________________
सप्तमोऽध्यायः नानिमित्त: लेखन कूटलेखक्रिया । हिरण्यादेवस्या निक्षेप्नुर्विी स्मृतसंख्यस्याल्पसंख्येयमादधानस्यैवमित्यनुज्ञानवचनं त्यासापहारः । अर्थप्रकरणाङ्गविकारभूनिक्षेपणादिभिः पराकूतमुपलभ्य तदाविष्का रपामसूयादिनिमित्त यत्तत्साकारमन्त्रभेद इति कथ्यते ॥ त एते. सत्याणुव्रतस्य पंचातिचारा बोद्धव्याः ॥ . ॥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥ २७ ॥
मुष्णन्तं स्वयमेव वा प्रयुक्तेऽन्येन वा प्रयोजयति प्रयुतमनुमन्यते वा यतः स स्तेनप्रयोगः । अप्रयुक्तेनाननुमतेन च चौरेणानीतस्य ग्रहणं तदाहृतादानम् । उचितन्यायादन्येन प्रकारेण दानग्रहणमतिक्रमः । विरुद्धं राज्यं विरुद्धराज्यं विरु:द्धराज्येऽतिक्रमः विरुद्धराज्यातिक्रमः । तत्र ह्यल्पमूल्यलभ्यानि महार्याणि द्रव्याणीति प्रयत्नः ॥ प्रस्थादि मानं, तुलाद्युन्मानमेतेन न्यूनेनान्यस्मै देयमधिकेनात्मनो ग्राह्यमित्येवमादिकूटप्रयोगो हीनाधिकमानोन्मानम् ॥ कृत्रिमैर्हिरण्यादिभिर्वचनापूर्वको व्यवहारः प्रतिरूपकव्यवहारः॥ त एते. पंचादत्तादानाणुव्रतस्यातिचाराः ।। ॥ परविवाहकरणेत्वारिकापरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडाकामतीव्राभिनिवेशाः ॥ २८ ॥
कन्यादानं विवाहः परस्य विवाहः परविवाहः परविवाहस्य करणं परविवाहकरणम् । परपुरुषानेति गच्छतीत्येवं. शीला इत्वरी, कुत्सायां क इत्वरिका । या एकपुरुषभर्तृका सा परिगृहीता। या. गणिकात्वेन (श्चलित्वेन वा परपुरुषगमनशीलगः अस्वामिका सा. अपरिगृहीता । परिगृहीता चापरिगृहीता च. परिगृहीतापरिगृहीते। इत्वरिके च ते. परिमू