानीमुत्तरप्रकृतिबन्धो वक्तव्य इत्यत आह॥ पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंश
दिपञ्चभेदा यथाक्रमम् ॥ ५॥
द्वितीयग्रहणमिह कर्तव्यं द्वितीय उत्तरप्रकृतिबन्ध एवं विकल्प इति ॥ न कर्तव्यं , पारिशेष्यात्सिद्धेः ॥ आयो मूलः प्रकृतिबन्धोऽष्टविकल्प उक्तः। ततः पारिशेष्यादयमुत्तरप्रकृतिविकल्पविधिर्भवति ॥ भेदशब्दः । पञ्चादिभिर्यथाक्रममभिसम्बध्यतेपञ्चभेदं ज्ञानावरणीयं, नवभेदं दर्शनावरणीयं , द्विभेदं वेदनीयं , अष्टाविंशतिभेदं मोहनीयं, चतुर्भेदमायुः , द्विचत्वारिंशद्भेदं नाम , द्विभेदं गोत्रं , पंचभेदोऽन्तराय इति ॥
यदि ज्ञानावरणं पंचभेदं तत्प्रतिपत्तिरुच्यतामित्यत आह-- मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥ ६॥
१ नानायोनिषु नारकादिपर्यायैर्नमयति शब्दयत्यात्मानमिति नाम । णमु प्रहत्वे शब्दे ॥ २ आदिशब्देन पात्रम् ॥
Page #255
--------------------------------------------------------------------------
________________
२२५
अष्टमोऽध्यायः मत्यादीनि ज्ञानानि व्याख्यातानि ॥ तेषामावृतेरावरणभेदो भवतीति पञ्चोत्तरप्रकृतयो वेदितव्याः ॥ अत्र चोद्यते- अमन्यस्य मनःपर्ययज्ञानशक्तिः केवलज्ञानशक्तिश्च स्याद्वा न वा!। यदि स्यात्- तस्याभव्यत्वाभावः । अथ नास्ति-- तत्रावरणद्वयकल्पना व्यथेति ॥ उच्यते-- आदेशवचनान्न दोषः-- द्रव्यादेशान्मनःपर्ययकेवलज्ञानशक्तिसम्भवः । पर्यायार्थादेशात्तच्छक्त्यभावः ॥ यद्येवं, भव्याभव्यविकल्पो नोपपद्यते । उभयत्र तच्छक्तिसद्भावात् ॥ न शक्तिभावाभावापेक्षया भव्याभव्यविकल्प इत्युच्यते ॥ कुतस्तर्हि ! व्यक्तिसद्भावासद्भावापेक्षया ॥ सम्यग्दर्शनादिभिर्व्यक्तिर्यस्य भवि. ष्यति स भव्यः। यस्य तु न भविष्यति सोऽभव्यः । कनकेतरपाषाणवत् ॥
आह , उक्तो ज्ञानावरणोत्तरप्रकृतिविकल्पः । इदानीं दर्शनावरणस्य वक्तव्य इत्यत आह
॥ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृडयश्च ॥ ७ ॥
चक्षुरचक्षुरवधिकलानामिति दर्शनावरणापेक्षया भेदनिर्देशःचक्षुर्दर्शनावरणमचक्षुर्दर्शनावरणमवधिदर्शनावरणं केवलदर्शनावरण. मिति ॥ मदखदल्लमविनोदनार्थः स्वापो निद्रा । तस्या उपर्युपरि वृत्तिनिद्रानिद्रा । या क्रियाऽत्मानं प्रचलयति सा प्रचला शोकश्रममदादिप्रभवा आसीनस्यापि नेत्रगात्रविक्रियासूचिका । सैव पुनःपुनरावर्तमाना प्रचलाप्रचला। खप्नेऽपि यया वीर्यविशेषाविर्भावः सा स्त्यानगृद्धिः । स्त्यायतेरनेकार्थत्वात्स्वमार्थ इह.. गृह्यते । गृविरफि दीप्तिः । स्याने स्वमे गृध्यति दीप्यते यदुदयादात्मा रौद्रं बहुकर्म - करोति सा स्त्यानगृद्धिः ॥ इह
Page #256
--------------------------------------------------------------------------
________________
२२६
सर्वार्थसिद्धिः निद्रादिभिर्दर्शनावरणं सामानाधिकरण्येनाभिसम्बध्यते- निद्रादर्शनावरण निद्रानिद्रादर्शनावरणमित्यादि ॥ - तृतीयस्याः प्रकृतेरुत्तरप्रकृतिप्रतिपादनार्थमाह
... ॥ सदसवेद्ये ॥ ८॥ . . . यदुदयाद्देवादिगतिषु शारीरमानससुखप्राप्तिस्तत्सद्वेद्यं प्रशस्तं वेद्यं सद्यमिति ॥ यत्फलं दुःखमनेकविधं • तदसवेद्यमप्रशस्तं वेद्यमसद्वेद्यमिति ॥
चतुर्थ्याः प्रकृतेरुत्तरप्रकृतिविकल्पनिर्दर्शनार्थमाह॥ दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः
क्रोधमानमायालोभाः ॥९॥ . . . . - दर्शनादयश्चत्वारः। ज्यादयोऽपि चत्वारः। तत्र यथासंख्येन सम्बन्धो भवति- दर्शनमोहनीयं त्रिभेदं, चारित्रमोहनीयं द्विभेद, अकषायवेदनीयं नवविधं, कषायवेदनीयं षोड. शविधमिति ॥ तत्र दर्शनमोहनीयं त्रिभेदं सम्यक्त्वं, मिथ्यात्वं, तदुभयभिति । तद्वन्धप्रत्येकं भूत्वा सत्कर्मापेक्षया त्रिधा व्यवतिष्ठते ॥ तत्र यस्योदयात्सर्वज्ञप्रणीतमार्गपराङ्मुखस्तत्त्वार्थश्रद्धा.
१ बंधं पडि एयत्तं उदयं सत्तं पडुच्च तिविहं खु । दंस.. णमोहं मिच्छं मिस्सं सम्मत्तभिदि जाणे ॥ १॥
Page #257
--------------------------------------------------------------------------
________________
२२७
अष्टमोऽध्यायः ननिरुत्सुको हिताहितविचारासमों मिथ्यादृष्टिर्भवति तन्मिथ्यात्वम् । तदेव सम्यक्त्वं शुभपरिणामनिरुद्धस्वरसं यदौदासीन्येनावस्थितमात्मनः श्रद्धानं न निरुणद्धि तद्वेदयमानः पुरुषः सम्यग्दृष्टिरित्यभिधीयते । तदेव मिथ्यात्वं प्रक्षालनविशेषात्क्षीणाक्षीणमदशक्तिकोद्रववत्सामिशुद्धस्वरसं तदुभयमित्याख्यायते सम्य. मिथ्यात्वमिति यावत् । यस्योदयादात्मनोऽर्धशुद्धमदकोद्रवोपयोगापादितमिश्रपरिणामवदुभयात्मको भवति परिणामः ॥ चारित्रमोहनीयं द्विधा- अकषायकषायभेदात् । ईषदर्थे नञः प्रयोगादीपत्कषायोऽकषाय इति ॥ अकषायवेदनीयं नवविधम् । कुतः । 'हास्यादिभेदात् ॥ यस्योदयाद्धास्याविर्भावस्तद्धास्यम् । यदुदया'द्विषयादिष्वौत्सुक्यं सा रतिः । अरतिस्तद्विपरीता। यद्विपाकाच्छोचनं स शोकः । यदुदयादुद्वेगस्तद्भयम् । यदुदयादात्मदोषसंवरणमन्यदोषस्याधारणं सा जुगुप्सा । यदुदयात्स्त्रैणान्भावाप्रतिपद्यते स स्त्रीवेदः। यस्योदयात्पौंस्नान्भावानास्कन्दति स पुंवेदः । यदुदयान्नापुंसकान्भावानुपव्रजति स नपुंसकवेदः ॥ कषायवेदनीयं षोडशविधम् । कुतः ? । अनन्तानुबन्ध्यादिविकल्पात् ॥ तद्यथा- कषायाः क्रोधमानमायालोभाः। तेषां चतस्रोऽवस्थाःअनन्तानुबन्धिनोऽप्रत्याख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाश्चेति ॥ अनन्तसंसारकारणत्वान्मिथ्यादर्शनमनन्तं तदनुबन्धिनोऽनन्तानुबन्धिनः क्रोधमानमायालोभाः। यदुदयादेशविरतिं सँय. मासँयमाख्यामरुपामपि कर्तुं न शक्नोति, ते देशप्रत्याख्यान.... १ बेदकसम्यग्दृष्टिः ॥ २ यदुदयात्रासलक्षणमुपपते तद्भयमित्यन्यः पाठः ॥ ३ यदुदयात्परदोषानाविष्करोत्यात्मदोषान्सवृणोति सा जुगुप्सा इत्यन्यः पाठः ॥ यदुदयात्स्वदोषसंवरणं परदोषाविष्करणं सा जुगुप्सा इत्यप्यन्यः पाठः ॥ .
Page #258
--------------------------------------------------------------------------
________________
२२८
सर्वार्थसिद्धिः मावृण्वन्तोऽप्रत्याख्यानावरणाः क्रोधमानमायालोभाः। यदुदयाद्विरति कृत्स्नां संयमाख्यां न शक्नोति कर्तुं ते कृत्यं प्रत्याख्यानमावृण्वन्तः प्रत्याख्यानावरणाः क्रोधमानमायालोमाः । समेकीभावे वर्तते । संयमेन सहावस्थानादेकीभूय ज्वलन्ति संयमो वा ज्वलत्येषु, सत्स्वपीति संज्वलनाः क्रोधमानमायालोमाः । त एते समुदिताः सन्तः षोडश कषाया भवन्ति ॥ मोहनीयानन्तरोद्देशभाज आयुष उत्तरप्रकृतिनिपिनार्थमाह
नारकतैर्यग्योनमानुषदैवानि ॥१०॥ . नारकादिषु भवसम्बन्धेनायुषो व्यपदेशः क्रियते । नरकेषु भवं नारकमायुः। तिर्यग्योनिषु भवं तैर्यग्योनम् । मानुषेषु भवं मानुषं । देवेषु भवं दैवमिति ॥ नरकेषु तीव्रशीतोष्णवेदनेषु यनिमित्तं दीर्घजीवनं तन्नारकम् ॥ एवं शेषेष्वपि ।
आयुश्चतुर्विधं व्याख्यातं तदनन्तरमुद्दिष्टं यन्नामकर्म तदुत्तरप्रकृतिनिर्णयार्थमाह॥ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्तिसेतराणि तीर्थकरत्वं च ११
यदुदयादात्मा भवान्तरं गच्छति सा गतिः। सा चतु. विधा- नरकगतिस्तिर्यग्गतिर्देवगतिर्मनुष्यगतिश्चेति ॥ यनिमित्त आत्मनो नारको भावस्तन्नरकगतिनाम । एवं शेषेष्वपि योज्यम् ॥ तासु नरकादिगतिप्वव्यभिचारिणा सादृश्येनेकीकृतोऽर्थात्मा जातिः॥
Page #259
--------------------------------------------------------------------------
________________
अष्टमोऽध्यायः
२२९ तन्निमित्तं जातिनाम तत्पञ्चविधम् - एकेन्द्रियजातिनाम , द्वीन्द्रियजातिनाम , त्रीन्द्रियजातिनाम , चतुरिन्द्रियजातिनाम , पञ्चेन्द्रियजातिनाम , चेति ॥ यदुदयादात्मा एकेन्द्रिय इति शब्द्यते तदेकेन्द्रियजातिनाम । एवं शेषेष्वपि योज्यम् ॥ यदुदयादात्मनः शरीरनिवृत्तिस्तच्छरीरनाम । तत्पञ्चविधम् -- औदारिकशरीरनाम , वैक्रियिकशरीरनाम , आहारकशरीरनाम , तैजसशरीरनाम , कार्मणशरीरनाम चेति ॥ तेषां विशेषो व्याख्यातः ॥ यदुदयादलोपानविवेकस्तदङ्गोपाङ्गनाम । तत्रिविधम् - औदारिकशरीराङ्गोपाङ्गनाम, वैक्रियिकशरीराङ्गोपाङ्गनाम , आहारकशरीराङ्गोपाङ्गनाम चेति ॥ यन्निमित्तात्परिनिष्पत्तिस्तन्निर्माणम् ॥ तद्विविधम्स्थाननिर्माणं प्रमाणनिर्माणं चेति । तज्जातिनामोदयापेक्षं चक्षुरादीनां स्थानं प्रमाणं च निर्वर्तयति । निर्मीयतेऽनेनेति निर्माणम् ।। शरीरनामकर्मोदयवशादुपाचानां पुद्गलानामन्योन्यप्रदेशसंश्लेषणं यतो भवति तद्वन्धननाम ॥ यदुदयादौदारिकादिशरीराणां विवरविरहितान्योऽन्यप्रदेशानुप्रवेशेन एकत्वापादनं भवति तत्संघातनाम ॥ यदुदयादैारिकादिशरीराकृतिनिवृत्तिर्भवति तत्संस्थाननाम; तत् षोढा विभज्यते-समचतुरस्रसंस्थाननाम। न्यग्रोधपरिमण्डलसंस्थाननाम । खातिसंस्थाननाम । कुन्जसंस्थाननाम । वामनसंस्थाननाम । हुण्डसंस्थाननाम चेति ॥ यस्योदयादस्थिबन्धनविशेषो भवति तत्संहनननाम । तच्छड्विधम् - वज्रवृषभनाराचसंहनननाम । वज्रनाराचसंहनननाम । नाराचसंहनननाम । अर्धनाराचसंहनननाम । कीलितसंहनननाम । असम्प्राप्तासपाटिकासंहनननाम : चेति ॥ यस्योदयात्स्पर्शप्रादुर्भावस्तत्स्पर्शननाम । तदष्टविधम्- कर्कशनाम । मृदुनाम । गुरुनाम । लघुनाम । स्निग्धनाम । रूक्षनाम । शीत. नाम । उष्णनाम चेति ॥ यन्निमित्तो रसविकल्पस्तदसनाम ।
Page #260
--------------------------------------------------------------------------
________________
२३०
सर्वार्थसिद्धिः तत्पञ्चविधम्- तिक्तनाम । कटुकनाम । कषायनाम । आम्लनाम । मधुरनाम चेति ॥ यदुदयप्रभवो गन्धस्तद्न्धनाम । तद्विविधम्सुरभिगन्धनाम । असुरभिगन्धनाम चेति ॥ यद्धेतुको वर्णविभागस्तद्वर्णनाम । तत्पञ्चविधम्- शुक्लवर्णनाम । कृष्णवर्णनाम । नीलवर्णनाम । रक्तवर्णनाम । हरिद्वर्णनाम चेति ॥ पूर्वशरीराकाराविनाशो यस्योदयाद्भवति तदानुपूर्व्यनाम । तच्चतुर्विधम्नरकगतिप्रायोग्यानुपूर्वनाम। तिर्यग्गतिप्रायोग्यानुपूर्व्यनाम। मनुष्यगतिप्रायोग्यानुपूर्व्यनाम । देवगतिप्रायोग्यानुपूर्व्यनाम चेति ॥ यस्योदयादयस्पिण्डवद् गुरुत्वान्नाधः पतति न चार्कतूलवल्लघुत्वादूर्ध्व गच्छति तदगुरुलधुनाम ॥ यस्योदयात्स्वयंकृतोद्वन्धनमरुत्प्रपतनादिनिमित्त उपघातो भवति तदुपघातनाम ॥ यन्निमित्तः परशस्त्रादेाघातस्तत्परघातनाम ॥ यदुदयान्निवृत्तमातपनं तदातपनाम । तदादित्ये वर्तते ॥ यन्निमित्तमुद्योतनं तदुद्योतनाम । तच्चन्द्रखद्योतादिषु वर्तते ॥ यद्धेतुरुच्छ्वासस्तदुच्छ्वासनाम ॥ विहाय आकाशम् । तत्र गतिनिर्वतकं तद्विहायोगतिनाम । तद्विविधम्प्रशस्ताप्रशस्तभेदात् ॥ शरीरनामकर्मोदयान्निवय॑मानं शरीरमेकात्मोपभोगकारणं यतो भवति तत्प्रत्येकशरीरनाम ॥ बहूनामात्मनामुपभोगहेतुत्वेन साधारणं शरीरं यतो भवति तत्साधारणशरीरनाम ॥ यदुदयाद् द्वीन्द्रियादिषु जन्म तत्रसनाम ॥ यन्निमिस एकेन्द्रियेषु प्रादुर्भावस्तत्स्थावरनाम ॥ यदुदयादन्यप्रीतिप्रभवस्त
सुभगनाम ॥ यदुदयाद्रूपादिगुणोपेतोऽप्यप्रीतिकरस्तत् दुर्भगनाम । यनिमित्तं मनोज्ञस्वरनिर्वर्तनं तत्सुस्वरनाम । तद्विपरीतं दुःस्वरनाम ॥ यदुदयाद्रमणीयत्वं तच्छुभनाम । तद्विपरीतमशुभनाम ॥ सूक्ष्मशरीरनिर्वतकं सूक्ष्मनाम ॥ अन्यबाधाकरशरीरकारणं बादरनाम ॥ यदुदयादाहारादिपर्याप्तिनिर्वृत्तिः तत्पर्याप्तिनाम ॥ तत्
Page #261
--------------------------------------------------------------------------
________________
अष्टमोऽध्यायः
२३१ षड्विधम्- आहारपर्याप्तिनाम । शरीरपर्याप्तिनाम । इन्द्रियपर्याप्तिनाम । प्राणापानपर्याप्तिनाम । भाषापर्याप्तिनाम । मनःपर्याप्तिनाम चेति ॥ षड्विधपर्याप्त्यभावहेतुरपर्याप्तिनाम ॥ स्थिरमावस्य निर्वर्तकं स्थिरनाम ॥ तद्विपरीतमस्थिरनाम ॥ प्रभोपेतशरीरकारणमादेयनाम ॥ निष्प्रभशरीरकारणमनादेयनाम ॥ पुण्यगुणख्यापनकारणं यशःकीर्तिनाम ॥ तत्प्रत्यनीकफलमयशःकीर्तिनाम ॥ आईन्त्यकारणं तीर्थकरत्वनाम ॥ ___उक्तो नामकर्मण उत्तरप्रकृतिभेदः । तदनन्तरोद्देशभाजो गोत्रस्य प्रकृतिभेदो व्याख्यायते
॥ उच्चैनींचैश्च ॥ १२ ॥ गोत्रं द्विविधम् । उच्चैर्गोत्रं नीचे!त्रमिति ॥ यस्योदयालोकपूजितेषु कुलेषु जन्म तदुच्चैर्गोत्रम् । यदुदयाद्गर्हितेषु कुलेषु जन्म तन्नीचैर्गोत्रम् ॥
अष्टम्याः कर्मप्रकृतेरुत्तरप्रकृतिनिर्देशार्थमाह॥ दानलाभभोगोपभोगवीर्याणाम् ॥ १३ ॥
अन्तरायापेक्षया भेदनिर्देशः क्रियते- दानस्यान्तरायो लाभस्यान्तराय इत्यादिदानादिपरिणामव्याघातहेतुत्वात्तव्यपदेशः ॥ यदुदयाहातुकामोऽपि न प्रयच्छति, लब्धुकामोऽपि न लभते , भोक्तुमिच्छन्नपि न भुक्ते, उपभोक्तुमभिवाञ्छन्नपि नोपभुक्त, उत्सहितुकामोऽपि नोत्सहते त एते पञ्चान्तरायस्य भेदाः ।
व्याख्याताः प्रकृतिबन्धविकल्पाः ॥ इदानी स्थितिबन्ध विकल्पो वक्तव्यः ॥ सा स्थितिर्द्विविधा , उत्कृष्टा जघन्या च ॥
तत्र यासां कर्मप्रकृतीनामुत्कृष्टा स्थितिः समानाः, तन्निर्देशार्थमुच्यते
Page #262
--------------------------------------------------------------------------
________________
२३२.
सर्वार्थसिद्धिः ॥ आदितस्तिसणामन्तरायस्य च त्रिंशत्सागरो___पमकोटीकोट्यः परा स्थितिः ॥ १४ ॥
मध्येऽन्ते वा तिसृणां ग्रहणं माभूदिति आदित इत्युच्यते । अन्तरायस्येति वचनं व्यवहितग्रहणार्थम् ॥ सागरोपममुक्तपरिमामम् । कोटीनां कोट्यः कोटीकोट्यः । परा उत्कृष्टेत्यर्थः । एतदुक्तं भवति- ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोट्य इति ॥ सा कस्य भवति । मिथ्यादृष्टेः सञ्जिनः पञ्चेन्द्रियस्य पर्याप्तकस्य ॥ अन्येषामागमात्सम्प्रत्ययः कर्तव्यः ॥ मोहनीयस्योत्कृष्टस्थितिप्रतिपयर्थमाह
॥ सप्ततिर्मोहनीयस्य ॥१५॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते ॥ इयमपि परा स्थितिर्मिथ्यादृष्टेः सज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्यावसेया ॥ इतरेषां यथागममवगमः कर्तव्यः ॥ नामगोत्रयोरुत्कृष्टस्थितिप्रतिपत्त्यर्थमाह
॥ विंशतिर्नामगोत्रयोः ॥ १६ ॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते । इयमप्युत्कृष्टा स्थितिर्मिथ्यादृष्टेः सज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्य ॥ इतरेषां यथागममवबोद्धव्या ॥
अथायुषः कोत्कृष्टा स्थितिरुच्यते॥ त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥ १७ ॥ पुनः सागरोपमग्रहणं कोटीकोटीनिवृत्त्यर्थम् । पराः स्कि
Page #263
--------------------------------------------------------------------------
________________
अष्टमोऽध्यायः तिरित्यनुवर्तते ॥ इयमपि पूर्वोक्तस्यैव ॥ शेषाणामागमतोऽवसेया॥
उक्तोत्कृष्टा स्थितिः ॥ इदानीं जघन्या स्थितिर्वक्तव्या ॥ तत्र समानजघन्यस्थितीः पञ्च प्रकृतीरवस्थाप्य तिसृणां जघन्यस्थितिप्रतिपत्त्यर्थं सूत्रद्वयमुपन्यस्यते लध्वर्थम्॥ अपरा द्वादशमूहूर्ता वेदनीयस्य ॥ १८ ॥ अपरा जघन्या, वेदनीयस्य द्वादशमुहूर्ताः ॥
॥ नामगोत्रयोरष्टौ ॥ १९॥ .... "मुहूर्ता इत्यनुवर्तते । अपरा स्थितिरिति च ॥ अवस्थापितप्रकृतिजघन्यस्थितिप्रतिपत्त्यर्थमाह- ॥ शेषाणामन्तर्मुहूर्ता ॥ २० ॥
शेषाणां. पंचानां प्रकृतीनामन्तर्मुहूर्ताऽपरा स्थितिः ॥ ज्ञानदर्शनावरणान्तरायाणां जघन्या स्थितिः सूक्ष्मसाम्पराये , मोहनीयस्य अनिवृत्तिबादरसाम्पराये। आयुषः संख्येयवर्षायुष्कतिर्यक्षु - मनुष्येषु च ॥
___ आह--उभयी स्थितिरभिहिता ज्ञानावरणादीनामथानुभवः किं लक्षण इत्यत आह- ॥ विपाकोऽनुभवः ॥२१॥
.. विशिष्टो नानाविधो वा पाको विपाकः । पूर्वोक्तकषायतीवमन्दादिमावास्रवविशेषाद्विशिष्टः पाको विपाकः ॥ अथवा द्रव्यक्षेत्रकालभवभावलक्षणनिमित्तभेदजनितवैश्वरूप्यो (वैस्वरूपो) नानाविधः पाको विपाकः । असावनुभव इत्याख्यायते ॥ शुभपरिणामानां प्रकर्षभावाच्छुभप्रकृतीनां प्रकृष्टोऽनुभवः । अशुभप्रकृतीनां निकृष्टः ॥ अशुभपरिणामानां प्रकर्षभावादशुभप्रकृतीनां प्रकृष्टोऽ
Page #264
--------------------------------------------------------------------------
________________
२३४
सर्वार्थसिद्धिः
नुभवः । शुभप्रकृतीनां निकृष्टः ॥ स एवं प्रत्ययवशादुपात्तोऽ नुभवो द्विधा प्रवर्तते, स्वमुखेन परमुखेन च ॥ सर्वासां मूलप्रकृतीनां स्वमुखेनैवानुभवः । उत्तरप्रकृतीनां तुल्यजातीयानां परमुखेनापि भवति ॥ आयुर्दर्शनच्चारित्रमोहवजनां न हि नरकायुर्मुखेन तिर्यगायुर्मनुष्यायुर्वा विपच्यते । नापि दर्शनमोहश्चारित्र मोहमुखेन । चारित्रमोहो वा दर्शन मोहमुखेन ॥
आह - अभ्युपेमः प्रागुपचितनानाप्रकार कर्मविपाको ऽनुभव इति । इदं तु न विजानीमः किमयं प्रसंख्यातोऽप्रसंख्यातः १ इत्यत्रोच्यते प्रसंख्यातोऽनुभूयत इति ब्रूमहे ॥ कुतः ? यतः -
॥ स यथानाम ॥ २२ ॥
ज्ञानावरणस्य फलं ज्ञानाभावो, दर्शनावरणस्य फलं दर्शनशक्त्युपरोध इत्येवमाद्यन्वर्थसञ्ज्ञानिर्देशात्सर्वासां कर्मप्रकृतीनां सविकल्पानामनुभवसम्प्रत्ययो जायते ॥
आह यदि विपाकोऽनुभवः प्रतिज्ञायते, तत्कर्मानुभूतं किमाभरणवदवतिष्ठते, आहोस्विन्निष्पीतसारं प्रच्यवते ? इत्यत्रो - च्यते
---
॥ ततश्च निर्जरा ॥ २३ ॥
पीडानुग्रहावात्मने प्रदायाभ्यवहृतौदनादिविकारवत्पूर्वस्थितिक्षयादवस्थानाभावात्कर्मणो निवृत्तिर्निर्जरा ॥ सा द्विप्रकाराविपाकजा इतरा च ॥ तत्र चतुर्गतावनेक जातिविशेषावघूर्णिते संसारमहार्णवे चिरं पंरिभ्रमतः शुभाशुभस्य कर्मणः क्रमेण परि पाककालप्राप्तस्यानुभवोदयावलिस्रोतोऽनुप्रविष्टस्यारब्धफलस्य
या
१ अन्वर्थसज्ञः सन्प्रसंख्यातः । २ प्रसंख्यातः सन्ननुभूयते ज्ञायत इत्यर्थः ॥
Page #265
--------------------------------------------------------------------------
________________
२३५
अष्टमोऽध्यायः निवृतिः सा विपाकजा निर्जरा ॥ यत्कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामदिनुदीर्णं बलादुदीर्योदयावलिं प्रवेश्य वेद्यते आम्रपनसादिपाकवत् सा अविपाकजा निर्जरा ॥ चशब्दो निमितान्तरसमुच्चयार्थः । तपसा निर्जरेति वक्ष्यते ततश्च भवति अन्यतश्चेति ॥ किमर्थमिह निर्जरानिर्देशः क्रियते संवरात्परा निर्देटव्या उद्देशवत् ॥ लध्वर्थमिह वचनम् ॥ तत्र हि पाठे विपाकोऽ नुभव इति पुनरनुवादः कर्तव्यः स्यात् ॥ ___ आह अभिहितोऽनुभवबन्धः । इदानी प्रदेशबन्धो वक्तव्यः । तस्मिंश्च वक्तव्ये सति , इमे निर्देष्टव्याः, किंहेतवः? कदा ? कुतः? किंस्वभावाः? कस्मिन् ? किंपरिमाणाश्चेति ॥ ___तदर्थमिदं क्रमेण परिगृहीतप्रश्नापेक्षभेदं सूत्र प्रणीयते
॥नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥२४॥
नाम्नः प्रत्यया नामप्रत्ययाः । नामेति सर्वाः कर्मप्रकृतयोऽ भिधीयन्ते , स यथानामेति वचनात् । अनेन हेतुभाव उक्तः । सर्वेषु भवेषु सर्वतो दृश्यन्ते । अन्यतोऽपीति तसि कृते सर्वतः । अनेन कालोपादानं कृतम् । एकैकस्य हि जीवस्यातिक्रान्ता अनन्ता भवाः । आगामिनः संख्येया असंख्येया अनन्तानन्ता वा भवन्तीति ॥ योगविशेषानिमित्तात्कर्मभावेन पुद्गला आदीयन्त इति निमित्तविशेषनिर्देशः कृतो भवति । सूक्ष्मादिग्रहणं कर्मग्रहणयोग्यपुद्गलस्वभावानुवर्तनार्थ ग्रहणयोग्याः पुद्गलाः सूक्ष्मा न स्थूला इति ॥ एकक्षेत्रावगाहवचनं क्षेत्रान्तरनिवृत्त्यर्थम् । स्थिता
१ अन्यतोऽपि इति सूत्रेण सप्तम्यर्थे तस् ।
Page #266
--------------------------------------------------------------------------
________________
१३६ सर्वार्थसिद्धिः इति वचनं क्रियान्तरनिवृत्त्यर्थं स्थिता न गच्छन्त इति । सर्वात्मप्रदेशेष्विति वचनमाधार निर्देशार्थं नैकप्रदेशादिषु कर्मप्रदेशा वर्तन्ते , क तर्हि ? उर्ध्वमस्तिर्यक सर्वेप्वात्मप्रदेशेषु व्याप्य स्थिता इति ॥ अनन्तानन्तप्रदेशवचनं परिमाणान्तरव्यपोहार्थ न संख्येया न चासंख्येया नाप्यनन्ता इति ॥ ते खलु पुद्गलस्कन्धा अभव्यानन्तगुणाः सिद्धानन्तभागप्रमितप्रदेशा घनांगुलस्यासंख्येयभागक्षेत्रावगाहिनः एकद्वित्रिचतुःसंख्येयासंख्येयसमयस्थितिकाः पञ्चवर्णपञ्चरसद्विगन्धचतुःस्पर्शस्वभावा अष्टविधकर्मप्रकृतियोग्याः योगवंशादात्मनाऽऽत्मसात्कियन्त इति प्रदेशबन्धः समासतो वेदितव्यः ॥ ___आह बन्धपदार्थानन्तरं पुण्यपापोपसंख्यानं चोदितं तद्वन्धेऽन्तर्भूतमिति प्रेत्याख्यातं । तत्रेदं वक्तव्यं कोऽत्र पुण्यबन्धः कः पापबन्ध इति
... तत्र पुण्यबन्धप्रकृतिपरिगणनार्थमिदमारभ्यते - ... - ॥ सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् ॥ २५ ॥
शुभं प्रशस्तमिति यावत् । तदुत्तरैः प्रत्येकमभिसम्बध्यतेशुभमायुः शुभं नाम शुभं गोत्रमिति ॥ शुभायुस्त्रितयं तिर्यगायुkनुष्यायुर्देवायुरिति ॥ शुभनाम सप्तत्रिंशद्विकल्पं तद्यथा- मनुष्यगतिर्देवगतिः पञ्चेन्द्रिजातिः पञ्च शरीराणि त्रीण्यङ्गोपाङ्गानि सम. चतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं प्रशस्तवर्णरसगन्धस्पर्शाः मनुष्यदेवगत्यांनुपूर्व्यद्वयमगुरुलघुपरघातोच्छ्वासातपोद्योतप्रशस्तविहायोगतयस्त्रसबादरपर्याप्तिप्रत्येकशरीरास्थरशुभसुभगसुस्वरादेययशःकीर्तयो
. १ जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वमिति सूत्रव्याख्याने ॥ २ तत्रैव ॥ ३ दशविधस्य बन्धनसंघातद्वयस्याप्यत्रैवार्भावः ॥
Page #267
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२३७
निर्माण तीर्थकरनाम चेति । शुभमेकमुचैगतिं सद्वेद्यमिति ॥ एता द्वाचत्वारिंशत्प्रकृतयः पुण्यसञ्ज्ञाः ॥
॥ अतोऽन्यत्पापम् ॥ २६ ॥
"
अस्मात्पुण्यसज्ज्ञककर्म प्रकृतिसमूहादन्यत्कर्म पापमित्युच्यते । तत् यशीतिविधं तद्यथा - ज्ञानावरणस्य प्रकृतयः पञ्च, दर्शनावर णस्य नव, मोहनीयस्य षड्विंशतिः, पञ्चान्तरायस्य, नरकगतितिर्यग्गती, चतस्रो जातयः, पञ्च संस्थानानि पञ्च संहननान्यमशस्तवर्णगन्धरसस्पर्शा नरकगतितिर्यग्गत्यानुपूर्व्यद्वयमुपघाताप्रशस्तविहायोगतिस्थावरसूक्ष्मापर्याप्ति साधारणशरीरास्थिराशुभदुर्भ गदुः स्वरानादेययशः कीर्तयश्चेति नामप्रकृतयश्चतुस्त्रिंशत् । असद्वेद्यं नरकायुनचैत्रमिति । एवं व्याख्यातो बन्धपदार्थः सप्रपञ्चः । अवधिमनःपर्ययकेवलज्ञानप्रत्यक्षप्रमाणमभ्यस्तदुपदिष्टागमानुमेयः ॥ ६ ॥
॥ इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायांमष्टमोऽध्यायः ॥
11
ॐ नमः परमात्मने वीतरागाय ॥ ॥ अथ नवमोऽध्यायः ॥
बन्धपदार्थो निर्दिष्टः । इदानीं तदनन्तरोद्देशभाजः संवरस्य निर्देशः प्राप्तकाल इत्यत इदमाह -
|| आस्रवनिरोधः संवरः ॥ १ ॥
अभिनवकर्मादानहेतुरास्रवो व्याख्यातः । तस्य निरोधः संवर इत्युच्यते । स द्विविधो भावसंवरो द्रव्यसंवरश्चेति । तत्र संसारनिमित्तक्रियानिवृत्तिर्भावसंवरः । तन्निरोधे तत्पूर्वकर्मपुद्गला
Page #268
--------------------------------------------------------------------------
________________
२३८
सर्वार्थसिद्धिः दानविच्छेदो द्रव्यसंवरः ॥ इदं विचार्यते- कस्मिन् गुणस्थाने कस्य संवर इति ॥ उच्यते । मिथ्यादर्शनकर्मोदयवशीकृत आत्मा मिथ्यादृष्टिः । तत्र मिथ्यादर्शनप्राधान्येन यत्कर्म आस्रवति तन्निरोधाच्छेषे सासादनसम्यग्दृष्ट्यादौ तत्संवरो भवति ॥ किंपुनस्तमिथ्यात्वं नपुंसकवेदनरकायुर्नरकगत्येकद्वित्रिचतुरिन्द्रियजातिहुण्डसंस्थानासम्प्राप्तसृपाटिकासंहनननरकगतिप्रायोग्यानुपूर्व्यातपस्थावरसूक्ष्मापर्याप्तकसाधारणशरीरसंज्ञकषोडशप्रकृतिलक्षणम् ॥ असंयमस्त्रिविधः । अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानोदयविकल्पात् । तत्पत्ययस्य कर्मणस्तदभावे संवरोऽवसेयः ॥ तद्यथा- निद्रानिद्राप्रचलाप्रचलास्त्यानगृध्यनन्तानुबन्धिकोधमानमायालोभस्त्रीवेदतिर्यगायुस्तिर्यग्गतिचतुःसंस्थानचतुःसंहननतिर्यग्गतिप्रायोग्यानुपूर्योद्योताप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयनीचैर्गोत्रसंज्ञिकानां पञ्चविंशतिप्रकृतीनामनन्तानुबन्धिकषायोदयकृतासंयमप्रधानास्रवाणामेकेन्द्रियादयः सासादनसम्यग्दृष्ट्यन्ता बन्धकाः। तदभावे तासामुत्तरत्र संवरः ॥ अप्रत्याख्यानावरणकोधमानमायालोभमनुष्यायुर्मनुष्यगत्यौदारिकशरीरतदङ्गोपाङ्गवज्रर्षभनाराचसंहननमनुष्यगतिप्रायोग्यानुपूय॑नाम्नां दशानां प्रकृतीनामप्रत्याख्यानकषायोदयकृतासंयमहेतुकानामेकेन्द्रियादयोऽसंयतसम्यन्दृष्ट्यन्ता बन्धकाः। तदभावादूर्ध्व तासां संवरः ॥ सम्यमिथ्यात्वगुणेनायुर्न बध्यते । प्रत्याख्यानावरणक्रोधमानमायालोमानां चतसृणां प्रकृतीनां प्रत्याख्यानकषायोदयकारणासंयमास्रवाणामेकेन्द्रियप्रभृतयः संयतासंयतावसाना बन्धकाः ।। तदभावादुपरिष्टात्तासां संवरः ॥ प्रमादोपनीतस्य तदभावे निरोधः ॥ प्रमादेनापनीतस्य कमर्णः प्रमत्तसंयतादूर्ध्वं तदभावान्निरोधः प्रत्येतव्यः । किं पुनस्तदसद्वद्यारतिशोकास्थिराशुभायशःकीर्तिविकल्पं ॥ देवायुबन्धारम्भस्य प्रमाद एव हेतुरप्रमादोऽपि तत्प्रत्या
Page #269
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२३९ सन्नस्तदूर्ध्वं तस्य संवरः । कषाय एवासवो यस्य कर्मणो न प्रमादादिस्तस्य तन्निरोधे निरासोऽवसेयः । स च कषायः प्रमादादिविरहितस्तोत्रमध्यमजघन्यभावेन त्रिषु गुणस्थानेषु व्यवस्थितः । तत्रापूर्वकरणस्यादौ संख्येयमागे द्वे कर्मप्रकृती निद्राप्रचले बध्येते । तत ऊर्ध्वं संख्येयभागे त्रिंशत् प्रकृतयो देवगतिपञ्चेन्द्रियजातिवैक्रियिकाहारकतैजसकार्मणशरीरसमचतुरस्रसंस्थानवैक्रियिकाहारकशरीराङ्गोपाङ्गवर्णगन्धरसस्पर्शदेवगतिप्रायोग्यानुपूर्व्यागुरुलधूपघातपरघातोच्छ्वासप्रशस्त विहायोगतित्रसवा - दरपर्याप्तप्रत्येकशरीरस्थिरशुभसुभगसुस्वरादेयनिर्माणतीर्थकराख्या बध्यन्ते ॥ तस्यैव चरमसमये चतस्रः प्रकृतयो हास्यरतिभयजुगुप्सासंज्ञा बन्धमुपयान्ति ॥ ता एतास्तीत्रकषायास्त्रवास्तदभावान्निर्दिष्टाद्भागादूर्ध्वं सँत्रियन्ते ॥ अनिवृत्तिबादरसाम्परायस्यादि. समयादारभ्य संख्येयेषु भागेषु पुंवेद क्रोधसज्ज्वलनौ बध्येते ॥ तत ऊर्ध्वं शेषेषु संख्येयेषु भागेषु मानमायासज्ज्वलनौ बन्धमुपगच्छतः ॥ तस्यैव चरमसमये लोभसंज्वलनो बन्धमेति । ता एताः प्रकृतयो मध्यमकषाया सवास्तदभावे निर्दिष्टस्य भागस्योपरिष्टात्संवरमाप्नुवन्ति ॥ पञ्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां यशः कीर्तिरुच्चैर्गोत्रस्य पंचानामन्तरायाणां च मन्दकायास्रवाणां सूक्ष्मसाम्परायो बन्धकः । तदभावात्तदुत्तरत्र तेषां संवरः ॥ केवलेनैव योगेन सद्वेद्यस्योपशान्तकषायक्षीणकषायसयोगानां बन्धा भवति । तदभावादयोग केवलिनस्तस्य संवरो भवति ॥ उक्तः संवरस्तद्भेदप्रतिपादनार्थमाह
॥ स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रैः ॥२॥ यतः संसारकारणादात्मनो गोपनं भवति सा गुप्तिः । प्राणिपीडापरिहारार्थं सम्यगयनं समितिः । इष्टे स्थाने धत्ते इति
Page #270
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः
२.४०
धर्मः । शरीरादीनां स्वभावानुचिन्तनमनुप्रेक्षा । क्षुदादिवेदनोत्पत्तौ कर्मनिर्जरार्थं सहनं परिषहः । परिषहस्य जयः परिषहजयः । चारित्रशब्द आदिसूत्रे व्याख्यातार्थः । एतेषां गुप्त्यादीनां संवर-क्रियायाः साधकतमत्वात् करणनिर्देशः । संवरोऽधिकृतोऽपि स इति तच्छब्देन परामृश्यते गुप्त्यादिभिः साक्षात्सम्बन्धार्थः ॥ प्रयोजनमवधारणार्थं । स एष संवरो गुप्यादिभिरेव नान्येनोपायेनेति ॥ तेन तीर्थाभिषेक दीक्षा शीर्षोपहारदेवताराधनादयों निर्वर्तिता भवन्ति ॥ रागद्वेषमोहोपात्तस्य कर्मणोऽन्यथा निवृत्त्यभावात् ॥ संवरनिर्जराहेतुविशेषप्रतिपादनार्थमाह
॥ तपसा निर्जरा च ॥ ३॥
तपो धर्मेऽन्तर्भूतमपि पृथगुच्यते उभयसाधनत्वख्यापनार्थं संवरं प्रति प्राधान्यप्रतिपादनार्थं च ॥ ननु च तपोऽभ्युदयाङ्गमिष्टम् देवेन्द्रादिस्थानप्राप्तिहेतुत्वाभ्युपगमात् कथं निर्जराङ्ग स्यादिति ॥ नैष दोषः - एकस्यानेककार्यदर्शनादग्निवत् । यथाऽ मिरेकोऽपि क्लेदनभस्माङ्गारादिप्रयोजन उपलभ्यते तथा तपोऽ भ्युदयकर्मक्षयहेतुरित्यत्र को विरोधः ॥
संव रहेतुत्वादादावुद्दिष्टाया गुप्तेः स्वरूपप्रतिपत्त्यर्थमाह - ॥ सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥
योगो व्याख्यातः कायवाङ्मनः कर्म योग इत्यत्र तस्य स्वेच्छाप्रवृत्तिनिवर्तनं निग्रहः । विषयसुखाभिलाषार्थप्रवृत्तिनिषेधार्थं सम्यग्विशेषणम् ।। तस्मात् सम्यग्विशेषणविशिष्टात् संक्लेशाप्रादुर्भा वपरात्काया दियोगनिरोधे सति तन्निमित्तं कर्म नास्रवतीति संवर प्रसिद्धिरवगन्तव्या । सा त्रितयी काय गुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति ॥
"
Page #271
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२१ तत्राशक्तस्य मुनेनिरवद्यप्रवृत्तिख्यापनार्थमाह- . ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः॥५॥
सम्यगित्यनुवर्तते तेनेर्यादयो विशेष्यन्ते । सम्यगीर्या सम्यग्भाषा सम्यगेषणा सम्यगादाननिक्षेपौ सम्यगुत्सर्ग इति । ता एताः पंच समितयो विदितजीवस्थानादिविधेर्मुनेः प्राणिपीडापरिहाराभ्युपाया वेदितव्याः ॥ तथा प्रवर्तमानस्यासँयमपरिणामनिमित्तकर्मास्रवाभावात्सँवरो भवति ॥
तृतीयस्य संवरहेतोधर्मस्य भेदप्रतिपत्त्यर्थमाह॥ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागा
किश्चन्यब्रह्मचर्याणि धर्मः॥ ६॥ किमर्थमिदमुच्यते ? आधे प्रवृत्तिनिग्रहार्थ, तत्रासमानां प्रवृत्त्युपायप्रदर्शनार्थ द्वितीयम् । इदं पुनर्दशविधधर्माख्यानं समितिषु प्रवर्तमानस्य प्रमादपरिहारार्थ वेदितव्यम् । शरीरस्थितिहेतुमार्गणार्थ परकुलान्युपगच्छतो भिक्षोर्दुष्टजनाक्रोशप्रहसनावज्ञाताडनशरीरव्यापादनादीनां सन्निधाने कालुष्यानुत्पत्तिः क्षमा ॥ जात्यादिमदावेशादभिमानाभावो मार्दवं माननिर्हरणम् ॥ योगस्यावक्रता आर्जवम् ॥ प्रकर्षप्राप्तलोभान्निवृत्तिः शौचम् ॥ सत्सु प्रशस्तेषु जनेषु साधुवचनं सत्यमित्युच्यते ॥ ननु चैतद्भाषासमितावन्तर्भवति ? नैष दोषः- समिती प्रवर्तमानो मुनिः साधुष्वसाधुषु च भाषाव्यवहारं कुर्वन् हितं मितञ्च ब्रूयात् अन्यथा रागादनर्थदण्डदोषः स्यादिति वाक्समितिरित्यर्थः ॥ इह पुनः सन्तः प्रवजितास्तद्भक्ता वा एतेषु साधु सत्यं ज्ञानचारित्रलक्षणा
१ उद्देशपरीक्षयोग्रहणमादिशब्देन ॥
Page #272
--------------------------------------------------------------------------
________________
२४२
सर्वार्थसिद्धिः दिषु बह्वपि कर्तव्यमित्यनुज्ञायते, धर्मोपबृंहणार्थ ॥ समितिषु वर्तमानस्य प्राणीन्द्रियपरिहारस्सँयमः ॥ कर्मक्षयार्थ तप्यत इति तपः। तदुत्तरत्र वक्ष्यमाणद्वादशविकल्पमवसेयम् ॥ सँयतस्य योग्यं ज्ञानादिदानं त्यागः ॥ उपात्तेष्वपि शरीरादिषु संस्कारापोहाय ममेदमित्यभिसन्धिनिवृत्तिराकिञ्चन्यम् । नास्ति किंचनास्याकिंचनः तस्य भावः कर्म वा आकिंचन्यम् ॥ अनुभूताङ्गनामस्मरणकथाश्रवणस्त्रीसंसक्तशयनासनादिवर्जनाद्ब्रह्मचर्य परिपूर्णमवतिष्ठते । स्वतन्त्रवृत्तिनिवृत्त्यर्थो वा गुरुकुलावासो ब्रह्मचर्यम् ।। दृष्टप्रयोजनपरिवर्जनार्थमुत्तमविशेषणम् ॥ तान्येव भाव्यमानानि धर्मव्यपदेशभाञ्जि स्वगुणप्रतिपक्षदोषसद्भावभावनाप्रणिहितानि संवरकारणानि भवन्ति ।। .. आह क्रोधाद्यनुत्पत्तिः क्षमादिविशेषप्रत्यनीकालम्बनादित्युक्तं, तत्र कस्मात्क्षमादीनयमवलम्बते नान्यथा प्रवर्तत इत्युच्यते । यस्मात्तप्तायःपिण्डवत्क्षमादिपरिणतेनात्महितैषिणा कर्तव्याः
॥ अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तन
मनुप्रेक्षाः ॥ ७॥ - इमानि शरीरेन्द्रियविषयोपभोगपरिभोगद्रव्याणि समुदायरूपाणि जलबुबुदवदनवस्थितस्वभावानि गर्भादिप्ववस्थाविशेषेषु सदोपलभ्यमानसंयोगविपर्ययाणि, मोहादत्राज्ञो नित्यतां मन्यते । न किञ्चित्संसारे समुदितं ध्रुवमस्ति आत्मनो ज्ञानदर्शनोपयो. गस्वभावादन्यदिति चिन्तनमनित्यतानुप्रेक्षा ॥ एवं यस्य चिन्त
१ प्राणव्यपरोपणषडिन्द्रियविषयपरिहरण यमः ।..........
Page #273
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२४३ यतस्तेष्वभिष्वङ्गाभावाद् भुक्तोज्झितगन्धमाल्यादिष्विव वियोगकालेऽपि विनिपातो नोत्पद्यते ॥१॥
यथा- मृगशावस्यैकान्ते बलवता क्षुधितेनामिषैषिणा व्याघ्रणाभिभूतस्य न किञ्चिच्छरणमस्ति- तथा जन्मजरामृत्युव्याधिप्रभृतिव्यसनमध्ये परिभ्रमतो जन्तोः शरणं न विद्यते ॥ परिपुष्टमपि शरीरं भोजनं प्रति सहायीभवति न व्यसनोपनिपाते ॥ यत्नेन संचितोऽर्थोऽपि न भवान्तरमनुगच्छति ॥ संविभक्तसुखदुःखाः सुहृदोऽपि न मरणकाले परित्रायन्ते ॥ बान्धवाः समुदिताश्च रुजा परीतं न परिपालयन्ति ॥ अस्ति चेत्सुचरितो धर्मो व्यसनमहार्णवे तारणोपायो भवति ॥ मृत्युना नीयमानस्य सहस्रनयनादयोऽपि न शरणम् ॥ तस्माद्भवव्यसनसङ्कटे धर्म एव शरणं सुहृदर्थोऽप्यनपायी, नान्यत्किच्छरणमिति भावना अशरणानुप्रेक्षा ॥ एवं बस्याध्यवस्यतो नित्यमशरणोऽस्मीति भृशमु. द्विमस्य सांसारिकेषु भावेषु ममत्वनिरासो भवति ॥ भगवदई. सर्वज्ञप्रणीत एव मार्गे प्रतिपन्नो भवति ॥ २॥ . . कर्मविपाकवशादात्मनो भवान्तरावाप्तिः संसारः । स पुरस्तात्पंचविधपरिवर्तनरूपेण व्याख्यातः ॥ तस्मिन्ननेकयोनिकुलकोटिबहुशतसहस्रसंकटे संसारे परिभ्रमन् जीवः कर्मयन्त्रानुप्रेरितः पिता भूत्वा आता पुत्रः पौत्रश्च भवति । माता भूत्वा भगिनी भार्या दुहिता च भवति । स्वामी भूत्वा दासो भवति । दासो भूत्वा स्वाम्यपि भवति नट इव रङ्गे ॥ अथवा किं बहुना स्वयमात्मनः पुत्रो भवतीत्येवमादिसंसारस्वभावचिन्तनं संसारानुप्रक्षा ॥ एवं ह्यस्य भावयतः संसारदुःखभयादुद्विग्नस्य ततो निर्वेदो भवति । निर्विण्णश्च संसारप्रहाणाय प्रतियतते ॥३॥
जन्मजरामरणानुवृत्तिमहादुःखानुभवं प्रति एक एवाहं न
Page #274
--------------------------------------------------------------------------
________________
२४४ . सर्वार्थसिद्धिः कश्चिन्मे स्वः परो वा विद्यते । एक एव नायेऽहम् । एक एव प्रिये । न मे कश्चित् स्वजनः परजनो वा व्याधिजरामरणादीनि दुःखान्यपहरति । गन्धुमित्राणि स्मशानं नातिवर्तन्ते । धर्म एव मे सहायः सदा अनपायीति चिन्तनमेकत्वानुप्रेक्षा ॥ एवं बस्य भावयतः स्वजनेषु प्रीत्यनुबन्धो न भवति । परजनेषु च द्वेषानुबन्धो नोपजायते । ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटते १
शरीरादन्यत्वचिन्तनमन्यत्वानुप्रेक्षा । तद्यथा बन्धं प्रत्येकत्वे सत्यपि लक्षणभेदादन्योऽहमैन्द्रियकं शरीरमनिन्द्रियोऽहमज्ञं शरीरं ज्ञोऽहमनित्यं शरीरं नित्योऽहमाद्यन्तवच्छरीरमनाद्यन्तोऽहं बहुनि मे शरीरशतसहस्राण्यतीतानि संसारे परिभ्रमतः। स एवाहमन्यस्तेभ्य इत्येवं शरीरादप्यन्यत्वं मे किमङ्ग ! पुनधेिभ्यः परिग्रहेभ्य इत्येवं ह्यस्य मनःसमादधानस्य शरीरादिषु स्पृहा नोत्पद्यते । ततस्तत्वज्ञानभावनापूर्वके वैराग्यप्रकर्षे सति आत्यन्तिकस्य मोक्षसुखस्याप्तिर्भवति ॥ ५ ॥
शरीरमिदमत्यन्ताशुचि शुक्रशोणितयोन्यशुचिसंवर्धितमवस्करवदशुचिमाजनं त्वङ्मात्रप्रच्छादितमतिपूतिरसनिष्यन्दिस्रोतो. विलमङ्गारवदात्मभावमाश्रितमप्याश्वेवापादयति । मानानुलेपनधूपप्रघर्षवासमास्यादिभिरपि न शक्यमशुचित्वमपहर्तुमस्य । सम्य. ग्दर्शनादि पुनर्भाव्यमानं जीवस्यात्यन्तिकी शुद्धिमाविर्भावयतीति तत्त्वतो भावनमशुचित्वानुप्रेक्षा ॥ एवं ह्यस्य संस्मरतः शरीरनिर्वेदो भवति । निर्विणश्च जन्मोदधितरणाय चित्तं समाधत्ते ॥ ६॥
आस्रवसंवरनिर्जराः पूर्वोक्ता अपि इहोपन्यस्यन्ते तद्गुणदोषभावनार्थ । तद्यथा- आस्रवा इहामुत्रापाययुक्ता महानदीस्रोतोवेगतीक्ष्णा इन्द्रियकषायात्रतादयः। तत्रेन्द्रियाणि तावस्पर्शनादीनि वनगजबायसपन्नगपतङ्गहरिणादीन् व्यसनार्णवमवगाहयन्ति
Page #275
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२४५
तथा कषायादयोऽपीह वधबन्धपरिक्लेशादीन् जनयन्ति ॥ अमुत्र च नानागतिषु बहुविधदुःखप्रज्वलितासु भ्रमयन्तीत्येवमात्रवदोषानुचिन्तनमात्रवानुप्रेक्षा । एवं ह्यस्य चिन्तयतः क्षमादिषु श्रेयत्व - बुद्धिर्न प्रच्यवते ॥ सर्व एते आस्रवदोषाः कूर्मवत्संवृतात्मनो न भवन्ति ॥ ७ ॥
यथा महार्णवे नावो विवरापिधाने सति क्रमात्सुतजलाभिलवे सति तदाश्रयाणां विनाशोऽवश्यंभावी, छिद्रपिधाने च निरुपद्रवमभिलषित देशान्तरप्रापणं, तथा कर्मागमद्वारसंवरणे सति नास्ति श्रेयः प्रतिबन्ध इति संवरगुणानुचिन्तनं संवरानुप्रेक्षा ॥ एवं यस्य चिन्तयतः संवरे नित्योयुक्तता भवति । ततश्च निःश्रेयसपदप्राप्तिरिति ॥ ८ ॥
निर्जरा वेदनाविपाकजा इत्युक्तम् ॥ सा द्वेषा - अबुद्धिपूर्वा कुशलमूला चेति ॥ तत्र नरकादिषु गतिषु कर्मफलविपाकजा अबुद्धिपूर्वा सा अकुशलानुबन्धा ॥ परिषहजये कृते कुशलमूला सा शुभानुबन्धा निरनुबन्धा चेति ॥ इत्येवं निर्जराया गुणदोषभावनं निर्जरानुप्रेक्षा । एवं ह्यस्यानुस्मरतः कर्मनिर्जरायै प्रवृत्तिर्भवति ॥ ९ ॥
कोकसंस्थानादिविधिर्व्याख्यातः ॥ समन्तादनन्तस्यालोकाकाशस्य बहुमध्यदेशभाविनो लोकस्य संस्थानादिविधिर्व्याख्यातः ॥ तत्स्वभावानुचिन्तनं लोकानुप्रेक्षा । एवं ह्यस्याध्यवस्यतस्तत्त्वज्ञानविशद्धिर्भवति ॥ १० ॥
एकास्मन्निगोतशरीरे जीवाः सिद्धानामनन्तगुणाः, एवं सर्वलोको निरन्तरं निचितः स्थावरैरतस्तत्र वसता वालुकासमुद्रे पतिता वज्रसिकताकणिकेव दुर्लभा । तत्र च विकलेन्द्रियाणां भूयिष्ठत्वात्पञ्चेन्द्रियता गुणेषु कृतज्ञतेव कृच्छ्रलभ्या । तत्र च
Page #276
--------------------------------------------------------------------------
________________
२४६
सर्वार्थसिद्धिः तिर्यक्षु पशुमृगपक्षिसरीसृपादिषु बहुषु सत्सु मनुष्यभावश्चतुष्पथे रत्नराशिरिव दुरासदः । तत्प्रच्यवे च पुनस्तदुपपत्तिर्दग्धतरुपुद्गलतद्भावोपपत्तिवदुर्लभा । तल्लामे च देशकुलेन्द्रियसम्पन्नारोगत्वान्युत्तरोत्तरतोऽतिदुर्लभानि ॥ सर्वेष्वपि तेषु लब्धेषु सद्धर्मप्रतिलम्भो यदि न स्याव्यर्थ जन्म, वदनमिव दृष्टिविकलं । तमेवं कृच्छूलभ्यं धर्ममवाप्य विषयसुखे रञ्जनं भस्मार्थं चन्दनदहनमिव विफलम् ।। विरक्तविषयसुखस्य तु तपोभावनाधर्मप्रभावनासुखमरणादिलक्षणः समाधिईरवापः ॥ तस्मिन् सति बोधिलाभः फलवान् भवतीति चिन्तनं बोधिदुर्लभानुप्रेक्षा ॥ एवं ह्यस्य भावयतो बोधि प्राप्य प्रमादो न कदाचिदपि भवति ॥ ११॥
अयं जिनोपदिष्टो धर्मोऽहिंसालक्षणः सत्याधिष्ठितो विनयमूलः क्षमाबलो ब्रह्मचर्यगुप्त उपशमप्रधानो नियतिलक्षणो निष्प. रिग्रहतालम्बनः । तस्यालाभादनादिसंसारे जीवाः परिभ्रमन्ति दुष्कर्मविपाकजं दुःखमनुभवन्तः ॥ अस्य पुनः प्रतिलम्भे विविधाभ्युदयप्राप्तिपूर्विका निःश्रेयसोपलब्धिर्नियतेति चिन्तनं धर्मखाख्यातत्वानुप्रेक्षा । एवं ह्यस्य चिन्तयतो धर्मानुरागात्सदा प्रतियत्नपरो भवति ॥ १२ ॥
एवमनित्यत्वाद्यनुप्रेक्षासन्निधाने उत्तमक्षमादिधारणान्महान्संवरो भवति ॥ मध्ये अनुप्रेक्षावचनमुभयार्थम् ॥ अनुप्रेक्षा हि भावयन्नुत्तमक्षमादींश्च प्रतिपालयति । परीषहाँश्च जेतुमुत्सहते ॥
के पुनस्ते परिषहाः किमर्थं वा सह्यन्त इतीदमाह॥ मार्गाच्यवननिर्जरार्थं परिषोढव्याः परिषहाः ८
संवरस्य प्रकृतत्वात्तेन मार्गो विशिष्यते । संवरमार्ग इति । तदच्यवनाथ निर्जरार्थं च परिषोढव्याः परिषहाः। क्षुत्पिपासादि
Page #277
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२४७ सहनम्। जिनोपदिष्टान्मार्गादप्रच्यवमानास्तन्मार्गपरिक्रमणपरिचयेन कर्मागमद्वार सँवृण्वन्त औपक्रमिकं कर्मफलमनुभवन्तः क्रमेण निर्णिकर्माणो मोक्षमाप्नुवन्ति ॥
तत्स्वरूपसंख्यासम्प्रतिपत्यर्थमाह॥ क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्री
चर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृण. स्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥९॥
क्षुदादयो वेदनाविशेषा द्वाविंशतिः । एतेषां सहनं मोक्षार्थिना कर्तव्यम् ॥ तद्यथा-भिक्षोर्निरवद्याहारगवेषिणस्तदलाभे ईषल्लाभे च अनिवृत्तवेदनस्याकाले अदेशे च भिक्षां प्रति निवृत्तेच्छस्यावश्यकपरिहाणिं मनागप्यसहमानस्य स्वाध्यायध्यानभावनापरस्य बहुकृत्वः स्वकृतपरकृतानशनावमोदर्यस्य नीरसाहारस्य तप्तभ्राष्ट्रपतितजलबिन्दुकतिपयवत्सहसा परिशुष्कपानस्योदीर्णक्षुद्वेदनस्यापि सतो भिक्षालाभादलाभमधिकगुणं मन्यमानस्य क्षुद्वाधां प्रत्यचिन्तनं क्षुद्विजयः ॥ १॥ . जलस्नानावगाहनपरिषेकपरित्यागिनः पतत्रिवदनियतासनावसथस्यातिलवणस्निग्धरूक्षविरुद्धाहारगृष्मातपपित्तज्वरानशनादिभिरुदीर्णा शरीरेन्द्रियोन्माथिनी पिपासां प्रत्यनाद्रियमाणप्रतिकारस्य पिपासानलशिखां धृतिनवमृद्धटपूरितशीतलसुगन्धिसमाधिवारिणा प्रशमयतः पिपासासहनं प्रशस्यते ॥२॥
परित्यक्तप्रच्छादनस्य पक्षिवदनवधारितालयस्य वृक्षमूलपथिशिलातलादिषु हिमानीपतनशीतलानिलसम्पाते तत्प्रतिकारप्राप्ति प्रति निवृत्तेच्छस्य पूर्वानुभूतशीतप्रतिकारहेतुवस्तुनामस्मरतो ज्ञानभावनागर्भागारे वसतः शीतवेदनासहनं परिकीर्त्यते ॥ ३ ॥
Page #278
--------------------------------------------------------------------------
________________
२४८
सर्वार्थसिद्धिः निवाते निर्जले ग्रीष्मरविकिरणपरिशुष्कपतितपर्णव्यपेतच्छायातरुण्यटव्यन्तरे यदृच्छयोपनिपतितस्यानशनाद्यभ्यन्तरसाधनोत्पादितदाहस्य दवाग्निदाहपरुषवातातपजनितगलतालुशोषस्य तत्प्रतिकारहेतून् बहूननुभूतानचिन्तयतः प्राणिपीडापरिहारावहितचेतसश्चारित्ररक्षणमुष्णसहनमित्युपवर्ण्यते ॥४॥
दंशमशकग्रहणमुपलक्षणं । यथा काकेभ्यो रक्ष्यतां सर्पिरिति उपघातोपलक्षणं काकग्रहणं, तेन दंशमशकमक्षिकापिशुकपुत्तिकामत्कुणकीटपिपीलिकावृश्चिकादयो गृह्यन्ते ॥ तत्कृतां बाधामप्रतिकारां सहमानस्य तेषां बाधां त्रिधाऽप्यकुर्वाणस्य निर्वाणप्राप्तिमात्रसंकल्पप्रावरणस्य तद्वेदनासहनं दंशमशकपरिषहक्षमेत्युच्यते ॥५॥
जातरूपवन्निष्कलङ्कजातरूपधारणमशक्यप्रार्थनीयं याचनरक्षणहिंसनादिदोषविनिर्मुक्तं निष्परिग्रहत्वान्निर्वाणप्राप्तिं प्रत्येकं साधनमनन्यबाधनं नाग्न्यं बिभ्रतो मनोविक्रियाविप्लुतिविरहात् स्त्रीरूपाण्यत्यन्ताशुचिकुणपरूपेण भावयतो रात्रिन्दिवं ब्रह्मचर्यमखण्डमातिष्ठमानस्याचेलव्रतधारणमनवद्यमवगन्तव्यम् ॥ ६ ॥
- संयतस्येन्द्रियेष्टविषयसम्बधं प्रति निरुत्सुकस्य गीतनृत्यवादित्रादिविरहितेषु शून्यागारदेवकुलतरुकोटरशिलागुहादिषु स्वा. ध्यायध्यानभावनारतिमास्कन्दतो दृष्टश्रुतानुभूतरतिस्मरणतत्कथाश्रवणकामशरप्रवेशनिर्विवरहृदयस्य प्राणिषु सदासदयस्यारतिपारिपहजयोऽवसेयः ॥ ७ ॥
एकान्तेष्वारामभवनादिप्रदेशेषु नवयौवनमदविभ्रममदिरापान प्रमत्तासु प्रमदासु बाधमानामु कूर्मवत्संहृतेन्द्रियहृदयविकारस्य ललितस्मितमृदुकथितसविलासवीक्षणप्रहसनपदमन्थरगमनमन्मथशरव्यापारविफलीकरणस्य स्त्रीवाधापरिषहसहनमवगन्तव्यम् ॥ ८ ॥
Page #279
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२४९ दीर्घकालमुषितगुरुकुलब्रह्मचर्यस्याधिगतबन्धमोक्षपदार्थतत्त्वस्य सयमायतनभक्तिहेतोर्देशान्तरातिथेगुरुणाऽभ्यनुज्ञातस्य पवनवनिःसङ्गतामङ्गीकुर्वतो बहुशोऽनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागादिवाधापरिक्रान्तकायस्य देशकालप्रमाणोपेतमध्वगमनं संयमविरोधि परिहरतो निराकृतपादावरणस्य परुषशर्कराकण्टकादिव्यथनजातचरणखेदस्यापि सतः पूर्वोचितयानवाहनादिगमनमस्मरतो यथाकालमावश्यकापरिहाणिमास्कन्दतश्चर्यापरिषहसहनमवसेयम् ॥ ९ ॥
स्मशानोद्यानशून्यायतनगिरिगुहागव्हरादिष्वनभ्यस्तपूर्वेषु निवसत आदित्यस्वेन्द्रियज्ञानप्रकाशपरीक्षितप्रदेशे प्रकृतनियमक्रियस्य निषद्यां नियमितकालामास्थितवतः सिंहव्याघ्रादिविविधभीषणध्वनिश्रवणान्निवृत्तभयस्य चतुर्विधोपसर्गसहनादप्रच्युतमोक्षमार्गस्य वीरासनोत्कुटिकाद्यासनादविचलितविग्रहस्य तत्कृतबाधासहनं निषद्यापरिषहविजय इति निश्चीयते ॥ १० ॥ ___ स्वाध्यायध्यानाध्वश्रमपरिखेदितस्य मौहूर्तिकी खरविषमप्रचुरशर्कराकपालसङ्कटादिशीतोष्णेषु भूमिप्रदेशेषु निद्रामनुभवतो यथाकृतैकपार्श्वदण्डायितादिशायिनः प्राणिबाधापरिहाराय पतित. दारुवढ्यपगतासुवदुपरिवर्तमानस्य ज्ञानपरिभावनावहितचेससोऽनुष्ठि. तव्यन्तरादिविविधोपसर्गादप्यचलितविग्रहस्यानियमितकालां तत्कृत. नाघां क्षममाणस्य शय्यापरिषहक्षमा कथ्यते ॥ ११ ॥
मिथ्यादर्शनोक्तामर्षपरुषावज्ञानिन्दासभ्यवचनानि क्रोधाग्निशिखाप्रवर्धनानि शृण्वतोऽपि तदर्थेष्वसमाहितचेतसः सहसा तत्प्रतिकारं कर्तुमपि शक्नुवतः पापकर्मविपाकमभिचिन्तयतस्तान्याकर्ण्य तपश्चरणभावनापरस्य कषायविषलवमात्रस्याप्यनवकाशमात्महृदयं कुर्वत आक्रोशपरिषहसहनमवधार्यते ॥ १२ ॥ १ परुषवचनावज्ञावचननिन्दावचनासभ्यवचनानीति सम्बन्धः ॥
Page #280
--------------------------------------------------------------------------
________________
२५०
सर्वार्थसिद्धिः निशितविशसनमुशलमुद्गरादिप्रहरणताउनपीडनादिभिर्व्यापाद्यमानशर रस्य व्यापादकेषु मनागपि मनोविकारमकुर्वतो मम पुराकृतदुष्कर्मफलमिदमिमे वराकाः किं कुर्वन्ति, शरीरमिदं नलबुद्बुदवद्विशरणस्वभावं व्यसनकारणमेतैर्व्याबाध्यते, संज्ञानदर्शनचारित्राणि मम न केनचिदुपहन्यन्ते इति चिन्तयतो वासितक्षणचन्दनानुलेपनसमदर्शिनो वधपरिषहक्षमा मन्यते ॥१३॥
बाह्याभ्यन्तरतपोऽनुष्ठानपरस्य तद्भावनावशेन निस्सारीकृतमूर्तेः पटुतपनतापनिष्पीतसारतरोरिव विरहितच्छायस्य त्वगस्थिशिराजालमात्रतनुयन्त्रस्य प्राणवियोगे सत्यप्याहारवसतिभेषजादीनि दीनाभिधानमुखवैवाङ्गसज्ञादिभिरयाचमानस्य भिक्षाकालेऽपि विद्युदुद्योतवत् दुरुपलक्ष्यमूर्तेर्याचनापरिषहसहनमवसीयते ॥ १४ ॥
___वायुवदसङ्गादनेकदेशचारिणोऽभ्युपगतेककालसम्भोजनस्य वाचंयमस्य तत्समितस्य वा सकृत्स्वतनुदर्शनमात्रतन्त्रस्य पाणिपुटमात्रपात्रस्य बहुषु दिवसेषु च गृहेषु भिक्षामनवाप्याप्यसंक्लिष्टचेतसो दातृविशेषपरीक्षानिरुत्सुकस्य लाभादप्यलाभो मे परमं तप इति सन्तुष्टस्यालाभविजयोऽवसेयः ॥ १५ ॥
सर्वाशुचिनिधानमिदमनित्यमपरित्राणमिति शरीरे निःसैकल्पत्वाद्विगतसंस्कारस्य गुणरत्नभाण्डसञ्चयप्रवर्धनसंरक्षणसन्धारण. कारणत्वादभ्युपगतस्थितिविधानस्याक्षम्रक्षणवव्रणालेपनवद्वा बहूपकारमाहारमभ्युपगच्छतो विरुद्धाहारपानसेवनावैषम्यजनितवाता
१ तदुक्तम्- अज्ञानभावादशुभाशयाद्वा । करोति चेत्कोऽपि नरः खलत्वम् ॥ तथाऽपि सद्भिः शुभमेव चिन्त्यं । न मथ्यमानेऽ प्यमृतं विषं हि ॥ १ ॥ अन्यच्च- आकृष्टोऽहं हतो नैव हतो वा न द्विधा कृतः। मारितो न हृतो धर्मो मदीयोऽनेन बन्युना ॥२॥
२ निर्मलत्वात् ॥
Page #281
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२५१ दिविकाररोगस्य यगपदनेकशतसंख्याव्याधिप्रकोपे सत्यपि तद्वशवर्तितां विजहतोजल्लौषधिप्राप्त्याद्यनेकतपोविशेषर्द्धियोगे सत्यपि शरीरनिस्पृहत्वात्तत्प्रतिकारानपेक्षिणो रोगपरिषहसहनमवगन्तव्यम् १६
तृणग्रहणमुपलक्षणं कस्यचिद्यथनदुःखकारणस्य । तेन शुष्कतृणपरुषशर्कराकण्टकनिशितमृत्तिकाशूलादिव्यथनकृतपादवेदना. प्राप्तौ सत्यां तत्राप्रणिहितचेतसश्चर्याशय्यानिषद्यासु प्राणिपीडापरिहोरे नित्यमप्रमत्तचेतसस्तृणादिस्पर्शबाधापरिषहविजयो वेदितव्यः१७
___ अप्कायिकजन्तुपीडापरिहारायामरणादस्नानव्रतधारिणः पटु. रविकिरणप्रतापजनितप्रस्वेदात्तपवनानीतपांसुनिचयस्य सिध्मकच्छदबूदार्णकण्डूयायामुत्पन्नायामपि कण्डूयनविमर्दनसङ्घट्टनविवर्जितमूर्तेः स्वगतमलोपचयपरमलापचययोरसंकल्पितमनसः संज्ञानचारित्रविमलसलिलप्रक्षालनेन कर्ममलपङ्कजालनिराकरणाय नित्यमुद्यतमतेमलपीडासहनमाख्यायते केशलुञ्चासंस्काराभ्यामुत्पन्नखेदसहनं मलसामान्यसहनेऽन्तर्भवतीति न पृथगुक्तम् ॥ १८ ॥
सत्कारः पूजाप्रशंसात्मकः । पुरस्कारो नाम क्रियारम्भादिष्वग्रतः कारणमामन्त्रणं वा, तत्रानादरोऽपि क्रियते ! चिरोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयनिर्णयज्ञस्य बहुकृत्वः परवादिविजयिनः प्रणामभक्तिसम्भ्रमासनप्रदानादीनि मे न कश्चित्करोति! मिथ्यादृष्टय एवातीवभक्तिमन्तः किञ्चिदजानन्तमपि सर्वज्ञसम्मावनया सम्मान्य स्वसमयप्रभावनं कुर्वति! व्यन्तरादयः पुरा अत्युग्रतपसां प्रत्यग्रपूजां निवर्तयन्तीति मिथ्या श्रुतिर्यदि न स्यादिदानी कस्मान्मादृशां न कुर्वन्तीति दुष्प्रणिधानविरहितचित्तस्य सत्कारपुरस्कारपरिषहविजयः प्रतिज्ञायते ॥ १९ ॥ १ ममाङ्गे मलं वर्तते, अस्य भिक्षोरङ्गे कीदृशं नैर्मल्यं वर्तते इति॥
Page #282
--------------------------------------------------------------------------
________________
२५२
सर्वार्थसिद्धिः अङ्गपूर्वप्रकीर्णकविशारदस्य शब्दन्यायाध्यात्मनिपुणस्य मम पुरस्तादितरे भास्करप्रभाभिभूतखद्योतोद्योतवन्नितरां नावभासन्त इति विज्ञानमदनिरासः प्रज्ञापरिषहजयः प्रत्येतव्यः ॥ २० ॥ __अज्ञोऽयं न वेत्ति पशुसम इत्येवमाद्यवक्षेपवचनं सहमानस्य परमदुश्चरतपोऽनुष्ठायिनो नित्यमप्रमत्तचेतसो मेऽद्यत्वेऽपि विज्ञानातिशयो नोत्पद्यत इति अनभिसन्दधतोऽज्ञानपरिषहजयोऽ वगन्तव्यः ॥ २१॥
परमवैराग्यभावनाशुद्धहृदयस्य विदितसकलपदार्थतत्त्वस्याह. दायतनसाधुधर्मपूजकस्य चिरन्तनप्रवजितस्याद्यापि मे ज्ञानातिशयो नोत्पद्यते! महोपवासाद्यनुष्ठायिनां प्रातिहार्यविशेषाः प्रादुरभूवन्निति प्रलापमात्रमनर्थकेयं प्रव्रज्या! विफलं व्रतपरिपालनमित्येवमसमादधानस्य दर्शनविशुद्धियोगाददर्शनपरिषहसहनमवसातव्यम् ॥ २२॥
___ एवं परिषहान् सहमानस्यासंक्लिष्टचेतसो रागादिपरिणामात्रवनिरोधान्महान्संवरो भवति ॥
आह किमिमे परिषहाः सर्वे संसारमहाटवीमतिक्रमितुमभ्युद्यतमभिद्रवन्ति उत कश्चित्प्रतिविशेष इत्यत्रोच्यते-अभी व्याख्यातलक्षणाः क्षुदादयश्चारित्रान्तराणि प्रतिभाज्या नियमेन पुनरनयोः प्रत्येतव्याः॥ सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतुर्दश ॥ १०॥
क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाज्ञानानि। चतुर्दश इति वचनादन्येषां परिषहाणामभावो वेदितव्यः।। आह युक्तं तावद्वीतरागच्छद्मस्थ मोहनीयाभावाद्वक्ष्यमाणनाग्न्यारतिस्त्रीनिषद्याऽऽक्रोशयाचनासत्कारपुरस्कारादर्शनानि तत्कृताटपरिषहाभावाच्चतुर्दशनियमवचनम् । सूक्ष्मसाम्पराये तु मोहोदयसद्भावाच्चतुर्दशेति नियमो नोपपद्यत इति । तदयुक्तम् । सन्मात्रत्वात् ॥
Page #283
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२५३ तत्र हि केवललोभसज्वलनकषायोदयः सोऽप्यतिसूक्ष्मः ॥ ततो वीतरागछद्मस्थकरूपत्वाच्चतुर्दशेति नियमस्तत्रापि युज्यते ॥ ननु मोहोदयसहायाभावान्मन्दोदयत्वाच्च क्षुदादिवेदनाभावात्तत्सहनकृतपरिषहव्यपदेशो न युक्तिमवतरति ॥ तन्न-किं कारणम् । शक्तिमात्रस्य विवक्षितत्वात् । सर्वार्थसिद्धिदेवस्य सप्तमपृथिवीगमनसामर्थ्यव्यपदेशवत् ॥
माह यदि शरीरवत्यात्मनि परिषहसन्निधानं प्रतिज्ञायते अथ भगवति उत्पन्नकेवलज्ञाने कर्मचतुष्टयफलानुभवनवशवर्तिनि कियन्त उपनिपतन्तीत्यत्रोच्यते ॥ तस्मिन्पुनः
॥ एकादश जिने ॥ ११ ॥ . निरस्तघातिकर्मचतुष्टये जिने वेदनीयसद्भावातदाश्रया एकादशपरिषहाः सन्ति ॥ ननु मोहनीयोदयसहायाभावात्क्षुदादिवेदनाभावे परिषहव्यपदेशो न युक्तः । सत्यमेवमेतत्- वेदनाभावेऽपि द्रव्यकर्मसद्भावापेक्षया परिषहोपचारः क्रियते । निरवशेषनिरस्तज्ञानावरणे युगपत्सकलपदार्थावमासिकेवलज्ञानातिशये चिन्तानिरोधाभावेऽपि तत्फलकर्मनिर्हरणफलापेक्षया ध्यानोपचारववत् । अथवा- एकादश जिने न सन्तीति वाक्यशेषः कल्पनीयः सोपस्कारत्वात्सूत्राणां । विकल्प्यो हि वाक्यशेषो वाक्याधीन इत्युपगमात् । मोहोदयसहायीकृतक्षुदादिवेदनाभावात् ॥
आह यदि सूक्ष्मसाम्परायादिषु व्यस्ता परिषहाः अथ समस्ताः केति
॥ बादरसाम्पराये सर्वे ॥ १२ ॥ साम्परायः कषायः बादरः साम्परायो यस्य स बादरसाम्पराय इति ॥ नेदं गुणस्थानविशेषग्रहणम् । किं तर्हि
Page #284
--------------------------------------------------------------------------
________________
२५४
सर्वार्थसिद्धिः अर्थनिर्देश ः ॥ तेन प्रमत्तादीनां संयतानां ग्रहणं ॥ तेषु हि अक्षाणकषायदोषत्वान्सर्वे सम्भवन्ति ॥ कस्मिन् पुनश्चारित्रे सर्वेषां सम्भव : ? । सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसँयमेष्वन्यतमे सर्वेषां सम्भवः॥
आह गृहीतमेतत्परिषहाणां स्थानविशेषावधारणं, इदं तु न विद्मः कस्याः प्रकृतेः कः कार्य इत्यत्रोच्यते. ॥ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३ ॥
इदमयुक्तं वर्तते । किमत्रायुक्तं-ज्ञानावरणे सत्यज्ञानपरिषह उपपद्यते, प्रज्ञापरिषहः पुनस्तदपाये भवतीति कथं ज्ञानावरणे स्यादित्यत्रोच्यते-क्षायोपशमिकी प्रज्ञा अन्यस्मिन् ज्ञानावरणे सति मदं जनयति । न सकलावरणक्षये इति ज्ञानावरणे सतीत्युपपद्यते ।।
पुनरपरयोः परिषहयोः प्रकृतिविशेषनिर्देशार्थमाह॥ दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४ ॥ __ यथासंख्यममिसम्बन्धः । दर्शनमहे मदर्शनपरिषहः लाभान्तराये अलाभपरिषह इति ॥
माह यद्याचे मोहनीयभेदे एकः परिषहः, अथ द्वीतीयस्मिन् कति भवन्तीत्यत्रोच्यते
॥ चरित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः॥ १५॥
पुंवेदोदयादिनिमित्तत्वान्नाग्न्यादिपरिषहाणां मोहोदयनिमित्तत्व प्रतिपद्यामहे । निषद्यापरिषहस्य कथम् ? तत्रापि प्राणिपीडाप
१ अक्षीणाशयत्वादित्यप्यन्यः पाठः ॥
Page #285
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२५५ रिहारार्थत्वात् । मोहोदये सति प्राणिपीडापरिणामः सञ्जायत इति ॥
अवशिष्टपरिषहप्रकृतिविशेषप्रतिपादनार्थमाह --
॥ वेदनीये शेषाः ॥ १६ ॥
उक्ता एकादश परिषहाः। तेभ्योऽन्ये शेषा वेदनीये सति भवन्तीति वाक्यशेषः ॥ के पुनस्ते ? क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरिषहाः ॥ ___ आह व्याख्यातनिमित्तलक्षणविकल्पाः प्रत्यात्मनि प्रादुर्भवन्तः कति युगपदवतिष्ठन्त इत्यत्रोच्यते॥ एकादयो भाज्या युगपदेकस्मिन्नैकान्नविंशतः १७
आङभिविध्यर्थः । तेन एकोनविंशतिरपि क्वचित् युगपत्सम्भवतीत्यवगम्यते । तत्कथमिति चेदुच्यते- शीतोष्णपरिषहयारेकः शय्यानिषद्याचर्याणामन्यतम एव भवति एकस्मिन्नात्मनि ॥ कुतः ? विरोधात् ॥ तत्रयाणामपगमे युगपदेकात्मनीतरेषां सम्भवादेकोनविंशतिविकल्पा बोद्धव्याः ॥ ननु प्रज्ञाज्ञानयोरपि विरोधाधुगपदसम्भवः! । श्रुतज्ञानापेक्षया प्रज्ञापरिषहः अवधिज्ञानापेक्षया भज्ञानपरिषह इति नास्ति विरोधः ॥
___ आह उक्ता गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयाः संवरहेतवः पञ्च । संवरहेतुश्चारित्रसज्ञो वक्तव्य इति तद्भेदप्रदर्शनार्थमुच्यते
॥ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति चारित्रम् ॥ १८ ॥
अत्र चोद्यते- दशविधे धर्मे सँयम उक्तः स एव १ प्राणिपीडापरिहारसद्भावे मोहनीयनिमित्तत्व कथमित्याशङ्कायामाह ॥ चारित्रमोहोदये सति ॥ २ ज्ञानावरणादि ॥
Page #286
--------------------------------------------------------------------------
________________
२५६
सर्वार्थसिद्धिः चारित्रमिति पुनर्ग्रहणमनर्थकमिति ॥ नानर्थकम् - धर्मेऽन्तर्भूतमपि चारित्रमन्ते गृह्यते मोक्षप्राप्तेः साक्षात्कारणमिति ज्ञापनार्थम् ॥ सामायिकमुक्तं । क ? दिग्देशानर्थदण्डविरतिसामायिकमित्यत्र ।। तद्विविधम्- नियतकालमनियतकालञ्च । स्वाध्यायादि नियतकालम् । ईर्यापथाद्यनियतकालम् ॥ प्रमादकृतानर्थपबन्धविलोपे सम्यक्प्रतिक्रिया छेदोपस्थापना, विकल्पनिवृत्तिर्वा ॥ परिहरणं परिहारः प्राणिवधान्निवृत्तिः । तेन विशिष्टा शुद्धिर्यस्मिस्तत्परिहारविशुद्धिचारित्रम् ॥ अतिसूक्ष्मकषायत्त्वात्सूक्ष्मसाम्परायचारित्रम् ॥ मोहनीयस्य निरवशेषस्योपशमात्क्षयाच्च आत्मस्वभावावस्थापेक्षालक्षणं यथाख्यातचारित्रमित्याख्यायते ॥ पूर्वचारित्रानुष्ठायिमिराख्यातं न तत्प्राप्तं प्राङ्मोहक्षयोपशमाभ्यामित्यथाख्यातम् ॥ अथ. शब्दस्यानन्तरार्थवर्तित्वान्निरवशेषमोहक्षयोपशमानन्तरमाविर्भवतीत्य र्थः ॥ तथाऽऽख्यातमिति वा यथात्मस्वभावोऽवस्थितस्तथैवाख्यातत्वात् ॥ इतिशब्दः परिसमाप्तौ द्रष्टव्यः ॥ ततो यथाख्यातचारित्रात्सकलकर्मक्षयपरिसमाप्तिर्भवतीति ज्ञाप्यते ॥ सामायिकादीनामानुपूर्व्यवचनमुत्तरोत्तरगुणप्रकर्षज्ञापनार्थम् ॥
आह उक्तं चारित्रं तदनन्तरमुद्दिष्टं यत् तपसा निरी चेति तस्येदानीं तपसो विधानं कर्तव्यमित्यत्रोच्यते। तत् द्विविधम् बाह्यमभ्यन्तरं च ॥ तत्प्रत्येकं षड्विधम् ॥ तत्र बाह्यभेदप्रतिपत्त्यर्थमाह॥ अनशनावमोदर्यवृत्तिपरिसङ्ख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः ॥ १९ ॥
दृष्टफलानपेक्षं संयमप्र सद्धिरागोच्छेदकर्मविनाशध्यानागमावाप्त्यर्थमनशनम् ॥ संयमप्रजागरदोषप्रशमसन्तोषस्वाध्यायादिसुख
Page #287
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२५७ सिध्द्यर्थमवमोदर्यम् ॥ भिक्षार्थिनो मुनेरेकागारादिविषयसङ्कल्पचितावरोधो वृत्तिपरिसंख्यानमाशानिवृत्त्यर्थमवगन्तव्यम् ॥ इन्द्रियदर्पनिग्रहनिद्राविजयस्वाध्यायसुखसिध्द्यर्थो घृनादिवृष्यरसपरित्यागश्चतुर्थ तपः ॥ शून्यागारादिषु विविक्तेषु जन्तुपीडाविरहितेषु संयतस्य शय्यासंनमाबाधात्ययब्रह्मचर्यस्वाध्यायध्यानादिप्रसिध्यर्थ कर्तव्यमिति पञ्चमं तपः ॥ आतपस्थानं वृक्षमूलनिवासो निरावरणशयनं बहुविधप्रतिमास्थानमित्येवमादिः कायक्लेशः षष्ठं तपः ॥ तत्किमर्थम्? देहदुःखतितिक्षासुखानभिष्वङ्गप्रवचनप्रभावनाद्यर्थम् ॥ परिषहस्यास्य च को विशेषः- यदृच्छयोपनिपतितः परिषहः । खयंकृतः कायक्लंशः॥ बाह्यत्वमस्य कुतः- बाह्यद्रव्यापेक्षत्वात्परप्रत्यक्षत्वाञ्च बाद्यत्वम् ॥ अभ्यन्तरतपोभेदप्रदर्शनार्थमाह--
॥प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥
कथमस्याभ्यन्तरत्वम् । मनोनियमनार्थत्वात् ॥ प्रमाददोषपरिहारः प्रायश्चित्तम् ॥ पूज्येष्वादरो विनयः ॥ कायचेष्टया द्रव्यान्तरेण चोपासनं वैयावृत्त्यम् ॥ ज्ञानभावनाऽऽलस्यत्यागः खाध्यायः॥ आत्माऽऽत्मीयसङ्कल्पत्यागो व्युत्सर्गः॥ चित्तविक्षेपत्यागो ध्यानम् ॥ तद्भेदप्रतिपादनार्थमाह
नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्रारध्यानात् ॥२१॥ ____ यथाक्रममिति वचनान्नवभेदं प्रायश्चित्तम् ॥ विनयश्चतुर्विधः ॥ वैयावृत्यं दशविधम् ॥ स्वाध्यायः पञ्चविधः ॥ द्विविधो व्युत्सर्ग इत्यभिसम्बध्यते । प्राग्ध्यानादितिवचनं ध्यनास्य बहुवक्तव्यत्वात्पश्चा. द्वक्ष्यत इति ॥ आद्यस्य भेदस्वरूपनिर्ज्ञानार्थमाह
Page #288
--------------------------------------------------------------------------
________________
२५८
सर्वार्थसिद्धिः
॥ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपइच्छेदपरिहारोपस्थापनाः ॥ २२ ॥
तत्र गुरवे प्रमादनिवेदनं दशदोषविवर्जितमालोचनम् ॥ आकम्पिय अणुमणिय जं दिनं बादरं च सुहुमं च ॥ छण्डं सड्डा उलयं बहुजण अवतसस्से वि ॥ १ ॥ इति दस दोसा || मिथ्यादुष्कृताभिधानादभिव्यक्तप्रतिक्रियं प्रतिक्रमणम् । संसर्गे सति विशोधनात्तदुभयम् || संसक्तान्नपानोपकरणादिविभजनं विवेकः ॥ कायोत्सर्गादिकरणं व्युत्सर्गः ॥ अनशनावमोदर्यादिलक्षणं तपः ॥ दिवसपक्षमासादीनां प्रव्रज्याहापनं छेदः ॥ पक्षमासादिविभागेन दूरतः परिवर्जनं परिहारः ॥ पुनर्दीक्षा प्रापणमुपस्थापना || विनयविकल्पप्रतिपत्त्यर्थमाह
॥ ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥
विनय इत्यधिकारेणाभिसम्बन्धः क्रियते ॥ ज्ञानविनयो दर्शनविनयश्चारित्रविनय उपचारविनयश्चेति ॥ सबहुमानं मोक्षार्थं ज्ञानग्रहणाभ्यासस्मरणादिर्ज्ञानविनयः । शङ्कादिदोषविरहितं तत्त्वार्थश्रद्धानं दर्शनविनयः । तत्त्वतश्चारितसमाहितचित्तता चारित्रविमयः । प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनाञ्जलिकरणादिरुपचारविनयः, परोक्षेष्वपि कायवाङ्मनोऽभिरञ्जलिक्रिया गुणसङ्कीर्तनानुस्मरणांदिः ॥ वैयावृत्यभेदप्रतिपादनार्थमाह
॥ आचार्योपाध्यायतपस्वि शैक्षग्लानगणकुलसङ्घसाधुमनोज्ञानाम् ॥ २४ ॥
वैयावृत्त्यं दशधा भिद्यते । कुतः । विषयभेदात् ॥ आचार्यवैवृत्त्यमुपाध्यायवैयावृत्त्यमित्यादि ॥ तत्र आचरन्ति
―――
Page #289
--------------------------------------------------------------------------
________________
२५९
नवमोऽध्यायः तस्माद्ब्रतानीत्याचार्यः । मोक्षार्थ शास्त्रमुपेत्य तम्मादधीयत इत्युपाध्यायः । महोपवासाद्यनुष्ठायी तपस्वी ॥ शिक्षाशीलः शैक्षः ।। रुजादिक्लिष्ट शरीरो ग्लानः ॥ गणः स्थविरसन्ततिः ॥ दीक्षकाचार्यशिष्यसन्ततयः कुलम् । चातुर्वर्ण्यश्रवणनिवहः सङ्घः ॥ चिरप्रवजितः साधुः ॥ मनोज्ञो लोकसम्मतः ॥ तेषां व्याधिपरिषहमिथ्यात्वायुपनिपाते कायचेष्टया द्रव्यान्तरेण वा तत्प्रतिकारो वैयावृत्त्यं समाध्याध्यानविचिकित्साभावप्रवचनवात्सल्याघभिव्यक्त्यर्थं ॥
स्वाध्यायविकल्पविज्ञापनार्थमाह॥ वाचनाप्रच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः॥२५॥
निरवद्यग्रन्थार्थोभयप्रदानं वाचना । संशयच्छेदाय निश्चितबलाधानाय वा परानुयोगः प्रच्छना । अधिगतार्थस्य मनसाऽऽभ्यासोऽनुप्रेक्षा । घोषशुद्धं परिवर्तनमाम्नायः ॥ धर्मकथाधनुष्ठानं धर्मोपदेशः । स एष पञ्चविधः स्वाध्यायः किमर्थः । ? प्रज्ञातिशयः प्रशस्ताध्यवसायः परमसंवेगस्तपोवृद्धिरतिचारविशुद्धिरित्येवमाद्यर्थः ॥ व्युत्सर्गभेदनिर्ज्ञानार्थमाह
॥ बाह्याभ्यन्तरोपध्योः ॥ २६ ॥ - व्युत्सर्जनं व्युत्सर्गस्त्यागः । स द्विविधः- बाह्योपधित्यागोऽभ्यन्तरोपधित्यागश्चेति ॥ अनुपात्तं वास्तुधनधान्यादि बाह्योपधिः । क्रोधादिरात्मभावोऽभ्यन्तरोपधिः ॥ कायत्यागश्च नियतकालो यावज्जीव वाऽभ्यन्तरोपधित्याग इत्युच्यते । स किमर्थः ? निस्सङ्गत्वनिर्भयत्वजीविताशाव्युदासाद्यर्थः ॥ ____ यद्बहुवक्तव्यं ध्यानमिति पृथग्व्यवस्थापितं तस्येदानी भेदाभिधानं प्राप्तकालं। तदुल्लंघ्य तस्य प्रयोक्तृस्वरूपकालनिर्धारणार्थमुच्यते--
Page #290
--------------------------------------------------------------------------
________________
२६०
सर्वार्थसिद्धिः उत्तमसंहननस्यैकाग्रचिन्तानिरोधो
ध्यानमान्तर्मुहूर्तात् ॥ २७ ॥ आद्यं त्रितयं संहननमुत्तमं वज्रर्षभनाराचसंहननं वज्रनाराचसंहननं नाराचसंहननमिति ॥ तत्रितयमपि ध्यानस्य साधनं भवति ॥ मोक्षस्य तु आद्यमेव ॥ तदुत्तमसंहननं यस्य सोऽयमुत्तमसहननस्तस्योत्तमसंहननस्येत्यनेन प्रयोक्तृनिर्देशः ॥ मयं मुखम् । एकमग्रमस्येत्येकानः (अं)। नानार्थावलम्बनेन चिन्ता परिस्पन्दवती, तस्या अन्याशेषमुखेभ्यो व्यावर्त्य एकस्मिन्नने नियम एकाग्रचिन्तानिरोध इत्युच्यते । अनेन ध्यानस्वरूपमुक्तं भवति ॥ मुहूर्त इति कालपरिमाणम् । अन्तर्गतो मुहूर्तोऽन्तमुहूर्तः । आ अन्तर्मुहूर्तादित्यनेन कालावधिः कृतः ॥ ततः परं दुर्धरत्वादेकाग्रचिन्तायाः ॥ चिन्ताया निरोधो यदि ध्यानं निरोधश्चाभावस्तेन ध्यानमसत्खरविषाणवत्स्यात् ॥ नैष दोषःअन्यचिन्तानिवृत्त्यपेक्षयःऽसदिति चोच्यते , स्वविषयाकारप्रवृत्तेः सदिति च । अभावस्य भावान्तरत्वाद्धेत्वङ्गत्वादिभिरभावस्य वस्तुधर्मत्वसिद्धेश्च ॥ अथवा, नायं भावसाधनः “निरोधनं निरोध इति"। किं तर्हि ? कर्मसाधनः “निरुध्यत इति निरोधः" ॥ चिन्ता चासौ निरोधश्च चिन्तानिरोध इति ॥ एतदुक्तं भवति-ज्ञानमेवापरिस्पन्दमानमपरिस्पन्दाग्निशिखावदवभासमानं ध्यानमिति ॥ तद्भेदप्रदर्शनार्थमाह
॥ आर्त्तरौद्रधHशुक्लानि ॥ २८॥ ऋतं दुःखं, अर्दनमर्तिर्वा, तत्र भवमार्तम् । रुद्रः क्रूराश
१ सपक्षसत्त्वादिरूपैर्विपक्षासत्त्वादिभिरभावैः ॥
Page #291
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२६१ यस्तस्य कर्म तत्र भवं वा रौद्रम् । धर्मो व्याख्यातो धर्मादनपेतं धर्म्यम् । शुचिगुणयोगाच्छुक्लम् ॥ तदेतच्चतुर्विधं ध्यानं द्वैविध्यमनुते। कुतः ? । प्रशस्तापशस्तभेदात् ॥ अप्रशस्तमपुण्यासवकारणत्वात् । कर्मनिर्दहनसामर्थ्यात्प्रशस्तम् ॥ किं पुनस्तदिति चेदुच्यते
॥ परे मोक्षहेतू ॥ २९॥ परमुत्तरमन्त्यं तत्सामीप्याद्धर्म्यमपि परमित्युपचर्यते । द्विव. चनसामर्थ्यागौणमपि गृह्यते ॥ परे मोक्षहेतू इति वचनापूर्वे आतरौद्रे संसारहेतू इत्युक्तं भवति ॥ कुतः? तृतीयस्य साध्यस्याभावात् ॥ तत्रात चतुर्विधम् ॥
तत्रादिविकल्पलक्षणनिर्देशार्थमाह॥ आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय
स्मृतिसमन्वाहारः ॥ ३०॥
अमनोज्ञमाप्रियं विषकण्टकशत्रुशस्त्रादि, तद्बाधाकारणत्वादमनोज्ञमित्युच्यते । तस्य सम्प्रयोगे, स कथं नाम मे न स्यादिति साल्पश्चिन्ताप्रबन्धः स्मृतिसमन्वाहारः प्रथममार्तामेत्याख्यायते ॥ द्वितीयस्य विकल्पस्य लक्षणनिर्देशार्थमाह
॥ विपरीतं मनोज्ञस्य ॥ ३१ ॥ कुतो विपरीतं? पूर्वोक्तात् ॥ तेनैतदुक्तं भवति- मनोज्ञस्येष्टस्य स्वपुत्रदारधनादेविप्रयोगे तत्सम्प्रयोगाय सकल्पश्चिन्ता. प्रबन्धो द्वितीयमार्तमवगन्तव्यम् ॥ तृतीयस्य विकल्पस्य लक्षणप्रतिपादनार्थमाह--
॥ वेदनायाश्च ॥ ३२॥
Page #292
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः
वेदनाशब्दः सुम्बे दुःखे च वर्तमानोऽपि, आर्तस्य प्रकृतत्वात् दुःखवेदनायां प्रवर्तते, तस्या वातादिविकारजनिववेदनाया उपनिपाते तस्या अपायः कथं नाम मे स्यादिति वि(सं)कल्पश्चिन्ताप्रबन्धस्तृतीयमार्तमुच्यते ॥
तुरीयस्यार्तस्य लक्षण निर्देशार्थमाह -
२६२
॥ निदानं च ॥ ३३ ॥
भोगका तुरस्यानागतविषयप्राप्तिं प्रति मनःप्रणिधानं सङ्कपश्चिन्ताप्रबन्धस्तुरीयमार्तं निदानमित्युच्यते ॥ तदेतच्चतुर्विधमार्तं किंस्वामिकमिति चेदुच्यते॥ तदविरतदेशविरतप्रमत्तसँयतानाम् ॥ ३४ ॥ अविरता असयतसम्यग्दृष्ट्यन्ताः । देशविरताः सँयतासँयताः। प्रमत्तसँयताः पञ्चदशप्रमादोपेताः क्रियानुष्ठायिनः ॥ तत्त्राविरतदेशविरतानां चतुर्विधमतिं भवति । असंयमपरिणामोपेतत्वात् ॥ प्रमत्तसँयतानां तु निदानवर्ण्यमन्यदार्तत्रयं प्रमादोदयोद्रेकात्कदाचित्स्यात् ॥
व्याख्यातमार्तं सञ्ज्ञादिभिः ॥ द्वितीयस्य सञ्ज्ञाहेतुस्वामिनिर्द्धारणार्थमाह-
॥ हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ३५ ॥
1
हिंसादीन्युक्तलक्षणानि तानि रौद्रध्यानोत्पत्तेर्निमित्ती भवसीति हेतुनिर्देशो विज्ञायते । तेन हेतुनिर्देशेनानुवर्तमानः स्मृतिसमन्वाहारोऽभिसम्बध्यते । हिंसायाः स्मृतिसमन्वाहार इत्यादि || तद्रौद्रध्यानमविरतदेशविरतयोर्वेदितव्यम् | अविरतस्य भवतु
-
Page #293
--------------------------------------------------------------------------
________________
२६३
नवमोऽध्यायः रौद्रध्यानं देशविरतस्य कथम् ? । तस्यापि हिंसाद्यावेशाद्वित्तादिसंरक्षणतन्त्रत्वाच्च कदाचिद्भवितुमर्हति । तत्पुनर्नारकादिनामकरणं सम्यग्दर्शनसामर्थ्यात्सँयतम्य तु न भवत्येव । तदारम्भे संयमपच्युतेः ॥
___ आह परे मोक्षहेतू उपदिष्टे । तत्राद्यस्य मोक्षदेतोया॑नस्य भेदस्वरूपस्वामिनिर्देशः कर्तव्य इत्यत आह-- ॥ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ॥३६॥
विचयनं विचयो विवेको विचारणमित्यर्थः । आज्ञापायविपाकसंस्थान नां विचय आज्ञापायविपाकसंस्थानविचयः । स्मृतिसमन्वाहार इत्यनुवर्तते , स प्रत्येकं सम्बध्यते- भाज्ञाविचयाय स्मृ तसमन्वाहार इत्यादि ॥ तद्यथा- उपदेष्टुरभावान्मन्दबुद्धि. त्वाकर्मोदयात्सूक्ष्मत्वाच्च पदार्थानां हेतुदृष्टान्तोपरमे सति सर्वज्ञप्रणीतमागमं प्रमाणीकृत्य इत्थमेवेदं नान्यथावादिनो जिना इति गहनपदार्थश्रद्धानमर्थावधारणमाज्ञाविचयः । अथवा- स्वयं विदितपदार्थतत्त्वस्य सतः परं प्रति पिपादयिषोः स्वसिद्धान्ता. विरोधेन तत्त्वसमर्थनार्थ तनयप्रमाणयोजनपरः स्मृतिसमन्वाहारः सर्वज्ञाज्ञाप्रकाशनार्थत्वादाज्ञा विचय इत्युच्यते ॥ जात्यन्धवन्मिथ्या. दृष्टयः सर्वज्ञप्रणीतमार्गाद्विमुखा मोक्षार्थिनः सम्यमार्गापरिज्ञानात्सुदूरमेवापयन्तीति सन्मार्गापायचिन्तनमपायविचयः । अथवामिथ्यादर्शनज्ञानचारित्रेभ्यः कथं नाम इमे प्राणिनोऽपेयुरिति स्मृतिसमन्वाहारोऽपायविचयः ॥ कर्मणां ज्ञानावरणादीनां द्रव्य. क्षेत्रकालभवमावप्रत्ययफलानुभवनं प्रति प्रणिधानं विपाकविचयः॥ लोकसंस्थानस्वभावविचयाय स्मृतिसमन्वाहारः संस्थानविजयः ॥ उत्तमक्षमादिलक्षणो धर्म उक्तः। तस्मादनपेतं धर्म्य ध्यानं चतुविकल्पमवसेयम् । तदावरतदेशविरतप्रमत्ताप्रमत्तसँयतानां भवति-।।
त्रयाणां ध्यानानां निरूपणं कृतम् । इदानीं शुक्लध्यानं निरू
Page #294
--------------------------------------------------------------------------
________________
२६४
सर्वार्थसिद्धिः
पयितव्यम् । तद्वक्ष्यमाणचतुर्विकल्पम् ॥ तत्त्राद्ययोः स्वामिनिर्देशार्थमिदमुच्यते
॥ शुक्ले चाद्ये पूर्वविदः ॥ ३७ ॥ वक्ष्यमाणेषु शुक्लध्यानविकल्पेषु आद्य शुक्लध्याने पूर्वविदो भवतः श्रुतकेवलिन इत्यर्थः ॥ चशब्देन धर्म्यमपि समुच्चीयते ॥ तत्र व्याख्यानतो विशेषप्रतिपत्तिरिति श्रेण्यारोहणात्प्राग्धर्म्यं, श्रेण्याः शक्रे इति व्याख्यायते ॥ अवशिष्ट कस्य भवत इत्यत्रोच्यते-॥ परे केवलिनः ॥ ३८ ॥ प्रक्षीणसकलज्ञानावरणस्य केवलिनः सयोगस्यायोगस्य च
परे उत्तरे शुक्लध्याने भवतः ॥
यथासंख्यं तद्विकल्पप्रतिपादनार्थमिदमुच्यते॥ पृथक्त्वैकत्वत्रितर्कसूक्ष्मक्रियाप्रतिपाति व्युपरत क्रियानिर्वतनि ॥ ३९ ॥
पृथक्त्ववितर्कमेकत्ववितर्क सूक्ष्मक्रियाप्रतिपाति व्युपरत - क्रियानिवर्ति चेति चतुर्विधं शुक्लव्यानं वक्ष्यमाणलक्षणमुपेत्य सर्वेषामन्वर्थमवसेयम् ॥ तस्यालम्बनावशेषनिर्धारणार्थमाह
॥ त्र्येकयोगकाययोगायोगानाम् ॥ ४० ॥
योगशब्दो व्याख्यातार्थः कायवाङ्मन: कर्म योग इत्यत्र ॥ उक्तैश्चतुर्भिः शुक्लध्यानविकल्पैस्त्रियोगादीनां चतुर्णां यथासंख्येनाभिसम्बन्धो वेदितव्यः ॥ त्रियोगस्य पृथक्त्ववितर्क, त्रिषु योगेष्वेकयोगस्यैकत्ववितर्क, काययोगस्य सूक्ष्मक्रियाप्रतिपाति, अयोगस्य
१ निवृत्तीनि इत्यपि पाठभेदो वर्तते तालपत्र पुस्तके ॥
Page #295
--------------------------------------------------------------------------
________________
नवमोऽध्यायः . . २६५ सुपस्तक्रियानिवर्तीति ॥ तत्राद्ययोर्विशेषप्रतिपत्त्यर्थमिदमुन्यते
॥ एकाश्रये सवितर्कविचारे पूर्वे ॥ ४१ ॥
एक आश्रयो ययोस्ते एकाश्रये । उभे अपि परिप्राप्तश्रुतज्ञाननिष्ठेनारभ्यते इत्यर्थः । वितर्कश्च विचारश्च वितर्कविचारी, सह वितर्कविचाराभ्यां वर्तेते इति सवितर्कविचारे ॥ पूर्वे पृथक्त्वैकत्ववित इत्यर्थः ॥ तत्र यथासंख्यप्रयो(सं)गेऽनिष्टनिवृत्यर्थमिदमुच्यते
॥ अविचारं द्वितीयम् ॥ ४२ ॥ पूर्वयोर्यत् द्वितीयं तदविचारं प्रत्येत्तव्यम् ॥ एतदुक्त भवति- आद्यं सवितर्क सविचारं च भवति द्वितीयं सवितर्कमबिचारं चेति ॥ अथ वितर्कविचास्योः कः प्रतिविशेष इत्यत्रोच्यते
॥वितर्कः श्रुतम् ॥ ४३ ॥ विशेषेण तर्कणमूहनं वितर्कः श्रुतज्ञानमित्यर्थः ।।
अथ को विचारः? ॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४४ ॥
. अर्थो ध्येयः द्रव्यं पर्यायो वा। व्यञ्जनं वचनम् । योगः कायवाच्मनःकर्मलक्षणः । संक्रान्तिः परिवर्तनम् ॥ द्रव्यं विहाय पर्यायमुपैति पर्यायं त्यक्त्वा द्रव्यमित्यर्थसंकान्तिः ॥ एकं श्रुतपवनमुपादाय वचनान्तरमालम्बते तदपि विहायान्यदिति व्यंजमसंक्रान्तिः ॥ काययोगं त्यक्त्वा योगान्तरं गृहाति योगान्तरं त्यक्त्वा काययोगमिति योगसंक्रान्तिः ॥ एवं परिवतनं विचार इत्युच्यते ॥ संक्रान्तौ सत्यां कथं ध्यानमिति
Page #296
--------------------------------------------------------------------------
________________
२६६
सर्वार्थसिद्धिः चेत्- ध्यानसन्तानमपि ध्यानमुच्यते इति न दोषः ॥ तदेतसामान्यविशेषनिर्दिष्टं चतुर्विधं धर्म्य शुक्लं च पूर्वोदितगुप्त्यादिबहुप्रकारोपायं संसारनिवृत्तये मुनिया॑तुमर्हति कृतपरिकर्मा ॥ तत्र द्रव्यपरमाणुं भावपरमाणुं वा ध्यायन्नाहितवितर्कसामर्थ्यादर्थव्यंजने कायवचसी च पृथक्त्वेन संक्रामता मनसा पर्याप्तबालोत्साहवदव्यवस्थितेनानिशितेनापि शस्त्रेण चिरात्तरं छिन्दन्निव मोहप्रकृतीरुपशमयन्क्षपयंश्च पृथक्त्ववितर्कविचारध्यानभाग्भवति । स एव पुनः समूलतलं मोहनीयं निर्दिधक्षन्ननन्तगुणविशुद्धियोगविशेषमाश्रित्य बहुतराणां ज्ञानावरणसहायीभूतानां प्रकृतीनां वन्धं निरुन्धन् स्थितिहासक्षयौ च कुर्वन् श्रुतज्ञानोपयोगे निवृत्तार्थव्यञ्जनयोगसंक्रान्तिः अविचलितमनाः क्षीणकषायो वैडूर्यमाणरिव निरुपलेपो ध्यात्वा पुनर्न निवर्तत इत्युक्तमेकत्ववि. तर्कम् । एवमेकत्ववितर्कशुक्लध्यानवैश्वानरनिर्दन्धघातिकर्मेन्धनः प्रज्वलितकेवलज्ञानगभस्तिमण्डलो मेघपञ्जरनिरोधनिर्गत इव धर्मरश्मिर्वा भासमानो भगवांस्तीर्थकर इतरो वा केवली लोकेश्वराणामभिगमनीयोऽर्चनीयश्चोत्कर्षेणायुषः पूर्वकोटी देशोनां विहरति । स यदाऽन्तर्मुहूर्तशेषायुष्कस्तत्तुल्यस्थितिवेद्यनामगोत्रश्च भवति, तदा सर्वं वाङ्मानसयोगं बादरकाययोगं च परिहाप्य सूक्ष्मकाययोगलम्बनः सूक्ष्मक्रियाप्रतिपातिध्यानमास्कन्दितुमर्हतीति ॥ यदा पुनरन्तर्मुहूर्तशेषायुष्कस्ततोऽधिकस्थितिशेषकर्मत्रयो भवति सयोगी तदाऽऽत्मोपयोगातिशयस्य सामायिकसहायस्य विशिष्टकरण-य महासंवरस्य लघुकर्मपरिपाचनस्याशेषकर्मरेणुपरिसातनशक्तिस्वाभाव्याद्दण्डकवाटप्रतरलोकपूरणानि स्वात्मप्रदेशविसर्पणतश्चतुर्भिः समयैः कृत्वा समुपहृतप्रदेशविसरणः समीकृतस्थितिशेषकर्मचतुष्टयः पूर्वशरीरप्रमाणो भूत्वा सूक्ष्मकाययोगेन सूक्ष्मक्रियाप्रतिपातिध्यानं
Page #297
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२६७ ध्यायते । ततस्तदनन्तरं समुच्छिन्नक्रियानिवर्तिध्यानमारभते । समुच्छिन्नप्राणापानप्रचारसर्वकायवाङ्मनोयोगसर्वप्रदेशपरिस्पन्दक्रियाव्यापारत्वात्समुच्छिन्नक्रियानिवर्तीत्युच्यते । तस्मिन्समुच्छिन्नक्रियानिवर्तिनि ध्याने सर्वबन्धास्रवनिरोधः सर्वाशेषकर्मसातनसामोपपत्तेरयोगिनः केवलिनः सम्पूर्णयथाख्यातचारित्रज्ञानदर्शनं सर्वसंसारदुःखजालपरिष्वङ्गोच्छेदजननं साक्षान्मोक्षकारणमुपजायते । स पुनरयोगकेवली भगवांस्तदा ध्यानातिशयामिनिर्दग्धसर्वमलककबन्धनो निरस्तकिट्टधातुपाषाणजात्यकनकवल्लब्धात्मा परिनिर्वाति ॥ तदेतत् द्विविधं तपोऽभिनवकर्मास्रवनिरोधहेतुत्वात्सवंरकारणं, प्राक्तनकर्मरजोविधूनननिमित्तत्वान्निर्जराहेतुरपि भवति ॥
अत्राह सम्यग्दृष्टयः किं सर्वे समनिर्जरा आहोस्वित्कश्चिदस्ति प्रतिविशेष इत्यत्रोच्यते॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४५ ॥
त एते दश सम्यग्दृष्ट्यादयः क्रमशोऽसंख्येयगुणनिर्जराः॥ तद्यथा- भव्यः पञ्चेन्द्रियः सञ्जी पर्याप्तकः पूर्वोक्तकाललब्ध्यादिसहायः परिणामविशुध्द्या वर्द्धमानः क्रमेणापूर्वकरणादिसोपानपंक्त्योत्प्लवमानो बहुतरकर्मनिर्जरो भवति । स एव पुनः प्रथमसम्यक्त्वप्राप्तिनिमित्तसन्निधाने सति सम्यग्दृष्टिर्भवन्नसंख्येयगुणनिनरो भवति । स एव पुनश्चारित्रमोहकर्मविकल्पाप्रत्याख्यानावरणक्षयोपशमनिमित्तपरिणामप्राप्तिकाले विशुद्धिप्रकर्षयोगात् श्रावको भवन् ततोऽसंख्येयगुणनिर्जरो भवति । स एव पुनः प्रत्याख्यानावरणक्षयोपशमकारणपरिणामविशुद्धियोगाद्विरतव्यपदेशभाक् सन् ततोऽसंख्ये
Page #298
--------------------------------------------------------------------------
________________
२६८
सर्वार्थसिद्धिः यगुणमिर्जरो भवति । स एव पुनरनन्तानुवन्धिकोधमानमायालोभानां वियोजनपरो भवति* यदा तदा परिणामविशुद्धिपकर्षयोगारतोऽसंख्येयगुणनिर्जरो भवति । स एव पुनर्दर्शनमोहप्रकृतित्रयतृणनिचयं निर्दिधक्षन् परिणामविशुध्धतिशययोगादर्शनमोहक्षपकव्यपदेशभाक् तेष्वेव पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । एवं सः क्षाषिकसम्यग्दृष्टिभूत्वा श्रेण्यारोहणाभिमुखश्चारित्रमोहोपशमं प्रति व्याप्रियमाणो विशुद्धिप्रकर्षयोगादुपशमकव्यपदेशमनुभवन् पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स एव पुनरशेषचारित्रमोहोपशमनिमित्तसन्निधाने परिप्राप्तोपशान्तकषायव्यपदेशः पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स एव पुनश्चारित्रमोहक्षपणं प्रत्यभिमुखः परिमामविशुध्द्या वर्द्धमानः क्षपकव्यपदेशमनुभवन्पूर्वोक्तादसंख्येय. गुणनिर्जरो भवति । स यदा निःशेषचारित्रमोहक्षपणकारणपरिणामाभिमुखः क्षीणकषायव्यपदेशमास्कन्दन्पूर्वोक्तादसंख्येयगुणनिर्जरो भवति स एव द्वितीय शुक्लध्यानानलनिर्दग्धघातिकर्मनिचयः सन् जिनव्यपदेशभाक् पूर्वोक्तादसंख्येयगुणनिर्जरो भवति ।।
आह सम्यग्दर्शनसन्निधानेऽपि यद्यसंख्येयगुणनिर्जरत्वात्परस्परसो न साम्यमेषां, किं तर्हि श्रावकवदमी विरतादयो गुणभेदान्न निम्रन्थतामर्हन्तीत्युच्यते ॥ नैतदेवम् । कुतः। यस्माद्गुणमेदादन्योऽन्यविशेषेऽपि नैगमादिनयव्यापारात्सर्वेऽपि हि भवन्ति॥ पुलाकबकुशकुशीलनिग्रन्थस्नातका निर्ग्रन्थाः॥४६॥
उत्तरगुणभावनोपेतमनसो व्रतेप्वपि कचित्कदाचित्परिपूर्णतामपरिप्राप्नुवन्तोऽविशुद्धाः पुलाकसादृश्यात्पुलाका इत्युच्यन्ते ।
* अविरतादिचतुर्ष, इत्यधिकः पाठस्तालपत्रपुस्तके वर्तते ॥ ... १ स्यात्पुलाकस्तुच्छ धान्ये ॥
Page #299
--------------------------------------------------------------------------
________________
नवमोऽध्यायः
२६९ नैन्थ्य पतिस्थिता अखण्डितव्रताः शरीरोपकरणविभूषानुवर्तिनोs विविक्तपरिवारा मोहशवलयुक्ता बकुशाः । शबलपर्यायवाची बकुशशब्दः ॥ कुशीला द्विविधाः । प्रतिसेवनाकुशीलाः कषायकु. शीला' इति ॥ अविविक्तपरिग्रहाः परि[भयाः कथञ्चिदुत्त. रगुणविरोधिनः प्रतिसेवनाकुशीलाः। वर्श कृतान्यकषायोदयाः सम्ज्वलनमात्रतन्त्राः कषायकुशीलाः ॥ उदकदण्डराजिवदनमिव्यतोदयकर्माण ऊर्ध्वं मुहूर्तादुद्भिद्यमानकेवलज्ञानदर्शनमाजो निग्रन्थाः ॥ प्रक्षीणघातिकर्मणः केवलिने द्विविधाः स्नातकाः ॥ त एते पञ्चापि निम्र थाः ॥ चारित्रपारणामस्य प्रकषाप्रकर्षभेदे सस्यपि नैगमसंग्रहादिनयापेक्षया सर्वेऽपि ते निम्रन्था इ युच्यन्ते।
तेषां पुलाकादीनां भूयोऽपि विशेषप्रतिपत्त्यर्थमःह॥ सँयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपाद
स्थानविकल्पतः साध्याः ॥ ४७ ॥ ___ त एते पुलाकादयः संयमादिभिरष्टभिनुयोगैः साध्या व्याख्येयाः ॥ तद्यथा-पुलाकबकुशप्रतिसेवनाकुशीला द्वयोः संयमयोः सामायिकच्छेदोपस्थापनयोर्वर्तन्ते । कषायकुशीला द्वयोः संयमयोः परिहारविशुद्धिसूक्ष्मसाम्पराययो. पूर्वयोश्च । निम्रन्थस्नातका एकस्मिन्नेव यथाख्यातसँयमे सन्ति ॥ श्रुतं-- पुलाकबकुशप्रतिसेवनाकुशीला उत्कर्षेणाभिन्नाक्षरदशपूर्वधराः । कषायकुशीला निर्मन्याश्चतुर्दशपूर्वधराः । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशीलनिर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । स्नातका अपगतश्रुताः केवलिनः ॥ प्रतिसेवना- पञ्चानां मूलगुणानां रात्रिभोजनवर्जनस्य
-
१ अविविक्तपरिवारानुमोदच्छेदशवलयुक्ता इत्यपि पाठान्तरम् ॥ २ पंचसमितयस्तिस्रो गुप्तयश्चत्यष्टौ प्रवचनमातरः कथ्यन्ते ॥
Page #300
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः
च पराभियोगाद्बलादन्यतमं प्रतिसेवमानः पुलाको भवति ॥ बकुशो द्विविधः - उपकरणबकुश: शरीरवकुशश्चेति ॥ तत्रोपकरणवकुशो बहुविशेषयुक्तोप रणाकांक्षी शरीरसंस्कारसेवी शरीरबकुश: ॥ प्रतिसेवना कुशीलो मूलगुणानविरः धयन्नुचरगुणेषु काञ्चिद्विराधनां प्रतिसेवते ॥ कषाय कुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति ॥ तीर्थमिति सर्वे सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति ॥ लिङ्गं द्विविधम्द्रव्यलिङ्गं भावलिङ्गं चेति ॥ भावलिङ्गं प्रतीत्य पञ्च निर्मन्था लिङ्गिनो भवन्ति । द्रव्यलिङ्गं प्रतीत्य भाज्याः ॥ लेश्या:- पुलाकस्योत्तरास्तिस्रः । बकुशप्रतिसेवना कुशीलयोः षडपि । कृष्ण लेश्यादित्रितयं तयोः कथमिति चेदुच्यते तयोरुपकरणासक्तिसंभवादार्तध्यानं कदाचित्सम्भवति, आर्तध्यानेन च कृष्णादिलेश्यात्रितयं सम्भवतीति । कषायकुशीलस्य चतस्त्र उत्तराः । सूक्ष्मसाम्परायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला । अयोगा अलेश्याः ॥ उपपाद:-- पुलाकस्योत्कृष्ट उपपाद उत्कृष्टस्थितिदेवेषु सहस्रारे । बकुशप्रतिसेवनाकुशीलयोर्द्वाविंशतिसागरोपमास्थितिषु आरणाच्युतकल्पयोः । कषायकुशील निर्मन्थयो स्त्रयस्त्रिंशत्सागरोपमस्थितिषु सर्वार्थसिद्धौ । सर्वेषामपि जघन्यः सौधर्मकल्पे द्विसागरोपमस्थितिषु । स्नातकस्य निर्वाणमिति ॥ स्थानम् - असंख्येयानि सँयमस्थानानि कषायनिमित्तानि भवन्ति। तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोस्तौ युगपदसंख्येयानि स्थानानि गच्छतस्ततः पुलाको च्युच्छिद्यते । कषायकुशलस्ततोऽसंख्येयानि स्थानानि गच्छत्येकाकी । ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदसंख्येयानि स्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते । ततोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीला व्युच्छिद्यते । ततोऽप्यसंख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते । अत ऊर्ध्वमकपायस्था
1
२७०
-
Page #301
--------------------------------------------------------------------------
________________
दशमोऽध्यायः
२७१
नानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसंख्येयानि स्थानानि गत्वा व्युच्छिद्यते । अत ऊर्ध्वमेकं स्थानं गत्वा स्नातको निर्वाणं प्राप्नोति । तेषां सँयमलब्धिरनन्तगुणा भवति ॥ ६ ॥
॥ इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां नवमोऽध्यायः ॥
॥ ॐ नमः परमात्मने वीतरागाय ॥ ॥ अथ दशमोऽध्यायः ॥
आह - अन्ते निर्दिष्टस्य मोक्षस्येदानीं स्वरूपाभिधानं प्राप्तकालमिति । सत्यमेवं । मोक्षप्राप्तिः केवलज्ञानावाप्तिपूर्विकेति केवलज्ञानोत्पत्तिकारणमुच्यते
॥ मोहक्षयात ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥ १ ॥
इह वृत्तिकरणं न्याय्यम् । कुतः । लघुत्वात् । कथम् । क्षयशब्दस्याकरणात् । विभक्त्यन्तर निर्देशस्य चाभावाच्चशब्दस्य चाप्रयोगाल्लघुसूत्रं भवति मोहज्ञानदर्शन । वरणान्तरायक्षयात्केवलम् इति ॥ सत्यमेतत् ॥ क्षयक्रमप्रतिपादनार्थो वाक्यभेदेन निर्देश: क्रियते- प्रागेव मोहं क्षयमुपनीयान्तर्मुहूर्त क्षीणकषायव्यपदेशमवाप्य ततो युगपत् ज्ञानदर्शनावरणान्तरायाणां क्षयं कृत्वा केवलमवाप्नोतीति ॥ तत्क्षयहेतुः केवलोत्पत्तिरिति हेतुलक्षणो विभक्तिनिर्देशः कृतः ॥ कथं प्रागेव मोहं क्षयमुपनीयते इति चेदुच्यते - भव्यः सम्यग्दृष्टि परिणामविशुध्या वर्धमानो असंयतसम्यग्दृष्टिसंयतासयत प्रमत्ताप्रमत्त गुणस्थानेषु कस्मिंश्चिन्माहस्य सप्त प्रकृती : क्षयमुपनीय क्षायिक सम्यग्हाष्टर्भूत्वा क्षपक श्रेण्यारोहणा भिमुखोऽधः प्रवृत्तिकरणमप्रमत्तस्थाने प्रतिपद्या पूर्वकरणप्रयोगेणापूर्व
Page #302
--------------------------------------------------------------------------
________________
२७२
सर्वार्थसिद्धिः करणक्षपकगुणस्थानव्यपदेशमनुभूय तत्राभिनवशुभाभिसन्धिलनकत. पापप्रकृतिस्थित्यनुभागो विवर्धितशुभकर्मानुभवोऽनिवृत्तिकरणप्राप्स्यानिवृत्तिनादरसाम्परायक्षपकगुणस्थानमधिरुह्य तत्र कषायाष्टकं नष्टं कृत्वा नपुंसकं वेदनाशं समापाद्य स्त्रीवेदमुन्मूल्य नोकषायषट्कं पुंवेदे प्रक्षिप्य क्षपयित्वा पुंवेदं क्रोबसंज्वलने क्रोधसञ्ज्वलनं मानसंज्वलने मानसंज्वलनं मायासंज्वलने मायासंज्वलनं लोभसंज्वलने क्रमेण बादरकृष्टिविभागेन विलयमुपनीय लोभसंज्वलनं तनूकृत्य सूक्ष्मसाम्परायक्षपकत्वमनुभूय निरवशेष मोहनीयं निमूलकाषं कषित्वा क्षीणकषायतामधिरुह्यावतारितमोहनीयभार उपान्त्यप्रथमे समये निद्राप्रचले प्रलयमुपनीय पञ्चानां ज्ञानावरणानां चतुणी दर्शनावरणानां पञ्चानामन्तरायाणामन्तमन्ते समुपगमय्य तदनन्तरं ज्ञानदर्शनस्वभाव केवलपर्यायमप्रतविभूतिविशेषमवाप्नोति ॥ ___ आह कस्माद्धेतोमोक्षः किंलक्षणश्चेत्यत्रोच्यते-- ॥ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो
मोक्षः ॥२॥ मिथ्यादर्शनादिहेत्वभावादभिनवकर्माभावः पूर्वोदितनिर्जराहेतुसन्निधाने चार्जितकर्मनिरासः । ताभ्यां बन्धहेत्वभावनिर्जराभ्यामिति हेतुलक्षणविभाक्तिनिर्देशः । ततो भवस्थितिहेतुसमीकृतशेषकर्मावस्थितस्य युगपदात्यन्तीकृतकृत्स्नकर्मविप्रमोक्षो मोक्षः प्रत्येतव्यः । कमा-वो द्विविधः- यत्नसाध्योऽयत्नसाध्यश्चेति ।। तत्र चरमदेहाय नारकर्तिर्यग्देवायुषामभावो न यत्नसाध्यः असत्वात ॥ यत्नसा य इत ऊर्ध्वमुच्यते - संयतसम्यग्दृष्टयादिषु चतुर्पु गुणस्थानेषु कमिश्चित्सप्तप्रकृतिप्रक्षयः क्रियते ॥
१ कष् हिंसायामिति धातुरयं त्वाप्रत्ययान्तः ॥
Page #303
--------------------------------------------------------------------------
________________
दशमोऽध्यायः
२७३ निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्धि नरकगतितिर्यग्गत्येकद्वित्रिचतुरिन्द्रियजातिनरकगतितिर्यग्गतिप्रायोग्यानुपूर्व्यातपोद्योतस्थावरसूक्ष्मसाधारणसज्ञिकानां षोडशानां कर्मप्रकृतीनामनिवृत्तिबादरसाम्परायस्थाने युगपत्क्षयः क्रियते ॥ ततःपरं तत्रैव कषायाष्टकं नष्टं क्रियते । नपुंसकवेदः स्त्रीवेदश्च तत्रैव क्षयमुपयाति । नोकषायाष्टकं च सहकेनैव प्रहारेण विनिपातयति । ततः पुंवेदसंज्वलनक्रोधमानमायाः क्रमेण तत्रैवात्यन्तिकं ध्वंसमास्कन्दन्ति । लोभसंज्वलनः सूक्ष्मसाम्परायान्ते यात्यन्तं । निद्राप्रचले क्षीणकषायवीतरागच्छद्मस्थस्योपान्त्यसमये प्रलयमुपव्रजतः ॥ पञ्चानां ज्ञानावरणानां चतुर्णा दर्शनावरणानां पञ्चानामन्तरायाणां च तस्यैवान्त्यसमये प्रक्षयो भवति । अन्यतरवेदनीयदेवगत्यौदारिकवैकि. यकाहारकतैजसकार्मणशरीरसंस्थानषट्कौदारिकवैक्रियकाहारकशरीरा ङ्गोपाङ्गषट्संहननपञ्चप्रशस्तवर्णपञ्चाप्रशस्तवर्णगन्धद्वयपञ्चप्रशस्तरसपञ्चाप्रशस्तरसस्पर्शाष्टकदेवगतिप्रायोग्यानुपूर्व्यागुरुलघूपघातपरघातो. च्छ्वासप्रशस्ताप्रशस्तविहायोगत्यपर्याप्तकप्रत्येकशरीरस्थिरास्थिर शुभा
शुभदुर्भगसुस्वरदुःस्वरानादेयायशःकीर्तिनिर्माणनामनीचैर्गोत्राख्या द्वासप्ततिप्रकृतयोऽयोगकेवलिन उपान्त्यसमये विनाशमुपयान्ति । अन्यतरवेदनीयमनुष्यायुर्मनुष्यगतिपञ्चेद्रियजातिमनुष्यगतिप्रायोग्यानुपूर्व्यत्रसवादरपर्याप्तकसुभगादेययशःकीर्तितीर्थकरनामोच्चैर्गोत्रसज्ञिकानां त्रयोदशानां प्रकृतीनामयोगकेवलिनश्वरमसमये विच्छेदो भवति ॥
___ आह किमासां पौद्गलिकीनामेव द्रव्यकर्मप्रकृतीनां निरासान्मोक्षोऽवसीयते उत भावकर्मणोऽपीत्यत्रोच्यते--
॥ औपशमिकादिभव्यत्वानां च ॥ ३ ॥ किं, मोक्ष इत्यनुवर्तते । भव्यत्वग्रहणमन्यपारिणामिकनि
Page #304
--------------------------------------------------------------------------
________________
२७४ . सर्वार्थसिद्धिः वृर्त्यर्थम् ॥ तेन पारिणाभिकेषु भव्यत्वस्यौपशभिकादीनां च भावानामभावान्मोक्षो भवतीत्यवगम्यते ॥
आह यद्यपवर्गो भावोपरतेः प्रतिज्ञायते नत्वौपशमिकादिभावनिवृत्तिवत्सर्वक्षायिकभावनिवृत्तावपि व्यपदेशो मुक्तस्य प्रामोतीति । स्यादेतदेवं, यदि विशेषो नोच्यते अस्त्यत्र विशेष इत्यपवादविधानार्थमिदमुच्यते॥ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ४
अन्यत्रशब्दापेक्षया को निर्देशः केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यो अन्यत्रान्यस्मिन्नयं विधिरिति ॥ यदि चत्वार एवावशिष्यन्ते अनन्तवीर्यादीनां निवृत्तिः प्रामोति- नैष दोषःज्ञानदर्शनाविनाभावित्वादनन्तवीर्यादीनामविशेषः । अनन्तसामर्थ्यहीनस्यानन्तावबोधवृत्त्यभावाज्ञानमयपर्यायत्वाच सुखस्येति ॥ अनाकारत्वान्मुक्तानामभाव इति चेन्न- अतीतानन्तशरीराकारत्वात् ।
स्यान्मतं यदि शरीरानुविधायी जीवः तदभावात्खाभाविकलो. काकाशप्रेदेशपरिमाणत्वात्तावद्विसर्पणं प्रामोतीति नैष दोषः ॥ कुतः-- कारणाभावात् ॥ नामकर्मसम्बन्धो हि संहरणविसर्पणकारणं तदभावान्पुनः संहरणविसर्पणाभावः ॥ यदि कारणाभावान्न संहरणं न विसर्पणं तर्हि गमनकारणाभावादूर्ध्वगमनमपि न प्राप्नोति । अधस्तिर्यग्गमनाभाववत् । ततो यत्र मुक्तस्तत्रैवावस्थानं प्राप्नोतीत्यत्रोच्यते॥ तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥ ५॥
तस्यानन्तर । कस्य ? सर्वकर्मविप्रमोक्षस्य । आङभिविध्यर्थः । ऊर्ध्वं गच्छत्यालोकान्तात् ॥ अनुपदिष्टहेतुकमिदमूर्ध्वगमनं कथमध्यवसातुं शक्यमित्यत्रोच्यते
Page #305
--------------------------------------------------------------------------
________________
२७५
दशमोऽध्यायः ॥ पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथागति
परिणामाच्च ॥ ६ ॥ आह- हेत्वर्थः पुष्कलोऽपि दृष्टान्तसमर्थनमन्तरेणाभिप्रेतार्थसाधनाय नालमित्यत्रोच्यते॥ आविद्धकुलालचक्रवद्व्यपगतलेपालाबुवदे
रण्डबीजवदग्निशिखावच्च ॥ ७ ॥
पूर्वसूत्रे विहिताना हेतूनामत्रोक्तानां दृष्टान्तानां च यथासंख्यमभिसम्बन्धो भवति । तद्यथा- कुलालप्रयोगापादितहस्तदण्डचक्रसंयोगपूर्वकं भ्रमणमुपरतेऽपि तस्मिन्पूर्वप्रयोगादासंस्कारक्षयाद् भ्रमति । एवं भवस्थेनात्मनाऽपवर्गप्राप्तये बहुशो यत्प्रणिधानं तदभावेऽपि तदावेशपूर्वकं मुक्तस्य गमनमवसीयते ॥ किं च असङ्गत्वाद्यथा मृत्तिकालोपजनितगौरवमलाबुद्रव्यं जलेऽधःपतितं जलक्लेदविश्लिष्टमृत्तिकाबन्धनं लघुसदूर्ध्वमेव गच्छति । तथा कर्मभाराक्रान्तिवशीकृत आत्मा तदावेशवशात्संसारे अनियमेन गच्छति । तत्सङ्गविप्रमुक्तौ तूपर्येवोपयाति ॥ किं च बन्धच्छेदात्यथा बीजकोशबन्धच्छेदादेरण्डबीजस्य गतिर्दृष्टा तथा मनुष्यादिभवप्रापकगतिजातिनामादिसकलकर्मबन्धच्छेदान्मुक्तस्योर्ध्व गतिरवसीयते ॥ किं च तथागतिपरिणामात्- यथा तिर्यक्पवनस्वभावसमीरणसम्बन्धनिरुत्सुका प्रदीपशिखा स्वभावादुत्पतति तथा मुक्तात्माऽपि नानागतिविकारकारणकर्मनिरावरणे सत्यूर्ध्वगतिस्वभावत्वादृर्ध्वमेवारोहति ॥ ____ आह यदि मुक्त ऊर्ध्वगतिस्वभावो लोकान्तादूर्ध्वमपि कस्मान्नोत्पततीत्यत्रोच्यते
Page #306
--------------------------------------------------------------------------
________________
सर्वार्थसिद्धिः ॥ धर्मास्तिकायाभावात् ॥ ८॥ गत्युपग्रहकारणभूतो धर्मास्तिकायो नोपर्यस्तीत्यलोके गमनाभावः । तदभावे च लोकालोकविभागाभावः प्रसज्यते ॥
आह अमी परिनिर्वृता गतिजात्यादिभेदकारणाभावादतीतभेदव्यवहारा एवेत्यस्ति कथञ्चिद्भेदोऽपि । कुतः
॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः ॥९॥
क्षेत्रादिभिर्दादशभिरनुयोगैः सिद्धाः साध्या विकल्पा इत्यर्थः प्रत्युत्पन्नभूतानुग्रहतन्त्रनयद्वयविवक्षावशात् । तद्यथा- क्षेत्रेण तावस्कस्मिन्क्षेत्र सिध्यन्ति ? प्रत्युत्पन्नग्राहिनयापेक्षया सिद्धिक्षेत्रे स्वप्रदेशे आकाशप्रदेशे वा सिद्धिर्भवति । भूतग्राहिनयापेक्षया जन्मप्रभृति पञ्चदशकर्मभूमिषु संहरणं प्रति मानुषक्षेत्र सिद्धिः ॥ कालेन कस्मिन्काले सिद्धिः? प्रत्युत्पन्ननयापेक्षया एकसमये सिध्द्यन् सिद्धो भवति ॥ भूतप्रज्ञापननयापेक्षया जन्मतोऽविशे. षेणोत्सर्पिण्यवसर्पिण्योर्जातः सिध्यति ॥ विशेषेणावसर्पिण्यां सुषमदुःषमाया अन्त्ये भागे दुःषमसुषमायां च जातः सिध्यति । न तु दुःषमायां जातो दुःषमायां सिध्यति ॥ अन्यदा नैव सिध्यति ॥ संहरणतः सर्वस्मिन्काले उत्सर्पिण्यामवसर्पिण्यां च सिध्यति ॥ गत्या कस्यां गतौ सिद्धिः? सिद्धगतौ मनुष्यगतौ वा ॥ लिङ्गेन केन सिद्धिः? अवेदत्वेन त्रिभ्यो वा वेदेभ्यः सिद्धिर्भावतो न द्रव्यतः । द्रव्यतः पुंलिङ्गेनैव । अथवा निर्ग्रन्थलिंगेन रुग्रन्थलिंगेन वा सिद्धिर्भूतपूर्वनयापेक्षया ॥ तीर्थेन केन तीर्थेन सिद्धिः ? द्वेधा तीर्थकरेतरविकल्पात् । इतरे द्विविधाः सति तीर्थकरे सिद्धाः असति चेति ॥ चारित्रेण केन सिध्यति ?
Page #307
--------------------------------------------------------------------------
________________
दशमोऽध्यायः
२७७ अव्यपदेशेनकचतुःपञ्चविकल्पचारित्रेण वा सिद्धिः॥ स्वशक्तिपरोपदेशनिमित्तज्ञानभेदात् प्रत्येकबुद्धबोधितविकल्पाः ॥ ज्ञानेन केन! एकेन द्वित्रिचतुर्भिश्च ज्ञानविशेषैः सिद्धिः ॥ आत्मप्रदेशव्यापित्वमवगाहनम् । तत् द्विविधम् । उत्कृष्टजघन्यभेदात् । तत्रोत्कृष्टं पञ्चधनुःशतानि पञ्चविंशत्युत्तराणि । जघन्यमधचतु. रित्नयो देशोनाः। मध्ये विकल्पः एकस्मिन्नवगाहे सिध्यति॥ किमन्तरं ! सिध्यता सिद्धानामन्तरं जधन्येन द्वौ समयौ उत्कर्षेणाष्टौ अन्तरं । जघन्येनैकः समयः उत्कर्षेण षण्मासाः ।। संख्या- जघन्येन एकसमये एकः सिध्यति । उत्कर्षेणाष्टोत्तरशतसंख्याः ॥ क्षेत्रादिभेदभिन्नानां परस्परतः संख्याविशेषोऽस्पबहुत्वम् । तद्यथा- प्रत्युत्पन्ननयापेक्षया सिद्धिक्षेत्रे सिध्यतां नास्त्यल्पबहुत्वं । भूतपूर्वनयापेक्षयोच्यते । क्षेत्रसिद्धा द्विविधाःजन्मतः संहरणतश्च । तत्राल्पे संहरणसिद्धाः। जन्मसिद्धाः संख्येयगुणाः ॥ क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्रो द्वीप ऊर्ध्वमस्तिर्यगस्ति । तत्र स्तोका ऊर्ध्वलोकसिद्धाः । अधोलोकसिद्धाः संख्येयगुणाः ॥ तिर्यग्लोकसिद्धाः संख्येयगुणाः। सर्वतः स्तोकाः समुद्रसिद्धाः। द्वीपसिद्धाः संख्येयगुणाः॥ एवं तावदविशेषेण सर्वतःस्तोका लवणोदसिद्धाः। कालोदसिद्धाः संख्येयगुणाः। जम्बूद्वीपसिद्धाः संख्येयगुणाः। धातकीखण्डसिद्धाः संख्येयगुणाः । पुष्करद्वीपसिद्धाः संख्येयगुणाः। एवं कालादिविभागेऽपि यथागममल्पबहुत्वं वेदितव्यम् ॥ १० ॥
१ ज्ञानेनकेनैव इत्यपि पाठभेदः ॥
Page #308
--------------------------------------------------------------------------
________________
२७८
सर्वार्थसिद्धिः स्वर्गापवर्गसुखमाप्तुमनोभिरायें ।
जैनेन्द्रशासनवरामृतसारभूता॥ सर्वार्थसिद्धिरिति सद्भिपात्तनामा ।
तत्त्वार्थवृत्तिरनिशं मनसा प्रधार्या ॥ १॥ तत्त्वार्थवृत्तिमुदितां विदितार्थतत्त्वाः।
शवन्ति ये परिपठन्ति च धर्मभक्त्या ॥ हस्ते कृतं परमसिद्धिसुखामृतं तै-।
मामरेश्वरसुखेषु किमस्ति वाच्यम् ॥२॥ येनेदमप्रतिहतं सकलार्थतत्त्व-।
मुद्योतितं विमलकेवललोचनेन ॥ भक्त्या तमद्भुतगुणं प्रणमामि वीर-। मारान्नरामरगणाचितपादपीठम् ॥३॥
___ शुभं भवतु सर्वेषाम् ।। इति तत्त्वार्थवृत्तो सर्वार्थसिद्धिसज्ञिकायां दशमोऽध्यायः॥
Page #309
--------------------------------------------------------------------------
________________
अमरनरफणीन्द्रैर्वन्द्यपादाब्जयुग्मं ।
कृतशिवपदसौख्यं भव्यसार्थाधिपानाम् । जिनमवृजिनमीशं वीतरागस्पृहाणां ।
वृषभमुरुवृषाकं नौमि कर्तारमाद्यम् ॥ १ ॥ चन्द्रः क्षीणः प्रतापी तपति दिनकरो देवनाथोऽभिमानी ।
कामः कायेन हीनो वलयति पवनो विश्वकर्मा दरिद्री ।। भस्माङ्गो नीलकण्ठः स भवति गहनो व्याकुलो गोपनाथः । शक्राद्या दुःखपूर्णाः सुखनिधिरहिताः पातु वः श्रीजिनेन्द्रः॥२॥
इमौ श्लोको पुस्तकान्तरे दृश्येते परं तौ पूज्यपादकृताविति न वक्तुं शक्यतेऽस्साभिरतो ग्रन्थाहिः पृथक्तया मुद्रितौ ॥
शकाब्दाः १८३९.
Page #310
--------------------------------------------------------------------------
_