SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः विमोचितेष्वावासः । परेषामुपरोधाकरणम्। आचारशास्त्रमार्गेण भैक्षशुद्धिः । ममेदं तवेदमिति सधर्मभिरविसंवादः । इत्येताः पञ्चादत्तादानविरमणव्रतस्य भावनाः || अथेदानीं ब्रह्मचर्यव्रतस्य भावना वक्तव्या इत्यत्राह - ॥ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पंच ॥७॥ त्यागशब्दः प्रत्येकं परिसमाप्यते । स्त्रीरागकथाश्रवणत्यागः । तन्मनोहराङ्गनिरीक्षणत्यागः । पूर्वरतानुस्मरणत्यागः । वृष्येष्टरस - त्यागः । शरीरसंस्कारत्यागश्चेति चतुर्थव्रतस्य भावनाः पञ्च विज्ञेयाः || अथ पञ्चमव्रतस्य भावनाः का इत्यत्रोच्यते॥ मनोज्ञामनोज्ञेन्द्रियविषय रागद्वेषवर्जनानि पञ्च ॥८॥ पञ्चानामिन्द्रियाणां स्पर्शन | दीनामिष्टानिष्टेषु विषयेषूपनिपतितेषु स्पर्शादिषु रागद्वेषवर्जनानि पञ्च आकिंचन्यस्य व्रतस्य भावनाः प्रत्येतव्याः ॥ २०२ किञ्चान्यद्यथाऽमीषां व्रतानां द्रढिमार्थं भावनाः प्रतीयन्ते तद्विपश्चिद्भिरिति भावनोपदेशः, तथा तदर्थं तद्विरोधिष्वपीत्याह--- ॥ हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥ ९ ॥ अभ्युदयनिःश्रेयसार्थानां क्रियाणां विनाशकप्रयोगोऽपायः । अवद्यं गर्ह्यम् । अपायश्वावद्यं चापायावद्ये तयोर्दर्शनमपायावद्यदर्शनं भावयितव्यम् ॥ क इहामुत्र च । केषु हिंसा? । ? दिषु ॥ कथमिति चेदुच्यते - हिंसायां तावत्, हिंस्रो हि नित्योद्वेजनोयः सततानुबद्धवैरश्च इह् च वधबन्धपरिक्लेशादीन् प्रतिलभते । -
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy