SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २४६ सर्वार्थसिद्धिः तिर्यक्षु पशुमृगपक्षिसरीसृपादिषु बहुषु सत्सु मनुष्यभावश्चतुष्पथे रत्नराशिरिव दुरासदः । तत्प्रच्यवे च पुनस्तदुपपत्तिर्दग्धतरुपुद्गलतद्भावोपपत्तिवदुर्लभा । तल्लामे च देशकुलेन्द्रियसम्पन्नारोगत्वान्युत्तरोत्तरतोऽतिदुर्लभानि ॥ सर्वेष्वपि तेषु लब्धेषु सद्धर्मप्रतिलम्भो यदि न स्याव्यर्थ जन्म, वदनमिव दृष्टिविकलं । तमेवं कृच्छूलभ्यं धर्ममवाप्य विषयसुखे रञ्जनं भस्मार्थं चन्दनदहनमिव विफलम् ।। विरक्तविषयसुखस्य तु तपोभावनाधर्मप्रभावनासुखमरणादिलक्षणः समाधिईरवापः ॥ तस्मिन् सति बोधिलाभः फलवान् भवतीति चिन्तनं बोधिदुर्लभानुप्रेक्षा ॥ एवं ह्यस्य भावयतो बोधि प्राप्य प्रमादो न कदाचिदपि भवति ॥ ११॥ अयं जिनोपदिष्टो धर्मोऽहिंसालक्षणः सत्याधिष्ठितो विनयमूलः क्षमाबलो ब्रह्मचर्यगुप्त उपशमप्रधानो नियतिलक्षणो निष्प. रिग्रहतालम्बनः । तस्यालाभादनादिसंसारे जीवाः परिभ्रमन्ति दुष्कर्मविपाकजं दुःखमनुभवन्तः ॥ अस्य पुनः प्रतिलम्भे विविधाभ्युदयप्राप्तिपूर्विका निःश्रेयसोपलब्धिर्नियतेति चिन्तनं धर्मखाख्यातत्वानुप्रेक्षा । एवं ह्यस्य चिन्तयतो धर्मानुरागात्सदा प्रतियत्नपरो भवति ॥ १२ ॥ एवमनित्यत्वाद्यनुप्रेक्षासन्निधाने उत्तमक्षमादिधारणान्महान्संवरो भवति ॥ मध्ये अनुप्रेक्षावचनमुभयार्थम् ॥ अनुप्रेक्षा हि भावयन्नुत्तमक्षमादींश्च प्रतिपालयति । परीषहाँश्च जेतुमुत्सहते ॥ के पुनस्ते परिषहाः किमर्थं वा सह्यन्त इतीदमाह॥ मार्गाच्यवननिर्जरार्थं परिषोढव्याः परिषहाः ८ संवरस्य प्रकृतत्वात्तेन मार्गो विशिष्यते । संवरमार्ग इति । तदच्यवनाथ निर्जरार्थं च परिषोढव्याः परिषहाः। क्षुत्पिपासादि
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy