SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽसे निरा नाम शत्सागरोपमाणि देशोनानि ॥ तिर्यग्गतौ तिरश्चां मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि देशोनानि ॥ सासादनसम्यग्दृष्ट्यादीनां चतुर्णां सामान्योक्तमन्तरम् ॥ मनुष्यगतौ मनुष्याणां मिथ्यादृष्टेस्तिर्यग्वत् ॥ सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्यो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटीपृथक्वरभ्यधिकानि ॥ असंयतसम्यग्दृष्टेनानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्येनान्तर्मुहूर्तः । उत्कर्षण त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वैरभ्यधिकानि ॥ संयतासंयतप्रमत्ताप्रमत्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षण पूर्वकोटीपृथक्त्वानि ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटीपृथक्त्वानि । शेषाणां सामान्यवत् ॥ देवगतौ देवानां मिथ्यादृष्ट्यसंयतसम्यग्दृष्ट्यो नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण एकत्रिंशत्सागरोपमाणि देशोनानि ॥ सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योनानाजीवापेक्षया सामान्यवत् । एक १ आधिकमपि कस्मान्नेति चेत्-- क्षपणारम्भकवेदकयुक्तस्य तिर्यसूत्पा. दाभावात् । तद्युक्तो हि देवेष्वेवोत्पद्यते । अतो मिथ्यात्वयुक्तस्त्रिपल्योपमायुष्को भोगभूमिपूत्पद्यते। तत्र चोत्पन्नानां तिर्यङ्मनुष्याणां किञ्चिदभ्यधिकाटचत्वारिंशद्दिनेषु सम्यक्त्वग्रहणयोग्यता भवति । नियमादेतावद्दिनेषु सम्यक्त्वामथ्यात्वपरित्यागात् सम्यक्त्वं गृह्णाति । त्रिपल्योपमायुःशेष पुनर्मिथ्यात्वं प्रतिपद्यते । इति गर्भकाले किञ्चिदधिकाष्टचत्वाशिद्दिनैरवसानकाले शेषेण च हीनत्वाद्देशोनानि ज्ञातव्यानि ॥ २ यतो मनुष्या अपि भोगभूमौ तथाविधा भवन्ति ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy