SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १७८ सर्वार्थसिद्धिः . र्गुणः ॥ आदिशब्दः प्रकारार्थः । कः पुनरसौ प्रकारः ? यधिकता। तेन पञ्चगुणादीनां सम्प्रत्ययो न भवति; तेन व्यधिकादिगुणानां तुल्यजातीयानामतुल्यजातीयानां च बन्ध उक्तो भवति । नेतरषाम् ॥ तद्यथा- द्विगुणस्निग्धस्य परमाणोरेकगुगस्निग्धेन द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा नास्ति बन्धः ।। चतुर्गुणस्निग्धेन पुनरस्ति बन्धः ॥ तस्यैव पुनर्द्विगुणस्निग्धस्य पञ्चगुणस्निग्धेन षट्सप्ताष्टसंख्येयासंख्येयानन्तगुणस्निग्धेन वा बन्धो नास्ति । एवं त्रिगुणस्निग्धस्य पञ्चगुणस्निग्धेन बन्धोऽस्ति ॥ शेषैः पूर्वोत्तरैर्न भवति ॥ चतुर्गुणस्निग्धस्य षड्गुणस्निग्धेनास्ति बन्धः । शेषैः पूर्वोत्तरैर्नास्ति । एवं शेषेप्वपि योज्यः ॥ तथाद्विगुणरूक्षस्य एकद्वित्रिगुणरूक्षैर्नास्ति बन्धः। चतुर्गुणरूक्षेण त्वस्ति बन्धः ॥ तस्यैव द्विगुणरूक्षस्य पञ्चगुणरूक्षादिभिरुत्तरैनास्ति बन्धः ॥ एवं त्रिगुणरूक्षादीनामपि द्विगुणाधिकैर्बन्धो योज्यः ॥ एवं भिन्नजातीयेष्वपि योज्यः ॥ उक्तंच- गिद्धस्स णिद्धेण दुराधिएण । लुख्खस्स लुख्खेण दुराधिएण ॥ गिद्धस्स लुखेण हवेदि बंधो। जहण्णवजो विसमे समे वा ॥१॥ तुशब्दो विशेषणार्थः प्रेतिषेधं व्यावर्तयति बन्धं च विशेषयति ॥ किमर्थमधिकगुणविषयो बन्धो व्याख्यातः न : समगुणविषयः इत्यत आह ॥ बन्धेऽधिको पारिणामिकौ ॥ ३७॥ अधिकारात् गुणशब्दः सम्बध्यते । अधिकगुणावधिका १ विसदृशानां तु बन्धः स्निग्धरूक्षत्वादिति सिद्ध एव । अनेन सदृशग्रहणेन विसदृशानामपि योग्यत्वे सति बन्धविधिः स्थापित इत्यर्थः ॥ २ न जघन्यगुणानामिति सूत्रादनुवर्तमानम् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy