SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १९६ सर्वार्थसिद्धिः योगस्त्रिप्रकारो व्याख्यातः। तस्य वक्रता कौटिल्यम् । विसंवादनमन्यथाप्रवर्तनम् ॥ ननु च नार्थभेदः । योगवक्रतै. वान्यथाप्रवर्तनम् ॥ सत्यमेवमेतत्- स्वगता योगवक्रतेत्युच्यते । परगतं विसंवादनं, सम्यगभ्युदयनिःश्रेयसार्थासु क्रियासु प्रवर्तमानमन्यं तद्विपरीतकायवाङ्मनोभिर्विसंवादयति · मैवं कापीरेवं कुर्विति ॥ एतदुभयमशुभनामकर्मास्रवकारणं वेदितव्यम् ॥ चशब्देन मिथ्यादर्शनपैशुन्यास्थिरचित्तताकूटमानतुलाकरणपरनिन्दाऽऽ त्मप्रशंसादिः समुच्चीयते ॥ अथ शुभनामकर्मणः क आस्रव इत्यत्रोच्यते ॥ तद्विपरीतं शुभस्य ॥ २३ ॥ ... कायवाङ्मनसामृजुत्वमविसंवादनं च तद्विपरीतम् ॥ चश. ब्देन समुच्चितस्य च विपरीतं ग्राह्यम् । धार्मिकदर्शनसद्भावो. पनयनसंसरणभीरुताप्रमादवर्जनादि ॥ तदेतच्छुभनामकर्मास्रवकारणं वेदितव्यम् ॥ आह किमतावानेव शुभनाम्न आस्रवविधिरुत कश्चिदस्ति प्रतिविशेषः ? इत्यत्रोच्यते- यदिदं तीर्थकरनामकर्मानन्तानुपमप्रभावमचिन्त्यविभूतिविशेषकारणं त्रैलोक्यविजयकरं तस्यास्रवविधिविशेषोऽस्तीति ॥ " यद्येवमुच्यतां के तस्यास्रवाः ? इत्यत इंदमारभ्यते॥ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधियावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥ २४ ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy