SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः च्छेदः पुरुषस्य मोक्ष इति च । तदपि परिकल्पनमसदेव विशेषलक्षणशून्यस्यावस्तुत्वात् । प्रदीपनिर्वाणकल्पमात्मनिर्वाणमिति च । तस्य खरविषाणवत्कल्पना तैरेवाँहत्य निरूपिता । इत्येवमादि ॥ तस्य स्वरूपमनवद्यमुत्तरत्र वक्ष्यामः ॥ तत्प्राप्त्युपायं प्रत्यपि ते विसंवदन्ते- 'ज्ञानादेव चारित्रनिरपेक्षात्तत्प्राप्तिः, श्रद्धानमात्रादेव वा, ज्ञाननिरपेक्षाच्चारित्रमात्रादेवेति' च । व्याध्यभिभूतम्य तद्विनिवृत्त्युपायभूतभेषजविषयव्यस्तज्ञानादिसाधनत्वाभाववत् ॥ एवं व्यस्तं ज्ञानादि मोक्षप्राप्त्युपायो न भवति । किं तर्हि ? तत्रितयं समुदितमित्याह सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ सम्यगित्यव्युत्पन्नः शब्दो व्युत्पन्नो वा । अञ्चतेः क्वौ समञ्चतीति सम्यगिति । अस्यार्थः प्रशंसा । स प्रत्येक परिसमाप्यते । सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमिति । एतेषां खरूपं लक्षणतो विधानतश्च पुरस्ताद्विस्तरेण निर्देक्ष्यामः ॥ उद्देशमात्रं त्विदमुच्यते । पदार्थानां याथात्म्यप्रतिपत्तिविषयश्रद्धानसंग्रहार्थं दर्शनस्य सम्यग्विशेषणम् । येन येन प्रकारेण जीवादयः पदार्था व्यवस्थितास्तेन तेनावगमः सम्यग्ज्ञानम् । अनध्यवसायसंशयविपर्ययनिवृत्त्यर्थं सम्यग्विशेषणम् । संसारकारणनिवृत्तिं प्रत्यागूर्णस्य ज्ञानवतः कर्मादाननिमित्तक्रियोपरमः सम्यक्चारित्रम् । अज्ञानपूर्वकाचरणनिवृत्त्यर्थं सम्यग्विशेषणम् ॥ खयं पश्यति १ वुद्धयादय एव जीवस्य विशेषलक्षणानि । तदभावे लक्ष्यस्य सुतराम भावसिद्धेः । २ बैद्धा.। ३ गत्यन्तराभावात् । ४ अन्ते । ५ सम्यग्दर्शनस्य स्वनन्तरमेव । ज्ञानस्यापि प्रथमाध्याये एव नवमसूत्रात् प्रभृति । चारित्रस्य च सप्तमनवमाध्याययोर्मध्ये । ६ एते त्रयो मिथ्याज्ञानरूपा यतः । तत एव च मोक्षसाधने नोपयुज्यन्ते। ७ उद्यतस्य । ८ कर्तृसाधनमेतत् ।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy