SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ८८ सर्वार्थसिद्धिः दौदयिकत्वं नोपपद्यते ॥ नैष दोषः । पूर्वभावप्रज्ञापननयापक्षया याऽसौ योगप्रवृत्तिः कषायानुरञ्जिता सैवेत्युपचारादौदयिकीत्युच्यते । तदभावादयोगकेवल्यलेश्य इति निश्चीयते ॥ यः पारिणामिको भावस्त्रिभेद उक्तस्तद्भेदस्वरूपप्रतिपादनार्थमाह ॥ जीवभव्याभव्यत्वानि च ॥ ७ ॥ जीवत्वं भव्यत्वमभव्यत्वमिति त्रयो भावाः पारिणामिका अन्यद्रव्यासांधारणा आत्मनो वेदितव्याः ॥ कुतः पुनरेषां पारिणामिकत्वम् । कर्मोदयोपशमक्षयक्षयोपशमानपेक्षित्वात् ॥ जीवत्वं चैतन्यमित्यर्थः । सम्यग्दर्शनादिभावेन भविष्यतीति भव्यः । तद्विपरीतोऽभव्यः । त एते त्रयो भावा जीवस्य पारिणामिकाः ॥ ननु चास्तित्वनित्यत्वप्रदेशत्वादयोऽपि भावाः पारिणामिकाः सन्ति तेषामिह ग्रहणं कर्तव्यम् । न कर्तव्यम् । कृतमेव । कथं चेच्चशब्देन समुच्चितत्वात् ॥ यद्येवं, त्रय इति संख्या विरुध्द्यते । न विरुध्द्यते । असाधारणा जीवस्य भावाः पारिणामिकास्त्रय एव ॥ अस्तित्वादयः पुनर्जीवाजीवविषयत्वासाधारणा इति चशब्देन पृथग्गृह्यन्ते ॥ आह औपशमिकादिभावानुपपत्तिरमूर्तत्वादात्मनः । कर्मबन्धापेक्षा हि ते भावाः। न चामूर्तेः कर्मणां बन्धो युज्यत इति ॥ तन्न, अनेकान्तात् ॥ नायमेकान्तः अमूर्तिरेवात्मेति । कर्मबन्धपर्यायापेक्षया तदावेशास्यान्मूर्तः । शुद्धस्वरूपापेक्षया स्यादमूर्तः ॥ यद्येवं कर्मबन्धावेशादस्यैकत्वे सत्यविवेकः प्राप्नोति। नैष दोषः । बन्धं १ अत्रासाधारणवचनं वक्ष्यमाणास्तित्वादिसाधारणपारिणामिकभावापेक्षम् ॥ २ अस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वमगुरुलघुत्वं नित्यत्वं प्रदशित्वं मूर्तत्वममूर्तत्वं चेतनत्वमचेतनत्वं चैते दशभावाः ॥ ३ अपृथक्त्वम् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy