SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ६४ सर्वार्थसिद्धिः दश च एकविंशतिश्च त्रयश्च द्विनवाष्टादशैकविंशतित्रयस्त एव भेदा येषामिति वा वृत्तिनिवाष्टादशैकविंशतित्रिभेदा इति ॥ यदा स्वपदार्थे वृत्तिस्तदा औपशमिकादीनां द्विनवाष्टादशैकविंशतित्रयो भेदा इत्याभिसम्बन्धः क्रियते अर्थवशाद्विभक्तिपरिणाम इति ॥ यदाऽन्यपदार्थे वृत्तिस्तदा निर्दिष्टविभक्त्यन्ता एवाभिसम्बध्यन्ते । औपशमिकादयो भावा द्विनवाष्टादशैकविंशतित्रिभेदा इति ॥ यथाक्रमवचनं यथासंख्यप्रतिपयर्थम् ॥ औपशमिको द्विभेदः । क्षायिको नवभेदः । मिश्रोऽष्टादशभेदः । औद. यिक एकविंशतिभेदः । पारिणामिकस्त्रिभेद इति ॥ यद्येवमौपशमिकस्य कौ द्वौ भेदावित्यत आह ॥ सम्यक्त्वचारित्रे ॥ ३ ॥ व्याख्यातलक्षणे सम्यक्त्वचारित्रे ॥ औपशमिकत्वं कथमिति चेदुच्यते । चारित्रमोहो द्विविधः कषायवेदनीयो नोकपायवेदनीयश्चेति ॥ तत्र कषायवेदनीयस्य भेदा अनन्तानुबन्धिनः क्रोधमानमायालोभाश्चत्वारः, दर्शनमोहस्य त्रयो भेदाः सम्यक्त्वं, मिथ्यात्वं, सम्यङ्मिथ्यात्वमिति, आसां सप्तानां प्रकृतीनामुपशमादौपशमिकं सम्यक्त्वम् ॥ अनादिमिथ्यादृष्टेभव्यस्य कर्मोदयापादितकालुप्ये सति कुतस्तदुपशमः ?। काललब्ध्यादिनिमित्तत्वात् ॥ तत्र काललब्धिस्तावत्- कर्माविष्ट आत्मा भव्यः कालेऽर्द्धपुद्गलपरिवर्तनाख्येऽवशिष्टे प्रथमसम्यक्त्वग्रहणस्य योग्यो भवति, नाधिके इति इयमेका काललब्धिः ॥ अपरा कर्मस्थितिकाललब्धिः। उत्कृष्टस्थितिकेषु कर्मसु जघन्यस्थितिकेषु च प्रथमसम्यक्त्वलाभो न भवति ॥ व तर्हि भवति? । अन्तःकोटीकोटीसागरोपमस्थितिकेषु कर्मसु बन्धमापद्यमानेषु विशुद्धपरिणामवशात्सत्कर्मसु च ततः संख्येयसागरोपमसहस्रोनायामन्तः
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy