SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः १४१ न्यस्यापरिच्छिन्नस्य परिच्छेदहेतुः ॥ मुख्योऽन्यो वक्ष्यमाणलक्षणः॥ इतरत्र ज्योतिषामवस्थानप्रतिपादनार्थमाह - ॥ बहिरवस्थिताः ॥ १५ ॥ बहिरित्युच्यते , कुतो बहिः ? नृलोकात् ॥ कथमवगम्यते ? अर्थवशाद्विभक्तिपरिणामो भवति ॥ ननु च नृलोके नित्यगतिवचनादन्यत्रावस्थानं ज्योतिष्काणां सिद्धं । अतो बहिरवस्थिता इति वचनमनर्थकमिति । तन्न । किं कारणम् ? नृलोकादन्यत्र बहिर्कोतिषामस्तित्वमवस्थानं चासिद्धम् । अतस्तदुभयसिध्द्यर्थ बहिरवस्थिती इत्युच्यते ॥ विपरीतगतिनिवृत्यर्थ कादाचित्कगतिनिवृ. त्यर्थं च सूत्रमारब्धम् ॥ तुरीयस्य निकायस्य सामान्यसञ्ज्ञासङ्कीर्तनार्थमाह - ॥ वैमानिकाः ॥ १६ ॥ वैमानिकग्रहणमधिकारार्थम् । इत उत्तरं ये वक्ष्यन्ते तेषां वैमानिकसम्प्रत्ययो यथा स्यादिति अधिकारः क्रियते ॥ विशेषेणात्मस्थान सुकृतिनो मानयन्तीति विमानानि । विमानेषु भवा वैमानिकाः ॥ तानि विमानानि विविधानि । इन्द्रकश्रेणिपुष्पप्रकीर्णकभेदेन ॥ तत्र इन्द्रकविमानानि इन्द्रवन्मध्ये व्यवस्थितानि । तेषां चतसृषु दिक्षु आकाशप्रदेशश्रेणिवदवस्थानात् श्रेणिविमानानि । विदिक्षु प्रकीर्णपुष्पवदवस्थानात्पुष्पप्रकीर्णकानि ॥ तेषां वैमानिकानां भेदावबोधनार्थमाह ॥ कल्पोपपन्नाः कल्पातीताश्च ॥ १७ ॥ , निश्चला वर्तन्ते इत्यर्थः ॥ २ अप्रदक्षिण •॥ .
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy