SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २४ सर्वार्थसिद्धिः स्पृष्टः । सासार्दनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ द्वादश वा चतुर्दशभागा देशोनाः । सम्यमिथ्यादृष्ट्यसँयतसम्यग्दृष्टिभिलॊकस्यासंख्येयभागः अष्टौ वा चतुर्दशभागाः देशोनाः । सँयतासँयतैलॊकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । प्रमत्तसँयतादीनामयोगकेवल्यन्तानां क्षेत्रवत्स्पर्शनम् ॥ विशेषण (१) गत्यनुवादेन- नरकगतौ प्रथमायां पृथिव्यां नारकैश्चतुर्गुणस्थानैलॊकस्यासंख्ययभागः स्पृष्टः । द्वितीयादिषु प्राक्सप्तम्या मिथ्यादृष्टिभिः सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः एकः द्वौ त्रयः चत्वारः पञ्च चतुर्दशभागा वा देशोनाः । सम्यमिथ्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः । सप्तम्यां पृथिव्यां मिथ्यादृष्टिमिर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । शेषस्त्रिभिर्लोकस्यासंख्येयभागः ॥ तिर्यग्गतौ तिरश्वां तिर्यमिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभि - १ तत्र स्वस्थानविहारापेक्षया सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभाग: स्पृष्टः । एवमग्रेऽपि स्वस्थानविहारापेक्षया लोकस्यासंख्येयभागो ज्ञातव्यः । परस्थानविहारापेक्षया तु सासादनदेवानां प्रथमपृथिवीत्रये विहारात् रज्जुद्वयम् । अच्युतान्तोपरिविहार'त् षड्जवः । इत्यष्टौ द्वादश चतुर्दश भ'गा वा देशोना: स्पृष्टाः ॥ द्वादशभागाः कथं स्पृष्टा इति चेदुच्यते । सप्त. मपृथिव्या परित्यक्तः सासादनादिगुणस्थान एव मारणान्तिकं विदध तांति नियमात् ॥ षष्ठीतो मध्यलोके पञ्चरज्जवः । सासादनो मारणान्तिकं करोति । मध्यमलोकाच लोकाग्रे बादरपृथिवीकायिकबादराप्कायिकबादरवनस्पतिकायिकेषु उत्पद्यते इति सप्त रज्जव एवं द्वादशरज्जवो भवन्ति । सासादनसम्यग्दृष्टिर्हि वायुकायिकेषु तेजःकायिकेषु नरकेषु सर्वसूक्ष्मकायिकेषु चतुर्थस्थानकेषु नो. स्पद्यत इति नियमः ॥ तथा चोक्तम् ॥ गाथा ॥ ' वज्जिअ ठाणचउक तऊ वाऊ य णरय सुहुमं च ॥ अण्णच सव्वठाणे उवज्जदे सासणो जीवो ॥ १ ॥' देशोना इति कथम् ? केचित्प्रदेशाः सासादन सम्यग्दर्शन योग्या न भवन्तीति देशोनाः । एवमुत्तरत्र सर्वत्रापि वेदितव्यम् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy