SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः २.४० धर्मः । शरीरादीनां स्वभावानुचिन्तनमनुप्रेक्षा । क्षुदादिवेदनोत्पत्तौ कर्मनिर्जरार्थं सहनं परिषहः । परिषहस्य जयः परिषहजयः । चारित्रशब्द आदिसूत्रे व्याख्यातार्थः । एतेषां गुप्त्यादीनां संवर-क्रियायाः साधकतमत्वात् करणनिर्देशः । संवरोऽधिकृतोऽपि स इति तच्छब्देन परामृश्यते गुप्त्यादिभिः साक्षात्सम्बन्धार्थः ॥ प्रयोजनमवधारणार्थं । स एष संवरो गुप्यादिभिरेव नान्येनोपायेनेति ॥ तेन तीर्थाभिषेक दीक्षा शीर्षोपहारदेवताराधनादयों निर्वर्तिता भवन्ति ॥ रागद्वेषमोहोपात्तस्य कर्मणोऽन्यथा निवृत्त्यभावात् ॥ संवरनिर्जराहेतुविशेषप्रतिपादनार्थमाह ॥ तपसा निर्जरा च ॥ ३॥ तपो धर्मेऽन्तर्भूतमपि पृथगुच्यते उभयसाधनत्वख्यापनार्थं संवरं प्रति प्राधान्यप्रतिपादनार्थं च ॥ ननु च तपोऽभ्युदयाङ्गमिष्टम् देवेन्द्रादिस्थानप्राप्तिहेतुत्वाभ्युपगमात् कथं निर्जराङ्ग स्यादिति ॥ नैष दोषः - एकस्यानेककार्यदर्शनादग्निवत् । यथाऽ मिरेकोऽपि क्लेदनभस्माङ्गारादिप्रयोजन उपलभ्यते तथा तपोऽ भ्युदयकर्मक्षयहेतुरित्यत्र को विरोधः ॥ संव रहेतुत्वादादावुद्दिष्टाया गुप्तेः स्वरूपप्रतिपत्त्यर्थमाह - ॥ सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ योगो व्याख्यातः कायवाङ्मनः कर्म योग इत्यत्र तस्य स्वेच्छाप्रवृत्तिनिवर्तनं निग्रहः । विषयसुखाभिलाषार्थप्रवृत्तिनिषेधार्थं सम्यग्विशेषणम् ।। तस्मात् सम्यग्विशेषणविशिष्टात् संक्लेशाप्रादुर्भा वपरात्काया दियोगनिरोधे सति तन्निमित्तं कर्म नास्रवतीति संवर प्रसिद्धिरवगन्तव्या । सा त्रितयी काय गुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति ॥ "
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy