SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः - १४५ यथाहुः-द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानमिति ॥ अथवा पीतश्च पद्मश्च शुक्लश्च पीतपद्मशुक्ला वर्णवन्तोऽर्थाः । तेषामिव लेश्या येषां ते पीतपद्मशुक्ललेश्याः ॥ तत्र कस्य का लेश्येत्यत्रोच्यते- सौधर्मेशानयोः पीतलेश्याः । सानत्कुमारमाहेन्द्रयोः पीतपद्मलेश्याः । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्टेषु पद्मलेश्याः । शुक्रमहाशुक्रशतारसहस्रारेषु पद्मशुक्ललेश्याः। आनतादिषु शुक्ल. लेश्याः। तत्राप्यनुदिशानुत्तरेषु परमशुक्ललेश्याः। सूत्रेऽनभिहितं कथं मिश्रग्रहणं ? साहचाल्लोकवत् ॥ तद्यथा-छत्रिणो गच्छन्ति इति अछत्रिषु छत्रिव्यवहारः । एवमिहापि मिश्रयोरन्यतरग्रहणं भवति ॥ अयमर्थः सूत्रतः कथं गम्यते ? इति चेदुच्यते-- एवमभिसम्बन्धः क्रियते, द्वयोः कल्पयुगलयोः पीतलेश्या । सानत्कुमारमाहेन्द्रयोः पद्मलेश्याया अविवक्षातः ॥ ब्रह्मलोकादिषु त्रिषु कल्पयुगलेषु पद्मलेश्या । शुक्रमहाशुक्रयोः शुक्ललेश्याया अविवक्षातः ॥ शेषेषु शतारादिषु शुक्ललेश्या । पद्मलेश्याया अविवक्षात इति नास्ति दोषः ॥ आह कल्पोपपन्ना इत्युक्तं तत्रेदं न ज्ञायते के कल्पा इत्यत्रोच्यते ॥प्राग्वेयकेभ्यः कल्पाः ॥ २३ ॥ - इदं न ज्ञायते इत आरभ्य कल्पा भवन्तीति सौधर्मादिग्रहणमनुवर्तते । तेनायमर्थो लभ्यते- सौधर्मादयः प्राग्वेयकेभ्यः कल्पा इति पारिशेष्यादितरे कल्पातीता इति ॥ लौकान्तिका देवा वैमानिकाः सन्तः क गृह्यन्ते ! कल्पोपपन्नेषु । कथमिति चेदुच्यते . ॥ ब्रह्मलोकालया लौकान्तिकाः ॥२४॥ ... एत्य तस्मिन् लीयन्त इति आलयः आवासः । ब्रह्मलोक
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy