SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः २४९ दीर्घकालमुषितगुरुकुलब्रह्मचर्यस्याधिगतबन्धमोक्षपदार्थतत्त्वस्य सयमायतनभक्तिहेतोर्देशान्तरातिथेगुरुणाऽभ्यनुज्ञातस्य पवनवनिःसङ्गतामङ्गीकुर्वतो बहुशोऽनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागादिवाधापरिक्रान्तकायस्य देशकालप्रमाणोपेतमध्वगमनं संयमविरोधि परिहरतो निराकृतपादावरणस्य परुषशर्कराकण्टकादिव्यथनजातचरणखेदस्यापि सतः पूर्वोचितयानवाहनादिगमनमस्मरतो यथाकालमावश्यकापरिहाणिमास्कन्दतश्चर्यापरिषहसहनमवसेयम् ॥ ९ ॥ स्मशानोद्यानशून्यायतनगिरिगुहागव्हरादिष्वनभ्यस्तपूर्वेषु निवसत आदित्यस्वेन्द्रियज्ञानप्रकाशपरीक्षितप्रदेशे प्रकृतनियमक्रियस्य निषद्यां नियमितकालामास्थितवतः सिंहव्याघ्रादिविविधभीषणध्वनिश्रवणान्निवृत्तभयस्य चतुर्विधोपसर्गसहनादप्रच्युतमोक्षमार्गस्य वीरासनोत्कुटिकाद्यासनादविचलितविग्रहस्य तत्कृतबाधासहनं निषद्यापरिषहविजय इति निश्चीयते ॥ १० ॥ ___ स्वाध्यायध्यानाध्वश्रमपरिखेदितस्य मौहूर्तिकी खरविषमप्रचुरशर्कराकपालसङ्कटादिशीतोष्णेषु भूमिप्रदेशेषु निद्रामनुभवतो यथाकृतैकपार्श्वदण्डायितादिशायिनः प्राणिबाधापरिहाराय पतित. दारुवढ्यपगतासुवदुपरिवर्तमानस्य ज्ञानपरिभावनावहितचेससोऽनुष्ठि. तव्यन्तरादिविविधोपसर्गादप्यचलितविग्रहस्यानियमितकालां तत्कृत. नाघां क्षममाणस्य शय्यापरिषहक्षमा कथ्यते ॥ ११ ॥ मिथ्यादर्शनोक्तामर्षपरुषावज्ञानिन्दासभ्यवचनानि क्रोधाग्निशिखाप्रवर्धनानि शृण्वतोऽपि तदर्थेष्वसमाहितचेतसः सहसा तत्प्रतिकारं कर्तुमपि शक्नुवतः पापकर्मविपाकमभिचिन्तयतस्तान्याकर्ण्य तपश्चरणभावनापरस्य कषायविषलवमात्रस्याप्यनवकाशमात्महृदयं कुर्वत आक्रोशपरिषहसहनमवधार्यते ॥ १२ ॥ १ परुषवचनावज्ञावचननिन्दावचनासभ्यवचनानीति सम्बन्धः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy