________________
तृतीयोऽध्यायः
११७
काणां दुःखमुत्पादयन्ति । किं तर्हि अम्बावरीषादय एव केच नेति ॥ अवधिप्रदर्शनार्थं प्राक्चतुर्थ्या इति विशेषणम् ॥ उपरि तिसृषु पृथ्वीषु संक्लिष्टासुरा बाधाहेतवो नातः परमिति प्रदर्शनार्थम् । चशब्दः पूर्वोक्तदुःखहेतुसमुच्चयार्थः ॥ सुतप्तायोरसपायननिष्टप्तायस्तम्भालिङ्ग नकूटशाल्मल्यारोहाणावतरणायोधनाभिघातवासीक्षुरतक्षणक्षारतप्ततैलावसेचनायः कुम्भीपाकाम्बरीषभर्जनवैतरणीमज्जनयन्त्र निष्पीडनादिभिर्नारकाणां दुःखमुत्पादयन्ति ॥ एवं छेदनभेदनादिभिः शकलीकृतमूर्तीनामपि तेषां न मरणमकाले भवति । कुतः ! अनपवर्त्यायुष्कत्वात् ॥
यद्येवं, तदेव तावदुच्यतां नारकाणामायुःपरिमाणमित्यत आह॥ तेष्वेकत्रि सप्तदश सप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥ ६ ॥
यथाक्रममित्यनुवर्तते । तेषु नरकेषु भूमिक्रमेण यथासंख्यमेकादयः स्थितयोऽभिसम्बन्ध्यन्ते || रत्नप्रभायामुत्कृष्टा स्थितिरेकसागरोपमा । शर्कराप्रभायां त्रिसागरोपमा । वालुकाप्रभायां सप्तसागरोपमा । पङ्कप्रभायां दशसागरोपमा । धूमप्रभायां सप्तदशसागरोपमा । तमःप्रभायां द्वाविंशतिसागरोपमा । महातमः प्रभायां त्रयस्त्रिंशत्सागरोपमा इति ॥ परा उत्कृष्टेत्यर्थः ॥ सत्त्वानामिति वचनं भूमिनिवृत्यर्थम् ॥ भूमिषु सत्त्वानामियं स्थितिः । न भूमीनामिति ॥
उक्तः सप्तभूमिविस्तीर्णोऽधोलोकः ॥ इदानीं तिर्यग्लोको वक्तव्यः । कथं पुनस्तिर्यग्लोकः । यतोऽसंख्येयाः स्वयम्भूरमणपर्यन्तास्तिर्यक्प्रचयविशेषेणावस्थिता द्वीपसमुद्रास्ततस्तिर्यग्लोक इति ॥ के पुनस्तिर्यग्व्यवस्थिता इत्यत आह-