SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः २३९ सन्नस्तदूर्ध्वं तस्य संवरः । कषाय एवासवो यस्य कर्मणो न प्रमादादिस्तस्य तन्निरोधे निरासोऽवसेयः । स च कषायः प्रमादादिविरहितस्तोत्रमध्यमजघन्यभावेन त्रिषु गुणस्थानेषु व्यवस्थितः । तत्रापूर्वकरणस्यादौ संख्येयमागे द्वे कर्मप्रकृती निद्राप्रचले बध्येते । तत ऊर्ध्वं संख्येयभागे त्रिंशत् प्रकृतयो देवगतिपञ्चेन्द्रियजातिवैक्रियिकाहारकतैजसकार्मणशरीरसमचतुरस्रसंस्थानवैक्रियिकाहारकशरीराङ्गोपाङ्गवर्णगन्धरसस्पर्शदेवगतिप्रायोग्यानुपूर्व्यागुरुलधूपघातपरघातोच्छ्वासप्रशस्त विहायोगतित्रसवा - दरपर्याप्तप्रत्येकशरीरस्थिरशुभसुभगसुस्वरादेयनिर्माणतीर्थकराख्या बध्यन्ते ॥ तस्यैव चरमसमये चतस्रः प्रकृतयो हास्यरतिभयजुगुप्सासंज्ञा बन्धमुपयान्ति ॥ ता एतास्तीत्रकषायास्त्रवास्तदभावान्निर्दिष्टाद्भागादूर्ध्वं सँत्रियन्ते ॥ अनिवृत्तिबादरसाम्परायस्यादि. समयादारभ्य संख्येयेषु भागेषु पुंवेद क्रोधसज्ज्वलनौ बध्येते ॥ तत ऊर्ध्वं शेषेषु संख्येयेषु भागेषु मानमायासज्ज्वलनौ बन्धमुपगच्छतः ॥ तस्यैव चरमसमये लोभसंज्वलनो बन्धमेति । ता एताः प्रकृतयो मध्यमकषाया सवास्तदभावे निर्दिष्टस्य भागस्योपरिष्टात्संवरमाप्नुवन्ति ॥ पञ्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां यशः कीर्तिरुच्चैर्गोत्रस्य पंचानामन्तरायाणां च मन्दकायास्रवाणां सूक्ष्मसाम्परायो बन्धकः । तदभावात्तदुत्तरत्र तेषां संवरः ॥ केवलेनैव योगेन सद्वेद्यस्योपशान्तकषायक्षीणकषायसयोगानां बन्धा भवति । तदभावादयोग केवलिनस्तस्य संवरो भवति ॥ उक्तः संवरस्तद्भेदप्रतिपादनार्थमाह ॥ स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रैः ॥२॥ यतः संसारकारणादात्मनो गोपनं भवति सा गुप्तिः । प्राणिपीडापरिहारार्थं सम्यगयनं समितिः । इष्टे स्थाने धत्ते इति
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy