SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः २२१ प्रहः संशयः ॥ सर्वदेवतानां सर्वसमयानां च समदर्शनं वैनयिकम् ॥ हिताहितपरीक्षाविरहोऽज्ञानिकत्वं ॥ उक्तञ्च- असिदिसदं किरियाणं अकिरियाणं च होइ चोळसीदि ॥ सत्तच्छ. ण्णाणीणं वेणइयाणं तु बत्तीसम् ॥ १॥ अविरतिदशविधाषटकायषट्करणविषयभेदात् । षोडश कषाया नव नोकषायास्ते. षामीषद्भेदो न भेद इति पञ्चविंशतिकषायाः ॥ चत्वारो मनोयोगाश्चत्वारो वाग्योगाः पंच काययोगा इति त्रयोदशविकल्पो योगः ॥ आहारककाययोगाहारकमिश्रकाययोगयोः प्रमत्तसँयते सम्भवात्पञ्चदशापि भवन्ति ॥ प्रमादोऽनेकविधः- पञ्चसमितित्रिगुप्तिशुध्धष्टकोत्तमक्षमादिविषयभेदात् । शुध्यष्टकस्यार्थः भावकायविनयेर्यापथभिक्षाप्रतिष्ठापनशयनासनवाक्यशुद्धयोऽष्टौ, दशलक्षणो धर्मश्च ॥ त एते पञ्च बन्धहेतवः समस्ता व्यस्ताश्च भवन्ति ॥ तद्यथा- मिथ्यादृष्टेः पञ्चापि समुदिता बन्धहेतवो भवन्ति ॥ सासादनसम्यग्दृष्टिसममिथ्यादृष्ट्यसयतसम्यग्दृष्टीनामविरत्यादयश्चत्वारः ॥ सँयतासँयतस्याविरतिर्विरतिमिश्राः, प्रमादकषाययोगाश्च । प्रमत्तसँयतस्य प्रमादकषाययोगाः। अप्रमत्तादीनां चतुर्णा योगकषायौ । उपशान्तकषायक्षीणकषायसयोगकेवलिनामेक एव योगः। अयोगकेवलिनो न बन्धहेतुः ॥ उक्ता बन्धहेतवः। ___ इदानी बन्धो वक्तव्य इत्यत आह॥ सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गला नादत्ते स बन्धः ॥ २॥ ..... सह कषायेण वर्तत इति सकषायः । सकषायस्य भावः सकषायत्वम् । तस्मात्सकषायत्वादिति ॥ पुनर्हेतु निर्देशः किमर्थम् ।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy