SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २२० सर्वार्थासद्धिः ॥ ॐ नमः परमात्मने वीतरागाय ॥ ॥ अथाष्टमोऽध्यायः ॥ - व्याख्यात आस्रवपदार्थस्तदनन्तरोद्देशभाग्बन्धपदार्थ इदानीं व्याख्येयस्तस्मिन्व्याख्येये सति पूर्वं बन्धहेतूपन्यासः क्रियते तत्पूकत्वाद्वन्धस्येति ॥ ॥मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः१ . मिथ्यादर्शनादय उक्ताः। क मिथ्यादर्शनं तावदुक्तं ? तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्यत्र, तत्प्रतिपक्षभूतमास्रवविधाने च क्रियासु व्याख्यातं मिथ्यादर्शनक्रियेति ॥ विरतिरुक्ता । तत्प्र. तिपक्षभूता अविरतिाया। आज्ञाव्यापादनक्रिया अनाकांक्षाक्रियेत्यनयोः प्रमादस्यान्तर्भावः । स च प्रमादः कुशलेष्वनादरः ॥ कषायाः क्रोधादयः अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसज्वलनविकल्पाः प्रोक्ताः । व? इन्द्रियकषाया इत्यत्रैव ॥ योगाः कायादिविकल्पाः प्रोक्ताः । व? कायवाङ्मनःकर्म योग इत्यत्र ॥ मिथ्यादर्शनं द्विविधम् । नैसर्गिक परोपदेशपूर्वकं च । तत्र परोपदेशमन्तरेण मिथ्यात्वकर्मोदयवशायदाविर्भवति तत्त्वार्थाश्रद्धानलक्षणं तन्नैसर्गिकम् ॥ परोपदेशनिमित्तं चतुर्विधम् । क्रियाक्रियावाद्यज्ञानिवैनयिकविकल्पात् ॥ अथवा पञ्चविधं मिथ्यादर्शनम्- एकान्तमिथ्यादर्शनम् । विपरीतमिथ्यादर्शनम् । संशयमिध्यादर्शनम् । वैनयिकमिथ्यादर्शनम् । अज्ञानमिथ्यादर्शनं चेति ॥ तत्र इदमेव इत्थमेवेति धर्मिधर्मयोरभिनिवेश एकान्तः । पुरुष एवेदं सर्वमिति वा नित्यमेवेति ॥ सग्रन्थो निम्रन्थः, केवली कवलाहारी, स्त्री सिध्यतीत्येवमादिः विपर्ययः ॥ सम्यग्दर्शनज्ञानचारित्राणि किं मोक्षमार्गः स्याद्वा न वेत्यन्यतरपक्षापरि
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy