SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ पंचमोऽध्यायः १५३ ते कायाश्च अर्जीवकायाः ॥ विशेषणं विशेष्येणेति वृत्तिः ॥ ननु च नीलोत्पलादिषु व्यभिचारे सति विशेषणविशेष्ययोगः । इहापि व्यभिचारयोगोऽस्ति । अजीवशब्दोऽकाये कालेऽपि वर्तते , कायो ऽपि जीवे । किमर्थः कायशब्दः ? । प्रदेशबहुत्वज्ञापनार्थः । धर्मादीनां प्रदेशा बहव इति ॥ ननु च असंख्येयाः प्रदेशा धर्माधर्मैकजीवानामित्यनेनैव प्रदेशबहुत्वं ज्ञापितम् । सत्यमिदम् । परं किन्त्वस्मिन्विधौ सति तदवधारणं विज्ञायते , असंख्येयाः प्रदेशा न संख्येया नाप्यनन्ता इति ॥ कालस्य प्रदेशप्रचयाभावज्ञापनार्थं च इह कायग्रहणम् । कालो वक्ष्यते । तस्य प्रदेशप्रतिषेधार्थमिह कायग्रहणम् ॥ यथाऽणोः प्रदेशमात्रत्वाद्वितीयादयोऽस्य न सन्ती. त्यप्रदेशोऽणुः । तथा कालपरमाणुरप्येकप्रदेशत्वादप्रदेश इति ॥ तेषां धर्मादीनामजीव इति सामान्यसञ्ज्ञा जीवलक्षणाभावमुखेन प्रवृत्ता ॥ धर्माधर्माकाशपुद्गला इति विशेषसञ्ज्ञाः सामयिक्यः ॥ _ अत्राह सर्वव्यपर्यायेषु केवलस्येत्येवमादिषु द्रव्याण्युक्तानि , कानि तानीत्युच्यते. ॥द्रव्याणि ॥ २॥ ___ यथास्वं पर्यायैर्द्रयन्ते द्रवान्त वा तानि द्रव्याणि ॥ द्रव्यत्वयोगाव्यमिति चेन्न । उभयासिद्धेः ॥ यथा दण्डदण्डिनोयोगो भवति पृथक्सिद्धयोः , न च तथा द्रव्यद्रव्यत्वे पृथक्सिद्धे स्तः ॥ यद्यपृथसिद्धयोरपि योगः स्यादाकाशकुसुमस्य प्रकृतिपुरुषस्य द्वितीयशिरसश्च योगः स्यादिति ॥ अथ पृथासद्धिरभ्युपगम्यते , द्रव्यत्वकल्पना निरर्थिका । गुणसमुदायो द्रव्य मिति चेत्तत्रापि गुणानां समुदायस्य च भेदाभावे तद्रव्यव्यपदेशो नोपपद्यते । भेदाभ्युपगमे च पूर्वोक्त एव दोषः ॥ ननु गुणान्द्रवन्ति गुणैर्वा द्रूयन्त इति विग्रहेऽपि स एव दोष इति
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy