SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः इतरेषां विष्कम्भविशेषप्रतिपत्त्यर्थमाह ॥ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥ २५ ॥ ततो भरतात् द्विगुणो द्विगुणो विस्तारो येषां तद्विगुणद्विगुणविस्ताराः ॥ के ते ? वर्षधरवर्षाः ॥ किं सर्वे ? नेत्याह, विदेहान्ता इति ॥ त इमे अथोत्तरेषां कथमित्यत आह १२५ ॥ उत्तरा दक्षिणतुल्याः ॥ २६ ॥ उत्तरा ऐरावतादयो नीलान्ता भरतादिभिर्दक्षिणैस्तुल्या द्रष्टव्याः । अतीतस्य सर्वस्यायं विशेषो वेदितव्यः । तेन हूदपुष्करादीनां तुल्यता योज्या || अत्राह, उक्तेषु भरतादिषु क्षेत्रेषु मनुष्याणां किं तुल्योऽ नुभवादिः । आहोस्वित्कश्चिदस्ति प्रतिविशेष इत्यत्रोच्यतेभरतैरावतयोर्वृद्धिहासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥ २७ ॥ वृद्धिश्च ह्रासश्च वृद्धिहासौ । काभ्यां ? षट्समयाभ्याम् । कयोः ? भरतैरावतयोः । न तयोः क्षेत्रयोर्वृद्धिहासौ स्तः । असभ्भवात् । तत्स्थानां मनुष्याणां वृद्धिहासौ भवतः ॥ अथवा अधिकरणनिर्देशः भरते ऐरावते च मनुष्याणां वृद्धिहासाविति ॥ किंकृतौ वृद्धिहासौ ? अनुभवायुः प्रमाणादिकृतौ ॥ अनुभवः उपभोगः, आयुः जीवितपरिमाणं, शरीरोत्सेध इत्येवमादिभिर्वृद्धिहासौ मनुष्याणां भवतः । किंहेतुकौ पुनस्तौ ? कालहेतुकौ ॥ स च कालो द्विविधः । उत्सर्पिणी अवसर्पिणी
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy