SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १२२ -सर्वार्थसिद्धिः योजनप्रमाणं योजनं, क्रोशायामपत्रत्वात्क्रोशद्वयविष्कम्भकर्णिकत्वाच्च योजनायामविष्कम्भम् ॥ जलतलाकोशद्वयोायनालं तावद्बहुलपत्रप्रचयं पुष्करमवगन्तव्यम् ॥ इतरेषां हूदानां पुष्कराणां चायामादिनिर्ज्ञानार्थमाह॥ तद्विगुणद्विगुणा हुदाः पुष्कराणि च ॥१८॥ स च तच्च ते, तयोईिगुणा द्विगुणास्तद्विगुणद्विगुणा इति द्वित्वं व्याप्तिज्ञानार्थम् ॥ केन द्विगुणाः? आयामादिना ॥ पद्महूदस्य द्विगुणायामविष्कम्भावगाहो महापद्महूदः । तस्य द्विगुणायामविष्कम्भावगाहस्तिगिञ्छहूदः । पुष्कराणि च किं ? द्विगुणानि द्विगुणानीत्यभिसम्बन्ध्यन्ते ॥ __ तन्निवासिनीनां देवीनां सज्ञाजीवितपरिवारप्रतिपादनार्थमाह॥ तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः ॥ १९ ॥ तेषु पुष्करेषु कर्णिकामध्यदेशनिवेशिनः शरद्विमलपूर्णचन्द्रयुतिहराः क्रोशायामाः क्रोशार्द्धविष्कम्भा देशोनकोशोत्सेधाः प्रासादास्तेषु निवसन्तीत्येवंशीलास्तन्निवासिन्यो देव्यः श्री-हीतिकीर्तिबुद्धिलक्ष्मीसंज्ञिकास्तेषु पद्मादिषु यथाक्रमं वेदितव्याः ॥ पल्योपमस्थितय इत्यनेनायुषः प्रमाणमुक्तम् ॥ समाने स्थाने भवाः सामानिकाः । सामानिकाश्च परिषदश्च सामानिकपरिषदः । सह सामानिकपरिषद्भिर्वर्तन्त इति ससामानिकपरिषत्काः ॥ तस्य पद्मस्य परिवारपद्मेषु प्रासादानामुपरि सामानिकाः परिषदश्च वसन्ति ॥ यकाभिः सरिद्भिस्तानि क्षेत्राणि प्रविभक्तानि, ता उच्यन्ते॥ गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धारिकान्ता
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy