SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ११४ सर्वार्थसिद्धिः - मधिकरणविशेषप्रतिपत्त्यर्थम् ॥ यथा स्वर्गपटलानि भूमिमनाश्रित्य व्यवस्थितानि, न तथा नारकावासाः। किं तर्हि, भूमिमाश्रिता इति ॥ तासां भूमीनामालम्बननिर्मानार्थं घनाम्बुवातादिग्रहणं क्रियते ॥ घनाम्बु च वातश्च आकाशं च घनाम्बुवाताकाशानि । तानि प्रतिष्ठा आश्रयो यासां ता घनाम्बुवाताकाशप्रतिष्ठाः ॥ [ *धनं च घनो मन्दो महान् आयतः इत्यर्थः । अम्बु च जलं उदकमित्यर्थः । वातशब्दोऽन्त्यदीपकः । तत एवं सम्बन्धनीयः । घनो धनवातः । अम्बु अम्बुवातः । वातस्तनुवातः । इति महदपेक्षया तनुरिति सामर्थ्यगम्यः । अन्यः पाठः ।। सिद्धान्तपाठस्तु घनाम्बु च वातं चेति वातशब्दः सोपस्क्रियते । वातस्तनुवात इति वा ॥ ] सर्वा एता भूमयो धनोदधिवलयप्रतिष्ठाः। घनोदधिवलयं घनवातवलयप्रतिष्ठम् । घनवातवलयं तनुवातवलयप्रतिष्ठम् । तनुवातवलयमाकाशप्रतिष्ठम् । आकाशमा. स्मप्रतिष्ठं, तस्यैवाधाराधेयत्वात् ॥ त्रीण्यप्येतानि वलयानि प्रत्येक विंशतियोजनसहस्रबाहु ल्यानि ॥ सप्तग्रहणं संख्यान्तरनिवृत्यर्थम् । सप्त भूमयो नाष्टौ न नव चेति ॥ अधोऽधोवचनं तिर्यक्प्रचयनिवृत्यर्थम् ॥ ____किं ता भूमयो नारकाणां सर्वत्रावासा आहोस्वित्वचित्कचिदिति तन्निर्धारणार्थमाह॥ तासु त्रिंशत्पञ्चविंशतिपंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमम् ॥ २॥ तासु रत्नप्रभादिषु भूमिषु नरकाण्यनेन संख्यायन्ते यथाक्रमम् ॥ रत्नप्रभायां लिंशन्नरकशतसहस्राणि, शर्कराप्रभायां पञ्च * चतुष्कोणकंसस्थः पाठः तालपत्रपुस्तके एव वर्तते.
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy