SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः न तत्पटादिकार्य, किं तर्हि केवलं तन्त्वादिकार्य; तन्त्वादिकार्यमपि तन्त्वाद्यक्यवेषु निरपेक्षेषु नास्त्येवेत्यस्मत्पक्षसिद्धिरेव ॥ अथ अन्त्वादिषु पयदिकार्य शक्त्यपेक्षया अस्तीत्युच्यते । नयेष्वपि निस्पेक्षेषु बुध्यभिधानरूपेषु कारणवशात्सम्यग्दर्शनहेतुत्वपरिणतिसहायात् शक्त्याऽऽत्मनाऽस्तित्वमिति साम्यमेवोपन्यासस्य ॥ ज्ञानदर्शनयोस्तत्त्वं । नयानां चैव लक्षणम् ॥ ज्ञानस्य च प्रमाणत्व- । मध्यायेऽस्मिन्निरूपितम् ॥ १ ॥ ॥ इति तत्त्वार्थवृतौ सर्वार्थसिद्धिसञ्ज्ञायां प्रथमोऽध्यायः ॥ ॥ ॐ नमः परमात्मने वीतरागाय ॥ ॥ अथ द्वितीयोऽध्यायः॥ आह सम्यग्दर्शनस्य विषयभावेनोपदिष्टेषु जीवादिष्वादावुपन्यस्तस्य जीवस्य किं स्वतत्त्वमित्युच्यते॥ औपशमिकक्षायिको भावौ मिश्रश्व जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥१॥ ___ आत्मनि कर्मणः स्वशक्तेः कारणवशादनुभूतिरुपशमः । स्था कतकादिद्रव्यसम्बन्धादम्भसि पकस्य उपशमः ॥ क्षयः मात्यन्तिकी निवृत्तिः। यथा तस्मिन्नेवाम्भसि शुचिभाजनान्तरसंक्रान्ते पङ्कस्यात्यन्ताभावः ॥ उभयात्मको मिश्रः । यथा तस्मिन्नेवाम्भसि कतकादिद्रव्यसम्बधात्पकस्य क्षीणाक्षीणवृत्तिः ॥ द्रव्यादिनिमित्तवशात्कर्मणां फलप्राप्तिरुदयः ॥ द्रव्या- . मलाभमानहेतुकः परिणामः ॥ उपशमः प्रयोजनमस्येत्यौपशमिकः । एवं क्षायिकः, क्षायोपशमिकः, औदयिकः, पारिणामिकश्च ।।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy