SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः १२१ पुनरपि तद्विशेषप्रतिपत्त्यर्थमाह॥ मणिविचित्रपार्श उपरि मूले च . तुल्यविस्ताराः ॥ १३॥ - नानावर्णप्रभादिगुणोपेतैर्मणिभिर्विचित्राणि पाणि येषां ते मणिविचित्रपार्थाः ॥ अनिष्टस्य संस्थानस्य निवृत्त्यर्थमुपर्यादिवचनं क्रियते ॥ चशब्दो मध्यसमुच्चयार्थः ॥ य एषां मूले विस्तारः स उपरि मध्ये च तुल्यः ॥ तेषां मध्ये लब्धास्पदा हूदा उच्यन्ते॥ पद्ममहापद्मतिगिंछकेसरिमहापुण्डरीक पुण्डरीका हृदास्तेषामुपरि ॥ १४ ॥ पद्मः महापद्मः तिगिञ्छः केसरी महापुण्डरीकः पुण्डरीक इति तेषां हिमवदादीनामुपरि यथाक्रममेते हूदा वेदितव्याः । तत्राद्यस्य संस्थानविशेषप्रतिपत्त्यर्थमाह॥ प्रथमो योजनसहस्रायाम स्तदईविष्कम्भो ह्दः ॥ १५ ॥ प्राक्प्रत्यक् योजनसहस्रायामः उदगवाक् पञ्चयोजनशतविस्तारो वज्रमयतलो विविधमणिकनकविचित्रिततटः पद्मनामा ह्रदः।। तस्यावगाहप्रक्लप्त्यर्थमिदमुच्यते ॥ दशयोजनावगाहः ॥१६॥ अवगाहोऽधःप्रवेशो निम्नता। दशयोजनान्यवगाहोऽस्य दशयोजनावगाहः ॥ तन्मध्ये किम् ? ॥ तन्मध्ये योजनं पुष्करम् ॥ १७॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy