SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः १९१ अनिर्माते विशेषे तत्प्रतिपादनार्थं खण्डमुण्डकृष्णशुक्लाद्युपादानं क्रियते, तथा दुःखविषयास्रवासंख्येयलोकभेदसम्भवात् दुःखमित्युक्ते विशेषानिर्ज्ञानात्कतिपयविशेषनिर्देशेन तद्विशेषप्रतिपत्तिः क्रियते ॥ तान्येतानि दुःखादीनि क्रोधावेशादात्मस्थानि भवन्ति परस्थान्युभयस्थानि च ॥ एतानि सर्वाण्यसद्वद्यास्रवकारणानि वेदितव्यानि ॥ अत्र चोद्यते- यदि दुःखादीन्यात्मपरोभयस्थान्यसवेद्यास्रवनिमित्तानि, किमर्थमार्हतैः केशलञ्चनानशनातपस्थानादीनि दुःखनिमितान्यास्थीयन्ते परेषु च प्रतिपाद्यन्ते इति ॥ नैष दोषः- अन्तरङ्गक्रोधाद्यावेशपूर्वकाणि दुःखादीन्यसद्वेद्यास्रवनिमित्तानीति विशेष्योक्तत्वात् ॥ यथा कस्यचिाद्भिषजः परमकरुणाशयस्य निःशल्यस्य सँयतस्योपरि गण्डं पाटयतो दुःखहेतुत्वे सत्यपि न पापबन्धो बाह्यनिमित्तमात्रादेव भवति । एवं संसारविषयमहादुःखादुद्विमस्य भिक्षोस्तन्निवृत्त्युपायं प्रति समाहितमनस्कस्य शास्त्रविहिते कर्मणि प्रवर्तमानस्य संक्लेशपरिणामाभावात् दुःखनिमित्तत्वे सत्यपि न पापबन्धः ॥ उक्तञ्च- नै दुःख न सुखं यद्वद्धतुर्दृष्टश्चिकित्सिते ॥ चिकित्सायां तु युक्तस्य स्यात् दुःखमथवा सुखम् ॥ १ ॥ नै दुःखं न सुखं तद्वद्धतुर्मोक्षस्य साधने ॥ मोक्षोपाये तु युक्तस्य स्यात् दुःखमथवा सुखम् ॥ २॥ ___उक्ता असद्वद्यास्रवहेतवः सवेद्यस्य पुनः क इत्यत्रोच्यते॥ भूतव्रत्यनुकम्पादानसरागसँयमादियोगः क्षान्तिः शौचमिति सद्यस्य ॥ १२॥ .. १ चिकित्सायां युक्तस्य केवलं दुःख ' सुखं च रुक्प्रतिकारे हेतुर्न भवतीत्यर्थः ॥ २ रोगप्रतिकारे ॥ ३ मोक्षोपाये यु. तस्य पुंसः केवलं दु खं सुखं च मोक्षस्य साधने हेतुर्न भवति ।।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy