SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २०० सर्वार्थसिद्धिः हापि य एष मनुष्यः प्रेक्षापूर्वकारी स पश्यति- य एते हिंसादयः परिणामास्ते पापहेतवः पापकर्मणि प्रवर्तमानानिहैव. राजानो दण्डयन्तिः परत्र च दुःखमाप्नुवन्तीति- स्वबुध्या सम्प्राप्य निवतते ॥ ततो बुध्या ध्र वत्वविवक्षोपपत्तेरपादानत्वं युक्तम् ॥ विरतिशब्दः प्रत्येकं परिसमाप्यते- हिंसाया विरतिः, अनृताद्विरतिरित्येवमादि ॥ तत्र- अहिंसाव्रतमादौ क्रियते प्रधानत्वात् । सत्यादीनि हि तत्परिपालनार्थानि सस्यस्य वृतिपरिक्षेपवत् ॥ सर्वसावद्यनिवृत्तिलक्षणसामायिकापेक्षया एकं व्रतं , तदेव छेदोपस्थापनापेक्षया पञ्चविधमिहोच्यते ॥ ननु च- अस्य व्रतस्यास्रवहेतुत्वमनुपपन्नं सँवरहेतुष्वन्तर्भावात् । सँवरहेतवो वक्ष्यन्ते गुप्तिसमित्यादयः । तत्र दशविधे धर्मे संयमे वा व्रतानामन्तर्भाव इति ॥ नैष दोषः- तत्र सँवरो निवृत्तिलक्षणो वक्ष्यते । प्रवृत्तिश्चात्र दृश्यते हिंसानृतादत्तादानादिक्रियाप्रतीतेः, गुप्त्यादिसँवरपरिकर्मत्वाच ॥ व्रतेषु हि कृतपरिकर्मा साधुः सुखेन सँवरं करोतीति ततः पृथक्त्वेनोपदेशः क्रियते ॥ननु च– षष्ठमणुव्रतमस्ति रात्रिभोजनविरमणं तदिहोपसंख्यातव्यम् । न । भावनास्वन्तर्भावात् । अहिंसावतभावना हि वक्ष्यन्ते । तत्र आलोकितपानभोजनभावना कार्येति ।। तस्य पञ्चतयस्य व्रतस्य भेदप्रतिपयर्थमाह ॥ देशसर्वतोऽणुमहती ॥२॥ - देशः एकदेशः। सर्वः सकलः । देशश्च सर्वश्च देशसः। ताभ्यां देशसर्वतः । विरतिरित्यनुवर्तते । अणु च महच्चाणुमहत्ती। व्रताभिसम्बन्धान्नपुंसकलिङ्गनिर्देशः ॥ यथासंख्यमभिसम्बध्यते । देशतो विरतिरणुव्रतं सर्वतोविरतिर्महाव्रतमिति द्विधा भिद्यते १ दशविधधर्मान्यतमे.
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy