________________
द्वितीयोऽध्यायः कोटीकोटीसागरोपमस्थितौ स्थापितेषु प्रथमसम्यक्त्वयोग्यो भवति ॥ अपरा काललब्धिर्भवापेक्षया । भव्यः पञ्चेन्द्रियः सञ्जी पर्यातकः सर्वविशुद्धः प्रथमसम्यक्त्वमुत्पादयति ॥ आदिशब्देन जातिस्मरणादिः परिगृह्यते ॥ कृत्स्नस्य मोहनीयस्योपशमादौपशमिकं चारित्रम् ॥ तत्र सम्यक्त्वस्यादौ वचनं तत्पूर्वकत्वाचारित्रस्य ॥
__ यः क्षायिको भावो नवविध उद्दिष्टस्तस्य भेदस्वरूपप्रतिपादनार्थमाह॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥
चशब्दः सम्यक्त्वचारित्रानुकर्षणार्थः ॥ ज्ञानावरणस्यात्यन्तक्षयात्केवलज्ञानं क्षायिकं तथा केवलदर्शनम् ॥ दानान्तरायस्यात्यन्तक्षयादनन्तप्राणिगणानुग्रहकरं क्षायिकमभयदानम् ॥ लाभान्तरायस्याशेषस्य निरासात्परित्यक्तकवलाहारक्रियाणां केवलिनां यतः शरीरबलाधानहेतवोऽन्यमनुजासाधारणाः परमशुभाः सूक्ष्मा अनन्ताः प्रतिसमयं पुद्गलाः सम्बन्धमुपयान्ति स क्षायिको लाभः ।। कृत्स्नस्य भोगान्तरायस्यात्यन्ताभावादाविर्भूतोऽतिशयवाननन्तो भोगः क्षायिकः । यतः कुसुमवृष्ट्यादयो विशेषाः प्रादुर्भवन्ति ॥ निरवशेषस्योपभोगान्तरायस्य प्रलयात्प्रादुर्भूतोऽनन्त उपभोगः क्षायिकः । यतः सिंहासनचामरच्छत्रत्रयादयः विभूतयः ॥ वीर्यान्तरायस्य कर्मणोऽत्यन्तक्षयादाविर्भूतमनन्तवीर्यं क्षायिकम् ॥ पूर्वोक्तानां सप्तानां प्रकृतीनामत्यन्तक्षयात्क्षायिकं सम्यक्त्वम् ॥ चारित्रमपि तथा ॥ यदि क्षायिकदानादिभावकृतमभयदानादि, सिद्धेष्वपि तत्प्रसङ्गः। नैष दोषः । शरीरनामतीर्थकरनामकर्मोदयाद्यपेक्षत्वातेषां तदभावे तदप्रसङ्गः ॥ कथं तर्हि तेषां सिद्धेषु वृत्तिः ।।