SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः 1 परवचनमनर्थकम्, पूर्वसूत्रे आद्यमिति वचनादिदमवशिष्टार्थं भवतीति ॥ नानर्थकम् । अन्यार्थः परशब्दः । संरम्भादिभ्योऽ न्यानि निर्वर्तनादीनि । इतरथा हि निर्वर्तनादीनामात्मपरिणामसद्भावाज्जीवाधिकरणविकल्पा एवेति विज्ञायन्ते ॥ निर्वर्तनाधिकरणं द्विविधम्, मूलगुणनिर्वर्तनाधिकरणमुत्तरगुणनिर्वर्तनाधिकरणञ्चेति ॥ तत्र मूलगुण निर्वर्तनं पञ्चविधम् । शरीरवाङ्मनःप्राणापानाश्च । उत्तरगुणनिर्वर्तनं काष्ठपुस्तचित्रकर्मादि || निक्षेपश्चतुर्विधः । अप्रत्यवेक्षितनिक्षेपाधिकरणं दुष्प्रसृष्टनिक्षेपाधिकरणं सहसानिक्षेपाधि - करणमनाभोगनिक्षेपाधिकरणं चेति ॥ संयोगो द्विविधः । भक्तपानसंयोगाधिकरणमुपकरणसंयोगाधिकरणं चेति ॥ निसर्गस्त्रिविधः । कायनिर्सर्गाधिकरणं वामिसर्गाधिकरणं मनोनिसर्गाधिकरणञ्चेति ॥ उक्तः सामान्येन कर्मास्रवभेदः || · १८९ इदानीं कर्मविशेषास्रवभेदो वक्तव्यः । तस्मिन् वक्तव्ये आद्ययोर्ज्ञानदर्शनावरणयोरास्रवभेदप्रतिपत्त्यर्थमाह— ॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥ १० ॥ तत्त्वज्ञानस्य मोक्षसाधनस्य कीर्तने कृते कस्यचिदनभिव्याहरतः अन्तः पैशुन्यपरिणामः प्रदोषः । कुतश्चित्कारणान्नास्ति न वेद्मीत्यादि ज्ञानस्य व्यपलपनं निह्नवः । कुतश्चित्कारणाद्भावितमपि विज्ञानं दानार्हमपि यतो न दीयते तन्मात्सर्यम् । ज्ञानव्यवच्छेदकरणमन्तरायः । कायेन वाचा च परप्रकाश्यज्ञानस्य वर्ज - नमासादनम् । प्रशस्तज्ञानदूषणमुपघातः । आसादनमेवेति चेत् १ अप्रसृष्टादृष्टभूमौ कायादिनिक्षेपोऽनाभोगः || ·
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy