SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १९० सर्वार्थसिद्धिः सतो ज्ञानस्य विनयप्रदानादिगुणकीर्तनाननुष्ठानमासादनम् । उपघातस्तु ज्ञानमज्ञानमेवेति ज्ञाननाशाभिप्राय इत्यनयोरयं भेदः ॥ तच्छब्देन ज्ञानदर्शनयोः प्रतिनिर्देशः क्रियते । कथं पुनरप्रकृत. योरनिर्दिष्टयोस्तच्छब्देन परामर्शः कर्तुं शक्यः? प्रश्नापेक्षया ॥ ज्ञानदर्शनावरणयोः क आस्रव इति प्रश्ने कृते तदपेक्षया तच्छब्दो ज्ञानदर्शने प्रतिनिर्दिशति ॥ एतेन ज्ञानदर्शनवत्सु तत्साधनेषु च प्रदोषादयो योज्याः तन्निमित्तत्त्वात् ॥ त एते ज्ञानदर्शनावरणयोरात्रवहेतवः ॥ एककारणसाध्यस्य कार्यस्यानेकस्य दर्शनात् तुल्येऽपि प्रदोषादौ ज्ञानदर्शनावरणास्रवसिद्धिः॥ अथवा- विषयभेदादास्रवभेदः । ज्ञानविषयाः प्रदोषादयो ज्ञानावरणस्य । दर्शनविषयाः प्रदोषादयो दर्शनावरणस्येति ॥ ___ यथाऽनयोः कर्मप्रकृत्योरास्रवभेदास्तथा॥ दुःखंशोकतापाकन्दनवधपरिदेवनान्यात्मपरो भयस्थान्यसवेद्यस्य ॥ ११॥ पीडालक्षणः परिणामो दुःखम् । अनुग्राहकसम्बन्धविच्छेदे वैक्लव्यविशेषः शोकः । परिवादादिनिमित्तादाविलान्तःकरणस्य तीव्रानुशयस्तापः । परितापजाताश्रुपातप्रचुरविप्रलापादिभिर्व्यक्तक्रन्दनमाक्रन्दनम् । आयुरिन्द्रियबलप्राणवियोगकरणं वधः । संक्लेशपरिणामावलम्बनं गुणस्मरणानुकीर्तनपूर्वकं स्वपरानुग्रहाभिलाषविषयमनुकम्पाप्रचुरं रोदनं परिदेवनम् ॥ ननु च- शोकादीनां दुःखविशेषत्वात् दुःखग्रहणमेवास्तु । सत्यमेवम् । तथापि कतिपयविशेषप्रतिपादनेन दुःखजात्यन्तरविधानं क्रियते । यथा गौरित्युक्ते १ अत्र दुःखजात्यनुविधानमिति पाठान्तरम् ।।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy