SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ९० सर्वार्थसिद्धिः यथोक्तेनानेनाभिहितपरिणामेन सर्वात्मसाधारणेनोपयोगेन ये उपलक्षिता योगिनस्ते द्विविधाः -- ॥ संसारिणो मुक्ताश्च ॥ १० ॥ संसरणं संसारः परिवर्तनमित्यर्थः । स एषामस्ति ते संसारिणः ॥ तत्परिवर्तनं पञ्चविधं द्रव्यपरिवर्तनं, क्षेत्रपरिवर्तनं, कालपरिवर्तनं, भवपरिवर्तनं, भावपरिवर्तनं चेति ॥ तत्र द्रव्यपरिवर्तनं द्विविधं नोकर्मद्रव्यपरिवर्तनं कर्मद्रव्यपरिवर्तनं चेति ॥ तत्र नोकर्मद्रव्यपरिवर्तनं नाम, त्रयाणां शरीराणां षण्णां पर्यातीनां योग्या ये पुद्गला एक्रेन जीवेन एकस्मिन्समये गृहीता : स्निग्धरूक्षवर्णगन्धादिभिस्तीत्रमन्दमध्यमभावेन च यथावस्थिता द्वितीयादिषु समयेषु निर्जीर्णा अगृहीताननन्तवारानतीत्य मिश्र - कांश्चानन्तवारानतीत्य मध्ये गृहीतांश्चानन्तवारानतीत्य त एव तेनैव प्रकारेण तस्यैव जीवस्य नोकर्मभावमापद्यन्ते यावत्तावत्समुदितं नोकर्मद्रव्यपरिवर्तनम् ॥ कर्मद्रव्यपरिवर्तनमुच्यतेएकस्मिन्समये एकेन जीवेनाष्टविधकर्मभावेन पुद्गला ये गृहीताः समयाधिकामावलिकामतीत्य द्वितीयादिषु समयेषु निर्जीर्णाः पूर्वोक्तेनैव क्रमेण त एवं तेनैव प्रकारेण तस्य जीवस्य कर्म - भावमापद्यन्ते यावत्तावत्कर्मद्रव्यपरिवर्तनम् ॥ उक्तं च- सव्वेऽवि पुग्गळा खळु कमसो भुतुझिया य जीवेण । अच्छर अणंतखुतो पुग्गल परियट्टसंसारे ॥ १ ॥ क्षेत्रपरिवर्तनमुच्यते - सूक्ष्मनिगोदजीवोsपर्याप्तकः सर्वजधन्यप्रदेशशरीरो लोकस्याष्टमध्यप्रदेशान्स्वशरीरमध्यप्रदेशा-कृत्वोत्पन्नः क्षुद्रभवग्रहणं जीवित्वा मृतः स एव पुनस्तेनैवावगाहेन द्विरुत्पन्नस्तथा स्त्रिस्तथा चतुरित्येवं १ औदारिकवै क्रियिकाहारकत्रयाणाम् ॥ ―――
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy