SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः १३५ पीतान्तग्रहणं क्रियते ॥ पीतं तेज इत्यर्थः । पीता अन्ते यासां ताः पीतान्ताः लेश्या येषां ते पीतान्तलेश्याः ॥ एतदुक्तं भवति- आदितस्त्रिषु निकायेषु भवनवासिव्यन्तरज्योतिप्कनामसु देवानां कृष्णा नीला कापोता पीतेति चतस्रो लेश्या भवन्ति ॥ तेषां निकायानामन्तर्विकल्पप्रतिपादनार्थमाह॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥ ३ ॥ चतुर्णा देवनिकायानां दशादिभिः संख्याशब्दैर्यथासंख्यममिसम्बन्धो वेदितव्यः ॥ दशविकल्पा भवनवासिनः। अष्टविकल्पा व्यन्तराः । पञ्चविकल्पा ज्योतिष्काः। द्वादशविकल्पा वैमानिका इति ॥ सर्ववैमानिकानां द्वादशविकल्पान्तःपातित्वे प्रसक्ते अवेयकादिनिवृत्यर्थं विशेषणमुपादीयते कल्पोपपन्नपर्यन्ता इति ॥ अथ कथं कल्पसञ्ज्ञा ? इन्द्रादयः प्रकारा दश एतेषु कल्प्यन्त इति कल्पाः ॥ भवनवासिषु तत्कल्पनासम्भवेऽपि रूढिवशाद्वैमानिकेष्वेव वर्तते कल्पशब्दः ॥ कल्पेषूपपन्नाः कल्पोपपन्नाः। कल्पोपपन्नाः पर्यन्ता येषां ते कल्पोपपन्नपर्यन्ताः ॥ ___पुनरपि तद्विशेषप्रतिप्रत्यर्थमाह॥ इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपा-॥ लानीकप्रकीर्णकाभियोग्यकिल्मिषिकाश्चैकशः॥४॥ २ 'भवणतिया पुण्णगेसुहा' इतिवचनादपर्याप्तेषु भावनवानज्योतिष्केषु कृष्णनीलकपोतलेश्यात्रयं भवति । पर्याप्तेषु तेषु जघन्या तेजोलेश्या भवतीत्ययं विशेषोऽत्र ज्ञातव्यः॥ : . २ रूढिर्योगमपहरति ।।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy