SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः प्रत्येकं व्रतम् ॥ एतानि व्रतानि भावितानि वरौषधवयत्नवते दुःखनिवृत्तिनिमित्तानि भवन्ति ॥ किमर्थ कथं वा भावनं तेषामित्यत्रोच्यते--- ॥ तत्स्थैर्यार्थ भावनाः पञ्चपञ्च ॥ ३ ॥ तेषां व्रतानां स्थिरीकरणायैकैकस्य व्रतस्य पंचपंच भावना वेदितव्याः ॥ यद्येवमाद्यस्याहिंसाव्रतस्य भावनाः का इत्यत्रोच्यते॥ वामनोगुप्तीर्यादाननिक्षेपणसमित्यालो कितपानभोजनानि पञ्च ॥ ४ ॥ वाग्गुप्तिः । मनोगुप्तिः । इर्यासमितिः । आदाननिक्षेपणसमितिः । आलोकितपानभोजनमित्येताः पञ्चाहिंसाव्रतस्य भावनाः ॥ अथ द्वितीयस्य व्रतस्य का इत्यत्रोच्यतेक्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनु वीचिभाषणं च पञ्च ॥ ५ ॥ क्रोधप्रत्याख्यानम् । लोभप्रत्याख्यानम् । भीरुत्वप्रत्याख्यानम् । हास्यप्रत्याख्यानम् । अनुवीचिभाषणं चेत्येताः पञ्चभावनाः सत्यव्रतस्य ज्ञेयाः ॥ अनुवीचिभाषणं निरवद्यानुभाषणमित्यर्थः ॥ इदानीं तृतीयस्य व्रतस्य का भावना इत्यत्राह॥शून्यागारविमोचितावासपरोपरोधाकरणभैक्षशुद्धि सद्धर्माविसंवादाः पञ्च ॥ ६ ॥ शून्यागारेषु गिरिगुहातरुकोटरादिष्वावासः । परकीयेषु च
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy