SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः १३७ सप्तपर्णोऽष्टापद इति ॥ तद्यथा - भवनवासिषु तावदसुरकुमाराणां 'द्वाविन्द्रौ चमरो वैरोचनश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिसिंहो हरिकान्तश्च । सुपर्णकुमाराणां वेणुदेवो वेणुधारी च । अभिकुमाराणां अग्निशिखोऽग्निमाणवश्च । वातकुमाराणां बैलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णो विशिष्टश्च | दिक्कुमाराणां अमितगतिरमितवाहनश्चेति ॥ व्यन्तरेष्वपि किन्नराणां द्वाविन्द्रौ किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महापुरुषश्चेति । महोरगाणां अतिकायो महाकायश्च । गन्धर्वाणां गीतरतिगतियशाश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । भूतानां प्रतिरूपोऽप्रतिरूपश्च । पिशाचानां कालो महाकालश्च ॥ अथैषां देवानां सुखं कीदृशमित्युक्ते सुखावबोधनार्थमाह॥ कायप्रवीचारा आ ऐशानात् ॥ ७ ॥ प्रवीचारो मैथुनोपसेवनम् । कायेन प्रवीचारो येषां ते कायप्रवीचाराः ॥ आङ् अभिविध्यर्थः । असंहितया निर्देशः असन्देहार्थः ॥ एते भवनवास्यादय ऐशानान्ताः संक्लिष्टकर्मत्वान्मनुष्यवत्स्त्रीविषयसुखमनुभवन्तीत्यर्थः ॥ अवधिग्रहणादितरेषां सुखविभागेऽनिर्ज्ञाते तत्प्रतिपादनार्थमाह॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ॥ ८ ॥ उक्तावशिष्टग्रहणार्थं शेषग्रहणम् ॥ के पुनरुक्तावशिष्टाः ? ९ असुराणाम् ॥ २ ॥ वेणुदेव इत्यत्र वेणुदण्ड इत्यपि पाठान्तरम् ॥ ३ अत्र वेणुताली इत्यपि पाठभेदः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy