SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः यावद्धनांगुलस्यासंख्येयभागप्रमिताकाश देशास्तावत्कृत्वन्तत्रैव जनित्वा पुनरेकैकप्रदेशाधिकभावेन सर्वो लोक आत्मनो जन्मक्षेत्रभावमुपनीतो भवति यावत्तावक्षेत्रपरिवर्तनम् ॥ उक्तं च- सव्वं हि लोयखेते कमसो तं णवि जं ण उप्पण्णं ।. ओगाहणेण बहुसो परिभमिदो खेत्तसंसारे ॥ १ ॥ कालपरिवर्तनमुच्यते- उत्सर्पिण्याः प्रथमसमये जातः कश्चिजीवः स्वायुषः परिसमाप्तौ मृतः स एव पुनर्द्वितीयाया उत्सर्पिण्या द्वितीयसमये जातः स्वायुषः क्षयान्मृतः स एव पुनस्तृतीयाया उत्सर्पिण्यास्तृतीयसमये जात एवमनेन क्रमेणोत्सर्पिणी परिसमाप्ता, तथा अवसर्पिणी च । एवं जन्मनैरन्तर्यमुक्तं मरणस्यापि नैरन्तयं तथैव ग्राह्यभेतावत्काल परिवर्तनम् || उक्तं च .. उवसप्पिणिअवप्पिणिसमयावलियासु णिरवसेसासु । जादो मुदो य बहुसो भमणेण दु काळसंसारे ॥१॥ भवपरिवर्तनमुच्यते- नरकगतौ सर्वजघन्यमायुर्दशवर्षसहस्राणि, तेनायुषा तत्रोत्पन्नः पुनः परिभ्रम्य तेनैवायुषा तत्रैव जातः, एवं दशवर्षसहस्राणां यावन्तः समयास्तावत्कृत्वस्तत्रैव जातो मृतः पुनरेकैकसमयाधिकभावेन त्रयस्त्रिंशत्सागरोपमाणि परिसमापितानि, ततः प्रच्युत्य तिर्यग्गताब-तर्मुहूर्तायुः समुत्पन्न, पूर्वोतेनैव क्रमेण त्रीणि पल्योपमानि तेन परिसमापितानि, एवं मनुप्यगतौ च तिर्यञ्चवत्, देवगतौ नारकवत्, अयं तु विशेष:- एकत्रिंशत्सागरोपमाणि परिसमापितानि यावत्तावद्भवपरिवर्तनम् ॥ उकं च - णिरयादिजहण्णादिसु जावदु उवारल्लिया दु गेवेजा। मिच्छत्तसंसिदेण हु बहुसो वि भवछिदी भमिदा ॥१॥ भावपरिवर्तनमुच्यते- पञ्चेन्द्रियः सञी पर्याप्तको मिथ्यादृष्टिः कश्चिज्जीवः सर्वजघन्यां स्वयोग्यां ज्ञानावरणप्रकृतेः स्थितिमन्तःकोटीकोटीसंज्ञिकामापद्यते, तस्य कषा
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy