SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः ११५ विंशतिर्नरकशतसहस्राणि, वालुकाप्रभायां पञ्चदश नरकशतसहस्राणि, पङ्कप्रभायां दश नरकशतसहस्राणि, धूमप्रभायां त्रीणि नरकशतसहस्राणि, तमःप्रभायां पञ्चोनमेकं नरकशतसहस्रं, महातमःप्रभायां पञ्च नरकाणि ॥ रत्नप्रभायां नरकप्रस्तारास्त्रयोदश । ततोऽधः आसप्तम्या द्वौ द्वौ नरकप्रस्तारौ हीनौ ॥ इतरो विशेषो लोकानुयोगतो वेदितव्यः ॥ अथ तासु भूमिषु नारकाणां कः प्रतिविशेष इत्यत आह॥ नारका नित्याशुभतरलेश्या परिणामदेहवेदनाविक्रियाः ॥३॥ लेश्यादयो व्याख्यातार्थाः ॥ अशुभतरा इति प्रकर्षनिदेशः । तिर्यग्गतिविषयाशुभलेश्याद्यपेक्षया, अधोऽधः स्वगत्यपेक्षया च वेदितव्यः ॥ नित्यशब्द आभीक्ष्ण्यवचनः ॥ नित्यमशुभतरा लेश्यादयो येषां ते नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रिया नारकाः ॥ प्रथमाद्वितीययोः कापोती लेश्या, तृतीयायामुपरिष्टाकापोती अधो नीला, चतुर्थ्यां नीला, पञ्चम्यामुपरि नीला अधः कृष्णा, षष्ठ्यां कृष्णा, सप्तम्यां परमकृष्णा । स्वायुषः प्रमाणावधृता द्रव्यलेश्या उक्ताः ॥ भावलेश्यास्तु अन्तर्मुहूर्तपरिवतिन्यः ॥ परिणामाः स्पर्शरसगन्धवर्णशब्दाः क्षेत्रविशेषनिमित्तवशादतिदुःखहेतवोऽशुभतराः ॥ देहाश्च तेषामशुभनामकर्मोदयाद. त्यन्ताशुभतरा विकृताकृतयो हुण्डसंस्थाना दुर्दर्शनाः ॥ तेषामुत्सेधः ॥ प्रथमायां सप्त धनूंषि, त्रयो हस्ताः षडंगुलयः । अधोऽधो द्विगुणद्विगुण उत्सेधः ॥ अभ्यन्तरासद्वेद्योदये सति अनादिपारिणामिकशीतोष्णबाह्यनिमित्तजनिताः सुतीव्रा वेदना भवन्ति रिकाणाम् ॥ प्रथमाद्वितीयातृतीयाचतुर्थीषु उष्णवेदनान्येव नर
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy