SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२४ सर्वार्थसिद्धिः दक्षिणद्वारनिर्गता नारी ॥ उदीच्यतोरणद्वारनिर्गता रूप्यकूला ॥ . पुण्डरीक हदप्रभवा अवाच्यतोरणद्वारनिर्गता सुवर्णकूला ॥ पूर्वतोरणद्वारनिर्गता रक्ता ॥ अपरतोरणद्वारनिर्गता रक्तोदा ॥ तासां परिवारप्रतिपादनार्थमाह॥ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः ॥ २३ ॥ किमर्थं गङ्गासिन्ध्वादिग्रहणं क्रियते ? नदीग्रहणार्थम् । प्रकृतास्ता अभिसम्बन्ध्यन्ते , नैवं शङ्कयम् । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति अपरगाणामेव ग्रहणं स्यात् ॥ गङ्गादिग्रहणमेवास्तीति चेत्पूर्वगाणामेव ग्रहणं स्यात् । अत उभयीनां ग्रहणार्थ गङ्गासिन्ध्वादिग्रहणं क्रियते ॥ नदीग्रहणं द्विगुणा द्विगुणा इत्यभिसम्बन्धार्थम् ॥ गङ्गा चतुर्दशनदीसहस्रपरिवृता । सिन्धुरपि ॥ एवमुत्तरा अपि नद्यः प्रतिक्षेत्रं द्विगुणा द्विगुणा भवन्ति, आविदेहान्तात् ॥ तत उत्तरा अर्द्धहीनाः ॥ उक्तानां क्षेत्राणां विष्कम्भप्रतिपत्यर्थमाह॥ भरतः षडिड्विंशपञ्चयोजनशतवितारः षट्चैकोनविंशतिभागा योजनस्य ॥ २४ ॥ षडधिका विंशतिः षड्विंशतिः । षड्विंशतिरधिकानि येषु तानि षड्विंशानि । पञ्चयोजनशतानि विस्तारो यस्य षड्विंशपञ्चयोजनशतविस्तारः भरतः ॥ किमतावानेव, नेत्याह । षट्चैको. नविंशतिभागा योजनस्य विस्तारोऽस्येत्यभिसम्बध्यते ॥ १ परिवाराः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy