SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः १९७ i," जिनेन भगवतार्हत्परमष्ठिनोपदिष्टे निम्रन्थलक्षणे मोक्षवमनि रुचिर्दर्शनविशुद्धिः प्रागुक्तलक्षणा। तस्याष्टावङ्गानिनिश्शङ्कितत्वं, निष्काङ्क्षिता, विचिकित्साविरहता, अमूढदृष्टिता, उपबृंहणं, स्थितीकरणं, वात्सल्यं, प्रभावनं चेति ॥ सम्यग्ज्ञानादिषु मोक्षसाधनेषु तत्साधनेषु च गुर्वादिषु स्वयोग्यवृत्त्या साकार आदरो विनयस्तेन सम्पन्नता विनयसम्पन्नता ॥ अहिं. सांदिषु व्रतेषु तत्प्रतिपालनार्थेषु च क्रोधवर्जनादिषु शीलेषु निरवद्या वृत्तिः शीलव्रतेष्वनतिचारः ॥ जीवादिपदार्थस्वतत्त्वविषये सम्यग्ज्ञाने नित्यं युक्तता अभीक्ष्णज्ञानोपयोगः ॥ संसा. रदुःखान्नित्यभीरुता संवेगः ॥ त्यागो दानं, तत्रिविधमाहारदानमभयदानं ज्ञानदानं चेति । तच्छक्तितो यथाविधि प्रयुज्यमानं त्याग इत्युच्यते ॥ अनिगूहितवीर्यस्य मार्गाविरोधिकायक्लेशस्तपः ॥ यथा भाण्डागारे दहने समुत्थिते तत्प्रशमनमनुष्ठीयते बहूपकारत्वात्तथाऽनेकव्रतशीलसमृद्धस्य मुनेस्तपसः कुतश्चित्प्रत्यूहे समुपस्थिते तत्सन्धारणं समाधिः ॥ गुणवत्दुःखोपनिपाते निरवयेन विधिना तदपहरणं वैयावृत्त्यम् ॥ अह. दाचार्यबहुश्रुतेषु प्रवचनेषु च भावविशुद्धियुक्तोऽनुरागो भक्तिः ॥ पण्णामावश्यकक्रियाणां यथाकालं प्रवर्तनमावश्यकापरिहाणिः ॥ ज्ञानतपोजिनपूजाविधिना धर्मप्रकाशनं मार्गप्रभावना ॥ वत्से धेनुवत्सधर्मणि स्नेहः प्रवचनवत्सलत्वम् ॥ तान्येतानि षोडशकारणानि सम्यग्भाव्यमानानि व्यस्तानि समस्तानि च तीर्थकरनामकर्मास्रवकारणानि प्रत्येतव्यानि ॥ इदानीं नामास्रवाभिधानानन्तरं गोत्रास्रवे वक्तव्ये सति नीचैर्गोत्रस्यास्रवविधानार्थमिदमाह-- ॥ परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy