SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ॐ नमः परमात्मने वीतरागा... अथ श्रीपूज्यपादापरनामदेवनन्द्याचार्यविरचिता तत्त्वार्थवृत्तिः सर्वार्थसिद्धिः ॥ प्रथमोऽध्यायः ॥ मोक्षमार्गस्य नेतारं । भेत्तारं कर्मभूभृताम् ॥ ज्ञातारं विश्वतत्त्वानां | वन्दे तद्गुणलब्धये ॥ १ ॥ कश्चिद्भव्यः प्रत्यासन्ननिष्ठः प्रज्ञावान् स्वहितमुपलिप्सुर्विविक्ते परमरम्ये भव्यसत्त्वविश्रामास्पदे क्वचिदाश्रमपदे मुनिपरिषणमध्ये सन्निषण्णं मूर्त्तमिव मोक्षमार्गमवाग्विसर्ग वपुषा निरूपयन्तं युक्त्या - गमकुशलं परहितप्रतिपादनैककार्यमार्यनिषेव्यं निर्ग्रन्थाचार्यवर्यमुपसद्य सविनयं परिपृच्छति स्म । भगवन्, किं नु खलु आत्मने हितं स्यादिति ॥ स आह मोक्ष इति । स एव पुनः प्रत्याहकिं स्वरूपोऽसौ मोक्षः कश्चास्य प्राप्त्युपाय इति ॥ आचार्य आह— निरवशेषनिराकृतकर्ममलकलङ्कस्याशरीरस्यात्मनोऽचिन्त्यखा भाविकज्ञानादिगुणमव्याबाधसुखमात्यन्तिकमवस्थान्तरं मोक्ष इति ॥ तस्यात्यन्तपरोक्षत्वाच्छद्मस्थाः प्रवादिनस्तीर्थकरम्मन्यास्तस्य स्वरूप - मस्पृशन्तीभिर्वाग्भिर्युक्त्याभासनिबन्धनाभिरन्यथा परिकल्पयन्ति 'चैत न्यं पुरुषस्य स्वरूपं तच्च ज्ञेयाकारपरिच्छेदपराङ्मुखमिति' तत्सदप्यसदेव, निराकारत्वात् खरविषाणवत् ॥ बुद्यादिवैशेषिकगुणो१ सांख्यः । २ बुद्धिसुखदुः खेच्छाद्वे प्रयत्नधर्माधर्म संस्काराः । एषामत्यन्तक्षये मोक्षमाह वैशेषिकः । ,
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy