SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ भूमिका. पुनः परमादरेण व्यजिज्ञपत् ॥ स एव मुनिरयमुमास्वात्यभिधः इत्यवगच्छन्तु कृतधियः ॥ एषु तत्त्वार्थसूत्रेषु गन्धहस्तिमहाभाष्यसञ्जकं चतुरशीतिसहस्रश्लोकपरिमितं भगवत्समन्तभद्राचार्यविरचितं भाष्यं वर्तते इति श्रृणुमः परं न लब्धमस्माभिः क्वापि । तथा श्रुतसागरी सुबोधिनी इत्यभिधा अनेक वृत्तयश्च सन्ति । तासु च काश्चिदिदानीमपि लभ्यन्ते । तास्वपि इयं पूज्यपादाचार्यविरचिता सर्वार्थसिध्यभिधा वृत्तिरतीव समीचीना सर्वत्र श्रद्धालुश्रावकजनस्वाध्यायविषयत्वात्सुप्रसिद्धतरा चेति सैवास्माभिर्यथामति संशोध्य विद्यार्थिवृन्दोपयोगार्थ “ दशाध्यायपरिच्छिन्ने तत्त्वार्थे पठिते सति । फलं स्यादुपवासस्य भाषितं मुनिपुङ्गवैः " इति फलाभिधायकवाक्यानुमितविधेः प्रतिदिनमवश्यपठनीयत्वात् सधर्मश्राद्धजनस्वाध्यायार्थं च मुद्रिता ॥ अयं सर्वार्थसिद्धिवृत्तिकृत् भगवान् पूज्यपादाचार्योऽपि उपर्युक्तनन्दिगणस्थ एव । अस्यापि प्रथमं देवनन्दीति नामासीत् । पश्चादधिगतसकलशास्त्रार्थतत्त्वस्यास्यैव जिनेन्द्रबुद्धिरिति द्वितीयं नाम प्रसिद्धं बभूव । तथा, एतस्य तपोमहिम्ना एतत्पादोदकं सुवर्णत्वेन परिणतं बहुशो दृष्ट्वा तदानीन्तनैः पूज्यपाद ' इत्यपरं. नामाकारीति कचिग्रन्थे दृष्टमस्माभिः ।। अस्यान्वयविषये अग्रेतना श्लोका उपलभ्यन्ते श्रीगङ्गपिञ्छमुनिपस्य बलाकपिञ्छः । शिष्योऽजिनष्ट भुवनत्रयवर्तिकीर्तिः ॥ चारित्रचञ्चुरखिलावनिपालमौलि। मालाशिलीमुखविराजितपादपद्मः ॥ १॥ एवं महाचार्थपरम्परायां । स्यात्कारमुद्राङ्कित्ततत्त्वदीपः ॥ भद्रः समन्ताद्गुणतो गणीशः । समन्तभद्रोऽजनि वादिसिंह ॥ २ ॥ ततः ॥ यो देवनन्दिप्रथमाभिधानो। बुध्या महत्या स जिनेन्द्रबुद्धिः ॥ श्रीपूज्यपादोऽ
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy