SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पंचमोऽध्यायः तद्भाव इत्युच्यते । कस्तद्भावः? । प्रत्यभिज्ञानहेतुता । तदेवेदमिति स्मरणं प्रत्यभिज्ञानम् । तदकस्मान भवतीति योऽ स्य हेतुः स तद्भावः । तस्य भावस्तद्भावः ॥ येनात्मना प्राग्दृष्टं वस्तु तेनैवात्मना पुनरपि भावात्तदेवेदमिति प्रत्यभिज्ञायते ॥ यद्यत्यन्तविरोधोऽभिनवप्रादुर्भावमात्रमेव वा स्यात्ततः स्मरणानुपपत्तिः । तदधीनो लोकसंव्यवहारो विरुध्द्यते । ततस्तद्भावेनाव्ययं नित्य; मिति निश्चीयते ॥ तत्तु कथञ्चिद्वेदितव्यम् । सर्वथानित्यत्वे अन्यथाभावाभावात्संसारतन्निवृत्तिकारणप्रक्रियाविरोधैः स्यात् ॥ ननु इदमेव विरुद्ध तदेव नित्यं तदेवानित्यमिति । यदि नित्यं व्ययोदयाभावादनित्यताव्याघातः । अथानित्यत्वमेव स्थित्यभावानित्यताव्याघात इति ॥ नैतद्विरुद्धम् ॥ कुतः ? --- ॥ अर्पितानर्पितसिद्धेः ॥ ३२ ॥ - अनेकान्तात्मकस्य वस्तुनः प्रयोजनवशाद्यस्यकस्यचिद्धमस्य विवक्षया प्रापितं प्राधान्यमर्पितमुपनीतमिति यावत् । तद्विपरीतमनर्पितम् । प्रयोजनाभावात् ॥ सतोऽप्यविवक्षा भवतीत्यु: पसर्जनीभूतमनर्पितमित्युच्यते । अर्पितं चानर्पितं चार्पितानर्पिते । ताभ्यां सिद्धरर्पितानर्पितसिद्धर्नास्ति विरोधः ॥ तद्यथा- एकस्य देवदत्तस्य पिता पुत्रो भ्राता माता भागिनेय इत्येवमादयः सम्बन्धा जनकत्वजन्यत्वादिनिमित्ता न विरुध्यन्ते । अर्पणा; भेदात् ॥ पुत्रापेक्षया पिता, पित्रपेक्षया पुत्र इत्येवमादिः । १ अ.त्मनः सर्वथा नित्यत्वे नरनारकादिरूपेण संसारस्तद्विनिवृत्तिरूपमो. क्षश्च न घटते । तत: संसारस्वरूपकथनं मोक्षोपायकथनं च विरुध्द्यत इति भावः। . २ एते पित्रादयो आपक्षिका अपि पारमार्थिका एव । धूम देः स्वसा. ध्यापेक्षयाऽन्यसाध्यापेक्षया च साधनत्वःसाधत्ववत् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy