SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः ॥ ॐ नमः परमात्मने वीतरागाय ॥ ॥ अथ षष्ठोऽध्यायः ॥ अथाजीवपदार्थो व्याख्यातः इदानीं तदनन्तरोद्देशभागास्रवपदार्थो व्याख्येय इति । ततस्तत्प्रसिध्यर्थमिदमुच्यते ॥ काय़वाङ्मनःकर्म योगः ॥ १ ॥ १८३ कायादयः शब्दा व्याख्यातार्थाः । कर्म क्रिया इत्यनर्थी - तरम् ।। कायवाङ्मनसां कर्म कायवाङ्मनः कर्म, योग इत्याख्या - यते ।। आत्मप्रदेशपरिस्पन्दो योगः । स निमित्तभेदात्रिधा भिद्यते ॥ काययोगो वाग्योगो मनोयोग इति । तद्यथा वीर्यान्तरायक्षयो पशमसद्भावे सति औदारिका दिसप्तविधकायवर्गणान्यतमालंबनापेक्षया आत्मप्रदेशपरिस्पन्दः काययोगः । शरीरनामकर्मोदयापादितवाम्बर्गणालम्बने सति वीर्यान्तरायमत्यक्षराद्यावरणक्षयोपशमापादिताभ्यन्तरवाग्लब्धिसान्निध्ये वाक्परिणामाभिमुखस्यात्मनः प्रदेशपरिस्पन्दो वाग्योगः || अभ्यन्तरवीर्यान्तरायनोइन्द्रियावरणक्षयोपशमात्मकमनोलब्धिसन्निधाने बाह्यनिमित्तमनोवर्गणालम्बने च सति मनःपरिणामाभिमुखस्यात्मनः प्रदेशपरिस्पन्दो मनोयोगः ॥ क्षयेऽपि त्रिविधवर्गणापेक्षः सयोगकेवलिन आत्मप्रदेशपरिस्पन्दो योगो वेदितव्यः ॥ आह अभ्युपगत आहितत्रैविध्यक्रियो योग इति ॥ प्रकृत इदानीं निर्दिश्यतां किंलक्षण आस्रव इत्युच्यते । योऽयं योगशब्दाभिधेयः संसारिणः पुरुषस्य -- ॥ स आस्रवः ॥ २ ॥ यथा सरस्सलिलावाहिद्वारं तदाऽखवकारणत्वात् आसव
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy