SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः- अन्यदेवासाधारणाणिमादिगुणयोगादिन्दन्तीति १ इन्द्राः ॥ आजैश्वर्यवर्जितं यत्समानायुर्वीर्यपरिवारभोगोपभोगादि तत्समानं, तस्मिन्समाने भवाः २ सामानिकाः । महत्तराः पितृगुरूपाध्यायतुल्याः ॥ मन्त्रिपुरोहितस्थानीयाः ३ त्रायस्त्रिंशाः। त्रयस्त्रिंशदेव त्रायस्त्रिंशाः ॥ वयस्यपीठमर्दसदृशाः परिषदि भवाः ४ पारिषदाः ॥ ५ आत्मरक्षाः शिरोरक्षोपमानाः ॥ अर्थचरारक्षकसमानाः ६ लोकपालाः । लोकं पालयन्तीति लोकपालाः ॥ पदात्यादीनि सप्त ७ अनीकॉनि दण्डस्थानीयामि ॥ ८ प्रकीर्णकाः पौरजानपदकल्पाः ॥ ९ आभियोग्या दाससमाना वाहनादिकर्मणि प्रवृत्ता अन्तेवासिस्थानीयाः ॥ किल्बिषं पापं येषामस्ति ते १० किल्बिषिकाः ॥ .. - एकैकस्य निकायस्य एकश एते इन्द्रादयो दश विकल्पाश्चतुर्पु निकायेषूत्सर्गेण प्रसक्तास्ततोऽपवादार्थमाह ॥ त्रायस्त्रिंशल्लोकपालवा . व्यन्तरज्योतिष्काः ॥ ५॥ ...व्यन्तरेषु ज्योतिष्केषु च त्रायस्त्रिंशैल्लोकपालांश्च वर्जयित्वा इतरेऽष्टौ विकल्पा द्रष्टव्याः ॥ _ अथ तेषु निकायेषु किमेकैक इन्द्र उतान्यः प्रतिनियमः कश्चिदस्तीत्यत आह ॥ पूर्वयोज़न्द्राः ॥ ६॥ पूर्वयोनिकाययोर्भवनवासिव्यन्तरनिकाययोः ॥ कथं द्वितीयस्य पूर्वत्वम् ? सामीप्यात्पूर्वत्वमुपचर्योक्तम् ॥ द्वीन्द्रा इति अन्तनींतवीप्सार्थः । द्वौ द्वौ इन्द्रौ येषां ते द्वीन्द्रा इति । यथा १ सन्धानकारी ॥ २ अंगरक्षोपमानाः॥ ३ अर्थोत्पादककोपालसदृशा. ४ सेना
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy